ज्ञापकसंग्रहपरिशिष्टम्/तृतीयोऽध्यायः
← द्वितीयोऽध्यायः | ज्ञापकसंग्रहपरिशिष्टम् तृतीयोऽध्यायः [[लेखकः :|]] |
चतुर्थोऽध्यायः → |
अथ तृतीयोऽध्यायः
झ्र्ज्ञा.प.ट प्रत्ययः (सू.3-1-1)।। "एतिस्तुशास्वृदृजुषः क्यप्' इति परिगणनं ज्ञापयति न धातुमात्रात् क्यबिति । झ्र्वि.ट ठप्रत्ययः' इति सूत्रे भाष्ये "हनस्त च' इति सूत्रे हनः इति षष्ठ्याः तकाररूपविकारेणान्वितत्वात् चकारेम पूर्वसूत्रात् अनुकृष्यमाणस्य क्यपः प्रतिसंबन्ध्यनिर्देशात् क्यब्विधानानुपपत्तिः इत्याशङ्क्य, तत्र धातोः इति पञ्चम्यन्तं पदमनुवर्तते, अतः हनस्तकारो भवति, धातोः क्यप् भवतीति वाक्यार्थ इति समाधाय, तर्हि धातुसामान्यात् क्यप् प्राप्नोतीति पुनराशङ्क्य ज्ञापकेन धातुसामान्यात् क्यबापत्तिर्निवारिता । तदाह--एतिस्तु इति परिगणनमिति । यदि धातुमात्रात् क्यप् भवेत् तर्हि एतिस्तु इत्यादिब्योऽपि "हनस्त च' (सू.3-1-109) इति परिगणनमनर्थकं स्यात् । कृतं च तत्परिगणनं न सर्वस्मादपि धातोः क्यप् भवतीति ज्ञापयतीत्यर्थः । झ्र्ज्ञा.पट परश्च (सू.3-1-2)।। काद्यनुबन्धासञ्जनं ज्ञापयति अत्यन्तापरदृष्टाः परभूता लुप्यन्त इति । झ्र्वि.ट ठपरश्च' इति सूत्रस्य "अत्यन्तापरदृष्टानां वा परभूतलोपार्थ' मिति वार्तिककारः प्रयोजनमुक्तवान् । परेण-प्रधानेन प्रत्यक्षेण न क्वचिद्दृष्टा ये क्किबादयस्तेषां परभूतानां लोपो भवतु इत्येतदर्थं परश्चेति सूत्रम् । तथा सति हि किति इत्यादिना विहितं कार्थं क्किपि परे स्यान्नान्यथा इति तदर्थः । तदेतद्वार्तिकं भाष्यकारः ज्ञापकेन क्किबादीनां परभूतानां लोपं प्रसाध्य प्रत्याख्यातवान् । तदाह--काद्यनुबन्धासञ्जनमिति । यदि पूर्वभूता लुप्येरंस्तदा क्किबादौ ककाराद्यनुबन्धासञ्चनमनर्थकं स्यात् । सर्वस्यानुबन्धकार्थस्य परभूतप्रत्ययनिमित्तकत्वात् । तथा च तत् सर्वलोपिनः प्रत्ययाः परभूता एव लुप्यन्त इति ज्ञापयतीत्यर्थः । झ्र्ज्ञा.पट इजादेश्च (सू.3-2-36)।। "ऋच्छत्यॄताम्' (सू.7-4-11) इति ऋच्छेर्लिटि गुणवचनं ज्ञापकं र्नच्छेर्लिट्याम् भवतीति । झ्र्वि.ट ननु "इज्ञादेश्च गुरुमतोऽनृच्छः' इति सूत्रे अनृच्छः इति मास्तु। न च तदभावे ऋच्छधातोरप्याम् स्यादिति वाच्यम् । ज्ञापकेनैव ऋच्छेराम् न भवतीत्यवगमात् । ज्ञापकमेवाह--ऋच्छेर्लिटीति । "ऋच्छत्यॄताम्' इति सूत्रेण हि ऋच्छेर्लिटि गुणो विधीयते । यदि च ऋच्छेर्लिट्याम् स्यात् तदा आमा व्यवधानेन लिट्परकत्वाभावात् गुणो न प्रर्वत्स्यतीति गुणविधानमनर्थकं स्यात् । अतो गुणविधानेन ऋच्छेरामभावो ज्ञाप्यते । तथा च तेनैव आम्निषेधे सिद्धे "अनृच्छः' इति प्रतिषेधो व्यर्थ इति भावः । झ्र्ज्ञ.