जैमिनीयं ब्राह्मणम्/काण्ड २/३०१-३१०

विकिस्रोतः तः
Jump to navigation Jump to search

तासु वात्सप्रम्। वत्सप्रियं वै भालन्दनं प्रतिसत्रिणो ऽबाधन्त् - स्तेनस् ते पितेति। सो ऽकामयत श्रद्धां विन्देयोप मां ह्वयेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रद्धाम् उपहवम् अविन्दत। श्रद्धां विन्दामहा इति सत्रम् आसते। श्रद्धाम् एव विन्दन्ते। वैराजस्य ह खलु वा एतद् अनुरूपं साम। यथा ह वै वैराजस्य स्तोभाः पदवृत्तय एवं ह वै वात्सप्रस्य स्तोभाः पदवृत्तयः। प्रजा ह वा एषा वैराजस्य। आ हास्यानुरूपः प्रजायां जायते य एवं वेद। एतद् ध वा एनं तद् उपजुहुविरे - ऽनुरूपं वैराजस्यासृष्टेति। तद् अनुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। अनुतुन्नम् एतस्य वैराजस्याह्नो रूपम्। तेन वै रूपसमृद्धम्। यद् उ वत्सप्रीर् भालन्दनो ऽपश्यत् तस्माद् वात्सप्रम् इत्य् आख्यायते। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अग्निं वो वृधन्तम् इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्॥3.81॥

तासु सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचम् एतेनाह्ना समिच्छन्ति ताम् एवैतत् संविन्दन्ति। सिन्धुक्षिद् वै भारतो राजा ज्योग् अपरुद्धश्चरन् सो ऽकामयताव स्व ओकसि गच्छेयम् इति। सिन्धुं हैव चचार। सास्य सिन्धुक्षित्ता। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽव स्व ओकस्य् अगच्छत्। तद् एतत् सामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समर्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् उ श्रीर् एव राज्यम्। राज्यं वै स तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ सिन्धुक्षिद् भारतो राजापश्यत् तस्मात् सैन्धुक्षितम् इत्य् आख्यायते। वयम् उ त्वाम् अपूर्व्येत्य् अपूर्वाम् इव ह्य् एतर्हि तन्वम् अगच्छन्। तासु सौभरं बृहतस् तेजः। व्यवप्लीनातीव वै वैराजं यज्ञम्। तत् सौभरेणोत्तभ्नुवन्ति बृहतस् तेजसा। तद् ऊकारणिधनं भवति। एतद् वै प्रत्यक्षं बृहतो रूपं यद् ऊकारो यद् ईकारः। तेन वै रूपसमृद्धम्। इमम् इन्द्र सुतं पिब ज्येष्ठम् अमर्त्यं मदम् इति ज्यैष्ठ्यम् इव ह्य् एतर्ह्य् अगच्छन्। अथो तृतीयसवन एवैतद् रसं मदं दधति॥3.82॥

तासु वासिष्ठम्। वसिष्ठो वा अकामयत विराजं पश्येयं, ताम् अवरुन्धीयेति। स प्रस्तुवन्न् एवैतां दक्षाक्षरां विराजम् अपश्यत्। ताम् उपैत्, ताम् अवारुन्द्ध। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव विराजम् अन्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठम् इत्य् आख्यायते। तद् व् एवाचक्षते वसिष्ठस्यप्रियम् इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। सो ऽब्रवीत् प्रियं वावेदं ममाभूद् येन प्रियां प्रजाम् अवारुत्सीति। तद् एव प्रियस्य प्रियत्वम्। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्यप्रियम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति। अथ षोडशी। प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयम्। अथैतद् उक्थभाजनम्। उक्थानां वा एष एको यत् षोडशी। तद् यद् अत्र षोडशी क्रियते स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति॥3.83॥

