सामग्री पर जाएँ

ज्ञापकसंग्रहपरिशिष्टम्/द्वितीयोऽध्यायः

विकिस्रोतः तः
← प्रथमोऽध्यायः ज्ञापकसंग्रहपरिशिष्टम्
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

अथ द्वितीयोऽध्यायः
    झ्र्ज्ञा.प.ट ठयुवा खलति'(सू.2-1-66) इति समानाधिकरणेनेति वर्तमाने व्यधिकरणनिर्देशात् ज्ञापकात् यथाजातीयकमुत्तरपदं तथाजातीयकेन पूर्वपदेन समासो भवतीति । झ्र्वि.ट ठयुवा खलतिपलितवलिनजरतीभिः' इति सूत्रेण युवन्शब्दस्य खलत्यादिभिः सह समासो विधीयते । तत्र च समानाधिकरणेन इत्यनुवर्तते । पुंल्लिङ्गयुवन्शपब्दस्य स्त्रीलिङ्गखलत्यादिभिः सामानाधिकरण्यासंभवात् सौत्रो निर्देशोऽसंगतः सन् ज्ञापयति युवन्शब्देनात्र यथाजातीयकमुत्तरपदं तथाजातीयकं गृह्यत इति । उत्तरपदस्य जरतीपदस्य स्त्रीलिङ्गत्वात् तेन समासे विवक्षिते स्त्रीलिङ्गयुवतिशब्द एव तेन समस्यत इत्यर्थः । यद्यपि मुखं चन्द्र इत्यादौ भिन्नलिङ्गयोरपि सामानाधिकरण्यं दृश्यते, तथापि न सर्वत्र, किं तु संप्रतिपन्नस्थल एव, तदप्येकस्य नियतलिङ्गत्व एवेति भाष्याशयः इत्युद्योतः । एतद्वचनज्ञापनप्रयोजनं तु "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभाषां विनैव कार्यसिद्धिरिति भाष्ये स्पष्टम् । झ्र्ज्ञा.प.ट उपपदमतिङ् (सू.2-2-19)।। अतिङितिप्रतिषेधो ज्ञापयति अनयोर्योगयोर्निवृत्तं सुप्सुपेति । झ्र्वि.ट ननु "उपपदमतिङ्' इति सूत्रे अतिङ्ग्रहणं मास्तु । न च तदभावे कारको व्रजतीत्यत्रापि व्रजतीत्यस्य "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' (सू.3-3-10) इति सूत्रे क्रियायाम् इति सप्तम्यन्तेन ग्रहणेन उपपदसंज्ञकत्वात तस्य कारक इति शब्देन समासः स्यादतिि वाच्यम् । "सुप् सुपा' इत्यस्यात्राप्यनुवृत्त्या सूबन्तमुपपदं समर्थेन सुबन्तेन समस्यत इति सूत्रार्थलाभात् व्रजतीत्यस्य सुबन्तत्वाभावात् समासस्याप्रसक्तेरित्याशङ्ग्याह--अतिङिति प्रतिषेध इति । तथा च पूर्वोक्तरीत्या व्यर्थं सत् अतिङ्ग्रहणम् अत्र सूत्रे"कुगतिप्रादयः' (सू.2-2-18) इति पूर्वसूत्रे च सुप्सुपेति नानुवर्तत इति ज्ञापयति । तदननुवृत्तौ च तिङन्तस्यापि समासो भवेदिति तद्वारणार्थमतिङ्ग्रहणमिति स्वांशे चारितार्थयम् । नन्वत्रैव सूत्रे अतिङ्ग्रहणात् सुवो निवृत्तिर्ज्ञाप्यताम् । पूर्वसूत्रे कथं निवृत्तज्ञिर्ाप्येत इति चेत्-अत्राहुः। "कुगतिप्रादयः' इत्यत्र "कुप्रादयः' "गतिः' इति द्वेधा योगो विभज्यते । तत्र प्रथमसूत्रस्य कुप्रादयः सुबन्तेन समास्यन्ते इत्यर्थः । एवम् "उपपदम्' "अतिङ्' इति च योगो विभज्यते । अतिङ् इत्ययं "गतिः' "उपपदम्' इति द्वयोरपि शेषभूतः । सुपा इत्येतत् उभयत्र उक्तज्ञापकान्निवर्तते । अतिङ् इत्येष प्रथमान्तः योगद्वयविहितस्य समासस्य विशेषणम् । तथा च सूत्रद्वयविहितः समासः तिङन्तघटितो न भवतीत्यर्थः । ततश्च सूत्रद्वयोऽपि आतिङ् इत्यस्य संबन्धात् तत् सूत्रद्वयोऽपि सुपा इत्यस्य निवृत्तिज्ञापकमिति भावः । एवं च सूत्रद्वयेऽपि सुपेत्यस्य निवृत्त्या गतीनामुपपदानां च सुबुत्पत्तेः प्राक् समासः सिध्यतीति "गतिकारकोपपदानां कृदि्भः सह समासवचनं प्राक् सुबुत्पत्तेः' इति परिभाषा सिद्धा भवतीति ज्ञापनफलं भाष्ये उक्तम् । न च कारकाणां सुबुत्पत्तेः प्राक् समासः कथं लभ्येत इति वाच्यम् । एकदेशानुमतिद्वारा तत्सिद्धेरिति केचित् । कैयटस्तु कारकाणां "कर्तृकरणे कृता बहुलम्' (सू.2-3-32) इति समासः क्रियते । तत्र कृद्ग्रहणात् सुबुत्पत्तेः प्राक् समासः सिद्धः । तिङन्तेन हि तृतीयानातस्य सुपेत्यस्यानुवृत्त्यैव समासाप्रसङ्गात् कृदन्तेनैव समासे सिद्धे कृद्ग्रहणं कृदन्तावस्थायामेवानुत्पन्ने सुपि समासार्थम् इत्याह । झ्र्ज्ञा.प.ट अनेकमन्यपदार्थे (सू.2-2-24)।। उत्तरपदेद्विगुविधानं ज्ञापयति बहूनामपि समासो भवतीति । झ्र्वि.ट ननु "अनेकमन्यपदार्थे' इति सूत्रे "सुप् सुपा' इत्यनुवृत्तेः अन्यपदार्थे वर्तमानं सुबन्तं सुबन्तेन समस्यत इत्यर्थलाभेन अर्थात् अनेकसुबन्तसमासो
लभ्यत इत्यनेकग्रहणं व्यर्थम् । न च बहूनां समासलाभायानेकग्रहणमिति वाच्यम् । ज्ञापकादेव बहूनां समासलाभात् । ज्ञापकमेवाह--उत्तरपद इति । "तद्धितार्थोत्तरपदसमाहारे च' (सू.2-1-51) इति सूत्रेण उत्तरपदे परतः संख्यावाचकशब्दस्य समानाधिकरणेन सुबन्तेन समासो विधीयते । पञ्च गावो धनं यस्येति विग्रहे त्रयाणां पदानां बहुव्रीहिसमासे धनशब्दे परेतदवयवयोः पञ्चगोशब्दयोर्द्विगुसमासो भवति । तत्रादौ त्रयाणां सभासाभावे धनशब्दस्योत्तरपदत्वं न स्यात् । उत्तरपदशब्दस्य समासचरमावयवे रूढत्वात् । तथा च उत्तरपदे परतो द्विगुसमासविधानमहिम्ना बहूनामपि सुबन्तानां समासो भवतीति ज्ञाप्यते । एवं च बहूनां समासलाभार्थमनेकपदमित्येतन्न युक्तमिति भावः । द्विगुविधानमिति । इदमुपलक्षणम् । तद्धितार्थसूत्रेण दिग्वाचकशब्दस्य सुबन्तेन सह उत्तरपदे परतः समासविधानमप्युक्तारेथे ज्ञापकमिति बोध्यम् । झ्र्ज्ञा.पट चार्थे द्वन्द्वः (सू.2-2-29)।। अर्थग्रहणात् चेन कृतोऽर्थश्चार्थ इति विज्ञायते । झ्र्वि.ट ननु "चार्थे द्वन्द्वः' इति सूत्रेण चार्था यत्र प्रतीयते तत्र द्वन्द्वः इत्यवगम्यते । तथा च--- "अहरहर्नयमानो गमश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी।।' इत्यत्र गवादीनां परस्परसाहित्येन नयनक्रियायामन्वयात् "गामश्वं पुरुषं पशुम्' इति वाक्येऽपि परस्परसाहित्यात्मकेतरेतरयोगरूपयार्थे पदानां वृत्तेर्द्वन्द्वसंज्ञा स्यात् इत्यशङ्क्याह--अर्थग्रहणादिति । चे द्वन्द्व इत्येतावतैव चशब्दे कार्यासंभवात् अर्थे कार्थंभवतीति विज्ञास्यते । सोऽयमेवं सिद्धे सति यत् अर्थग्रहणं करोति तज्ज्ञापयति चेन कृतो योऽर्थस्तत्र द्वन्द्वो भवतीति । अर्थग्रहणादवधारणमाश्रीयते । चेनैव कृतः प्रकाशितो योऽर्थस्तत्र द्वन्द्व इति । गामश्वमित्यत्र तु अहरहःशब्देनैव साहित्यमवगम्यते न तु चेनेति न द्वन्द्व इति भावः । झ्र्ज्ञा.पट निष्ठा (सू.2-2-36)।। जातिकाललुखादिभ्यः परस्याः निष्ठाया अन्तोदात्तत्वविधानात् ज्ञापकात् परात्र निष्ठा भवतीति । झ्र्वि.ट ननु "निष्ठा' इति सूत्रेण निष्ठान्तस्य बहुव्रीहौ पूर्वनिपातोऽनुशिष्यते । कृतकृत्य इत्यादिकमुदाहरणम् । तत्र सारङ्गजग्धी मासजाता सुखजाता दुः खजाता इत्यादौ बहुव्रीहौ निष्ठन्तस्य परनिपातोऽसाधुः स्यात् इत्यत आह--जातिकालेति । "जातिकालसुखादिभ्योऽनाच्छादनात् क्तः' (सू.6-2-170) इति सूत्रेण जातिकालसुखादिभ्यः परस्य क्तान्तस्यान्तोदात्तत्वं विधीयते बहुव्रीहौ । यदि जात्यादिभ्यः पूर्वं "निष्ठा' इत्यनेन क्तान्तस्य निपातः स्यात् तदा जात्यादिभ्यः परं क्तान्तं दुर्लभमिति परं क्तान्तमनूद्य स्वरविधानमनुपपन्नंस्यात् । अतोऽनुमीयते यत् बहुव्रीहौ नातिकालसुखादिभ्यः परमेव निष्ठान्तस्य प्रयोग इति । तेन सारङ्गजग्घी इत्यादेः साधुत्वं सिध्यतीति भावः । झ्र्ज्ञा.