तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

1.3.1.1

देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । अग्नीषोमयोस्तेज-स्विनीस्तनूस्संन्यदधत । इदमु नो भविष्यति । यदि नो जेष्यन्तीति । तेनाग्नीषोमावपाक्रामताम् । ते देवा विजित्य । अग्नीषोमावन्वैच्छन् । तेऽग्निमन्वविन्दन्नृतुषूत्सन्नम् । तस्य विभक्तीभिस्तेजस्विनीस्तनूरवारुन्धत १

ते सोममन्वविन्दन् । तमघ्नन् । तस्य यथाभिज्ञायं तनूर्व्यगृह्णत । ते ग्रहा अभवन् । तद्ग्रहाणां ग्रहत्वम् । यस्यैवं विदुषो ग्रहा गृह्यन्ते । तस्य त्वेव गृहीताः । नानाग्नेयं पुनराधेये कुर्यात् । यदनाग्नेयं पुनराधेये कुर्यात् । व्यृद्धमेव तत् २

अनाग्नेयं वा एतत्क्रियते । यत्समिधस्तनूनपातमिडो बर्हिर्यजति । उभावाग्नेयावाज्यभागौ स्याताम् । अनाज्यभागौ भवत इत्याहुः । यदुभावाग्नेयावन्वञ्चाविति । अग्नये पवमानायोत्तरः स्यात् । यत्पवमानाय । तेनाज्यभागः । तेन सौम्यः । बुधन्वत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति ३

यथा सुप्तं बोधयति । तादृगेव तत् । अग्निन्यक्ताः पत्नीसंयाजानामृचः स्युः । तेनाग्नेयꣳ सर्वं भवति । एकधा तेजस्विनीं देवतामुपैतीत्याहुः । सैनमीश्वरा प्रदह इति । नेति ब्रूयात् । प्रजननं वा अग्निः । प्रजननमेवोपैतीति । कृतयजुः संभृतसंभार इत्याहुः ४

न संभृत्याः संभाराः । न यजुः कार्यमिति । अथो खलु । संभृत्या एव संभाराः । कार्यं यजुः । पुनराधेयस्य समृद्ध्यै । तेनोपाꣳ शु प्रचरति । एष्य इव वा एषः । यत्पुनराधेयः । यथोपाꣳ शु नष्टमिच्छति ५

तादृगेव तत् । उच्चैः स्विष्टकृतमुत्सृजति । यथा नष्टं वित्त्वा प्राहायमिति । तादृगेव तत् । एकधा तेजस्विनीं देवतामुपैतीत्याहुः । सैनमीश्वरा प्रदह इति । तत्तथा नोपैति । प्रयाजानूयाजेष्वेव विभक्तीः कुर्यात् । यथापूर्वमाज्यभागौ स्याताम् । एवं पत्नीसंयाजाः ६

तद्वैश्वानरवत्प्रजननवत्तरमुपैतीति । तदाहुः । व्यृद्धं वा एतत् । अनाग्नेयं वा एतत्क्रियत इति । नेति ब्रूयात् । अग्निं प्रथमं विभक्तीनां यजति । अग्निमुत्तमं पत्नीसंयाजानाम् । तेनाग्नेयम् । तेन समृद्धं क्रियत इति ७


1.3.2.1

देवा वै यथादर्शं यज्ञानाहरन्त । योऽग्निष्टोमम् । य उक्थ्यम् । योऽतिरात्रम् । ते सहैव सर्वे वाजपेयमपश्यन् । ते । अन्योन्यस्मै नातिष्ठन्त । अहमनेन यजा इति । तेऽब्रुवन् । आजिमस्य धावामेति १

तस्मिन्नाजिमधावन् । तं बृहस्पतिरुदजयत् । तेनायजत । स स्वारा-ज्यमगच्छत् । तमिन्द्रो ऽब्रवीत् । मामनेन याजयेति । तेनेन्द्र मयाजयत् । सोऽग्रं देवतानां पर्यैत् । अगच्छत्स्वाराज्यम् । अतिष्ठन्तास्मै ज्यैष्ठ्याय २

