सामग्री पर जाएँ

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०१

विकिस्रोतः तः

काण्ड 1 पौरोडाशिक काण्ड

प्रपाठकः 1. अग्न्याधानम

1.1.1

ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्रꣳ संधत्तं तन्मे जिन्वतम् । इषꣳ संधत्तं तां मे जिन्वतम् । ऊर्जꣳ संधत्तं तां मे जिन्वतम् । रयिꣳ संधत्तं तां मे जिन्वतम् । पुष्टिꣳ संधत्तं तां मे जिन्वतम् । प्रजाꣳ संधत्तं तां मे जिन्वतम् । पशून्संधत्तं तान्मे जिन्वतम् । स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु १

सुवीराः प्रजाः प्रजनयन्परीहि । शुक्रः शुक्रशोचिषा । स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु । सुप्रजाः प्रजाः प्रजनयन्परीहि । मन्थी मन्थिशोचिषा । संजग्मानौ दिव आ पृथिव्यायुः । संधत्तं तन्मे जिन्वतम् । प्राणꣳ संधत्तं तं मे जिन्वतम् । अपानꣳ संधत्तं तं मे जिन्वतम् २

व्यानꣳ संधत्तं तं मे जिन्वतम् । चक्षुः संधत्तं तन्मे जिन्वतम् । श्रोत्रꣳ संधत्तं तन्मे जिन्वतम् । मनः संधत्तं तन्मे जिन्वतम् । वाचꣳ संधत्तं तां मे जिन्वतम् । आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तं । प्राणं यज्ञाय धत्तम् ३

प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रꣳ स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः ।
कल्पयतं मानुषीः ४

इषमूर्जमस्मासु धत्तम् । प्राणान्पशुषु । प्रजां मयि च यजमाने च । निरस्तः शण्डः । निरस्तो मर्कः । अपनुत्तौ शण्डामर्कौ सहामुना । शुक्रस्य समिदसि । मन्थिनः समिदसि । स प्रथमः संकृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा इन्द्राय सुतमाजुहोमि (5)



1.1.2

कृत्तिकास्वग्निमादधीत । एतद्वा अग्नेर्नक्षत्रम् । यत्कृत्तिकाः । स्वायामेवैनं देवतायामाधाय । ब्रह्मवर्चसी भवति । मुखं वा एतन्नक्षत्राणाम् । यत्कृत्तिकाः । यः कृत्तिकास्वग्निमाधत्ते । मुख्य एव भवति । अथो खलु १

अग्निनक्षत्रमित्यपचायन्ति । गृहान्ह दाहुको भवति । प्रजापती रोहिण्या-मग्निमसृजत । तं देवा रोहिण्यामादधत । ततो वै ते सर्वान्रोहानरोहन् । तद्रोहिण्यै रोहिणित्वम् । यो रोहिण्यामग्निमाधत्ते । ऋध्नोत्येव । सर्वान्रोहान्रोहति । देवा वै भद्राः सन्तोऽग्निमाधित्सन्त २

तेषामनाहितोऽग्निरासीत् । अथैभ्यो वामं वस्वपाक्रामत् । ते पुनर्वस्वोरादधत । ततो वै तान्वामं वसूपावर्तत । यः पुरा भद्र ः! सन्पापीयान्त्स्यात् । स पुनर्वस्वोरग्निमादधीत । पुनरेवैनं वामं वसूपावर्तते । भद्रो भवति । यः कामयेत दानकामा मे प्रजाः स्युरिति । स पूर्वयोः फल्गुन्योरग्निमादधीत ३

अर्यम्णो वा एतन्नक्षत्रम् । यत्पूर्वे फल्गुनी ।अर्यमेति तमाहुर्यो ददाति । दानकामा अस्मै प्रजा भवन्ति । यः कामयेत भगी स्यामिति । स उत्तरयोः फल्गुन्योरग्निमादधीत । भगस्य वा एतन्नक्षत्रम् । यदुत्तरे फल्गुनी ।भग्येव भवति । कालकञ्जा वै नामासुरा आसन् ४

ते सुवर्गाय लोकायाग्निमचिन्वन्त । पुरुष इष्टकामुपादधात्पुरुष इष्टकाम् । स इन्द्रो ब्राह्मणो ब्रुवाण इष्टकामुपाधत्त । एषा मे चित्रा नामेति । ते सुवर्गꣳ लोकमाप्रारोहन् । स इन्द्र इष्टकामावृहत् । तेऽवाकीर्यन्त । येऽवाकीर्यन्त । त ऊर्णावभयोऽभवन् । द्वावुदपतताम् ५