पा.ट चतुर्थी संप्रदाने (सू.2-3-13)।। "चतुर्थी तदर्थार्थ-' (सू.2-1-36) इति चतुर्थ्यन्तस्य अर्थशब्देन समासविधानं ज्ञापयति भवत्यर्थशब्दयोगो चतुर्थीति । तत्रैव चतुर्थ्यान्तस्य तदर्थेन समासविधानात् ज्ञापकात् भवति तार्दथ्ये चतुर्थीति । झ्र्वि.ट ठचतुर्थी संप्रदाने' इति सूत्रे "तार्दथ्य उपसंख्यानम्' वार्तिकम् । तत्र तार्दथ्यशब्दस्य तस्मै अर्थस्तदर्थः तदर्थस्य भावः तार्दथ्यमिति निष्पत्तिर्मवति । तत्र तस्मै इति चतुर्थ्यन्तस्यार्थशब्देन समासो न संभवति, अर्थशब्देन योगे चतुर्थ्या दुर्लभत्वत्, तादृशानुशासनाभावादित्याशङ्क्य "चतुर्थीतदर्थार्थ' इति सूत्रेण चतुर्थ्यान्तस्यार्थशब्देन साकं समासविधानम् अर्थशब्दयोगे चतुर्थ्या असाधुत्वे असंगतं सत् तद्योगे चतुर्थीविभक्तिं ज्ञापयतीत्याह---चतुर्थी तदर्थार्थेति । तत्रैव भाष्ये "तार्दथ्य उपसंख्यानम्' इति वार्तिकप्रत्याख्यानाय ज्ञापकात्तार्दथ्ये चतुर्थी साधिता । ज्ञापकं च "चतुर्थी तदर्थार्थ' इति सूत्रेण
चतुर्थ्यन्तस्य तदर्थवाचिना सुबन्तेन समासविधानम् । यदि तादर्रथ्ये चतुर्थी न स्यात् तदा तदर्थेन सहितस्य चतुर्थ्यन्तस्य दौर्लभ्यात् चतुर्थ्यास्तदर्थेन समासवधिानमसंगतं स्यादिति । तदेतदाह--तत्रैव चतुर्थ्यन्तस्येति । झ्र्ज्ञा.प.ट प्रातिपदिकार्थलिङ्ग-(सू.2-3-46)।। "संबोधने आमन्त्रितम्' इत्येकयोगमकृत्वा "संबोधने च' "सामन्त्रितम्' (सू.2-3-47-48) इति योगविभागकरणं ज्ञापयति न कर्मादिविशिष्टे प्रथमा भवतीति । झ्र्वि.ट ननु विभक्तिविषये प्रत्ययनियमोऽर्थनियमश्चेति पक्षद्वयम् । तत्र कर्मण्येव द्वितीयेत्येवमादिरुपः प्रत्ययनियमः । कर्मणि द्वितीयैवेत्येवमादिरूपोऽर्थनियमः । तत्र प्रत्ययनियमपक्षे "प्रातिपदिकार्थ' सूत्रे (सू.2-3-46) मात्रपदाभावे कर्मादिष्वपि प्रथमा स्यात् । कर्मण्येव द्वितीयेति नियमेन हि द्वितीयायाः कर्मातिरिक्तार्थव्यावर्तनेऽपि कर्मणि द्वितीयातिरिक्ता विभक्तिर्न व्यार्वत्यते । तथा च कर्मादिष्वपि प्रथमायाः व्यवच्छेदार्थं मात्रपदमिति प्रयोजनमुक्त्वा ज्ञापकेन कर्मादिषु प्रथमां निषिध्य मात्रपदस्योक्तविधं प्रयोजनं निराकृतं भाष्ये । तदाह--संबोधन इत्यादिना । अयमाशयः--यदि प्रापिपदिकार्थादधिकार्थेऽपि प्रथमा स्यात्तदा संबोधनाधिक्येऽपि प्रातिपदिकार्थसूत्रेणैव प्रथमायाः सिद्धेः "संबोधने च' इति सूत्रं व्यर्थम् । न च तत्सूत्रं न संबोधने प्रथमाविधायकम्, किं तु आमन्त्रितसंज्ञाया विधानार्थमनुवादकम् । संबोधने या प्रथमा सामन्त्रितसंज्ञा स्यादित्युत्तरसूत्रेण सहैकवाक्यतया वाक्यार्थ इति वाच्यम् । तथा सति"संबोधने आमन्त्रितम्' इत्येकसूत्रमेव ब्रूयात् । योगविभागकरणात्तु प्रथमसुत्रेण संबोधनार्थे प्रथमाया विधानम्, द्वितीयेन तस्या आमन्त्रितसंज्ञाविधानमित्याश्रयणीयम् । तत्रोक्तरीत्या सिद्धौ सूत्रं व्यर्थं सत् न कर्माधिक्ये प्रथमा भवतीति ज्ञापयतीति वक्तव्यम् । तथा च मात्रपदस्य कर्मादिषु प्रथमार्थत्वव्यवच्छेदः न प्रयोजनमिति । अर्थनियमपक्षे तु सुतरामुक्तप्रयोजनं न संगच्छत इत्यन्यदेतत् । झ्र्ज्ञा.प.ट बढद्धठ्ठड़14;वच इञः प्राच्यभरतेषु (सू.2-4-66)।। अत्र भरतग्रहणं ज्ञापयति अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति । झ्र्वि.ट ननु "बढद्धठ्ठड़14;वच इञः' इति सूत्रे "प्राच्यभरतेषु' द्वन्द्वसमासः उत कर्मधारयः । यदा द्वन्द्वस्तदा प्राच्यगोत्रे भरतगोत्रे च वर्तमानो यो बढद्धठ्ठड़14;वचः पर इञ् तस्य लुक् स्यादिति सूत्रार्थः । यदा तु कर्मघारयस्तदा प्राच्यं यद्भरतगोत्रं तद्वाचकस्य इञः लुक् इति सूत्रार्थः । तत्र प्रथमपक्षे भरतग्रहणमनर्थकम् । तेषामपि प्राच्यत्वेनैव संग्रहात् । न ह्यन्यत्र भरताः सन्ति । द्वितीयपक्षे प्राच्यग्रहणमनर्थकम् । अप्राच्यानां भरतानामभावात् इत्याशङ्क्य, द्वन्द्वपक्षं स्वीकृत्य तत्र भरतग्रहणस्य अन्यत्र सूत्रे प्राग्ग्रहणेन भरतानां ग्रहणं न भवतीत्यर्थज्ञापकत्वमुक्तं भाष्यकृता । तदाह--अत्र भरतग्रहणमिति । ज्ञापनस्य प्रयोजनं तु "इञः प्राचाम्' (सू.2-4-60) इत्यत्र भरतग्रहणं न भवति । तेन औद्दालकायन इत्यत्र फको लुक् न भवति । उद्धालको नाम भरतकुलोत्पन्नः, तस्य गोत्रापत्यं औद्दालकिः अत इञ् । तस्य पुत्रः औद्दालकायनः । "यञिञोश्च' (सू.41-101) इति फक् । तस्य च गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक् स्यात् तच्चेत् गोत्रं प्राचां भवति इत्यर्थकेन "इञः प

    अत्र भाष्यानारूढान्यपि कैमुद्यां तत्र पठितानि वचनीनि संकलय्य व्याख्यायन्ते । झ्र्ज्ञा.प.ट एओङ्, एऔच् ।। ग्लावम्, ग्लावः । "औतोऽम्शसोः' (सू.6-1-93) इतीह न प्रवर्तते । ऐऔच् इति सूत्रेण ओदौतोः सार्वण्याबावज्ञापनात् । झ्र्वि.ट ननु ग्लोशब्दात् अमि ग्लौ अम् इति स्थिते "औतोऽम्शसोः' इति सूत्रेण औकार-अकारयोः आकार एकादेशः प्राप्नोति । न च ओकारादम्शसोरचि परे विधीयमानः आकारः औकारात्तयोः परतः कथं प्राप्नुयादिति वाच्यम् । ओदौतोः कण्ठोष्ठरूपस्थानसाम्यात् प्रयत्नसाम्याच्च सवर्णसंज्ञायाम् अणुदित्सूत्रेण ओकारेण औकारस्यापि ग्रहणादित्याशङ्क्याह--इतीह न प्रवर्तत इति । यदि एकार-ऐकारयोः ओकार-औकारयोश्च मिथः सार्वण्यं भवेत् तदा "ऐऔच्' इतिं पृथक्सूत्रं नारभ्येत । आरम्भबलात्तु एदैतोः ओदौतोश्च सार्वण्यं नास्ति । अतः ग्लौशब्दे औकारे "औतोऽम्शसोः' इति न प्रवर्तत इति भावः । झ्र्ज्ञा.प.ट तरप्तमपौ घः (सू.1-1-22) ।। आतिशायनिकप्रकरणे "तादी घः' "पितौ घः' इति वा वक्तव्ये प्रकारणान्तरे गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तेन "अल्पाच्तरम्' "लोपश्च बलवत्तरः' इत्यादि सिद्धम् । अल्पाजेव ह्यल्पाच्तरम्, न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । झ्र्वि.ट स्पष्टोऽर्थः । झ्र्ज्ञा.प.ट सर्वादीनि (सू. 1-1-27) तदन्तस्यापीयं संज्ञा। "द्वन्द्वे च' (सू.1-1-31) इति ज्ञापकात् । झ्र्वि.ट ननु "सर्वादीनि सर्वनामानि' इति सूत्रेणोच्यमाना सर्वनामसंज्ञा तद्गणपठितानां सर्व विश्व इत्यादीनामेव प्राप्नोति । तथा च परमसर्व इति समुदायस्य गणे पाठाभावात् सर्वनामसंज्ञायाः अप्राप्तौ सर्वनामसंज्ञानिमित्तकाः त्रतसिलादयः ततो न प्राप्नुयुः इत्यत आह-- तदन्तस्यापीति । "द्वन्द्वे च' इति सूत्रेण हि सर्वनामशब्दान्तसमुदायरूपस्य द्वन्द्वसमासस्य सर्वनामसंज्ञा निषिध्यते वर्णाश्रमेतराणाम् इत्यादौ। तत्र इतरशब्दस्य गणे पाठेऽपि तदन्तस्य गणे पाठाभावादेव सर्वनामसंज्ञाया अप्रसक्तेः प्रतिषेदो निरर्थकः स्यात् । प्रतिषेधमहिम्ना च सर्वाद्यन्तस्यापि सर्वनामसंज्ञा भवतीति ज्ञाप्यते । तेन परमसर्वत्र इत्यत्र त्रल्, परमसर्वतः इत्यत्र तसिल्, परमभवकान् इत्यत्र अकच्च सिध्यतीति भावः । यद्यपि परमसर्वक इत्यत्र अकच्सिद्धिरपि प्रयोजनतया वक्तुं शक्या, तथापि कप्रत्ययेनेष्टसिद्धिर्भवितुमर्हतीत्याशयेन परमभवकान् इत्यत्र अकच् प्रयोजनत्वेन उक्त इति मन्तव्यम् । झ्र्ज्ञा.