तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०२
1.2.1.1
उद्धन्यमानमस्या अमेध्यम् । अप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः । शं नो माता पृथिवी तोकसाता । शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः । वैश्वानरस्य रूपम् । पृथिव्यां परिस्रसा । स्योनमाविशन्तु नः १
यदिदं दिवो यददः पृथिव्याः । संजज्ञाने रोदसी संबभूवतुः । ऊषान्कृष्ण-मवतु कृष्णमूषाः । इहोभयोर्यज्ञियमागमिष्ठाः । ऊतीः कुर्वाणो यत्पृथिवी-मचरः । गुहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह संभरन्तः । शातं जीवेम शरदः सवीराः । ऊर्जं पृथिव्या रसमाभरन्तः । शतं जीवेम शरदः पुरूचीः २
वम्रीभिरनुवित्तं गुहासु । श्रोत्रं त उर्व्यबधिरा भवामः । प्रजापतिसृष्टानां प्रजानाम् । क्षुधोपहत्यै सुवितं नो अस्तु । उपप्रभिन्नमिषमूर्जं प्रजाभ्यः । सूदं गृहेभ्यो रसमाभरामि । यस्य रूपं बिभ्रदिमामविन्दत् । गुहा प्रविष्टाꣳ सरिरस्य मध्ये । तस्येदं विहतमाभरन्तः । अच्छंबट्कारमस्यां विधेम ३
यत्पर्यपश्यत्सरिरस्य मध्ये । उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्या-यतनाद्धि जातम् । पर्णं पृथिव्याः प्रथनꣳ हरामि । याभिरदृꣳ हज्जगतः प्रतिष्ठाम् । उर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवाः शर्कराः सन्तु सर्वाः । अग्ने रेतश्चन्द्र ꣳ! हिरण्यम् । अद्भ्यः संभूतममृतं प्रजासु । तत्संभरन्नुत्तरतो निधाय ४
अतिप्रयच्छन्दुरितिं तरेयम् । अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः । संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह संभरन्तः । शतं जीवेम शरदः सवीराः । ऊर्जः पृथिव्या अध्युत्थितोऽसि । वनस्पते शतवल्शो विरोह । त्वया वयमिषमूर्जं मदन्तः । रायस्पोषेण समिषा मदेम । गायत्रिया ह्रियमाणस्य यत्ते ५
पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णः सोमपर्णाद्धि जातः । ततो हरामि सोमपीथस्यावरुद्ध्यै । देवानां ब्रह्मवादं वदतां यत् । उपाशृणोः सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसम् । तत्संभरꣳ स्तदवरुन्धीय साक्षात् । यया ते सृष्टस्याग्नेः । हेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय ६
शमीꣳ शान्त्यै हराम्यहम् । यत्ते सृष्टस्य यतः । विकङ्कतं भा आर्छज्जातवेदः । तया भासा संमितः । उरुं नो लोकमनु प्रभाहि । यत्ते तान्तस्य हृदयमा-च्छिन्दञ्जातवेदः । मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेः सं भरामि । सात्मा अग्ने सहृदयो भवेह । चित्रियादश्वत्थात्संभृता बृहत्यः ७
शरीरमभि सꣳ स्कृताः स्थ । प्रजापतिना यज्ञमुखेन संमिताः । तिस्रस्त्रि-वृद्भिर्मिथुनाः प्रजात्यै । अश्वत्थाद्धव्यवाहाद्धि जाताम् । अग्नेस्तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भम् । अग्नये प्रजनयितवे । यो अश्वत्थः
शमीगर्भः । आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा ८
यज्ञियैः केतुभिः सह । यं त्वा समभरञ्जातवेदः । यथाशरीरं भूतेषु न्यक्तम् । स संभृतः सीद शिवः प्रजाभ्यः । उरुं नो लोकमनुनेषि विद्वान् । प्रवेधसे कवये मेध्याय । वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्तु
। अव देवान्यजे हेड्यान् । समिधाग्निं दुवस्यत ९
घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन । उप त्वाग्ने हविष्मतीः । घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिरङ्गिरः । घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । समिध्यमानः प्रथमो नु धर्मः । समक्तुभिरज्यते विश्ववारः १०
शोचिष्केशो घृतनिर्णिक्पावकः । सुयज्ञो अग्निर्यजथाय देवान् । घृतयोनिर-ग्निः । घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति । घृतं पिबन्सुयजा यक्षि देवान् । आयुर्दा अग्ने हविषो जुषाणः । घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यम् । पितेव पुत्रमभिरक्षतादिमम् ११
त्वामग्ने समिधानं यविष्ठ । देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतम् । त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन । सुम्नायवः सुषमिधा समीधिरे । स वावृधान ओषधीभिरुक्षितः । उरु ज्रयाꣳ सि पार्थिवा वितिष्ठसे । घृतप्रतीकं च ऋतस्य धूर्षदम् । अग्निं मित्रं न समिधान ऋञ्जते १२
इन्धानो अक्रो विदथेषु दीद्यत् । शुक्रवर्णामुदु नो यꣳ सते धियम् । प्रजा अग्ने संवासय । आशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि । यान्यासन्सवितुः सवे । मही विश्पत्नी सदने ऋतस्य । अर्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसम् । अध्वराणां जनयथः पुरोगाम् १३
आरोहतं दशतꣳ शक्वरीर्मम । ऋतेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समाम् । दर्शमहं पूर्णमासं यज्ञं यथा यजै । ऋत्वियवती स्थो अग्निरेतसौ । गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथः । वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे । ते मा प्रजाते प्रजनयिष्यथः १४
प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोके । अनृतात्सत्यमुपैमि । मानुषा-द्दैव्यमुपैमि । दैवीं वाचं यच्छामि । शल्कैरग्निमिन्धानः । उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृद्ध्वा । अति मृत्युं तराम्यहम् । जातवेदो भुवनस्य रेतः । इह सिञ्च तपसो यज्जनिष्यते १५
अग्निमश्वत्थादधि हव्यवाहम् । शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनि-रृत्वियः । यतो जातो अरोचथाः । तं जानन्नग्न आरोह । अथा नो वर्धया रयिम् । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्याः । अक्रन्निमं पितरो लोकमस्मै १६
अग्नेर्भस्मास्यग्नेः पुरीषमसि । संज्ञानमसि कामधरणम् । मयि ते कामधरणं भूयात् । सं वः सृजामि हृदयानि । सꣳ सृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु वः । सं या वः प्रियास्तनुवः । सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियः । सं प्रियास्तनुवो मम १७
कल्पेतां द्यावापृथिवी ।कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथक् । मम ज्यैष्ठ्याय सव्रताः । येऽग्नयः समनसः । अन्तरा द्यावापृथिवी । वासन्तिकावृतू अभि कल्पमानाः । इन्द्र मिव देवा अभि संविशन्तु । दिवस्त्वा वीर्येण । पृथिव्यै महिम्ना १८
अन्तरिक्षस्य पोषेण । सर्वपशुमादधे । अजीजनन्नमृतं मर्त्यासः । अस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः । पुमाꣳ सं जातमभि सꣳ रभन्ताम् । प्रजापतेस्त्वा प्राणेनाभि प्राणिमि । पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय । शतꣳ शरद्भ्य आयुषे वर्चसे १९