तौ दिव्यौ श्वानावभवताम् । यो भ्रातृव्यवान्त्स्यात् । स चित्रायामग्नि-मादधीत । अवकीर्यैव भ्रातृव्यान् । ओजो बलमिन्द्रि यं वीर्यमात्मन्धत्ते । वसन्ता ब्राह्मणोऽग्निमादधीत । वसन्तो वै ब्राह्मणस्यर्तुः । स्व एवैनमृता-
वाधाय । ब्रह्मवर्चसी भवति । मुखं वा एतदृतूनाम् ६

यद्वसन्तः । यो वसन्ताग्निमाधत्ते । मुख्य एव भवति । अथो योनिमन्तमेवैनं प्रजातमाधत्ते । ग्रीष्मे राजन्य आदधीत । ग्रीष्मो वै राजन्यस्यर्तुः । स्व एवैनमृतावाधाय । इन्द्रि यावी भवति । शरदि वैश्य आदधीत । शरद्वै वैश्यस्यर्तुः ७

स्व एवैनमृतावाधाय । पशुमान्भवति । न पूर्वयोः फल्गुन्योरग्निमादधीत । एषा वै जघन्या रात्रिः संवत्सरस्य । यत्पूर्वे फल्गुनी ।पृष्टित एव संवत्सर-स्याग्निमाधाय । पापीयान्भवति । उत्तरयोरादधीत । एषा वै प्रथमा रात्रिः संवतसरस्य । यदुत्तरे फल्गुनी । मुखत एव संवत्सरस्याग्निमाधाय । वसीयान्भवति । अथो खलु । यदैवैनं यज्ञ उपनमेत् । अथादधीत । सैवास्यर्द्धिः ८


1.1.3 अग्न्याधानम्

उद्धन्ति । यदेवास्या अमेध्यम् । तदपहन्ति । अपोऽवोक्षति शान्त्यै । सिकता निवपति । एतद्वा अग्नेर्वैश्वानरस्य रूपम् । रूपेणैव वैश्वानरमवरुन्द्धे । ऊषान्निवपति । पुष्टिर्वा एषा प्रजननम् । यदूषाः १

पुष्ट्यामेव प्रजननेऽग्निमाधत्ते । अथो संज्ञान एव । संज्ञानꣳ ह्येतत्पशूनाम् । यदूषाः । द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् । अस्त्वेव नौ सह यज्ञियमिति । यदमुष्या यज्ञियमासीत् । तदस्यामदधात् । त ऊषा अभवन् २

यदस्या यज्ञियमासीत् । तदमुष्यामदधात् । तददश्चन्द्र मसि कृष्णम् । ऊषान्निवपन्नदो ध्यायेत् । द्यावापृथिव्योरेव यज्ञियेऽग्निमाधत्ते । अग्निर्देवेभ्यो निलायत । आखू रूपं कृत्वा । स पृथिवीं प्राविशत् । स ऊतीः कुर्वाणः पृथिवीमनु समचरत् । तदाखुकरीषमभवत् ३

यदाखुकरीषꣳ संभारो भवति । यदेवास्य तत्र न्यक्तम् । तदेवावरुन्द्धे । ऊर्जं वा एतꣳ रसं पृथिव्या उपदीका उद्दिहन्ति । यद्वल्मीकम् । यद्वल्मीकवपा संभारो भवति । ऊर्जमेव रसं पृथिव्या अवरुन्द्धे । अथो श्रोत्रमेव । श्रोत्रꣳ ह्येतत्पृथिव्याः । यद्वल्मीकः ४

अबधिरो भवति । य एवं वेद । प्रजापतिः प्रजा असृजत । तासाम-न्नमुपाक्षीयत । ताभ्यः सूदमुप प्राभिनत् । ततो वै तासामन्नं नाक्षीयत । यस्य सूदः संभारो भवति । नास्य गृहेऽन्नं क्षीयते । आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत् ५

कथमिदꣳ स्यादिति । सोऽपश्यत्पुष्करपर्णं तिष्ठत् । सोऽमन्यत । अस्ति वै तत् । यस्मिन्निदमधि तिष्ठतीति । स वराहो रूपं कृत्वोप न्यमज्जत् । स पृथिवीमध आर्छत् । तस्या उपहत्योदमज्जत् । तत्पुष्करपर्णेऽप्रथयत् । यदप्रथयत् ६

तत्पृथिव्यै पृथिवित्वम् । अभूद्वा इदमिति । तद्भूम्यै भूमित्वम् । तां दिशोऽनु वातः समवहत् । ताꣳ []शर्कराभिरदृꣳहत् । शं वै नोऽभूदिति । तच्छर्कराणाꣳ शर्करत्वम् । यद्वराहविहतꣳ संभारो भवति । अस्यामेवाछम्बट्कारमग्निमाधत्ते । शर्करा भवन्ति धृत्यै ७