य एवं विद्वान्वाजपेयेन यजते । गच्छति स्वाराज्यम् । अग्रꣳ समानानां पर्येति । तिष्ठन्तेऽस्मै ज्यैष्ठ्याय । स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः । तं वा एतं वाजपेय इत्याहुः । वाजाप्यो वा एषः । वाजꣳ ह्येतेन देवा ऐप्सन्न् । सोमो वै वाजपेयः । यो वै सोमं वाजपेयं वेद ३

वाज्येवैनं पीत्वा भवति । आस्य वाजी जायते । अन्नं वै वाजपेयः । य एवं वेद । अत्त्यन्नम् । आस्यान्नादो जायते । ब्रह्म वै वाजपेयः । य एवं वेद । अत्ति ब्रह्मणान्नम् । आस्य ब्रह्मा जायते ४

वाग्वै वाजस्य प्रसवः । य एवं वेद । करोति वाचा वीर्यम् । ऐनं वाचा गच्छति । अपिवतीं वाचं वदति । प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् । स आत्मन्वाजपेयमधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यद्वाजपेयः ५

अप्येव नोऽत्रास्त्विति । तेभ्य एता उज्जितीः प्रायच्छत् । ता वा एता उज्जितयो व्याख्यायन्ते । यज्ञस्य सर्वत्वाय । देवतानामनिर्भागाय । देवा वै ब्रह्मणश्चान्नस्य च शमलमपाघ्नन् । यद्ब्रह्मणः शमलमासीत् । सा गाथा नाराशꣳ स्यभवत् । यदन्नस्य । सा सुरा ६

तस्माद्गायतश्च मत्तस्य च न प्रतिगृह्यम् । यत्प्रतिगृह्णीयात् । शमलं प्रतिगृह्णीयात् । सर्वा वा एतस्य वाचोऽवरुद्धाः । यो वाजपेययाजी ।या पृथिव्यां याग्नौ या रथन्तरे । यान्तरिक्षे या वायौ या वामदेव्ये । या दिवि यादित्ये या बृहति । याप्सु यौषधीषु या वनस्पतिषु । तस्माद्वाजपेय-याज्यार्त्विजीनः । सर्वा ह्यस्य वाचोऽवरुद्धाः ७


1.3.3.1

देवा वै यदन्यैर्ग्रहैर्यज्ञस्य नावारुन्धत । तदतिग्राह्यैरतिगृह्यावारुन्धत । तदतिग्राह्याणामतिग्राह्यत्वम् । यदतिग्राह्या गृह्यन्ते । यदेवान्यैर्ग्रहैर्यज्ञस्य नावरुन्धे । तदेव तैरतिगृह्यावरुन्धे । पञ्च गृह्यन्ते । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तमाप्त्वावरुन्धे १

सर्वैन्द्रा भवन्ति । एकधैव यजमान इन्द्रि यं दधति । सप्तदश प्राजापत्या ग्रहा गृह्यन्ते । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । एकयर्चा गृह्णाति । एकधैव यजमाने वीर्यं दधाति । सोमग्रहाꣳश्च सुराग्रहाꣳश्च गृह्णाति । एतद्वै देवानां परममन्नम् । यत्सोमः २

एतन्मनुष्याणाम् । यत्सुरा । परमेणैवास्मा अन्नाद्येनावरमन्नाद्यमवरुन्धे । सोमग्रहान्गृह्णाति । ब्रह्मणो वा एतत्तेजः । यत्सोमः । ब्रह्मण एव तेजसा तेजो यजमाने दधाति । सुराग्रहान्गृह्णाति । अन्नस्य वा एतच्छमलम् । यत्सुरा ३