गोवित् पवस्व वसुविद् धिरण्यविद् इति सिमानां रूपम्। करिष्यद् धरिवत् त्रैष्टुभं रूपम्। तस्माद् एतास् त्रैष्टुभे ऽहन् क्रियन्ते। रेतोधा इन्दो भुवनेष्व् अर्पित इत्य् ऋषभम् एवैतद् रेतोधां प्रातस्सवने महानाम्नीष्व् अपिसृजन्ति प्रजननाय। त्वं सुवीरो असि सोम विश्वविद् इति सिमानां रूपम्। तं त्वा विप्रा उप गिरेम आसत इति ब्राह्मणा ह वै विप्रास्, त एवैनं तद् गिरोपासते। त्वं नृचक्षा असि सोम विश्वत इति विश्वत इति सिमानां रूपम्। पवमान वृषभ ता वि धावसीत्य् ऋषभम् एवैतत् प्रातस्सवने महानाम्नीष्व् अपिसृजन्ति प्रजननाय। स नः पवस्य वसुमद् धिरण्यवद् इति पशवो वै वसु सुवर्णम्। असुवर्णम् इति वा आहुर् अपशुम्। पशवश् शक्वर्यः। वयं स्याम भुवनेषु जीवस इत्य् आशिषम् एवैतेनाशास्ते। ईशान इमा भुवनानि वीयस इति वीति सिमानां रूपम्। युजान इन्दो हरितस् सुपर्ण्य इति शक्वर्यो वै हरितस् सुपर्ण्यः। ता एवैतत् प्रातस्सवने युज्यन्ते। ता युक्ता माध्यन्दिन सवने ऽभ्यारोहन्ति। तास् ते क्षरन्तु मधुमद् घृतं पय इति पशवो वै मधु क्षीरं दधि सर्पिर् एतत् क्षरन्ति पशवश् शक्वर्यः। तव व्रते सोम तिष्ठन्तु कृष्टय इति सोमस्य ह वा इदं व्रतं सर्वम् अनूपतिष्ठते॥3.84॥

ता एता भवन्ति जगत्यस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। पवमानस्य विश्वविद् इत्य् अनुरूपो भवति। विश्वविद् इति सिमानां रूपम्। तद् आहुस् साम्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेणाह्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो, ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। प्र ते सर्गा असृक्षत सूर्यस्येव न रश्मय इति सर्गश इव वै पशवस् सृज्यन्ते। पशवश् शक्वर्यः। केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसीत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। समुद्स् सोम पिन्वस इति समुद्रवतीर् भवन्त्य् आपो ह्य् एतद् अहः। जज्ञानो वाचम् इष्यसीति जायते वै पूर्वेणाह्ना। जज्ञान एवैतेन तस्माज् जज्ञानो वाचम् इष्यसीति भवति। पवमान विधर्मणि। क्रन्दं देवो न सूर्यः॥ इति सौर्यं रूपं महानाम्नीनाम् उपगच्छन्ति। सौर्या हि महानाम्नयः॥3.85॥

प्र सोमासो अधन्विषुः पवमानास इन्दवः। श्रीणाना अप्सु वृञ्जते॥ अभि गावो अधन्विषुर् आपो न प्रवता यतीः। पुनाना इन्द्रम् आशत॥ इत्य् आप आप इति भवत्य आपो ह्य् एतद् अहः। प्र पवमान धन्वसि सोमेन्द्राय मादनः। नृभिर् यतो वि नीयसे॥ इति सप्तर्चं भवति। सप्त वै प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। तद् आहुर् यत् सप्तर्चं सप्तमस्याह्नो रूपम् अथ कस्मात् पञ्चमे ऽहन् क्रियत इति। स ब्रूयात् सप्तपदा वै शक्वर्यास्, सप्त ग्राम्याः पशवस्, सप्त चतुरुत्तराणि छन्दांसि, सप्त मुख्याः प्राणास्, सप्तविंशतिर् दिव्यानि नक्षत्राणि, सप्तविंशम् एतद् अहर्, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्या इति। उत्तरं सप्तर्चं भवति। अभिपूर्वम् एवैतत् प्राणैस् समृध्यमाना यन्ति। चतुर्ऋचं भवति - चतुष्पदा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। त्रिणव स्तोमो भवति। त्रिणवा इमे लोकाः। एष्व् एवैतल् लोकेषु प्रतितिष्ठन्तो यन्ति॥3.86॥