अथो शंत्वाय । सरेता अग्निराधेय इत्याहुः । आपो वरुणस्य पत्नय आसन् । ता अग्निरभ्यध्यायत् । ताः समभवन् । तस्य रेतः परापतत् । तद्धिरण्य-मभवत् । यद्धिरण्यमुपास्यति । सरेतसमेवाग्निमाधत्ते । पुरुष इन्न्वै स्वाद्रेतसो बीभत्सत इत्याहुः ८

उत्तरत उपास्यत्यबीभत्सायै । अति प्रयच्छति । आर्तिमेवातिप्रयच्छति । अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । यदाश्वत्थः संभारो भवति । यदेवास्य तत्र न्यक्तम् । तदेवावरुन्द्धे ९

देवा वा ऊर्जं व्यभजन्त । तत उदुम्बर उदतिष्ठत् । ऊर्ग्वा उदुम्बरः । यदौदुम्बरः संभारो भवति । ऊर्जमेवावरुन्द्धे । तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्! याहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् १०

यस्य पर्णमयः संभारो भवति । सोमपीथमेवावरुन्द्धे । देवा वै ब्रह्मन्नवदन्त । तत्पर्ण उपाशृणोत् । सुश्रवा वै नाम । यत्पर्णमयः संभारो भवति । ब्रह्मवर्चसमेवावरुन्द्धे । प्रजापतिरग्निमसृजत । सोऽबिभेत्प्र मा धक्ष्यतीति । तꣳ शम्याऽशमयत् ११

तच्छम्यै शमित्वं ।यच्छमीमयः संभारो भवति । शान्त्या अप्रदाहाय । अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्छत् । यद्वैकङ्कतः संभारो भवति । भा एवावरुन्द्धे । सहृदयोऽग्निराधेय इत्याहुः । मरुतोऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन् । साशनिरभवत् । यदशनिहतस्य वृक्षस्य सम्भारो भवति । सहृदयमेवाग्निमाधत्ते १२


1.1.4

द्वादशसु विक्रामेष्वग्निमादधीत । द्वादश मासाः सम्वत्सरः । संवत्सरादेवैनमवरुध्याधत्ते । यद्द्वादशसु विक्रामेष्वादधीत । परिमितमवरुन्धीत । चक्षुर्निमित आदधीत । इयद्द्वादशविक्रामा३ इति । परिमितं चैवापरिमितं चावरुन्द्धे । अनृतं वै वाचा वदति । अनृतं मनसा ध्यायति १

चक्षुर्वै सत्यम् । अद्रा३गित्याह । अदर्शमिति । तत्सत्यम् । यश्चक्षुर्निमितेऽग्निमाधत्ते । सत्य एवैनमाधत्ते । तस्मादाहिताग्निर्नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सत्ये ह्यस्याग्निराहितः । आग्नेयी वै रात्रिः २ ।

आग्नेयाः पशवः । ऐन्द्रमहः । नक्तं गार्हपत्यमादधाति । पशूनेवावरुन्द्धे । दिवाहवनीयम् । इन्द्रियमेवावरुन्द्धे । अर्धोदिते सूर्य आहवनीयमादधाति । एतस्मिन्वै लोके प्रजापतिः प्रजा असृजत । प्रजा एव तद्यजमानः सृजते । अथो भूतं चैव भविष्यच्चावरुन्द्धे ३

इडा वै मानवी यज्ञानुकाशिन्यासीत् । साशृणोत् । असुरा अग्निमादधत इति । तदगच्छत् । त आहवनीयमग्र आदधत । अथ गार्हपत्यम् । अथान्वाहार्यपचनम् । साब्रवीत् । प्रतीच्येषाꣳ श्रीरगात् । भद्रा भूत्वा पराभविष्यन्तीति ४

यस्यैवमग्निराधीयते । प्रतीच्यस्य श्रीरेति । भद्रो भूत्वा पराभवति । साशृणोत् । देवा अग्निमादधत इति । तदगच्छत् । तेऽन्वाहार्यपचनमग्र आदधत । अथ गार्हपत्यम् । अथाहवनीयम् । साब्रवीत् ५

प्राच्येषाꣳ श्रीरगात् । भद्रा भूत्वा सुवर्गं लोकमेष्यन्ति । प्रजां तु न वेत्स्यन्त इति । यस्यैवमग्निराधीयते । प्राच्यस्य श्रीरेति । भद्रो भूत्वा सुवर्गं लोकमेति । प्रजां तु न विन्दते । साब्रवीदिडा मनुम् । तथा वा अहं तवाग्निमाधास्यामि । यथा प्र प्रजया पशुभिर्मिथुनैर्जनिष्यसे ६