प.ट समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । "यथासंख्यमनुदेशः समानाम् (सू.1-3-10) इति ज्ञापकात् । झ्र्वि.ट ननु सर्वादिगणे समशब्दः पठितः । तस्य च सर्व इत्यर्थ इव तुल्य इत्यप्यर्थोऽस्ति। तत्र तुल्यवाचकसमशब्दस्यापि सर्वनामसंज्ञा प्राप्नोति, गणे समशब्दस्यर्थविशेषानिर्देशात् इत्याशङ्क्याह--सम इति । यदि तुल्यार्थकसमशब्दस्यापि सर्वनामसंज्ञा स्यात् तदा "समेषाम्' इति तुल्यार्थे निर्देष्टव्यं स्यात् । "आमि सर्वनाम्नः सुट्' (सू.7-1-52) इति सुटः प्राप्तेः । तथा अनिर्देशात् तुल्यपर्यायसाय समशब्दस्य सर्वनामसंज्ञा नास्तीति ज्ञाप्यत इति भावः । झ्र्ज्ञा.प.ट विभाषा (सू.2-1-11)।। एतत्सार्मथ्यादेव प्राचीनानां नित्यसमासत्वम् । "सह सूपा' (सू.2-1-4) इति तु नित्यसमासः । "अव्ययम्' (सू.2-1-6) इत्यादिसमासविधानात् ज्ञापकात् । झ्र्वि.ट ननु "प्राक्कडड्डत्ध्;ारात्समासः' (सू.2-1-3) इत्यत ऊर्ध्वं "सह सुपा' (सू.2-1-4) इत्यतः प्रागेव "विभाषा' इत्यधिकारः कुतो न कृतः । समासविदायकसूत्राणि आदौ कानिचिद्विधाय पश्चद्बहूनि विधास्यन् मध्ये विभाषाधिकारं कुतः
करोति ? समासविधानारम्भ एव विबाषाधिकारोऽस्तु इत्याशङ्क्याह--एतत्सार्मथ्यादिति । मध्ये विभाषाधिकारसार्मथ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैवार्थस्य लिङ्गेन दृढिकरणमिति मन्तव्यम् । नन्वेवं सति "सहसुपा' इत्यपि नित्यसमासः स्यात् । ततश्च भूतपूर्व इत्यादौ पूर्वं भूत इति लौकिकविग्रहवाक्यप्रदर्शनमसंगतं स्यादित्यत आह--सह सुपेतीति । यदि "सह सुण' इति सूत्रेण सुबन्तस्य सुबन्तेन विधीयमानः समासो नित्यः स्यात् तर्हि "विभाषा' इत्यतः प्राक्तनैः "अव्ययं विभक्ति' इत्यादभििः सूत्रैर्विधीयमानानां नित्यत्वेनाभिमतानां समासानामपि तेनैव सूत्रेण सिद्धेः "अव्ययं विभक्ति' इत्यादिसमासविधानं व्यर्थं स्यात् । तस्तद्विधानं "सह सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति भावः । झ्र्ज्ञा.प.ट पूर्वसदृश (2-1-31)।। मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । "मिश्रं चानुपसर्गमसन्धौ' (सू.6-2-154) इत्यत्रानुपसर्गग्रहणात् । झ्र्वि.ट ननु गुडेड्डत्ध्;न संमिश्राः गुडड्डत्ध्;संमिश्रा इत्येवं संमिश्रशब्देन तृतीयान्तस्य तत्पुरुषसमासः साधुर्न स्यात् । "पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः' इति सूत्रेण मिश्रशब्देनैव तृतीयान्तस्य तत्पुरुषसमासविधानादित्याशङ्क्याह--मिश्रग्रहणे इति । "मिश्रं चानुपसर्गमसन्धौ' इति सूत्रेण तत्पुरुषे तृतीयान्तात्परस्य उपसर्गरहितस्य मिश्रशब्दस्यान्तोदात्तस्वरः उच्यते । तिलमिश्राः इत्यादिकमुदाहरणम् । तत्र अनुपसर्गग्रहणाभावे तिलसंमिश्रा इत्यादावपि अन्तोदात्तस्वरः स्यादिति तद्वारणाय अनुपसर्गग्रहणमिति वक्तव्यम् । सोपसर्गेण मिश्रशब्देन समासाभावे तत्पुरुषसमासे विधीयमानस्य स्वरस्याप्राप्तेः किमनुपसर्गग्रहणेन । कृतं च तत् मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति ज्ञापयति । तथा च तिलसंमिश्रा इत्यादौ स्वरवारणार्थमनुपकल्गग्रहणमिति स्वांशे चारितार्थ्यंम् । अन्यत्र प्रयोजनं तु "पूर्वसदृश' इत्यादिसूत्रे मिश्रशब्देन संमिश्रशब्दस्यापि ग्रहणात् गुडड्डत्ध्;संमिश्र इत्यादौ तृतीयातत्पुरुषस्य साधुत्वमिति । झ्र्ज्ञा.प.ट पूर्वापरा (सू.2-2-1) ।। सर्वाऽप्येकदेशोऽढद्धठ्ठड़14;ना समस्यते । "संख्याविसाय' (सू.6-3-110) इति ज्ञापकात् । झ्र्वि.ट ननु "पूर्वापराधरोत्तरमेकदेशिनैकाधिकारणे' इति सूत्रेण पूर्वादीनामवयविना सह विधीयमानः समासः मध्याढद्धठ्ठड़14;नः इत्यादौ न प्राप्नोति । अढद्धठ्ठड़14;नो मध्य इति विग्रहे अढद्धठ्ठड़14;नोऽवयवित्वेऽपि अवयविना सह "पूर्व अपर अधर उत्तर' इत्येतेषां चतुर्णामेव अवयववाचकानां समासविधानात् मध्यशब्दस्य समासाप्राप्तेरित्याशङ्क्याह--सर्वोऽपीति । सूत्रनिर्दिष्टपूर्वादिचतुष्टयभिन्नोऽप्यवयववाचकः शब्दः अहन्शब्देन समस्यते । तत्र ज्ञापकं "संख्याविसायपूर्वस्याढद्धठ्ठड़14;नस्याहन्नन्यतरस्यां ङौ' (सू.6-3-110) इति सूत्रेण सायपूर्वकस्य अढद्धठ्ठड़14;नशब्दस्य अहन्नादेशविधानम् । अढद्धठ्ठड़14;नः सायः अवसानं सायाढद्धठ्ठड़14;नः इत्यत्र एकदेशस्य सायशब्दस्य पूर्वादिचतुष्टयानन्तर्गतस्य अढद्धठ्ठड़14;ना समासाभावे अढद्धठ्ठड़14;नस्य सायपूर्वकत्वासंभवेन सायपूर्वकस्य तस्य अहन्नादेशविधानमसंगतं स्यात् । कृतं च तत् सर्वोऽप्येकदेशोऽढद्धठ्ठड़14;ना सह समस्यत इति ज्ञापयति । यद्यपि अह्नशब्दस्य सायपूर्वकत्वकथनेन अढद्धठ्ठड़14;नशब्देन सहैव समासो ज्ञापयितुं शक्यते न त्वहन्शब्देन इत्याशङ्का अवतरति, तथापि सायपूर्वकस्य अढद्धठ्ठड़14;नशब्दस्य अहन्नादेशे विहिते आदेशस्य अहन्शब्दस्यापि सायपूर्वकत्वमनुममेव । तच्च सायस्य अहन्शब्देन समासाभावे न संगच्छत इति तात्पर्यम् । न केवलं सर्वोऽप्येकदेशोऽढद्धठ्ठड़14;नैव समस्यते अपि तु
कालसामान्येन । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः पश्चिमरात्र इत्यदिप्रयोगाणां साधुत्वं सिध्यतीति पक्षान्तरमपि कौमुद्यामुपन्यस्तम् । यद्यपि तस्मिन् पक्षे दिनमध्यः रात्रिमध्य इत्यादि न सिध्येत् तथापि "ज्ञापकसिद्धं न सर्वत्र' इति परिभाषया समाधेयमित्याहुः तत्त्वबोधिनीकाराः । झ्र्ज्ञा.प.ट अर्धं नपुंसकम् (सू.2-2-2)।। अर्धमिति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणं "सूत्रेषु लिङ्गनिर्देशोन विवक्षितः' इति ज्ञापयितुम् । झ्र्वि.ट ननु "अर्धं नपुंसकम्' इति सूत्रे नपुंसकसहणाभावेऽपि अर्धमिति नपुंसकलिङ्गेन निर्देशादेव लिङ्गान्तरव्यावृत्तिसिद्धेः नपुंसकमिति पदं व्यर्थमित्यत्राह--अर्धमिति । तथा च पूर्वोक्तरीत्या व्यर्थं सत् नपुंसकग्रहणं सूत्रेषु लिङ्गनिर्देशो न विवक्षित इतिज्ञापयति । तेन "तस्येदम्' (सू.4-3-120) इत्यादिसूत्रेषु इदमित्यादिलिङ्गनिर्देशस्याविवक्षिततया तस्यायमित्याद्यर्थेष्वपि सूत्रप्रवृत्तिः सिध्यति । "सूत्रे लिङ्गवचनमतन्त्रम्' इति एतत्समानार्था परिभाषा । झ्र्ज्ञा.प.ट पूरणगुण (सू.2-2-11)।। अनित्योऽयं गुणेन निषेधः । "तदशिष्यं संज्ञाप्रमाणत्वात् ' (सू.1-2-53) इत्यादिनिर्देशात् । झ्र्वि.