जीवात्वै पुण्याय । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । प्राणे त्वामृतमादधामि । अन्नादमन्नाद्याय । गोप्तारं गुप्त्यै । सुगार्हपत्यो विदहन्नरातीः । उषसः श्रेयसीश्श्रेयसीर्दधत् २०
अग्ने सपत्नाꣳ अप बाधमानः । रायस्पोषमिषमूर्जमस्मासु धेहि । इमा उ मा-मुप तिष्ठन्तु रायः । आभिः प्रजाभिरिह सं वसेय । इहो इडा तिष्ठतु विश्वरूपी । मध्ये वसोर्दीदिहि जातवेदः । ओजसे बलाय त्वोद्यच्छे । वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः । यस्ते देवेषु महिमा सुवर्गः २१
यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे । तया नो अग्ने जु-षमाण एहि । दिवः पृथिव्याः पर्यन्तरिक्षात् । वातात्पशुभ्यो अध्योषधीभ्यः । यत्रयत्र जातवेदः संबभूथ । ततो नो अग्ने जुषमाण एहि । प्राचीमनु प्रदिशं प्रेहि विद्वान् । अग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो वि भाहि २२
ऊर्जं नो धेहि द्विपदे चतुष्पदे । अन्वग्निरुषसामग्रमख्यत् । अन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् । अनु द्यावापृथिवी आततान । विक्रमस्व महाꣳ असि । वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि । यदिदं दिवो यददः पृथिव्याः । संविदाने रोदसी संबभूवतुः २३
तयोः पृष्ठे सीदतु जातवेदाः । शंभूः प्रजाभ्यस्तनुवे स्योनः । प्राणं त्वामृत आदधामि । अन्नादमन्नाद्याय । गोप्तारं गुप्त्यै । यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वादधे । अग्निनाग्ने ब्रह्मणा । आनशे व्यानशे सर्वमायुर्व्यानशे २४
नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम् । अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषं नः पितुं कृणु । शꣳ स्य पशून्मे गोपाय । द्विपादो ये चतुष्पदः २५
अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगाः । सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रि यावतः कुरु । सर्वमायुरुपासताम् । अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रैविदा विदुः । ऋचः सामानि यजूꣳ षि । सा हि श्रीरमृता सताम् २६
चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । इहैव सन्तत्र सतो वो अग्नयः । प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीत् । ज्योतिषा वो वैश्वानरेणोपतिष्ठे । पञ्चधाग्नीन्व्यक्रामत् । विराट्सृष्टा प्रजापतेः
। ऊर्ध्वारोह द्रो हिणी ।योनिरग्नेः प्रतिष्ठितिः २७
1.2.2.1
नवैतान्यहानि भवन्ति । नव वै सुवर्गा लोकाः । यदेतान्यहान्युपयन्ति । नवस्वेव तत्सुवर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तो यन्ति । अग्निष्टोमाः परःसामानः कार्या इत्याहुः । अग्निष्टोमसंमितः सुवर्गो लोक इति । द्वादशाग्निष्टोमस्य स्तोत्राणि । द्वादश मासाः संवत्सरः । तत्तन्न सूर्क्ष्यम् ।
उक्थ्या एव सप्तदशाः परःसामानः कार्याः १
पशवो वा उक्थानि । पशूनामवरुध्यै । विश्वजिदभिजितावग्निष्टोमौ । उक्थ्याः सप्तदशाः परःसामानः । ते सꣳ स्तुता विराजमभि संपद्यन्ते । द्वे चर्चावति रिच्येते । एकया गौरतिरिक्तः । एकयायुरूनः । सुवर्गो वै लोको ज्योतिः । ऊर्ग्विराट् २
सुवर्गमेव तेन लोकमभि जयन्ति । यत्परꣳ राथन्तरम् । तत्प्रथमेऽहन्कार्यम् । बृहद्द्वितीये । वैरूपं तृतीये । वैराजं चतुर्थे । शाक्वरं पञ्चमे । रैवतꣳ
षष्ठे । तदु पृष्ठेभ्यो नयन्ति । संतनय एते ग्रहा गृह्यन्ते ३