प्रत्यस्मिꣳल्लोके स्थास्यसि । अभि सुवर्गं लोकं जेष्यसीति । गार्हपत्यमग्र आदधात् । गार्हपत्यं वा अनु प्रजाः पशवः प्रजायन्ते । गार्हपत्येनैवास्मै प्रजां पशून्प्राजनयत् । अथान्वाहार्यपचनम् । तिर्यङ्ङिव वा अयं लोकः । अस्मिन्नेव तेन लोके प्रत्यतिष्ठत् । अथाहवनीयम् । तेनैव सुवर्गं लोकमभ्यजयत् ७

यस्यैवमग्निराधीयते । प्र प्रजया पशुभिर्मिथुनैर्जायते । प्रत्यस्मिꣳल्लोके तिष्ठति । अभि सुवर्गं लोकं जयति ।

यस्य वा अयथादेवतमग्निराधीयते । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यस्य यथादेवतम् । न देवताभ्य आ वृश्च्यते । वसीयान्भवति । भृगूणां त्वाऽङ्गिरसां व्रतपते व्रतेनाऽऽदधामीति भृग्वङ्गिरसामादध्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनाऽऽदधामीत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनाऽऽदधामीति राज्ञः । इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामीति राजन्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनाऽऽदधामीति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेनाऽऽदधामीति रथकारस्य । यथादेवतमग्निराधीयते । न देवताभ्य आ वृश्च्यते । वसीयान्भवति ८

इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके चतुर्थोनुवाकः॥

1.1.5

प्रजापतिर्वाचः सत्यमपश्यत् । तेनाग्निमाधत्त । तेन वै स आर्ध्नोत् । भूर्भुवः सुवरित्याह । एतद्वै वाचः सत्यम् । य एतेनाग्निमाधत्ते । ऋध्नोत्येव । अथो सत्यप्राशूरेव भवति । अथो य एवं विद्वानभिचरति । स्तृणुत एवैनम् १

भूरित्याह । प्रजा एव तद्यजमानः सृजते । भुव इत्याह । अस्मिन्नेव लोके प्रतितिष्ठति । सुवरित्याह । सुवर्ग एव लोके प्रतितिष्ठति । त्रिभिरक्षरैर्गा-र्हपत्यमादधाति । त्रय इमे लोकाः । एष्वेवैनं लोकेषु प्रतिष्ठितमाधत्ते । सर्वैः पञ्चभिराहवनीयम् २

सुवर्गाय वा एष लोकायाधीयते । यदाहवनीयः । सुवर्ग एवास्मै लोके वाचः सत्यꣳ सर्वमाप्नोति । त्रिभिर्गार्हपत्यमादधाति । पञ्चभिराहवनीयम् । अष्टौ संपद्यन्ते । अष्टाक्षरा गायत्री ।गायत्रोऽग्निः । यावानेवाग्निः । तमाधत्ते ३

प्रजापतिः प्रजा असृजत । ता अस्मात्सृष्टाः पराचीरायन्न् । ताभ्यो ज्योतिरुदगृह्णात् । तं ज्योतिः पश्यन्तीः प्रजा अभि समावर्तन्त । उपरीवाग्निमुद्गृह्णीयादुद्धरन् । ज्योतिरेव पश्यन्तीः प्रजा यजमानमभि समावर्तन्ते । प्रजापतेरक्ष्यश्वयत् । तत्परापतत् । तदश्वोऽभवत् । तदश्वस्याश्वत्वम् ४

एष वै प्रजापतिः । यदग्निः प्राजापत्योऽश्वः । यदश्वं पुरस्तान्नयति । स्वमेव चक्षुः पश्यन्प्रजापतिरनूदेति । वज्री वा एषः । यदश्वः । यदश्वं पुरस्तान्नयति । जातानेव भ्रातृव्यान्प्रणुदते । पुनरावर्तयति ५

जनिष्यमाणानेव प्रतिनुदते । न्याहवनीयो गार्हपत्यमकामयत । नि गार्हपत्य आहवनीयम् । तौ विभाजं नाशक्नोत् । सोऽश्वः पूर्ववाड्भूत्वा । प्राञ्चं पूर्वमुदवहत् । तत्पूर्ववाहः पूर्ववाट्त्वम् । यदश्वं पुरस्तान्नयति । विभक्तिरेवैनयोः सा । अथो नानावीर्यावेवैनौ कुरुते ६