ट ननु "अर्थगौरवम् बुद्धिमान्द्यम्' इत्यादयः शब्दाः अर्थस्य गौरवमित्यादिषष्ठीसमासरूपाः शिष्टैः प्रयुज्यन्ते । तेषां साधुत्वं न स्यात् । गौरवमान्द्यादिशब्दानां गुणवाचकत्वेन तैः सह षष्ठ्यन्तस्य समासो न भवतीति "पूरणगनण' इत्यादिसूत्रेण प्रतिपादनादित्याशङ्क्याह--अनित्योऽयमिति । योऽयं गुणेन सह षष्ठ्याः समासनिषेधः स न सार्वत्रिकः । "संज्ञाप्रमाणत्वात्' इति गुणवाचिना प्रमाणत्वशब्देन षष्ठ्यन्तसंज्ञाशब्दस्य समासेन निर्देशात् । तेन क्वचित् गुणे षष्ठीसमासस्य साधुत्वं ज्ञाप्यत इति अर्थगौरवमित्यादेः साधुत्वसिद्धिरिति भावः । झ्र्ज्ञा.प.ट सप्तमीविशेषणे (सू. 2-2-35)।। अत एव ज्ञापकात् व्यधिकरणपदोऽपि बहुव्रीहिः । झ्र्वि.ट ननु "सच्छास्त्रजन्मा हि विवेकलाभः' इत्यादिः व्यधिकरणपदः बहुव्रीहिः प्रयोगे दृश्यते । सच्छास्त्रात् जन्म यस्येति विग्रहात् । तस्य साधुत्वं कथम् ? "अनेकमन्यपदार्थे' (सू.2-2-24) इति सूत्रे समानाधिकारणानां बहुव्रीहीरिति सिद्धान्तितत्वात् इत्यत आह--अत एव ज्ञापकादिति । सप्तम्यन्तस्य बहुव्रीहौ कण्ठेकालः इत्यादौ पूर्वनिपातविधानं ज्ञापयति विभिन्नविभक्तिकपदयोरपि बहुव्रीहिसमासो भवतीति । अतः पूर्वोक्तप्रयोगसाधुत्वमिति भावः । झ्र्ज्ञा.प.ट सप्तमीपञ्चम्यौ (सू.2-3-7)।। अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । "तदस्मिन्नधिकम्' (सू.5-2-45) इति "यस्मादधिकम्' (सू.2-3-9) इति च सूत्रनिर्देशात् । झ्र्वि.ट ननु "लोके लोकाद्वा अधिको हरिः' इत्यादौ अधिकशब्दयोगे पञ्चमीसप्तम्योः विधायकसूत्राभावात् कथं तथोः साधुत्वम् । अवधित्वसंबन्धे षष्ठ्या एवोचितत्वादित्याशङ्क्याह--अधिकशब्देनेति । तथा च सूत्रकारनिर्देशप्रामाण्यादेव तथोः साधुत्वमिति भावः । झ्र्ज्ञा.प.ट कर्मप्रवचनीययुक्ते (सू.2-3-8)।। परापि हेतौ तृतीया अनेन बाध्यते । "लक्षणेत्थंभूत' (सू.1-4-90) इत्यादिना सिद्धे पुनः संज्ञाविधानसार्मथ्यात् । झ्र्वि.ट ननु जपमनु प्रावर्षत् इत्यत्र अनोः "अनुर्लक्षणे' (सू.1-4-84) इति सूत्रेण कर्मप्रवचनीयसंज्ञायां "कर्मप्रवचनीययुक्ते द्वितीया' (सू.2-3-8) इति द्वितीया जपपदोत्तरमिष्यते । तत्र जपस्य लक्षणत्वमिव हेतुत्वमपि वर्तते । तथा च परया "हेतौ' (सू.2-3-23) इति तृतीयया द्वितीयायाः बाधः स्यादित्याशङ्क्याह--परापीति । अहेतौ लक्षणे द्योत्ये "लक्षणेत्थम्भूत' (सू.1-4-90) इति सूत्रेणैव कर्मप्रवचनीयसंज्ञायाः सिद्धेः "अनुर्लक्षणे' इति सूत्रेण हेतुभूते लक्षण एव कर्मप्रवचनीयसंज्ञा विधीयत इति वक्तव्यम् । तत्र च हेतौ तृतीययायां प्राप्तायां सत्यामेव
द्वितीयाफलककर्मप्रवचनीयसंज्ञाविधानात् येननाप्राप्तिन्यायेन द्वितीयया तृतीया बाध्यते । अतो न दोष इति भावः । झ्र्ज्ञा.प.ट नमः स्वस्ति (सू.2-3-16)।। प्रभवादियोगे षष्ठ्यपि साधुः । "तस्मै प्रभवति' (सू.5-1-101) "स एषां ग्रामणीः' (सू.5-2-78) इति निर्देशात् । झ्र्वि.ट ननु "नमः स्वस्तिस्वाहास्वधालंवषडड्डत्ध्;्योगाच्च' इति सूत्रे "अलमिति पर्याप्त्यर्थग्रहण' मिति वार्तिकोक्तेः पर्याप्त्यर्थकशब्दयोगे चतुर्थ्या एव साधुत्वलाभात् "प्रभर्बुभूषुर्भुवनत्रयस्य' इत्यादिषष्ठ्यन्तप्रयोगाणां साधुत्वं कथमित्याशङ्क्याह--प्रभवादियोग इति । "स एषां ग्रामणीः' इति निर्देशात् षष्ठ्याः साधुत्वे लब्धे तद्बलादेव अलंशब्दः पर्याप्तीतरार्थकः, तद्योगे च चतुर्थी, पर्थाप्तयर्थकशब्दयोगे न चतुर्थी अपि तु षष्ठ्येवेति प्रसक्तं भ्रमं वारयितुं षष्ठ्यपीत्यपिशब्दः । तथा च "तस्मै प्रभवति' इति चतुर्थीनिर्देशात् पर्याप्त्यर्थकशब्दयोगे चतुर्थ्याः साधुत्वम् इति भावः । झ्र्ज्ञा.प.ट अन्यारात् (सू.2-3-29)।। अवयववाचियोगे तु न। "तस्य परमाम्रेडिड्डत्ध्;तम्' (सू.8-1-2) इति निर्देशात् । झ्र्वि.ट ननु "अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते' इति सूत्रे दिक्छव्दपदेन दिशि दृष्टः शब्दः गृह्यते। तेन कदाचिद्धिग्वाचकत्वेन प्रसिद्धानां पूर्वादीनां सांप्रतं कालवाचिनामपि योगे पञ्चमी भवति । तेन "चैत्रात्पूर्वः फाल्गुनः' इत्यादि सिद्धमिति व्याख्यानं कृतम् । एवं चेत् अवयववाचियोगेऽपि पञ्चमी स्यात् । तथा च पूर्वं कायस्य इत्यत्र पूर्वशब्दस्य शरीरावयववाचकत्वेऽपि अन्यत्र दिग्वाचकत्वात् तद्योगे पञ्चमीप्रसक्या षष्ठ्याः साधुत्वं न स्यादित्याशङ्क्याह--अवयववाचीति । "तचस्य परमाम्रेडिड्डत्ध्;तम्' इति सूत्रे तस्येत्यनेन पूर्वप्रकृतं द्विरुक्तं परामृश्यते । परशब्देन परावयव उच्यते । यदि अवयववाचिना परशब्देन योगेऽपि पञ्चमी स्यात् तदा तस्येति षष्ठीनिर्देशोऽसंगतः स्यात् । तेन च दिशि दृष्टस्य शब्दस्य सांप्रतमवयवचाचित्वे तद्योगे पञ्चमी नेति ज्ञाप्यते । अतः पूर्वं कायस्येत्यादौ न पञ्म्यापत्तिरिति भावः । झ्र्ज्ञा.प.ट ठअपादाने पञ्चमी' (सू.2-3-28) इति सूत्रे "कार्तिक्याः प्रभृति' इति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । झ्र्वि.ट नन्वेवमपि "भवात्प्रभृति आरभ्य वा सेव्यो हरिः' इत्यादौ कथं पञ्चमी, अन्यादिशब्दयोगाभावादित्यत आह--भाष्यप्रयोगादिति । तथा हि "अपादाने पञ्चमी' इति सूत्रे भाष्ये "यतश्चाध्वकालनिमानम्' इति वार्तिकं पठित्वा "कार्तिक्याः आग्रहायणी मासे' इत्युदाहृत्य"इदं न वक्तव्यम्' इति तद्वार्तिकप्रत्याख्यानमुपक्षिप्य "इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते कार्तिक्याः प्रभृत्याग्रहयणी मासे इति' इत्युक्तम् । प्रभृतिशब्दाभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं वदता भाष्यकृता प्रभृत्यर्थकशब्दयोगे पञ्चमीति वचनंज्ञाप्यते । अन्यथा प्रभृतिपदाभावे पञ्चम्यर्थं वार्तिकस्यावश्यकत्वात्तदसंगतिः स्पष्टैव। एवं च प्रभृतिपदपर्यायशब्दयोगेऽपि पञ्चमी । अत एव "कार्तिक्याः प्रभृति' इति भाष्यव्याख्यानावसरे "तत आरभ्येत्यर्थः' इति कैट आह। तत्र हि तत इति पञ्चम्यास्तसिः इति बालमनोरमाकाराः प्राहुः । झ्र्ज्ञा.प.ट अपपरिबहिः (सू.2-1-12) इति समासविधानात् ज्ञापकात् बहिर्योगे पञ्चमी । झ्र्वि.ट एवं बहिर्योगे पञ्चमीविधायकसूत्रस्याभावेऽपि ज्ञापकात् पञ्चमी साध्यते । "अपपरिबहिरञ्चवः पञ्चम्या' इति सूत्रेण पञ्चम्यन्तेन बहिः शब्दस्य समासविधानं बहिर्योगे पञ्चमीं विना अनुपपद्यमानं पञ्चमीं तद्योगे ज्ञापयति । तेन ग्रामाद्बहिः इत्यादिप्रयोगाणां साधुत्वं सिध्यतीति भावः । झ्र्ज्ञा.प.ट अधीगर्थ (सू.2-2-52)।। अधिशब्दोच्चारणम् "इङिकावध्युपसर्गं न व्यभिचरतः' इति ज्ञापनार्थम् । झ्र्वि.ट ननु "अधीगर्थ' इति सूत्रे अधिशब्देच्चारणं मास्तु । इगर्थ इत्यनेनैव