अतिग्राह्याः परःसामसु । इमानेवैतैर्लोकान्सं तन्वन्ति । मिथुना एते ग्रहा गृह्यन्ते । अतिग्राह्याः परःसामसु । मिथुनमेव तैर्यजमाना अवरुन्धते । बृहत्पृष्ठं भवति । बृहद्वै सुवर्गो लोकः । बृहतैव सुवर्गं लोकं यन्ति । त्रयस्त्रिꣳ शि नाम साम । मध्यन्दिने पवमाने भवति ४
त्रयस्त्रिꣳ शद्वै देवताः । देवता एवावरुन्धते । ये वा इतः पराञ्चꣳ संवत्सरमुपयन्ति । न हैनं ते स्वस्ति समश्नुवते । अथ येऽमुतोऽर्वाञ्चमुप यन्ति । ते हैनꣳ स्वस्ति समश्नुवते । एतद्वा अमुतोऽर्वाञ्चमुप यन्ति । यदेवम् । यो ह खलु वाव प्रजापतिः । स उ वेवेन्द्रः । तदु देवेभ्यो नयन्ति ५
1.2.3.1
संततिर्वा एते ग्रहाः । यत्परःसामानः । विषूवान्दिवाकीर्त्यम् । यथा शालायै पक्षसी ।एवꣳ संवत्सरस्य पक्षसी ।यदेते न गृहेरन् । विषूची संवत्सरस्य पक्षसी व्यवस्रꣳ सेयाताम् । आर्तिमार्छेयुः । यदेते गृह्यन्ते । यथा शालायै पक्षसी मध्यमं वꣳ शमभि समायच्छति १
एवꣳ संवत्सरस्य पक्षसी दिवाकीर्त्यमभि संतन्वन्ति । नार्तिमार्छन्ति । एक-विꣳ शमहर्भवति । शुक्राग्रा ग्रहा गृह्यन्ते । प्रत्युत्तब्ध्यै सयत्वाय । सौर्य एतदहः पशुरालभ्यते । सौर्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । सप्तैतदहरतिग्राह्या गृह्यन्ते २
सप्त वै शीर्षण्याः प्राणाः । असावादित्यः शिरः प्रजानाम् । शीर्षन्नेव प्रजानां प्राणान्दधाति । तस्मात्सप्त शीर्षन्प्राणाः । इन्द्रो वृत्रꣳ हत्वा । असुरान्पराभाव्य । स इमाꣳ ल्लोकानभ्यजयत् । तस्यासौ लोकोऽनभिजित आसीत् । तं विश्वकर्मा भूत्वाभ्यजयत् । यद्वैश्वकर्मणो गृह्यते ३
सुवर्गस्य लोकस्याभिजित्यै । प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । ये वैश्वकर्मणं गृह्णते । आदित्यः श्वो गृह्यते । इयं वा अदितिः । अस्यामेव प्रति तिष्ठन्ति । अन्योन्यो गृह्येते । विश्वान्येवान्येन कर्माणि कुर्वाणा यन्ति । अस्यामन्येन प्रति तिष्ठन्ति । तावापरार्धात्संवत्सरस्यान्योन्यो गृह्येते । तावुभौ सह महाव्रते गृह्येते । यज्ञस्यैवान्तं गत्वा । उभयोर्लोकयोः प्रतितिष्ठन्ति । अर्क्यमुक्थं
भवति । अन्नाद्यस्यावरुद्ध्यै ४
1.2.4.1
एकविꣳ श एष भवति । एतेन वै देवा एकविꣳ शेन । आदित्यमित उत्तमꣳ सुवर्गं लोकमारोहयन्न् । स वा एष इत एकविꣳ शः । तस्य दशावस्तादहानि । दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् । सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेति १
देवा वा आदित्यस्य सुवर्गस्य लोकस्य । पराचोऽतिपादादबिभयुः । तं छन्दोभिरदृꣳ हन्धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्य । अवा-चोऽवपादादबिभयुः । तं पञ्चभी रश्मिभिरुदवयन्न् । तस्मादेकविꣳ शेऽहन्पञ्च दिवाकीर्त्यानि क्रियन्ते । रश्मयो वै दिवाकीर्त्यानि । ये गायत्रे । ते गायत्रीषूत्तरयोः पवमानयोः २
महादिवाकीर्त्यꣳ होतुः पृष्ठम् । विकर्णं ब्रह्मसाम । भासोऽग्निष्टोमः । अथै-तानि पराणि । परैर्वै देवा आदित्यꣳ सुवर्गं लोकमपारयन्न् । यदपारयन्न् । तत्पराणां परत्वम् । पारयन्त्येनं पराणि । य एवं वेद । अथैतानि स्पराणि । स्परैर्वै देवा आदित्यꣳ सुवर्गं लोकमस्पारयन्न् । यदस्पारयन्न् । तत्स्पराणाꣳ स्परत्वम् । स्पारयन्त्येनꣳ स्पराणि । य एवं वेद ३
1.2.5.1
अप्रतिष्ठां वा एते गच्छन्ति । येषाꣳ संवत्सरेऽनाप्तेऽथ । एकादशिन्याप्यते । वैष्णवं वामनमालभन्ते । यज्ञो वै विष्णुः । यज्ञमेवालभन्ते प्रतिष्ठित्यै । ऐन्द्रा ग्नमालभन्ते । इन्द्रा ग्नी वै देवानामयातयामानौ । ये एव देवते अयातयाम्नी ।ते एवालभन्ते १