अन्नस्यैव शमलेन शमलं यजमानादपहन्ति । सोमग्रहाꣳश्च सुराग्रहाꣳश्च गृह्णाति । पुमान्वै सोमः । स्त्री सुरा । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । आत्मानमेव सोमग्रहैः स्पृणोति । जायाꣳ सुराग्रहैः । तस्माद्वाजपेययाज्यमुष्मिꣳ ल्लोके स्त्रियꣳ संभवति । वाजपेयाभिजितꣳ ह्यस्य ४

पूर्वे सोमग्रहा गृह्यन्ते । अपरे सुराग्रहाः । पुरोक्षꣳ सोमग्रहान्सादयति । पश्चादक्षꣳ सुराग्रहान् । पापवस्यसस्य विधृत्यै । एष वै यजमानः । यत्सोमः । अन्नꣳ सुरा । सोमग्रहाꣳश्च सुराग्रहाꣳश्च व्यतिषजति । अन्नाद्येनैवैनं व्यतिषजति ५

संपृचः स्थ सं मा भद्रेण पृङ्क्तेत्याह । अन्नं वै भद्रम् । अन्नाद्येनैवैनꣳ सꣳसृजति । अन्नस्य वा एतच्छमलम् । यत्सुरा । पाप्मैव खलु वै शमलम् । पाप्मना वा एतमेतच्छमलेन व्यतिषजति । यत्सोमग्रहाꣳश्च सुराग्रहाꣳश्च व्यतिषजति । विपृचः स्थ वि मा पाप्मना पृङ्क्तेत्याह । पाप्मनैवैनꣳ शमलेन व्यावर्तयति ६

तस्माद्वाजपेययाजी पूतो मेध्यो दक्षिण्यः । प्राङ्द्रवति सोमग्रहैः । अमुमेव तैर्लोकमभिजयति । प्रत्यङ्सुराग्रहैः । इममेव तैर्लोकमभिजयति । प्रतिष्ठन्ति सोमग्रहैः । यावदेव सत्यम् । तेन सूयते । वाजसृद्भ्यः सुराग्रहान्हरन्ति । अनृतेनैव विशꣳ सꣳसृजति । हिरण्यपात्रं मधोः पूर्णं ददाति । मध्व्योऽसानीति । एकधा ब्रह्मण उपहरति । एकधैव यजमान आयुस्तेजो दधाति ७


1.3.4.1

ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते । अग्निष्टोममेव तेनावरुन्धे । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् । सारस्वत्यातिरात्रम् १

मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः । तान्पशुभिरेवावरुन्धे । आत्मानमेव स्पृणोत्यग्निष्टोमेन । प्राणापानावुक्थ्येन । वीर्यꣳ षोडशिनः स्तोत्रेण । वाचमतिरात्रेण । प्रजां बृहतः स्तोत्रेण । इममेव लोकमभिजयत्यग्निष्टोमेन । अन्तरिक्षमुक्थ्येन २

सुवर्गं लोकꣳ षोडशिनः स्तोत्रेण । देवयानानेव पथ आरोहत्यतिरात्रेण । नाकꣳ रोहति बृहतः स्तोत्रेण । तेज एवात्मन्धत्त आग्नेयेन पशुना । ओजो बलमैन्द्राग्नेन । इन्द्रियमैन्द्रेण । वाचꣳ सारस्वत्या । उभावेव देवलोकं च मनुष्यलोकं चाभिजयति मारुत्या वशया । सप्तदश प्राजापत्यान्पशूनालभते । सप्तदशः प्रजापतिः ३

प्रजापतेराप्त्यै । श्यामा एकरूपा भवन्ति । एवमिव हि प्रजापतिः समृद्ध्यै । तान्पर्यग्निकृतानुत्सृजति । मरुतो यज्ञमजिघाꣳसन्प्रजापतेः । तेभ्य एतां मारुतीं वशामालभत । तयैवैनानशमयत् । मारुत्या प्रचर्य । एतान्संज्ञपयेत् । मरुत एव शमयित्वा ४