स्मरणार्थकधातुलाभादित्यत्राह--अधीति । तथा च "इक् स्मरणे' इति धातुः अधि इत्युपसर्गेण सहैव प्रयोक्तव्य इति ज्ञापनार्थं तदुच्चारणमिति भावः । यद्यपि अत्रत्यमधिशब्दोच्चारणम् इग्धातोरेव अध्युपसर्गाव्यभिचारे ज्ञापकं भवेत् नेङ्धातोः । तथापि यथा "इङ् अध्ययने' इति धातुः अध्युपसर्गं न व्यभिचरति तथा "इक् स्मरणे' इति धातुरपीति दृष्टान्तप्रदर्शनार्थम् इङ्धातोरपि वचनशरीरे प्रवेशः । इङः अध्युपसर्गाव्यभिचारे ज्ञापकं तु "णेरध्ययने वृत्तम्' (सू.7-2-26) इत्यत्र अधिशब्दोच्चारणमिति ध्येयम् । झ्र्ज्ञा.प.ट नन्दिग्रहि (सू.3-1-134)।। पचादिशकृतिगणः । "शिवशमरिश्टस्य करे' (सू.4-4-143) "कर्मणिघटोऽठचत्' (सू.5-2-35) इति सूत्रेयोः करोतेर्घटेश्चाच्प्रयोगात् । अच्प्रत्यये परे यङ्लुग्विधानाच्च। झ्र्वि.ट ननु "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति सूत्रे नन्द्यादिः ग्रह्यादिः पचादिश्वेति गणत्रयं निर्दिष्टम् । तत्र नन्द्यादिग्रह्यादी न आकृतिगणौ । ताभ्यां सह पचादेर्निर्देशात् पचादिरप्याकृतिगणो न स्यादित्याशङ्क्य तस्याकृतिगणत्वं ज्ञापकेन साधयति--पचादिराकृतिगण इति । "शिवशमरिष्टस्य करे' इति सूत्रे करशब्दस्य पचादिगणे अपठितात् कृदातोरच्प्रत्ययेन निष्पन्नस्य, तथा "घटोऽठच्' इति सूत्रे घटशब्दस्य तत्रापठितात् घटधातोः अच्प्रत्ययेन निष्पन्नस्य च प्रयोगात् पचादेराकृतिगणत्वं ज्ञायते । एवं "यङोऽचि च' (सू.2-4-74) इति सूत्रेण यङन्तादच्प्रत्यये परे यङो लुग्विधीयते । पचादिगणे यङन्तस्य पाठाभावात् ततोऽच्प्रत्ययस्य दुर्लभतया अच्प्रत्यये परे यङो लुग्विधानमसंगतं सत् पचादेशकृतिगणत्वं ज्ञापयतीति भावः । झ्र्ज्ञा.प.ट मतिबुद्धि (सू.2-2-188)।। अथं न भूते क्तस्य बाधकः । "तेन'(सू.4-3-112) इत्यधिकारे "उपज्ञाते' (सू.4-3-115) इति लिङ्गात् । झ्र्वि.ट ननु "मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रेण विशिष्य इच्छाद्यर्थकेभ्यो धातुभ्यो वर्तमानार्थे क्तप्रत्ययविधानं तदर्थकेभ्यो धातुभ्यः भूतार्थे सामान्येन विङितस्य "निष्ठा' इति क्तप्रत्ययस्यापवादः स्यात् । ततश्च "पूजितो यः सुरासुरैः' इत्यादिप्रयोगाणामसाधुति प्रसज्यते । न च तत्रापि वर्तमानार्थक एव क्तः इति वाच्यम् । तथा सति तद्योगे "क्तस्य च वर्तमाने' (सू.2-2-67) इति षष्ठ्यापत्त्या तृतीयाया असाधुताप्रसङ्गादित्यात्राह--अयं नेति । तेन उपज्ञातमित्यर्थे "उपज्ञाते' इति सूत्रेण छप्रत्ययो विधीयते पाणिनिना उपज्ञातं पाणिनीयम् इत्युदाहरणम् । तत्र तृतीयासमभिव्याहारमहिम्ना उपज्ञातशब्दस्य भूतार्थकक्तान्तत्वं निश्चितम् । यदि च "मतिबुद्धि' इति सूत्रविहितः वर्तमानार्थकक्तप्रत्ययः भूतार्थकक्तप्रत्ययस्य बाधकः स्यात् तर्हि "तेन उपज्ञातम्' इति निर्देशः असंगतः स्यात् । "उपज्ञा' इत्यस्यापि बुद्ध्यर्थकत्वात् । तथा च बुद्ध्यर्थकधातोः भूते क्तप्रत्ययस्य पाणिनिना निर्देशात् "मतिबुद्धि' इति सूत्रविहितः क्तप्रत्ययः भूते क्तस्य नापवादः इति सिध्यतीति भावः । झ्र्ज्ञा.प.ट यजयाच (सू.3-3-90)।। "प्रश्ने चासन्न' (सू.3-2-117) इति ज्ञापकान्न संप्रसारणम् । झ्र्वि.ट ननु प्रच्छधातोः "यजयाचयतविच्छप्रच्छरक्षो नङ्' इति सूत्रेण नङ्प्रत्यये च्छस्य "च्छ्वोः शूडड्डत्ध्;नुनासिके च' (सू.6-4-19) इति सूत्रेण शकारे प्रश्नः इति रूपमिष्यते । तत्र प्रत्ययस्य ङित्त्वात् तस्मिन् परे धातोः रेफस्य "ग्रहिज्यावयि' (सू.6-1-16) इत्यादिसूत्रेण संप्रसारणं प्राप्नोतीत्याशङ्क्याह--प्रश्ने चासन्न इति । तथा संप्रसारणमन्तरेण सूत्रकृता निर्देशः अस्मिन् धातौ संप्रसारणाभावं ज्ञापयतीति भावः । झ्र्ज्ञा.प.ट स्थागापापचो (सू.3-3-95)।। अवस्था संस्थेति "व्यवस्थायाम्' (सू.1-1-34) इति ज्ञापकात् । झ्र्वि.ट ननु "स्त्रियां क्तिन्' (सू.3-3-94) "स्थागापापचो भावे' इति सूत्रेण स्थाधातोः भावे क्तिन्प्रत्ययो विधीयते । अथं च "आतश्चोपसर्गे'
(सू.3-3-106) इत्यनेन विधीयमानस्य अङोऽपवादः । प्रस्थितिः उपस्थितिः इत्यादीनि रूपाणि । एवं चेत् "अवस्था' "संस्था' इत्यादयः अङन्ताः प्रयोगाः कथं साधवः स्युः ? इत्याशङ्क्याह--अवस्था संस्थेति । एवंच "व्यवस्थायाम्' इति सौत्रनिर्देशबलात् स्थाधातोः परं भावे स्त्रियाम् अङपि भवतीति ज्ञायत इति भावः । झ्र्ज्ञा.प.ट खनो घ च (सू.3-2-125)।। घित्करणम् अन्यतोऽप्ययमिति ज्ञापनार्थम् ज्ञापनार्थम् । तेन भजेः भगः पदम्, करणे घः । झ्र्वि.ट ननु "खनो घ च' इति सूत्रेण घप्रत्ययो विधीयते । आखनः इत्युदाहरणम् । तत्र प्रत्यये घकारः इत्संज्ञकः । तस्य च प्रकृते प्रयोजनं नास्ति । धातौ चजोरभावेन "चजोः कु घिण्ण्यतोः' (सू.7-3-42) इति कुत्वस्याप्रसक्तेरित्याशङ्क्य, अत एव धित्करणात् ज्ञापकात् कुत्वयोग्यात् अन्यस्मादपि धातोः घप्रत्ययो भवति । तेन भजधातोः घप्रत्येये जकारस्य कुत्वे च भगः इति शब्दः सिध्यतीत्याह--घित्करणमिति । झ्र्ज्ञा.प.ट अनुपसर्जनात् (सू.4-1-14)।। अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति । झ्र्वि.ट ननु बहवः कुरुचराः यस्यां सा बहुकुरुचरा इत्यादौ उपसर्जनेभ्यः कुरुचरादिशब्देभ्यः "टिड्ड्डत्ध्;ढाणञ्'(सू.4-1-15) इत्यादिसूत्रेण विधीयमानानां ङीबादिप्रत्ययानां वारणार्थं "अनुपसर्जनात्' इत्यधिकारः इष्यते । स च व्यर्थः, बहुकुरुचरशब्दस्य टिदन्तत्वाभावादेव ततः ङीपोऽप्रसक्तेः । न च टिदन्तस्य प्रातिपदिकविशेषणत्वात् तदन्तविधौ टिदन्तान्तादपि ङीपः प्राप्तिरस्तीति वाच्यम् । समासप्रत्ययविधौ नदन्तविधेः प्रतिषेधादित्याशङ्क्याह--अयमेवेति । उक्तरीत्या व्यर्थः सन्ननुपसर्जनाधिकारः स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ।अतः बहुकुरुचरा इत्यादौ ङीबादिवारणार्थमनुपसर्जनाधिकार इति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु "वनो र च' (सू.4-1-7) इत्यादौ वन्नन्तान्तलाभः । झ्र्ज्ञा.प.ट स्त्रीपुंसाभ्याम् (सू.4-1-87)।। वत्यर्थे न । "स्त्री पुंवच्च' इति ज्ञापकात् । स्त्रीवत् । पुंवत् । झ्र्वि.ट ठस्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' इति सूत्रेण "धान्यानां भवने' (सू.5-2-1) इत्यतः प्राक्तनेषु अर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः इत्युच्यते । तौ च वत्यर्थे नेष्येते । वत्यर्थस्तु भवनात् प्राक्तनोऽर्थेः (सू.5-1-115) । तथा च वत्यर्थेऽपि नञ्स्तञौ प्रसज्येयाताम् इत्याशङ्क्याह--वत्यर्थे नेति । यदि वत्यर्थेऽपि स्त्रीपुंसाभ्यां नञ्स्नञौ भवेताम् तर्हि पुंवत् इति निर्दैशो न युक्तः । विशेषविहितेन स्नञा वतेर्बाधात् । यद्यपि पुंवत् इति निर्देशः पुंशब्दविषय एव ज्ञापकः स्यात् तथापि ज्ञापकस्यात्र सूत्रापेक्षत्वात् स्त्रीपुंसाभ्यां नञ्स्नञौ वत्यर्थे न प्रवर्तेते इत्याश्रीयत इति भावः । झ्र्ज्ञा.प.ट लुबविशेष (सू.4-2-4)।। "विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' (सू.4-2-23) इति निर्देशेन पौर्णमास्यामयं लुब्नेति ज्ञाप्यते । तेन पुष्ययुक्ता पौर्णमासी पौषीति सिध्यति । झ्र्वि.