वैश्वदेवमालभन्ते । देवता एवावरुन्धते । द्यावापृथिव्यां धेनुमालभन्ते । द्यावापृथिव्योरेव प्रति तिष्ठन्ति । वायव्यं वत्समालभन्ते । वायुरेवैभ्यो यथायतनाद्देवता अवरुन्धे । आदित्यामविं वशामालभन्ते । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति । मैत्रावरुणीमालभन्ते २
मित्रेणैव यज्ञस्य स्विष्टꣳ शमयन्ति । वरुणेन दुरिष्टम् । प्राजापत्यं तूपरं महाव्रत आलभन्ते । प्राजापत्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । आग्नेयमालभन्ते प्रति प्रज्ञात्यै । अजपेत्वान्वा एते पूर्वैर्मासैरवरुन्धते । यदेते गव्याः पशव आलभ्यन्ते । उभयेषां पशूनामवरुध्यै ३
यदतिरिक्तामेकादशिनीमालभेरन् । अप्रियं भ्रातृव्यमभ्यतिरिच्येत । यद्द्वौद्वौ पशू समस्येयुः । कनीय आयुः कुर्वीरन् । यदेते ब्राह्मणवन्तः पशव
आलभ्यन्ते । नाप्रियं भ्रातृव्यमभ्यतिरिच्यते । न कनीय आयुः कुर्वते ४
1.2.6.1
प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयत् । तं देवा भूतानाꣳ रसं तेजः संभृत्य । तेनैनमभिषज्यन् । महानववर्तीति । तन्महाव्रतस्य महाव्रतत्वम् । महद्व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् । महतो व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् । पञ्चविꣳ शः स्तोमो भवति १
चतुर्विꣳ शत्यर्धमासः संवत्सरः । यद्वा एतस्मिन्संवत्सरेऽधि प्राजायत । तदन्नं पञ्चविꣳ शमभवत् । मध्यतः क्रियते । मध्यतो ह्यन्नमशितꣳ धिनोति । अथो मध्यत एव प्रजानामूर्ग्धीयते । अथ यद्वा इदमन्ततः क्रियते । तस्मादुदन्ते प्रजाः समेधन्ते । अन्ततः क्रियते प्रजननायैव । त्रिवृच्छिरो भवति २
त्रेधा विहितꣳ हि शिरः । लोम छवीरस्थि । पराचा स्तुवन्ति । तस्मात्तत्सदृगेव । न मेद्यतोऽनु मेद्यति । न कृश्यतोऽनु कृश्यति । पञ्चद-शोऽन्यः पक्षो भवति । सप्तदशोऽन्यः । तस्माद्वयाꣳ स्यन्यतरमर्धमभि पर्यावर्तन्ते । अन्यतरतो हि तद्गरीयः क्रियते ३
पञ्चविꣳ श आत्मा भवति । तस्मान्मध्यतः पशवो वरिष्ठाः । एकविꣳ शं पुच्छम् । द्विपदासु स्तुवन्ति प्रतिष्ठित्यै । सर्वेण सह स्तुवन्ति । सर्वेण ह्यात्मनात्मन्वी ।सहोत्पतन्ति । एकैकामुच्छिꣳ षन्ति । आत्मन्न्ह्यङ्गानि बद्धानि । न वा एतेन सर्वः पुरुषः ४
यदितेतो लोमानि दतो नखान् । परिमादः क्रियन्ते । तान्येव तेन प्रत्युप्यन्ते । औदुम्बरस्तल्पो भवति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । यस्य तल्पसद्यमनभिजितꣳ स्यात् । स देवानाꣳ साम्यक्षे । तल्पसद्यमभिजयानीति तल्पमारुह्योद्गायेत् । तल्पसद्यमेवाभिजयति ५
यस्य तल्पसद्यमभिजितꣳ स्यात् । स देवानाꣳ साम्यक्षे । तल्पसद्यं मा पराजेषीति तल्पमारुह्योद्गायेत् । न तल्पसद्यं पराजयते । प्लेङ्खे शꣳ सति । महो वै प्लेङ्खः । महस एवान्नाद्यस्यावरुद्ध्यै । देवासुराः संयत्ता आसन् । त आदित्ये व्यायच्छन्त । तं देवाः समजयन् ६
ब्राह्मणश्च शूद्र श्च चर्मकर्ते व्यायच्छेते । दैव्यो वै वर्णो ब्राह्मणः । असुर्यः शूद्र ः! । इमेऽरात्सुरिमे सुभूतमक्रन्नित्यन्यतरो ब्रूयात् । इम उद्वासीकारिण इमे दुर्भूतमक्रन्नित्यन्यतरः । यदेवैषाꣳ सुकृतं या राद्धिः । तदन्यतरोऽभि-श्रीणाति । यदेवैषां दुष्कृतं या राद्धिः । तदन्यतरोऽपहन्ति । ब्राह्मणः संजयति । अमुमेवादित्यं भ्रातृव्यस्य संविन्दन्ते ७