एतैः प्रचरति । यज्ञस्याघाताय । एकधा वपा जुहोति । एकदेवत्या हि । एते । अथो एकधैव यजमाने वीर्यं दधाति । नैवारेण सप्तदशशरावेणैतर्हि प्रचरति । एतत्पुरोडाशा ह्येते । अथो पशूनामेव च्छिद्र मपिदधाति । सारस्वत्योत्तमया प्रचरति । वाग्वै सरस्वती ।तस्मात्प्राणानां वागुत्तमा । अथो प्रजापतावेव यज्ञं प्रतिष्ठापयति । प्रजापतिर्हि वाक् । अपन्नदती भवति । तस्मान्मनुष्याः सर्वां वाचं वदन्ति ५


1.3.5.1

सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात् । कस्तद्वेदेत्याहुः । यद्वाजपेयस्य पूर्वं यदपरमिति । सवितृप्रसूत एव यथापूर्वं कर्माणि करोति । सवनेसवने जुहोति । आक्रमणमेव तत्सेतुं यजमानः कुरुते । सुवर्गस्य लोकस्य समष्ट्यै । वाचस्पतिर्वाचमद्य स्वदाति न इत्याह । वाग्वै देवानां पुरान्नमासीत् । वाचमेवास्मा अन्नꣳ स्वदयति १

इन्द्र स्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति विजित्यै । वाजस्य नु प्रसवे मातरं महीमित्याह । यच्चैवेयम् । यच्चास्यामधि । तदेवावरुन्धे । अथो तस्मिन्नेवोभयेऽभिषिच्यते । अप्स्वन्तरमृतमप्सु भेषजमित्यश्वान्पल्पूलयति । अप्सु वा अश्वस्य तृतीयं प्रविष्टम् । तदनुवेनन्ववप्लवते । यदप्सु पल्पूलयति २

यदेवास्याप्सु प्रविष्टम् । तदेवावरुन्धे । बहु वा अश्वोऽमेध्यमुपगच्छति । यदप्सु पल्पूलयति । मेध्यानेवैनान्करोति । वायुर्वा त्वा मनुर्वा त्वेत्याह । एता वा एतं देवता अग्रे अश्वमयुञ्जन् । ताभिरेवैनान्युनक्ति । सवस्योज्जित्यै । यजुषा युनक्ति व्यावृत्त्यै ३

अपांनपादाशुहेमन्निति संमार्ष्टि । मेध्यानेवैनान्करोति । अथो स्तौत्येवैनानाजिꣳ सरिष्यतः । विष्णुक्रमान्क्रमते । विष्णुरेव भूत्वेमान्लोकानभिजयति । वैश्वदेवो वै रथः । अङ्कौ न्यङ्कावभितो रथं यावित्याह[१] । या एव देवता रथे प्रविष्टाः । ताभ्य एव नमस्करोति । आत्मनोऽनार्त्यै । अशमरथंभावुकोऽस्य रथो भवति । य एवं वेद ४


1.3.6.1

देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषमित्याह । सवितृप्रसूत एव ब्रह्मणा वाजमुज्जयति । देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयमित्याह । सवितृप्रसूत एव ब्रह्मणा वर्षिष्ठं नाकꣳ रोहति । चात्वाले रथचक्रं निमितꣳ रोहति । अतो वा अङ्गिरस उत्तमाः सुवर्गं लोकमायन् । साक्षादेव यजमानः सुवर्गं लोकमेति । आवेष्टयति । वज्रो वै रथः । वज्रेणैव दिशोऽभिजयति १

वाजिनाꣳ साम गायते । अन्नं वै वाजः । अन्नमेवावरुन्धे । वाचो वर्ष्म देवेभ्योऽपाक्रामत् । तद्वनस्पतीन्प्राविशत् । सैषा वाग्वनस्पतिषु वदति । या दुन्दुभौ । तस्माद्दुन्दुभिः सर्वा वाचोऽतिवदति । दुन्दुभीन्समाघ्नन्ति । परमा वा एषा वाक् २