ट ननु "नक्षत्रेण युक्तः कालः' (सू.4-2-3) इति सूत्रेण विहितस्याणः "लुबविशेषे' इति सूत्रेण षष्टिदण्डड्डत्ध्;ात्मककालस्य अवान्तरविशेषो न गम्यते चेत् लुप् भवतीत्युच्यते । अद्य पुष्यः इत्युदाहरणम् । अत्र हि न ह्यः न श्वः इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालावान्तरविशेषस्यानवगमात् लुप् भवति । एवं च पुष्ययुक्ता पौर्णमासी पौषीत्यत्रापि अहोरात्रात्मककालावान्तरविशेषानवगमात् अणः लुप् स्यात् इत्यत आह--पौर्णमास्यामथं लुब्नेति । फल्गुन्या युक्ता पौर्णमासीत्यर्थे फाल्गुनी इति लुपं विना निर्देशात् अथं लुप् पौर्णमास्यां नक्षत्रयुक्तायां न प्रवर्तत इति भावः । यद्यपि तत्रैव श्रवणा इति लुपा निर्देशात्कथमेवं ज्ञापयितुं शक्यत इति शङ्का अवतरति तथापि तथा निर्देशात् तत्र परं लुबभावः ज्ञाप्यत इति भावः । झ्र्ज्ञा.प.ट न व्यो लिटि (सू.6-1-46) । परमपि हलादिशेषं बाधित्वा यस्य
संप्रसारणम्, उभयेषां ग्रहणसार्मथ्यात् । झ्र्वि.ट ननु "व्येञ् संवरणे' इति धातोर्लिटि णलि व्ये अ इति स्थिते "अचो ञ्णिति' (सू.7-2-115) इति वृद्धौ व्यैअ इत्यत्र धातोर्द्वित्वे व्यै व्यै अ इति जाते अभ्यासयकारस्य "लिट्यभ्यासस्योभ्येषाम्' (सू.6-1-17) इति सूत्रेण संप्रसारणे पूर्वरूपे विव्यै अ इति स्थिते आयादेशे विव्याय इति रूपमिष्यते । तन्न सिध्यति । संप्रसारणात् प्राक् परत्वात् हलदिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्याशङ्क्याह-- परमपीति । "लिट्यभ्यासस्ये' ति सूत्रे "वचिस्वपियजादीनाम्' (सू.6-1-15) इत्यस्य"ग्रहिज्यावयव्यधिवष्टिविचतिवृश्वतिपृच्छतिभृज्जतीनाम्' (सू.6-1-16) इत्यस्य च अनुवृत्तयैव उभयेषामित्यस्य लोभे सति पूनरुभयेषाग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां ग्रह्यादीनां चाब्यासस्य संप्रसारणं स्याल्लिटीति द्विर्विधानं लभ्यते । तत्र द्वितीयं विधानं नियमार्थम्--उभयेषामभ्यासस्य संप्रसारणमेव स्यान्नेतरदिति । तथा च हलादिशेषं बाधित्वा अब्यासयकारस्य संप्रसारणे विव्यायेति रूपं सिध्यतीति भावः । झ्र्ज्ञा.प.ट दीर्घात् (सू.6-1-75)।। दीर्घस्यायं तुक् न तु छस्य। "सेनासुराच्छाया' (सू.2-4-25) इति ज्ञापकात् । झ्र्वि.ट ननु "दीर्घात्' इति सूत्रे "छे च' (सू.6-1-73) इति सूत्रात् छे इत्यनुवर्तते । पञ्चमीषष्ठ्योरुभयोर्निर्देशस्थले पञ्चमीनिर्देशस्य बलीयस्त्वेन दीर्घात् इत्येषा पञ्चमी छे इति सप्तम्याः षष्ठीं प्रकल्पयेत् । तथा च दीर्घात् परस्य छस्य तुक् इति सूत्रार्थः स्यात् । एवं च चेच्छिद्यते इत्यादौ छकारादन्तरं तुक् स्यात् न तु दीर्घादनन्तरमित्याशङ्क्याह--दीर्घस्यायं तुगिति । यद्यपि उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्, तथापि अत्र सूत्रे सप्तमीनिर्देशस्य बलवत्त्वमाश्रित्य पञ्चम्याः षष्ठीं स निर्देशः कल्पयतीत्याश्रीयते । तत्र ज्ञापकं तु "सेनासुराच्छाया' इति पाणिनिनिर्देशः । यदि हि छस्य तुक् स्यात् तर्हि छकारोपरि चकारो निर्दिश्येत । दीर्घादुपरि चकारनिर्देशमहिम्ना तु दीर्घस्यायं तुगिति ज्ञापयतीति भावः । "सेनासुराच्छाया' इति निर्देशात् दीर्घादिति पञ्चम्यन्तस्य षष्ठ्यन्तत्वज्ञापनद्वारा दीर्घस्यायं तुगिति ज्ञाप्यत् इति परमार्थः । झ्र्ज्ञा.प.ट इको यणचि (सू.6-1-77)।। स्थानित्वेन निमित्तत्वमिको न बाध्यते । "तस्मादित्युत्तरस्य' (सू.1-1-67) "वाट्वृतुपित्रुषसः' (सू.4-2-31) इत्यादिनिर्देशात् ज्ञापकात् । झ्र्वि.ट ननु धात्रंश इत्यत्र रेफस्य "यणो मयो द्वे वाच्ये' इति वार्तिकेन मय इति पञ्चमी यण इति षष्ठीति पक्षे प्राप्तं द्वित्वं "अचो रहाभ्याम्' (सू.8-4-46) इति साक्षाच्छ्रुतेन निमित्तत्वेन कार्यित्वस्य बाधात् यथा वार्यते तथा सुद्ध्युपास्यः इत्यत्रापि उकारस्य "इको यणचि' इति सूत्रे श्रूयमाणेन स्थानित्वेन निमित्तत्वस्य बाधात् तस्मिन् परत ईकारस्य यणादेशो न स्यादित्यत आह--स्थानित्वेनेति । "इत्युत्तरस्य' इत्यत्र उकारे परतः इकारस्य यणादेशनिर्देशात् "पित्रुषसः' इत्यत्र उकारे परे ऋकारस्य यणादेशनिर्देशाच्च ज्ञापकात् स्थानित्वेन निमित्तत्वमिको न बाध्यत इति ज्ञाप्यत इति भावः । झ्र्ज्ञा.प.ट संपरिभ्यां करोतौ (सू.6-1-137)।। संपूर्वस्य क्वचिदभूषणेऽपि सुट् । "संस्कृतं भक्षाः' (सू.4-2-16) इति ज्ञापकात् । झ्र्वि.ट संपूर्वस्य परिपूर्वस्य च करोतेः भूषणे संघाते चार्थे सूट्प्रत्ययो विधीयते "संपरिभ्यां करोतौ भूषणे' "समवाये च' इति सूत्राभ्याम् । न केवलमुक्तार्थयोरेव सुट्, अर्थान्तरेऽपि अष्टसु कपालेषु संस्कृतः पुरोडड्डत्ध्;ाश इत्यादौ सुटः दर्शनात् । तत्समर्थनार्थमाह--संपूर्वस्येति । "संस्कृतं भक्षाः ' इति सूत्रे संस्कृतशब्दस्य भोजनाद्युपयोगफलकक्रियाविषयीकृता इत्यर्थः । भ्राष्ट्रे संस्कृताः भ्राष्ट्रा यवा इत्युदाहरणात् । तथा
चाभूषणेऽपि सुटो निर्देशात् तत्साधुत्वं ज्ञायत इति भावः । झ्र्ज्ञा.प.ट वीरवीर्यौ (सू.6-2-120)।। वीर्यशब्दौ यत्प्रत्ययान्तः, तत्र "यतोऽनावः' (सू.6-1-213) इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् । झ्र्वि.ट ननु सुशब्दात्परयोर्वीरवीर्ययोः बहुव्रीहिसमासे सुवीरः सुवीर्यः इत्यत्र "वीरवीर्यौ' इति सूत्रेण आद्युदात्तत्वमुपदिश्यते । तत्र वीर्यशब्दस्य आद्युदात्तविधानं व्यर्थम् । तस्य "यतोऽनावः' इति सूत्रेण आद्युदात्ततया "आद्युदात्तं ध्द्यच् छन्दसि' (सू.6-2-119) इति सूत्रेणैव यदाद्युदात्तं ध्द्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तमित्यर्थकेन आद्युदात्तत्वसिद्धेरित्याशङ्क्य अत एव वीर्यशब्दे "यतोऽनावः' इत्याद्युदात्तत्वं न प्रवर्तत इति ज्ञाप्यत इत्याह--तत्रेत्यादिना । तत्र हि सतीति । "यतोऽनावः' इत्याद्युदात्तत्वे सतीत्यर्थः । पूर्वेणैवेति । "आद्युदात्तं ध्द्यच् छन्दसि' इति सूत्रेणैवेत्यर्थः । झ्र्ज्ञा.प.ट कृत्योकेष्णुच्चार्वादयश्च (सू.6-2-160)।। इष्णुजग्रहणे खिष्णुचो व्द्यनुबन्धकस्यापि ग्रहणम् इकारादेर्विधानसार्मथ्यात् । अनाढ्यंभविष्णुः । झ्र्वि.ट ननु अनाढ्यः आढ्यः भवति आढ्यंभविष्णुः इत्यत्र चूव्यर्थे सर्तर्युपपदे भूधातोः "कर्तरि भुवः खिष्णुच्खुकञौ' (सू.3-2-57) इति सूत्रेण खिष्णुच्प्रत्ययो भवति । तत्र न आढयंभविष्णुः अनाढ्यंभविष्णुः इति नञ्समासे "कृत्योकेष्णुच्चार्वादयश्च' इति सूत्रेमअन्तोदात्तस्वर इष्यते, स न स्यात् । एकानुबन्धकस्य इष्णुच एव तत्र ग्रहणेन व्द्यनुबन्धकस्य खिष्णुचोऽग्रहणादित्याशङ्क्य, भवतेः खष्णुच्प्रत्ययं विधाय इडड्डत्ध्;ागमेनैव इकारादित्वस्य साधयितुं शक्यत्वात् इकारादेः शिष्णुचो विधानं इष्णुच् इत्यनेन खिष्णुचोऽपि ग्रहणार्थमिति ज्ञापयति । अतो न दोष इत्याह--इष्ण्ज्ग्रहण इति । झ्र्ज्ञा.