प.ट सार्वधातुके यक् (सू.3-1-67)।। "न दुहस्नुनमां यक्चिणौ' (सू.3-1-89) इति प्रतिषेधात् ज्ञापकात् भचवति कर्मकर्तरि यक् । झ्र्वि.ट ननु भाववाचिनि कर्मवाचिनि च सार्वधातुके परतो विधीयमानो यक् कर्मकर्तरि लकारे परे न प्राप्नोति । कर्तरि शपोऽपवादत्वात् प्राप्तेरित्यत आह--न दुहेति । "न दुहस्नुनमां यक्चिणौ' इति सूत्रेण दुहस्नुनमां कर्मकर्तृलकारे परे यक्चिणौ प्रतिषिध्येते । स चायं प्रतिषेधः धातोः कर्मकर्तरि यगभावे प्राप्त्यभावादसंगतः सन् कर्मकर्तरि यग्भवतीत्यत्र ज्ञापक इति भावः । झ्र्ज्ञा.प.ट कृदतिङ् (सू.3-1-93)।। क्वचित्तद्धितविधौ "तिङश्च' (सू.5-3-56) इति तिङ्ग्रहणं ज्ञापकं न तिङन्तादणादयो भवन्तीति । झ्र्वि.ट ननु कृदतिङ् इति सूत्रे अतिङ्ग्रहणं मास्तु । न च तदभावे तिङोऽपि कृत्संज्ञा स्यात्, ततश्च कृदन्तत्वात् पठतीत्यादेः प्रतिपादिकसंज्ञा स्यादिति वाच्यम् । प्रातिपदिकसंज्ञायामपि दोषाभावात् । एकत्वादीनाम् तिङोक्तत्वात् सुबादीनाम्, तिङन्तस्य स्त्रीत्वेन योगाभावादेव टाबादीनां चापादयितुमशक्यत्वात् । च चाणादयस्तद्धितास्तिङन्तेभ्यो भवेयुरिति वाच्यम् । अपत्याद्यर्थे तद्धितविधानेन तिङन्तस्यापत्यादिभिर्योगाभावादेव
ततस्तद्धितोत्पत्तेरापादयितुमशक्यत्वात् । यद्वा ज्ञापकादेव तिङन्तादणाद्युत्पत्तेर्वारयितुं शक्यत्वात् । ज्ञापकमेवाह--क्वचित्तद्धितविधाविति । यदि तिङन्तस्यापि प्रातिपदिकत्वात् ततस्तद्धितोत्पत्तिः स्यात् तदा तद्धितप्रकरणे "तिङश्च'(सू.5-3-56) इति सूत्रमनर्थकं भवेत् । "अतिशायने तमबिष्ठनौ' (सू.5-3-55) इति सूत्रेणैव सिद्धेः । ततश्च तिङः कृत्संज्ञायां तङिन्तस्य प्रतिपदिकसंज्ञायां च दोषाभावात् "कृदतिङ्' इति सूत्रे अतिङ्ग्रहणं प्रत्याख्येयमित्याशयः । झ्र्ज्ञा.प.ट कृत्याः (सू.3-1-95)।। अर्हे कृत्यतृच्ग्रहणं ज्ञापकं प्राङ् ण्वुलुः कृत्यसंज्ञा भवतीति । झ्र्वि.ट ननु कृत्याः इति सूत्रे प्राङ्ण्वुल इति वक्तव्यम् । अन्यथा ण्वुलोऽपि कृत्यसंज्ञाप्रसङ्गादित्याशङ्क्याह--अर्हे कृत्येति । यदि हि "ण्वुल्तृचौ' इति सूत्रात्प्रागेव कृत्यसंज्ञा इत्येतन्न स्यात्तदा तृचोऽपि कृत्यसंज्ञकत्वेन "अर्हेकृत्याः' इत्येव सूत्रयितुं शक्यम् । तृज्ग्रहणं चानर्थकम् । यतः "अर्हे कृत्यतृचश्च' (सू.3-3-169) इति सूत्रे पृथक् तृचग्रहणं कृतं तेनानुमीयते ण्वुलः प्राक् कृत्यसंज्ञेति । न चोक्तज्ञापकेन तृचः प्राक् कृत्यसंज्ञेत्यर्थलाभेऽपि ण्वुलः प्रागिति न लभ्यत इति वाच्यम् । ज्ञापकस्य सूत्रापेक्षत्वेन तृच्घटितात् "ण्वुल्तृचौ' इति सूत्रात् प्राक् कृत्यसंज्ञाधिकार इत्येवं ज्ञापनात् । तथा च ज्ञापकेन सिद्धेः "प्राङ्ण्वुलः' इति न वक्तव्यमिति भावः । काशिकायां "कृत्याः प्राङ्ण्वुलः' इति यः सूत्रपाठः सोऽनादरणीय इति सिद्धम् । झ्र्ज्ञा.