या दुन्दुभौ । परमयैव वाचावरां वाचमवरुन्धे । अथो वाच एव वर्ष्म यजमानोऽवरुन्धे । इन्द्रा य वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदित्याह । एष वा एतर्हीन्द्रः । यो यजते । यजमान एव वाजमुज्जयति । सप्तदश प्रव्याधानाजिं धावन्ति । सप्तदशꣳ स्तोत्रं भवति । सप्तदशसप्तदश दीयन्ते ३

सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । अर्वासि सप्तिरसि वाज्यसीत्याह । अग्निर्वा अर्वा । वायुः सप्तिः । आदित्यो वाजी ।एताभिरेवास्मै देवता-भिर्देवरथं युनक्ति । प्रष्टिवाहिनं युनक्ति । प्रष्टिवाही वै देवरथः । देवरथमेवास्मै युनक्ति ४

वाजिनो वाजं धावत काष्ठां गच्छतेत्याह । सुवर्गो वै लोकः काष्ठा । सुव-र्गमेव लोकं यन्ति । सुवर्गं वा एते लोकं यन्ति । य आजिं धावन्ति । प्राञ्चो धावन्ति । प्राङिव हि सुवर्गो लोकः । चतसृभिरनुमन्त्रयते । चत्वारि च्छन्दाꣳ सि । छन्दोभिरेवैनान्सुवर्गं लोकं गमयति ५

प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । य आजिं धावन्ति । उदञ्च आवर्तन्ते । अस्मादेव तेन लोकान्नयन्ति । रथविमोचनीयं जुहोति प्रतिष्ठित्यै । आ मा वाजस्य प्रसवो जगम्यादित्याह । अन्नं वै वाजः । अन्नमेवावरुन्धे । यथालोकं वा एत उज्जयन्ति । य आजिं धावन्ति ६

कृष्णलंकृष्णलं वाजसृद्भ्यः प्रयच्छति । यमेव ते वाजं लोकमुज्जयन्ति । तं परिक्रीयावरुन्धे । एकधा ब्रह्मण उपहरति । एकधैव यजमाने वीर्यं दधाति । देवा वा ओषधीष्वाजिमयुः । ता बृहस्पतिरुदजयत् । स नीवारान्निरवृणीत । तन्नीवाराणां नीवारत्वम् । नैवारश्चरुर्भवति ७

एतद्वै देवानां परममन्नम् । यन्नीवाराः । परमेणैवास्मा अन्नाद्येनावरमन्नाद्य-मवरुन्धे । सप्तदशशरावो भवति । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । क्षीरे भवति । रुचमेवास्मिन्दधाति । सर्पिष्वान्भवति मेध्यत्वाय । बार्हस्पत्यो वा एष देवतया ८

यो वाजपेयेन यजते । बार्हस्पत्य एष चरुः । अश्वान्सरिष्यतः सस्रुषश्चा-वघ्रापयति । यमेव ते वाजं लोकमुज्जयन्ति । तमेवावरुन्धे । अजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वमिति दुन्दुभीन्विमुञ्चति । यमेव ते वाजं लोकमिन्द्रि यं दुन्दुभय उज्जयन्ति । तमेवावरुन्धे ९


1.3.7.1 – 1.3.9.1

तार्प्यं यजमानं परिधापयति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनꣳ समर्धयति । दर्भमयं परिधापयति । पवित्रं वै दर्भाः । पुनात्येवैनम् । वाजं वा एषोऽवरुरुत्सते । यो वाजपेयेन यजते । ओषधयः खलु वै वाजः । यद्दर्भमयं परिधापयति १

वाजस्यावरुद्ध्यै । जाय एहि सुवो रोहावेत्याह । पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्यै । सप्तदशारत्निर्यूपो भवति । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । तूपरश्चतुरश्रिर्भवति । गौधूमं चषालम् । न वा एते व्रीहयो न यवाः । यद्गोधूमाः २