प.ट अप्तृन्तृच् (सू.6-4-11)।। तृ इत्येव सिद्धे तृन्तृचोर्भेदेनोपादानं क्वचित्सामान्योक्तावपि विशेष एव गृह्यत इति ज्ञापनार्थम् । झ्र्वि.ट ननु "अप्तृन्तृच्' इति सूत्रे "तृन्तृय्' इत्यनयोः स्थाने तृ इत्येव पठ्यताम् । तृ इत्यनेन सामान्येन तृन्तृचोर्ग्रहणं भविष्यति । यथा "तुरिष्ठेमेयस्सु' (सू.6-4-154) इत्यत्र तृ इत्यनेन तृन्तृचोः सामान्यग्रहणं तद्वत् इत्यत्राह--तृ इत्येवेति । तथा च क्वचित् सामान्यनिर्देशेऽपि विशेष एव गृह्यत इति ज्ञापनार्थं तृन्तृचोर्भेदेनोपादानम् । एवं ज्ञापनस्य प्रयोजनं तु "न कोपधायाः' (सू.6-3-37) इति सूत्रे क इति सामान्यतो निर्देशेऽपि तद्धितस्यैव कस्य ग्रहणं न तु कृतः । तेन पाका भार्या यस्य स पाकभार्य इत्यत्र पुंवद्भावप्रतिषेधो न भवति । पाकशब्दो हि कप्रत्ययान्तः उणादिषु निपातितः । तेन "कोपधप्रतिषेधे तद्धितवुग्रहणम्' इत्येतदुपपन्नं भवति इति । अन्ये त्वाहु:--"अप्तृ-' इत्येव वक्तव्ये तृन्तृजिति भेदेनोपादानम् "अर्वणस्तृ' व्यावृत्तये । यद्यप्यर्थवत्परिभाषया तन्निवृत्तिः सिध्यति, तथापि तस्याः परिभाषाया अनित्यत्वज्ञापनाय तथोः पृथगुपादानम् । तेन "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति' इति सिद्धमित्याहुः इति मतान्तरमपि तत्त्वबोधिन्यां प्रतिपादितम् । झ्र्ज्ञा.प.ट श्नाभ्यस्तयोरातः (सू.6-4-112)।। "आत औ णलः' इत्यत्र ओ इत्येव सिद्धे ओ इत्येव सिद्धे औकारविधानं दरिद्रातेशलोपे कृते श्रवणार्थम् । अत एव ज्ञापकादाम् नेत्येके ।। झ्र्वि.ट दरीद्राधातोर्लिटि "कास्यनेकाचश्वुलुम्पाद्यर्थम्' वार्तिकेन आमि दरिद्रांचकारेति रूपमुक्तं "कास्प्रत्ययात्' (सू.3-1-35) इति सूत्रे भाष्ये । कैयटस्तु आमम् अननुमन्यमानः ददरिद्रौ इत्यादिरूपमेव मन्यते । तथा हि--"आत औ णलः' (सू.7-1-34) इत्यत्र प्रथमातक्रिमे कारणाभावात् ओकार एव विधातुमुचितः । ययावित्यादिरूपस्य आ-ओकारयोः "वृद्धिरेचि' (सू.6-1-88) इति वृद्ध्यैव साधयितुं शक्यत्वात् । तस्मादौकारविधानं दरिद्राधातोर्णलि
"दरिद्रातोरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्रौ इत्यौकारश्रवणार्थं संपद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेरसंभवात् ददरिद्रो इत्योकार एव श्रूयेतेति । तन्मतमाह--आत औ णल इत्यत्रेति । अत एवेति । अस्मादेव दरिद्रातेः औकारश्रवणार्थात् औकारविधानात् दरिद्रातेर्लिटि आम् नेति विज्ञायते । आमि सति णल एवाप्रसक्तेः इति भावः । झ्र्ज्ञा.प.ट अष्टाभ्य औश् (सू.7-1-21)।। कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । झ्र्वि.ट ठअष्टाभ्य औश्' इति सूत्रे अष्टा इत्येतत् कृतात्वस्याष्टन्शब्दस्यानुकरणम् । ततश्च कृताकारादष्टन्शब्दात्परयोर्जश्शसोरौश् भवतीति सूत्रार्थः संपद्यते । तत्र "अष्टन आ विभक्तौ' इति सूत्रे हलीत्यपकृष्य हलादौ विभक्तौ परत एव आत्वस्य विधानात् जश्शसोः परतः अष्टनः आत्वं न भवतीति कथं कृताकारादष्टन्शब्दात्परत्वं जश्शसोरपि आत्वं अनुमीयत इत्याह--कृतात्वेति । न च नेदं कृतात्वस्य अनुकरणम्, अपि तु लक्षणवशसंपन्नमिदमिति वाच्यम् । तथा सति अष्टन आत्वस्य वैकल्पिकतया लाघवार्थम् "अष्टभ्य औश्' इत्येव ब्रूयात् इति भावः । झ्र्ज्ञा.प.ट त्रेस्त्रयः (सू.7-1-53)।। "णिजां त्रयणाम्' (सू.7-4-75) इति निर्देशादेव त्रयादेशे सिद्धे "अबाधकान्यपि निपातनानि भवन्ति' इति ज्ञापनार्थमिदं सूत्रम् । तेन पुरातनमिति सिध्यति । झ्र्वि.ट ननु "त्रेस्त्रयः' इति सूत्रे त्रय इत्येतददन्तं वा सान्तं वेति संदेहे "णिजां त्रयाणाम्' इति निर्देशेन अदन्तमिति निर्णयः कार्यः । तथा चेत् तन्निर्देशमहिम्नैव नुट्दीर्घादिबाधनेन त्रयादेशस्यापि सिद्धेः "त्रेस्त्रयः' इति सूत्रं व्यर्थमित्याशङ्क्य वचनविशेषज्ञापनार्थतया सार्थक्यमाह--इति निर्देशादेवेति । तथा च त्रयादेशनिपातनस्याबाधकत्वात् पक्षे त्रीणामित्यपि रूपप्राप्तौ तद्वारणार्थं त्रेस्त्रयः इति सूत्रम् । ज्ञापनफलं तु पुरातनशब्दसिद्धिः । अन्यथा पुराशब्दात् "सायंचिरंप्राढद्धठ्ठड़14;णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च' (सू. 4-3-23) इति सूत्रेण प्राप्तौ ट्युट्युलौ तुटं च "पुराणप्रोक्तेषु' (सू.4-3-105) इति निपातनं बाधेत इति भावः । झ्र्ज्ञा.प.ट द्वारादीनां च (सू.7-3-4) ।। शौवस्तिकम् । वुञ्छणादिषु ठचश्चित्त्वेन इकादेशोन्तरङ्गेभ्यो बलवानिति ज्ञाप्यते । झ्र्वि.ट ननु श्वस्शब्दात् "श्वसस्तुट् च' (सू.4-3-15) इति सूत्रेण ठञ्प्रत्येये प्रत्ययसंनियोगशिष्टत्वेनान्तरङ्गत्वात् इकादेशात् पूर्वं तुडड्डत्ध्;ागमे ठस्य प्रत्ययादित्वाभावेन कर्मठ इत्यत्र अठचष्ठकारस्येव इकादेशो न स्यात् । "ठस्तेकः' (सू.7-3-50) इति सूत्रे अङ्गत्परस्य ठकारस्यैवेकादेशविधानात् इत्याशङ्क्याह--वुञ्छणादिष्विति । "वुञ्छण्' (सू.4-2-80) इत्यादिसूत्रे ठचश्चित्करणं हि अन्तोदात्तत्वार्थम् । तत्र चित्करणाभावेऽपि इकादेशात्पूर्वमेवान्तरङ्गत्वात् "आद्युदात्तश्च' (सू.3-2-3) इति ठस्य अकारस्योदात्तत्वे पश्चादिकादेशे अन्तोदात्तत्वसिद्धेः किं चित्करणेन ? तत् क्रियमाणम् "इकादेशोऽन्तरङ्गेभ्यो बलवा' निति ज्ञापयति । तथा च प्रथमतः इकादेशान्तरं "आद्युदात्तश्च' इति स्वरप्रवृत्तौ इकार एवोदात्तः स्यात् न त्वन्त उदात्त इति चित्करणं इति स्वांशे चारितार्थ्यत् । प्रयोजनं तु शौवस्तिकम् इत्यादौ अन्तरङ्गत्तुडड्डत्ध्;ागमात्पूर्वमेव इकादेशस्य प्रवृत्त्या इष्टरूपसिद्धिरिति । अत्र ठचश्चित्त्वेनेत्युपलक्षणम्, ठचश्चित्त्वं सामान्यापेक्षं ज्ञापकम् "प्रत्ययसंबन्ध्यादेशा अन्तरङ्गेभ्यो बलवन्तः' इति इत्यादिकं शब्दरत्ने स्पष्ठम् । झ्र्ज्ञा.प.ट यजयाच (सू.7-3-66)।। अर्च्यम्। ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् । झ्र्वि.ट ननु"ऋच्' धातोः "ऋहलोर्ण्यत्' (सू.3-1-124) इति सूत्रेण ण्यत्प्रत्यये "चजोः कु' (सू.7-3-52) इति सूत्रप्राप्तस्य कुत्वस्य "यजयाचरुचप्रवचर्चश्च'