यदुपर्युपरि शिरो हरेत् । प्राणान्विच्छिन्द्यात् । अधोऽधः शिरो हरति । प्राणानां गोपीथाय । इयत्यग्रे हरति । अथेयत्यथेयति । त्रय इमे लोकाः । एष्वेवैनं लोकेषु प्रतिष्ठितमाधत्ते । प्रजापतिरग्निमसृजत । सोऽबिभेत्प्रमा धक्ष्यतीति ७

तस्य त्रेधा महिमानं व्यौहत् । शान्त्या अप्रदाहाय । यत्त्रेधाग्निराधीयते । महिमानमेवास्य तद्व्यूहति । शान्त्या अप्रदाहाय । पुनरावर्तयति । महिमानमेवास्य संदधाति । पशुर्वा एषः । यदश्वः । एष रुद्र ः! ८

यदग्निः । यदश्वस्य पदेऽग्निमादध्यात् । रुद्रा य पशूनपिदध्यात् । अप-शुर्यजमानः स्यात् । यन्नाक्रमयेत् । अनवरुद्धा अस्य पशवः स्युः । पार्श्वत आक्रमयेत् । यथाहितस्याग्नेरङ्गारा अभ्यववर्तेरन् । अवरुद्धा अस्य पशवो भवन्ति । न रुद्रायापिदधाति ९

त्रीणि हवीꣳषि निर्वपति । विराज एव विक्रान्तं यजमानोऽनु विक्रमते । अग्नये पवमानाय । अग्नये पावकाय । अग्नये शुचये । यदग्नये पवमानाय निर्वपति । पुनात्येवैनम् । यदग्नये पावकाय । पूत एवास्मिन्नन्नाद्यं दधाति । यदग्नये शुचये । ब्रह्मवर्चसमेवास्मिन्नुपरिष्टाद्दधाति १०


1.1.6

देवासुराः संयत्ता आसन्न् । ते देवा विजयमुपयन्तः । अग्नौ वामं वसु सं न्यदधत । इदमु नो भविष्यति । यदि नो जेष्यन्तीति । तदग्निर्नोत्सह-मशक्नोत् । तत्त्रेधा विन्यदधात् । पशुषु तृतीयम् । अप्सु तृतीयम् । आदित्ये तृतीयम् १

तद्देवा विजित्य । पुनरवारुरुत्सन्त । तेऽग्नये पवमानाय पुरोडाशमष्टाकपालं निरवपन् । पशवो वा अग्निः पवमानः । यदेव पशुष्वासीत् । तत्तेनावा-रुन्धत । तेऽग्नये पावकाय । आपो वा अग्निः पावकः । यदेवाप्स्वासीत् । तत्तेनावारुन्धत २

तेऽग्नये शुचये । असौ वा आदित्योऽग्निः शुचिः । यदेवादित्य आसीत् । तत्तेनावारुन्धत । ब्रह्मवादिनो वदन्ति । तनुवो वावैता अग्न्याधेयस्य । आग्नेयो वा अष्टाकपालोऽग्न्याधेयमिति । यत्तं निर्वपेत् । नैतानि । यथात्मा स्यात् ३

नाङ्गानि । तादृगेव तत् । यदेतानि निर्वपेत् । न तम् । यथाङ्गानि स्युः । नात्मा । तादृगेव तत् । उभयानि सह निरुप्याणि । यज्ञस्य सात्मत्वाय
। उभयं वा एतस्येन्द्रि यं वीर्यमाप्यते ४

योऽग्निमाधत्ते । ऐन्द्रा ग्नमेकादशकपालमनु निर्वपेत् । आदित्यं चरुम् । इन्द्रा ग्नी वै देवानामयातयामानौ । ये एव देवते अयातयाम्नी ।ताभ्यामेवास्मा इन्द्रि यं वीर्यमवरुन्द्धे । आदित्यो भवति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । धेन्वै वा एतद्रेतः ५

यदाज्यम् । अनडुहस्तण्डुलाः । मिथुनमेवावरुन्द्धे । घृते भवति । यज्ञस्यालूक्षान्तत्वाय । चत्वार आर्षेयाः । प्राश्नन्ति । दिशामेव ज्योतिषि जुहोति । पशवो वा एतानि हवीꣳषि । एष रुद्र ः! । यदग्निः ६

यत्सद्य एतानि हवीꣳषि निर्वपेत् । रुद्रा य पशूनपि दध्यात् । अपशुर्यजमानः स्यात् । यन्नानुनिर्वपेत् । अनवरुद्धा अस्य पशवः स्युः । द्वादशसु रात्रीष्वनु निर्वपेत् । संवत्सरप्रतिमा वै द्वादश रात्रयः । संवत्सरेणैवास्मै रुद्र ꣳ! शमयित्वा । पशूनवरुन्द्धे । यदेकमेकमेतानि हवीꣳषि निर्वपेत् ७