एवमिव हि प्रजापतिः समृद्ध्यै । अथो अमुमेवास्मै लोकमन्नवन्तं करोति । वासोभिर्वेष्टयति । एष वै यजमानः । यद्यूपः । सर्वदेवत्यं वासः । सर्वाभिरेवैनं देवताभिः समर्धयति । अथो आक्रमणमेव तत्सेतुं यजमानः कुरुते । सुवर्गस्य लोकस्य समष्ट्यै । द्वादश वाजप्रसवीयानि जुहोति ३

द्वादश मासाः संवत्सरः । संवत्सरमेव प्रीणाति । अथो संवत्सरमेवास्मा उपदधाति । सुवर्गस्य लोकस्य समष्ट्यै । दशभिः कल्पै रोहति । नव वै पुरुषे प्राणाः । नाभिर्दशमी ।प्राणानेव यथास्थानं कल्पयित्वा । सुवर्गं लोकमेति । एतावद्वै पुरुषस्य स्वम् ४

यावत्प्राणाः । यावदेवास्यास्ति । तेन सह सुवर्गं लोकमेति । सुवर्देवाꣳ अगन्मेत्याह । सुवर्गमेव लोकमेति । अमृता अभूमेत्याह । अमृतमिव हि सुवर्गो लोकः । प्रजापतेः प्रजा अभुमेत्याह । प्राजापत्यो वा अयं लोकः । अस्मादेव तेन लोकान्नैति ५

समहं प्रजया सं मया प्रजेत्याह । आशिषमेवैतामाशास्ते । आसपुटैर्घ्नन्ति । अन्नं वा इयम् । अन्नाद्येनैवैनꣳ समर्धयन्ति । ऊषैर्घ्नन्ति । एते हि साक्षादन्नम् । यदूषाः । साक्षादेवैनमन्नाद्येन समर्धयन्ति । पुरस्तात्प्रत्यञ्चं घ्नन्ति ६

पुरस्ताद्धि प्रतीचीनमन्नमद्यते । शीर्षतो घ्नन्ति । शीर्षतो ह्यन्नमद्यते । दिग्भ्यो घ्नन्ति । दिग्भ्य एवास्मा अन्नाद्यमवरुन्धते । ईश्वरो वा एष पराङ्प्रदघः । यो यूपꣳ रोहति । हिरण्यमध्यवरोहति । अमृतं वै हिरण्यम् । अमृतꣳ सुवर्गो लोकः ७

अमृत एव सुवर्गे लोके प्रतितिष्ठति । शतमानं भवति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । पुष्ट्यै वा एतद्रू पम् । यदजा । त्रिः संवत्सरस्यान्यान्पशून्परि प्रजायते । बस्ताजिनमध्यवरोहति । पुष्ट्यामेव प्रजनने प्रतितिष्ठति ८


1.3.8.1 – 1.3.10.1

सप्तान्नहोमाञ्जुहोति । सप्त वा अन्नानि । यावन्त्येवान्नानि । तान्येवावरुन्धे । सप्त ग्राम्या ओषधयः । सप्तारण्याः । उभयीषामवरुद्ध्यै । अन्नस्यान्नस्य जुहोति । अन्नस्यान्नस्यावरुद्ध्यै । यद्वाजपेययाज्यनवरुद्धस्याश्नीयात् १

अवरुद्धेन व्यृध्येत । सर्वस्य समवदाय जुहोति । अनवरुद्धस्यावरुद्ध्यै । औदुम्बरेण स्रुवेण जुहोति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । देवस्य त्वा सवितुः प्रसव इत्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरभिषिञ्चति । अन्नस्यान्नस्याभिषिञ्चति । अन्नस्यान्नस्यावरुद्ध्यै २