प.ट स्पृहिगृहि--(सू.3-2-158)।। लुशा सिद्धे आलुज्विधानं ज्ञापकम् अन्येभ्योऽप्ययं भवतीति । झ्र्वि.ट ननु "स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्' इति सूत्रे आलुच् इति गुरुः प्रत्ययो न विधीयताम् । लुश् इति प्रत्यय एवविधीयताम् । शपि कृते स्पृहयअलु इति स्थिते "अतो दीर्घो यञि' (सू.7-3-101) इति दीर्घेण स्पृहयालुः इत्यादिरूपसिद्धेरित्याशङ्क्याह--लुशेति । तथा च आलुचः विधानं सूत्रानिर्दिष्टेभ्योऽपि धातुभ्यः आलुच् भवतीति ज्ञापयति । तथा च शयलुः इत्यादिकं सिध्यति । तत्र हि शपः "अदिप्रभृतिभ्यः' (सू.2-4-72) इति लुकि अतो दीर्घस्यासंभवात् लुशा निर्वाहो न भवतीति भावः । झ्र्ज्ञा.प.ट अनद्यतने लुट् (सू.3-3-15) ।। अनद्यतने लृटऋ सत्संज्ञावचनं ज्ञापयति भवत्यनद्यतने लृडिड्डत्ध्;ति । झ्र्वि.ट ठलृटः सद्वा'(सू.3-3-14) "अनद्यतने लुट्' इति सूत्रक्रमः । तत्र "अनद्यतने' "लुट्' इति योगविभागः कर्तव्यः । "अनद्यतने' इति सूत्रे "लृटः सत्' इत्यनुवर्तते । अनद्यतने लृटः सत्संज्ञकौ शतृशानचौ आदेशौ भवत इति तदर्थः । "तेन श्वोऽग्नीनादास्यमानेन' "श्वः सोमेन यक्ष्यमाणेन' इत्यादिकं सिध्यति । न चानद्यतने लृडि्ड्डत्ध्;वधायकनुशासनाभावेन कथमेतदिति वाच्यम् । योगविभागेन अनद्यतने लृटः सत्संज्ञकादेशविधानेनैव अनद्यतने लृडड्डत्ध्;स्तीति ज्ञापनादिति भाष्ये प्रतिपादितम् । तदाह--अनद्यतने लृट इति झ्र्ज्ञा.प.ट आशंसायां भूतवच्च (सू.3-3-132)।। "संभावनेऽलमिति चेत्' (सू.3-3-154) इति ज्ञापकात् संभावनेऽपि नालर्मथ्यं गम्यते । झ्र्वि.ट नन्वासंसासंभावनयोरविशेषात् आशंसायां ये विधीयन्ते ते संभावनेऽपि प्राप्नुवन्ति । ये च संभावने विधीयन्ते ते आशंसायामपि प्राप्नुवन्ति । न च संभावनेऽलमर्थो नियमेन गम्यते, आशंसायां तु अलमर्थो न गम्यते । तथा च तयोरर्थाविशेषेऽप्यालर्मथ्याकृतभेदोऽस्ति । तमादाय व्यवस्था भविष्यतीति नोक्तदोष इति वाच्यम् । तथा सति "संभावनेऽलमिति चेत्' (सू.3-3-154) इति सूत्रे अलमिति चेत् इति विशेषणवैर्यथ्यात् । यदि हि संभावने नियमेनालमर्थो गम्येत तदा व्यभिचाराभावात् अलमिति विशेषणं नेपादीयेत । संभवव्यभिचाराभ्यां हि स्याद्विशेषणमर्थवत् । तथा