यथा त्रीण्यावपनानि पूरयेत् । तादृक्तत् । न प्रजननमुच्छिꣳषेत् । एकं निरुप्य । उत्तरे समस्येत् । तृतीयमेवास्मै लोकमुच्छिꣳषति प्रजननाय । तं प्रजया पशुभिरनु प्रजायते । अथो यज्ञस्यैवैषाभिक्रान्तिः । रथचक्रं प्रवर्तयति । मनुष्यरथेनैव देवरथं प्रत्यवरोहति ८

ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्रा३ं! न होतव्या३मिति । यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः पराभवेत् । तूष्णीमेव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः पराभवति । अग्नीधे ददाति ९

अग्निमुखानेवर्तून्प्रीणाति । उपबर्हणं ददाति । रूपाणामवरुद्ध्यै । अश्वं ब्रह्मणे । इन्द्रि यमेवावरुन्धे । धेनुꣳ होत्रे । आशिष एवावरुन्द्धे । अनड्वाहमध्वर्यवे । वह्निर्वा अनड्वान् । वह्निरध्वर्युः १०

वह्निनैव वह्नि यज्ञस्यावरुन्द्धे । मिथुनौ गावौ ददाति । मिथुनस्यावरुद्ध्यै । वासो ददाति । सर्वदेवत्यं वै वासः । सर्वा एव देवताः प्रीणाति । आ द्वादशभ्यो ददाति । द्वादश मासाः संवत्सरः । संअत्सर एव प्रतितिष्ठति । काममूर्ध्वं देयम् । अपरिमितस्यावरुद्ध्यै ११


1.1.7

घर्मः शिरस्तदयमग्निः । संप्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । वातः प्राणस्तदयमग्निः । संप्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच । प्राचीमनु प्रदिशं प्रेहि विद्वान् । अग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाहि । ऊर्जं नो धेहि द्विपदे चतुष्पदे १

अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः । संप्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वादधे । अग्निनाग्ने ब्रह्मणा । आनशे व्यानशे सर्वमायुर्व्यानशे । ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् २

ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वादधे । यास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ ३


1.1.8

इमे वा एते लोका अग्नयः । ते यदव्यावृत्ता आधीयेरन् । शोचयेयुर्यजमानम् । घर्मः शिर इति गार्हपत्यमादधाति । वातः प्राण इत्यन्वाहार्यपचनम् । अर्कश्चक्षुरित्याहवनीयम् । तेनैवैनान्व्यावर्तयति । तथा न शोचयन्ति यजमानम् । रथन्तरमभिगायते गार्हपत्य आधीयमाने । राथन्तरो वा अयं लोकः १

अस्मिन्नेवैनं लोके प्रतिष्ठितमाधत्ते । वामदेव्यमभिगायत उद्ध्रियमाणे । अन्तरिक्षं वै वामदेव्यम् । अन्तरिक्ष एवैनं प्रतिष्ठितमाधत्ते । अथो शान्तिर्वै वामदेव्यम् । शान्तमेवैनं पशव्यमुद्धरते । बृहदभिगायत आहवनीय आधीयमाने । बार्हतो वा असौ लोकः । अमुष्मिन्नेवैनं लोके प्रतिष्ठितमाधत्ते । प्रजापतिरग्निमसृजत २

सोऽश्वो वारो भूत्वा पराङैत् । तं वारवन्तीयेनावारयत । तद्वारवन्तीयस्य वारवन्तीयत्वम् । श्यैतेन श्येती अकुरुत । तच्छ्यैतस्य श्यैतत्वम् । यद्वारवन्तीयमभिगायते । वारयित्वैवैनं प्रतिष्ठितमाधत्ते । श्यैतेन श्येती कुरुते । घर्मः शिर इति गार्हपत्यमादधाति । सशीर्षाणमेवैनमाधत्ते ३

उपैनमुत्तरो यज्ञो नमति । रुद्रो वा एषः । यदग्निः । स आधीयमान ईश्वरो यजमानस्य पशून्हिꣳसितोः । संप्रियः पशुभिर्भुवदित्याह । पशुभिरेवैनꣳ संप्रियं करोति । पशूनामहिꣳसायै । छर्दिस्तोकाय तनयाय यच्छेत्याह । आशिषमेवैतामाशास्ते । वातः प्राण इत्यन्वाहार्यपचनम् ४