पुरस्तात्प्रत्यञ्चमभिषिञ्चति । पुरस्ताद्धि प्रतीचीनमन्नमद्यते । शीर्षतोऽभि-षिञ्चति । शीर्षतो ह्यन्नमद्यते । आ मुखादन्ववस्रावयति । मुखत एवास्मा अन्नाद्यं दधाति । अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह । एष वा अग्नेः सवः । तेनैवैनमभिषिञ्चति । इन्द्र स्य त्वा साम्राज्येनाभिषिञ्चामीत्याह ३

इन्द्रि यमेवास्मिन्नेतेन दधाति । बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनमभिषिञ्चति । सोमग्रहाꣳश्चावदानीयानि चर्त्विग्भ्य उप हरन्ति । अमुमेव तैर्लोकमन्नवन्तं करोति । सुराग्रहाꣳश्चा-नवदानीयानि च वाजसृद्भ्यः । इममेव तैर्लोकमन्नवन्तं करोति । अभो उभयीष्वेवाभिषिच्यते । विमाथं कुर्वते वाजसृतः ४

इन्द्रियस्यावरुद्ध्यै । अनिरुक्ताभिः प्रातःसवने स्तुवते । अनिरुक्तः प्रजापतिः । प्रजापतेराप्त्यै । वाजवतीभिर्माध्यन्दिने । अन्नं वै वाजः । अन्नमेवावरुन्धे । शिपिविष्टवतीभिस्तृतीयसवने । यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति । बृहदन्त्यं भवति । अन्तमेवैनꣳ श्रियै गमयति ५

नृषदं त्वेत्याह । प्रजा वै नॄन् । प्रजानामेवैतेन सूयते । द्रुषदमित्याह । वनसपतयो वै द्रु । वनस्पतीनामेवैतेन सूयते । भुवनसदमित्याह । यदा वै वसीयान्भवति । भुवनमगन्निति वै तमाहुः । भुवनमेवैतेन गच्छति ६

अप्सुषदं त्वा घृतसदमित्याह । अपामेवैतेन घृतस्य सूयते । व्योम-सदमित्याह । यदा वै वसीयान्भवति । व्योमागन्निति वै तमाहुः । व्योमैवैतेन गच्छति । पृथिविषदं त्वान्तरिक्षसदमित्याह । एषामेवैतेन लोकानाꣳ सूयते । तस्माद्वाजपेययाजी न कं चन प्रत्यवरोहति । अपीव हि देवतानाꣳ सूयते ७

नाकसदमित्याह । यदा वै वसीयान्भवति । नाकमगन्निति वैतमाहुः । नाकमेवैतेन गच्छति । ये ग्रहाः पञ्चजनीना इत्याह । पञ्चजनानामेवैतेन सूयते । अपाꣳ रसमुद्वयसमित्याह । अपामेवैतेन रसस्य सूयते । सूर्यरश्मिꣳ समाभृतमित्याह सशुक्रत्वाय ८


1.3.10.1 वाजपेय

इन्द्रो वृत्रꣳ हत्वा । असुरान्पराभाव्य । सोऽमावास्यां प्रत्यागच्छत् । ते पितरः पूर्वेद्युरागच्छन् । पितॄन्यज्ञोऽगच्छत् । तं देवाः पुनरयाचन्त । तमेभ्यो न पुनरददुः । तेऽब्रुवन्वरं वृणामहै । अथ वः पुनर्दास्यामः । अस्मभ्यमेव पूर्वेद्युः क्रियाता इति १

तमेभ्यः पुनरददुः । तस्मात्पितृभ्यः पूर्वेद्युः क्रियते । यत्पितृभ्यः पूर्वेद्युः करोति । पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुते । सोमाय पितृपीताय स्वधा नम इत्याह । पितुरेवाधि सोमपीथमवरुन्धे । न हि पिता प्रमीयमाण आहैष सोमपीथ इति । इन्द्रियं वै सोमपीथः । इन्द्रियमेव सोमपीथमवरुन्धे । तेनेन्द्रियेण द्वितीयां जायामभ्यश्नुते २