भूर् इति व्याहृतिः। तद् अयं लोको ऽग्निर् देवता गायत्री छन्दस् त्रिवृत् स्तोमो रथन्तरं साम वसवो देवता वनस्पतयश् चौषधयश् च। भुव इति व्याहृतिः। तद् इदम् अन्तरिक्षं वायुर् देवता जगती छन्दस् सप्तदश स्तोमो वामदेव्यं साम रुद्रा देवतापश् च प्राणभृच् च। स्वर् इति व्याहृतिः। तद् असौ लोक आदित्यो देवता त्रिष्टुप् छन्दः पञ्चदश स्तोमो बृहत् सामादित्या देवता चन्द्रमाश् च नक्षत्राणि च। एतद् इमे लोकास् त्रिणवा भवन्ति। तद् आहुर् मिथुनानि चत्वार्य् अहान्य्, अमिथुनं पञ्चमम् अहः। आचतुरं वाव मिथुनं प्रजननम्। तद् यत् तव श्रियो वर्षस्येव विद्युत इत्य् आग्नेयम् आज्यं भवति। तेनैव मिथुनं पञ्चमम् अहः क्रियते। तवेति पुंसो रूपं, श्रिय इति स्त्रियै। वर्षस्येवेति पुंसो, विद्युत इति स्त्रियै। अग्न इति पुंस, उषसाम् इवेति स्त्रियै। यद् ोषधीर् इति स्त्रिया, अभिसृष्ट इति पुंसः। अभिपूर्वम् एवैतन् मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै॥3.87॥

वातोपजूत इषितो वशं अनु तृषु यद् अन्ना वेविशद् वितिष्ठसे। आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्य् अग्ने अजरस्य धक्षतः॥ इति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्। मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारं परिभूतमं मतिम्। त्वाम् अर्भस्य हविषस् समानम् इत् त्वां महो वृणते नान्यं त्वत्॥ इति यच् च ह वा अर्भकं हविर् यच् च महस् तस्य सर्वस्याग्निम् एव होतृत्वाय वृणुते। पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण। मित्र वंसि वां सुमतिम्॥ इति मैत्रावरुणं भवति दुरिष्टस्यैवावेष्ट्यै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतद् अवेष्ट्यै। ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धाम च। वयं वां मित्रा स्याम॥ पातं नो मित्रा पायुभिर् उत त्रायेथां सुत्रात्रा। साह्याम दस्यूंस् तनूभिः॥ इत्य् आशिषम् एवैतेनाशास्ते॥3.88॥

उत्तिष्ठन्न् ोजसा सहेत्य् ऐन्द्रं भवति। त्रिणवो वै स्तोम ओजो वीर्यम्। तम् एवैतत् प्रत्यक्षम् अनुवदन्ति। अनु त्वा रोदसी उभे इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। स्पर्धमानम् अददाताम् इत्य् एते वा एनं तत् स्पर्धमानम् अन्वददाताम्। इन्द्र यद् दस्युहाभव इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति। वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतावृधम्। इन्द्रात् परि तन्वं ममे॥ इति गायत्री वै वाग् अष्टापदी। तस्यै त्रिवृद् एव स्तोम स्रक्तयः। एतद् वै दैव्यं परमं मिथुनं प्रजननं यत् त्रिवृच् च स्तोमो गायत्री च छन्दः। दैव्यम् एव तत् परमं मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै॥3.89॥

ताम् आहुर् आरम्भणतस् तृचस्य कार्या। मुखतो वै रेतस् सिक्तं, तद् इतः प्रजायते। तद् वै रेतो यद् इतस् सिच्यते। अन्नाद् धि रेतस् सिच्यत इति। तदा आहुर् उपरिष्टाद् एव कार्या - इदं वै प्रजननम्, इतः प्रजाः प्रजायन्ते - यतः प्रजाः प्रजायन्ते ततः प्रजायामहा इति। तस्माद् उपरिष्टाद् एव कार्या। इन्द्राग्नी युवाम् इम इत्य् ऐन्द्राग्नं भवति। अभिस्तोमा अनूषतेति बहून् स्तोमान् अभिवदति। एकस्तोमान्य् अन्यान्य् अहानि भवन्ति। अथैतत् त्रिष्टोमम्। तस्माद् अभि स्तोमा अनूषतेति बहून् स्तोमान् अभिवदति। पिबतं शंभुवा सुतम्॥ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा। इन्द्राग्नी ताभिर् आ गतम्॥ ताभिर् आ गच्छतं नरोपेदं सवनं सुतम्। इन्द्राग्नी सोमपीतये॥ इत्य् एकदेवत्यान्य् अन्यानि स्तोत्राणि भवन्त्य्, अथैतद् द्विदेवत्यम्। यथोभयापदी प्रतितिष्ठेत् तादृक् तत्। त्रिणव स्तोमो भवति। त्रिणवा इमे लोकाः। एष्व् एवैतल् लोकेषु प्रतितिष्ठन्तो यन्ति॥3.90॥