च संभावनाशंसयोरालर्मथ्यतदभावकृतो विशेषो न वक्तुं शक्य इति स्थितम् । तदाह संभावन इति । तर्हि तयोर्विशेषाभावे पूर्वोक्ताव्यवस्थायाः कः परिहार इति चेत् इदं मे भूयादित्याकारकेच्छाविशेषः आशंसा। एकतरकोटिकानिश्चितज्ञानविशेषः संभावनमिति तयोर्भेदात् व्यवस्था संगच्छत इति कैयटः । झ्र्ज्ञा.प.ट तुमर्थे से-(सू.3-4-9)।। तुमर्थग्रहणं ज्ञापयति अस्त्यन्यः कर्तुस्तुमुनोऽर्थ इति । झ्र्विदृट ठतुमर्थे सेसेनसे-' इत्यादिना सूत्रेण तुमुनोऽर्थे से सेन् इत्यादयः प्रत्यया वैदिकप्रकरणे विधीयन्ते । तत्र तुमुनोऽर्थः कः ? इति संदेहो जायते । न तावत् कर्ता तुमुनोऽर्थः । तथा सति कर्तरि से सेन् इत्यादयो भवन्तीति सूत्रार्थः स्यात् । तदा तुमर्थ इति पदं व्यर्थम् । "कर्तरि कृत्' इत्यनेनैव तेषां कर्त्रर्थकत्वावगमसंभवात् । अत आह--तुमर्थग्रहणमिति । तथा च पूर्वोक्तरीत्या तुमर्थग्रहणं व्यर्थं सत् कर्तुरन्योऽपि तुमुनोऽर्थोऽस्तीति ज्ञापयति । स च भावः भावे च सेसेनादय इष्यन्ते । तदर्थं तुमर्थग्रहणं कृतमिति भावः । एवं ज्ञापने प्रयोजनं तु "अव्ययकृतो भावे' इत्येतद्वार्तिकं न वक्तव्यं भवति । तुमर्थग्रहणानुवृत्त्यैवअव्ययकृतां क्त्वादीनां भावार्थकत्वसिद्धेरिति भाष्ये स्पष्टम् । झ्र्ज्ञा.प.ट कर्तरि कृत् (सू.3-4-67)।। "तयोरेव' (सू.3-4-70) इत्येवकारो ज्ञापयति इत उत्तरं समावेशो भवतीति । "आदिकर्मणि क्तः कर्तरि च' (सू.3-4-71) इति चकारो ज्ञापयति प्रागमुतः समावेशो भवतीति । झ्र्वि.ट ननु "तयोरेव कृत्यक्तखलर्थाः' इति सूत्रे एवकारः किमर्थः । न च कृत्यादयो भावकर्मणोरेव यथा स्युः कर्तरि मा भूवन्नित्येतदर्थसूचनाय स इति वाच्यम् । तयोरिति सूत्रस्य "कर्तरि कृत्' इति सामान्यशास्त्रपवादत्वादेवोक्तार्थसिद्धेरित्याशङ्क्य, कृत्यप्रत्ययेषु कर्त्रर्थस्यापि समावेशोऽस्तीति ज्ञापनार्थमेवकारः । तथा च कर्त्रर्थस्यापि समावेशे प्राप्ते तन्निवृत्त्यर्थमेवकार इति स्बांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु भव्यादिषु शब्देषु कर्तुरपि प्रतीतिरिति । अत एव गोयो माणवकः साम्नामिति कर्तरि, गेयानि माणवकेन सामानीति कर्मणि च प्रयोग उपपद्यते । तदाह--तयोरेवेत्येवकार इति । तथा च भव्यगेयेति सूत्रे (सू.3-4-68) वाग्रहणं न कर्तव्यमिति भावः । ननु यद्येवं ज्ञाप्यते तदा "दाशगोघ्नौ संप्रदाने' (सू.3-4-73) "भीमादयोऽपादाने (सू.3-4-74) इत्यत्रापि समावेशः प्राप्नोति । तथा च कर्तर्यपि तेषां प्रयोगः स्यादित्यत ज्ञाह--आदिकर्मणीत्यादिना । अथं भावः--आदिकर्मणि क्तः कर्तरीत्येवास्तु नार्थश्चशब्देन । एवकारज्ञापितात् पूर्वोक्तवचनादेव चशब्दार्थस्य समावेशस्य सिद्धेः । कृतस्तु चकारो ज्ञापयति आदिकर्मणि इत्येतस्मात्परेषु सूत्रेषु कर्त्रा समावेशो न भवतीति । तथा च दाशगोघ्नादिषु न कर्त्रर्थसमावेश इति । इति तृतीयोऽध्यायः