सप्राणमेवैनमाधत्ते । स्वदितं तोकाय तनयाय पितुं पचेत्याह । अन्नमेवास्मै स्वदयति । प्राचीमनु प्रदिशं प्रेहि विद्वानित्याह । विभक्तिरेवैनयोः सा । अथो नानावीर्यावेवैनौ कुरुते । ऊर्जं नो धेहि द्विपदे चतुष्पद इत्याह । आशिषमेवैतामाशास्ते । अर्कश्चक्षुरित्याहवनीयम् । अर्को वै देवानामन्नम् ५

अन्नमेवावरुन्धे । तेन मे दीदिहीत्याह । समिन्ध एवैनम् । आनशे व्यानश इति त्रिरुदिङ्गयति । त्रय इमे लोकाः । एष्वेवैनं लोकेषु प्रतिष्ठितमाधत्ते । तत्तथा न कार्यम् । वीङ्गितमप्रतिष्ठितमादधीत । उद्धृत्यैवाधायाभिमन्त्रियः । अवीङ्गितमेवैनं प्रतिष्ठितमाधत्ते । विराट्च स्वराट्च यास्ते अग्ने शिवा-स्तनुवस्ताभिस्त्वादध इत्याह । एता वा अग्नेः शिवास्तनुवः । ताभिरेवैनꣳ समर्धयति । यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति ब्रूयाद्यं द्विष्यात् । ताभिरेवैनं पराभावयति ६


1.1.9

शमीगर्भादग्निं मन्थति । एषा वा अग्नेर्यज्ञिया तनूः । तामेवास्मै जनयति । अदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत् । तस्या उच्छेषणमददुः । तत्प्राश्नात् । सा रेतोऽधत्त । तस्यै धाता चार्यमा चाजायेताम् । सा द्वितीयमपचत् १

तस्या उच्छेषणमददुः । तत्प्राश्नात् । सा रेतोऽधत्त तस्यै मित्रश्च वरुणश्चाजायेताम् । सा तृतीयमपचत् । तस्या उच्छेषणमददुः । तत्प्राश्नात् । सा रेतोऽधत्त । तस्या अꣳशश्च भगश्चाजायेताम् । सा चतुर्थमपचत् २

तस्या उच्छेषणमददुः । तत्प्राश्नात् । सा रेतोऽधत्त । तस्या इन्द्रश्च विवस्वाꣳश्चाजायेताम् । ब्रह्मौदनं पचति । रेत एव तद्दधाति । प्राश्नन्ति ब्राह्मणा ओदनम् । यदाज्यमुच्छिष्यते । तेन समिधोऽभ्यज्यादधाति । उच्छेषणाद्वा अदिती रेतोऽधत्त ३

उच्छेषणादेव तद्रेतो धत्ते । अस्थि वा एतत् । यत्समिधः । एतद्रेतः । यदाज्यम् । यदाज्येन समिधोऽभ्यज्यादधाति । अस्थ्येव तद्रेतसि दधाति । तिस्र आदधाति मिथुनत्वाय । इयतीर्भवन्ति । प्रजापतिना यज्ञमुखेन संमिताः ४

इयतीर्भवन्ति । यज्ञपरुषा संमिताः । इयतीर्भवन्ति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमिताः । आर्द्रा भवन्ति । आर्द्र मिव हि रेतः सिच्यते । चित्रियस्याश्वत्थस्यादधाति । चित्रमेव भवति । घृतवतीभिरादधाति ५

एतद्वा अग्नेः प्रियं धाम । यद्घृतम् । प्रियेणैवैनं धाम्ना समर्धयति । अथो तेजसा । गायत्रीभिर्ब्राह्मणस्यादध्यात् । गायत्रच्छन्दा वै ब्राह्मणः । स्वस्य छन्दसः प्रत्ययनस्त्वाय । त्रिष्टुग्भी राजन्यस्य । त्रिष्टुप्छन्दा वै राजन्यः । स्वस्य छन्दसः प्रत्ययनस्त्वाय ६

जगतीभिर्वैश्यस्य । जगतीछन्दा वै वैश्यः । स्वस्य छन्दसः प्रत्ययनस्त्वाय । तꣳ संवत्सरं गोपायेत् । संवत्सरꣳ हि रेतो हितं वर्धते । यद्येनꣳ संवत्सरे नोपनमेत् । समिधः पुनरादध्यात् । रेत एव तद्धितं वर्धमानमेति । न माꣳसमश्नीयात् । न स्त्रियमुपेयात् ७

यन्माꣳसमश्नीयात् । यत्स्त्रियमुपेयात् । निर्वीर्यः स्यात् । नैनमग्निरुपनमेत् । श्व आधास्यमानो ब्रह्मौदनं पचति । आदित्या वा इत उत्तमाः सुवर्गं लोकमायन्न् । ते वा इतो यन्तं प्रतिनुदन्ते । एते खलु वावादित्याः । यद्ब्राह्मणाः । तैरेव संत्वं गच्छति ८