एतद्वै ब्राह्मणं पुरा वाजश्रवसा विदामक्रन्न् । तस्मात्ते द्वेद्वे जाये अभ्याक्षत । य एवं वेद । अभि द्वितीयां जायामश्नुते । अग्नये कव्यवाहनाय स्वधा नम इत्याह । य एव पितॄणामग्निः । तं प्रीणाति । तिस्र आहुतीर्जुहोति । त्रिर्निदधाति । षट्संपद्यन्ते ३

षड्वा ऋतवः । ऋतूनेव प्रीणाति । तूष्णीं मेक्षणमादधाति । अस्ति वा हि षष्ठ ऋतुर्न वा । देवान्वै पितॄन्प्रीतान् । मनुष्याः पितरोऽनु प्रपिपते ।
तिस्र आहुतीर्जुहोति त्रिर्निदधाति । षट्संपद्यन्ते । षड्वा ऋतवः ४

ऋतवः खलु वै देवाः पितरः । ऋतूनेव देवान्पितॄन्प्रीणाति । तान्प्रीतान् । मनुष्याः पितरोऽनु प्रपिपते । सकृदाच्छिन्नं बर्हिर्भवति । सकृदिव हि पितरः । त्रिर्निदधाति । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति । पराङावर्तते ५

ह्लीका हि पितरः । ओष्मणो व्यावृत उपास्ते । ऊष्मभागा हि पितरः । ब्रह्मवादिनो वदन्ति । प्राश्या३ं! न प्राश्या३मिति । यत्प्राश्नीयात् । जन्यमन्नमद्यात् । प्रमायुकः स्यात् । यन्न प्राश्नीयात् । अहविः स्यात् ६

पितृभ्य आवृश्च्येत । अवघ्रेयमेव । तन्नेव प्राशितं नेवाप्राशितम् । वीरं वा वै पितरः प्रयन्तो हरन्ति । वीरं वा ददति । दशां छिनत्ति । हरणभागा हि पितरः । पितॄनेव निरवदयते । उत्तर आयुषि लोम छिन्दीत । पितॄणाꣳ ह्येतर्हि नेदीयः ७

नमस्करोति । नमस्कारो हि पितॄणाम् । नमो वः पितरो रसाय । नमो वः पितरः शुष्माय । नमो वः पितरो जीवाय । नमो वः पितरः स्वधायै । नमो वः पितरो मन्यवे । नमो वः पितरो घोराय । पितरो नमो वः । य एतस्मिन्लोके स्थ ८

युष्माꣳ स्ते नु । येऽस्मिन्लोके । मां तेऽनु । य एतस्मिꣳ ल्लोके स्थ । यूयं तेषां वसिष्ठा भूयास्त । येऽस्मिꣳ ल्लोके । अहं तेषां वसिष्ठो भूयासमित्याह । वसिष्ठः समानानां भवति । य एवं विद्वान्पितृभ्यः करोति । एष वै मनुष्याणां यज्ञः ९

देवानां वा इतरे यज्ञाः । तेन वा एतत्पितृलोके चरति । यः पितृभ्यः करोति । स ईश्वरः प्रमेतोः । प्राजापत्ययर्चा पुनरैति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनरैति । न प्रमायुको भवति । पितृलोके वा एतद्यजमानश्चरति । यत्पितृभ्यः करोति । स ईश्वर आर्तिमार्तोः । प्रजापतिस्त्वा वैनं तत उन्नेतुमर्हतीत्याहुः । यत्प्राजापत्ययर्चा पुनरैति । प्रजापतिरेवैनं तत उन्नयति
। नार्तिमार्च्छति यजमानः १०

  1. तै.ब्रा १.३.५.४, २.७.८.१, २.७.१६.१, पञ्चविंशब्रा. १.७.५, पारस्करगृह्यसू. ३.१४.६, आप.श्रौ.सू. १८.४.६, २२.२६.१७, २२.२८.१८, बौ.श्रौ.सू. ११.७ इत्यादि।