इति सूत्रेण निषेधे उपधानुणे च अर्च्यम् इति रूपमिष्यते । तन्न सिध्यति । "ऋदुपधाच्चाक्लृपिचितेः ' (सू.3-1-110) इति सूत्रेण ण्यदपवादस्य ऋदुपधत्वलक्षणस्य क्यप एव प्राप्तेरित्याशङ्कयाह--ऋदुपधत्वेऽपीति । ण्ये परतः उच्यमानः ऋचः कुत्वनिषेधः ण्यत्प्रत्ययाभावे न संगच्छत इति ऋचः ण्यदेव भवति न तु क्यबिति कुत्वनिषेधेन ज्ञाप्यत इति भावः । झ्र्ज्ञा.प.ट अत्रानुनासिकः (सू.8-3-2)।। वाग्रहणं स्पष्टार्थम् । "अनुनासिकात्परः' (सू.8-3-4) इति ज्ञापकादेव सिद्धेः । झ्र्वि.ट ननु "अत्रानुनासिकः पूर्वस्य तु वा' इति सूत्रे वाग्रहणं मास्तु । तदभावेऽपि "अनुनासिकात्परोऽनुस्वारः' इति सूत्रे अनुनासिकात् इत्यस्य ल्यब्लोपे पञ्चमीमाश्रित्य अनुनासिकं विहाय इति व्याख्यानात् अनुनासिकाभावपक्षे इति च तदर्थात् अनुनासिकस्य वैकल्पकित्वाभावे अनुनासिकाभावपक्षस्यासंभवादेव तद्वैकल्पिकत्वस्य सिद्धेरित्यत्राह--वाग्रहणं स्पष्टार्थमिति । इदमेव ध्वनयितुं वृत्तौ तुवेति शब्दावनुक्त्वा रोः पूर्वस्यानुनासिकः स्यादित्येवोक्तम् । झ्र्ज्ञा.प.ट खरवसानयोः (सू.8-3-15)।। अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । "उभयथर्क्षु' (सू.8-3-8) "कर्तरि चर्षिदेवतयोः' (सू.3-2-186) इत्यादिनिर्देशात् । झ्र्वि.ट ननु प्रअऋच्छति इत्यादौ "उपसर्गादृति धातौ' (सू.6-1-91) इति सूत्रेण वृद्धौ प्रार्छति इति स्थिते आर् इत्येकादेशस्य पूर्वान्तवद्भावेन रेफस्य पदान्तत्वात् "खरवसानयोर्विसर्जनीयः' (सू.8-3-15) इति सूत्रेण विसर्गः प्राप्नोति इत्याशङ्क्याह--अन्तवद्भावेनेति । अन्तवद्भावेन पदान्तत्वं प्रापितस्य रेफस्य विसर्गो न भवति । "उभ्यथर्क्षु' "चर्षिदेवतयोः' इति निर्देशात् । उभयथाअऋक्षु इति स्थिते "आद्ग्रणः' (सू.6-1-87) इति गुणे उभयथर्क्षु इति भवति । अत्राप्येकादेशस्य अर् इत्यस्य पूर्वान्तवद्भावेन रेफस्य पदान्तत्वात् विसर्गे "उभयथः क्षु' इत्येव निर्देष्ठव्यं स्यात् । यतस्तथा न निर्दिष्टम् तेन अन्तवद्भावेन पदान्तरेफस्य न विसर्ग इति ज्ञाप्यत इति भावः । झ्र्ज्ञा.प.ट द्विस्त्रिश्चतुः (सू.8-3-43)।। कृत्वेऽर्थग्रहणं तु साहचर्यं न सर्वत्र व्यवस्थापकमित्यत्र ज्ञापकम् । तेन "दीधीवेवीटाम्' (सू.1-1-6) इत्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणम् । झ्र्वि.ट ननु द्वित्रिभ्यां सुजन्ताभ्यां साहचर्याच्चतुः शब्दस्यापि सूजन्तस्यैव ग्रहणमिति त्रयाणां कृत्वोऽर्थे वर्तमानत्वस्य लाभात् "द्विस्त्रिश्चतुरिति कृत्वोऽर्थे'इति सूत्रे कृत्वोऽर्थग्रहणं व्यर्थमित्यत आह--कृत्वोऽर्थग्रहणं त्विति । तथा च साहचर्यस्य सर्वत्र व्यवस्थापकत्वाभावात् चतुर्शब्देन असुजन्तस्यापि ग्रहणं मा भूदिति कृत्वोऽर्थग्रहणं कृतमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनमाह--तेनेति । धातुभ्यां दीधीवेवीर्भयां साहचर्यात् इट् इत्यनेन भौवादिकस्य गत्यर्थकस्य धातोर्ग्रहणे प्राप्ते साहचर्यं न सर्वत्र व्यवस्थापकमित्याश्रयणात् आगमस्यैव इटः ग्रहणं "दीधीवेवीटम्' इति सूत्रे इति भावः । झ्र्ज्ञा.प.ट चिति स्मृत्याम् । चिन्तेति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् चिन्त्यते इत्यादौ नलोपो न । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । विशेषापेक्षमित्यपरे । झ्र्वि.ट ननु चुरादौ स्मृत्यर्थकः चितिधातुः इदित्त्वेन पठ्यते । तस्य इदित्करणं मास्तु । प्रक्रियालाघवाय "चिन्त स्मृत्याम्' इत्येव पठ्याताम् । न च नलोपनिवृत्त्यर्थम् नलोपस्याप्रसक्तेः । न च णिजभावे आशीर्लिङि चिन्त्यादित्यत्र, कर्मलकारे यकि चिन्त्य्ते इत्यत्र च नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्क्यम् । चुर दिणिचः नित्यत्वेन णिंच विना केवलात् चिन्त्यात् चिन्त्यत इति प्रयोगस्य शशश्रृङ्गायमाणत्वादित्यत आह--चिन्तेत्यादि । तेनेति । पाक्षिकत्वेनेत्यर्थः । तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात् तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः । ज्ञापकमिदं
चिन्तधातौ यत्र नलोपप्रसक्तिः तन्मात्रविषयकमिति न, किं तु चिन्तधातुसामान्यविषयम्, अत एव चिन्तति चिन्तेत् इति णिज्ररहितप्रयोगस्य साधुता । अथवा चुरादित्वसामान्यापेक्षम् । अत एव वृत्तिकृता जगाण जगणतुरित्युदाहृतम् "अत एकहल्' (सू.6-4-120) इति सूत्रे इत्याशयेनाह--एतच्च ज्ञापकमिति । केतित्तु चितिधातुमात्रविषयकं णिज्विकल्पज्ञापनम्, न चुरादिधातुसामान्यविषयकम् । अन्यथा सर्वस्य चुरादेः णिज्विकल्पे सति "आधृषाद्वा' (ग.सू.) इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पविधिवैर्यथ्यं स्यादिति मन्यन्ते । तन्मतमाह--विशेषापेक्षमित्यपरे इति ।इयं बालमनोरमासंमता व्याख्या । अनयोर्मतयोः विशेषापेक्षं ज्ञापकमिति मतमेव युक्तम् । न च तथा सति जगाण जगणतुरिति वृत्तिप्रयोगः कथं संगच्छतामिति वाच्यम् । भ्वादेराकृतिगणत्वात् तत्रत्यधातोस्तत्सिद्धेः । सामान्यापेक्षज्ञापकत्वपक्षे "आधृषाद्वा' इति सूत्रसार्थक्याय ज्ञापकसिद्धस्यासार्वत्रिकत्वमाश्रित्य आधृषीयाणामेवैच्छिको विकल्पः अन्येषां तु शिष्टप्रयोगाव्द्यवस्थित इत्यादिकं कल्पनीयमिति क्लेशो वर्तत इति नत्त्वबोधिनीकाराः निरूपयन्ति । झ्र्ज्ञा.प.ट एषिषति । इह नित्यमपि द्वित्वं गुणेन बाध्यते । उपधाकार्यं हि द्वित्वात् प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षज्ञपकत्वात् । झ्र्वि.ट ननु इषधातोः सनि इटि हलादित्वाभावेन कित्त्वाभावाद्ग्रणे एष् इस इति स्थिते "अजादेर्द्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे च एषिषिषति इति रूपमिष्यते । तन्न सिध्यति । द्वित्वस्य गुणे कृते अकृते च प्राप्त्या नित्यत्वेन गुणं बाधत्विा आदौ द्वित्वे कृते धात्ववयवस्य इकारस्य उपधात्वाभावेन गुणाप्राप्तेः इत्याशङ्कयाह--इह नित्यमपीति । द्वित्वापेक्षया उपधाकार्यस्य प्रबलत्वात् आदौउपधागुणः तदनन्तरमेव द्वित्वम् । अतो न दोषः । द्वित्वादुपधाकार्यस्य प्रबलत्वे ओणेः ऋदित्करणं ज्ञापकम् । तथा ह--ओणृदातोर्ण्यन्ताल्लुङि चङि "णो चङ्युपधाया ह्रस्वः' निषेधे सति ओणि अत् इति स्थिते णि इत्यस्य द्वित्वे मा भवात् ओणिणत् इति रूपम् । अत्र उपधाह्रस्वनिषेधार्थम् ओणेर्ऋदित्करणम् । उपधाह्रस्वे कृते तु उण् इ अत् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणत् इत स्यात् । ओकारो न श्रूयेत इति स्थितिः । यदि तु नित्यत्वात् उपधाह्रस्वात् प्रागेव ओण् इ अत् इत्यस्या दशायां द्वित्वं स्यात् तदा ओकारस्योपधात्वाभावादेव ह्रस्वाप्रसक्तेस्तन्निषेधार्थं क्रियमाणमृदित्त्वं व्यर्थं स्यात् । तस्मादुपधाह्रस्वात्मकमुपधाकार्यं द्वित्वात् प्रबलमिति विज्ञायते । ननूक्तज्ञापकादुपधाह्रस्वस्य द्वित्वात्प्रबलत्वे लब्धेऽपि उपधागुणस्य कथं द्वित्वात्प्रबलता लभ्यत इत्यत्राह--सामान्यापेक्षेति । वचनानि न दृब्धानि यानि ज्ञापकसंग्रहे । भाष्यादृतानि तान्यत्र प्रथमे परिशिष्टके ।। अष्टाध्यायीक्रमेणैव नागेशादृतर्वत्मना । विवृत्या स्विकया साकं समगृह्णां यथामति ।। नसन्दृष्टानि भाष्यादौ वचनान्यपि कानिचित् । साधितानि ज्ञापकेन कौमुद्यां दीक्षितोत्तमैः ।। शब्दसाधुत्वविषये तेषामप्युपयोगिताम् । अकार्षं संग्रहं पश्यन् द्वितीये परिशिष्टके ।। इति द्वितीयं ज्ञापकसंग्रहपरिशिष्टम्