नैनं प्रतिनुदन्ते । ब्रह्मवादिनो वदन्ति । क्वा सः । अग्निः कार्यः । योऽस्मै प्रजां पशून्प्रजनयतीति । शल्कैस्ताꣳ रात्रिमग्निमिन्धीत । तस्मिन्नुपव्युषमरणी निष्टपेत् । यथर्षभाय वाशिता न्याविच्छायति ।तदृगेव तत् । अपोदूह्य भस्माग्निं मन्थति ९

सैव साग्नेः संततिः । तं मथित्वा प्राञ्चमुद्धरति । संवत्सरमेव तद्रे तो हितं प्रजनयति । अनाहितस्तस्याग्निरित्याहुः । यः समिधोऽनाधायाग्निमाधत्त इति । ताः संवत्सरे पुरस्तादादध्यात् । संवत्सरादेवैनमवरुध्याधत्ते । यदि संवत्सरे नादध्यात् । द्वादश्यां पुरस्तादादध्यात्संवत्सरप्रतिमा वै द्वादश रात्रयः । संवत्सरमेवास्याहिता भवन्ति । यदि द्वादश्यां नादध्यात् । त्र्यहे पुरस्तादादध्यात् । आहिता एवास्य भवन्ति १०


1.1.10

प्रजापतिः प्रजा असृजत । स रिरिचानोऽमन्यत । स तपोऽतप्यत । स आत्मन्वीर्यमपश्यत् । तदवर्धत । तदस्मात्सहसोर्ध्वमसृज्यत । सा विरा-डभवत् । तां देवासुरा व्यगृह्णत । सोऽब्रवीत्प्रजापतिः । मम वा एषा १

दोहा एव युष्माकमिति । सा ततः प्राच्युदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । अथर्व पितुं मे गोपायेति । सा द्वितीयमुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । नर्य प्रजां मे गोपायेति । सा तृतीयमुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । शꣳस्य पशून्मे गोपायेति २

सा चतुर्थमुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । सप्रथ सभां मे गोपायेति । सा पञ्चममुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । अहे बुध्निय मन्त्रं मे गोपायेति । अग्नीन्वाव सा तान्व्यक्रमत । तान्प्रजापतिः पर्यगृह्णात् । अथो पङ्क्तिमेव । पङ्क्तिर्वा एषा ब्राह्मणे प्रविष्टा ३

तामात्मनोऽधि निर्मिमीते । यदग्निराधीयते । तस्मादेतावन्तोऽग्नय आधीयन्ते । पाङ्क्तं वा इदꣳ सर्वम् । पाङ्क्तेनैव पाङ्क्तꣳ स्पृणोति । अथर्व पितुं मे गोपायेत्याह । अन्नमेवैतेन स्पृणोति । नर्य प्रजां मे गोपायेत्याह । प्रजामेवतेन स्पृणोति । शꣳस्य पशून्मे गोपायेत्याह ४

पशूनेवैतेन स्पृणोति । सप्रथ सभां मे गोपायेत्याह । सभामेवैतेनेन्द्रि यꣳ स्पृणोति । अहे बुध्निय मन्त्रं मे गोपायेत्याह । मन्त्रमेवैतेन श्रियꣳ स्पृणोति । यदन्वाहार्यपचनेऽन्वाहार्यं पचन्ति । तेन सोऽस्याभीष्टः प्रीतः । यद्गार्हपत्य आज्यमधिश्रयन्ति संपत्नीर्याजयन्ति । तेन सोऽस्याभीष्टः प्रीतः । यदाहवनीये जुह्वति ५

तेन सोऽस्याभीष्टः प्रीतः । यत्सभायां विजयन्ते । तेन सोऽस्याभीष्टः प्रीतः । यदावसथेऽन्नꣳ हरन्ति । तेन सोऽस्याभीष्टः प्रीतः । तथास्य सर्वे प्रीता अभीष्टा आधीयन्ते । प्रवसथमेष्यन्नेवमुपतिष्ठेतैकमेकम् । यथा ब्राह्मणाय गृहे वासिने परिदाय गृहानेति । तादृगेव तत् । पुनरागत्योपतिष्ठते । साभागेयमेवैषां तत् । सा तत ऊर्ध्वारोहत् । सा रोहिण्यभवत् । तद्रो हिण्यै रोहिणित्वम् । रोहिण्यामग्निमादधीत । स्व एवैनं योनौ प्रतिष्ठितमाधत्ते । ऋध्नोत्येनेन ६

  1. शर्करा उपरि टिप्पणी