जैमिनीयं ब्राह्मणम्/काण्डम् २/४११-४२०

विकिस्रोतः तः
Jump to navigation Jump to search

तद् आहुस् तवश्शाव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। देवा वै यद् अग्रे व्रतं समभरंस् तत् तवश्शाव्यम् अभवत्। तद् यद् एतस्याह्नस् तवश्शाव्यं पृष्ठं भवति, व्रतम् एवैतत् प्रत्यक्षम् उपयन्ति। तद् उ वा आहुर् दुष्प्रज्ञाना वै तवश्शाव्यस्य स्तोभाः पदवृत्तीः प्रस्तावाः प्रतिहारा देवता निधनानि। वामदेव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। आत्मा वै व्रतस्य वामदेव्यम्। स यथागत्य गृहान् न विन्देत् तादृक् तद् यद् एतस्याह्नोऽन्यद् वामदेव्यात् पृष्ठं कुर्युः। तद् आहु - स्वारं न पृष्ठतायै। तत्स्थानं राजनम् एवैतस्याह्नः पृष्ठं कार्यम् इति। राजनेन वै प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्। तद् येन प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्, तेन प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यं गच्छामेति। परोक्षम् इव ह खलु वा एतद् वामदेव्यं यद् राजनम्। राजनं पृष्ठं भवति। वामदेव्यं मैत्रावरुणसाम। पञ्चनिधनं वामदेव्यं ब्रह्मसाम। सामाभिपूर्वम् एवैतद् वामदेव्येन मध्यत आत्मानं संदधतो यन्ति॥2.411॥


तत् पञ्चस्तोभं भवति पञ्चपदवृत्तीकं पञ्चदेवतं पञ्चप्रतिहारं पञ्चनिधनम्। यः पांक्तो यज्ञो, ये पांक्ताः पशवो, यत् पांक्तम् अन्नाद्यं, ये पञ्चर्तवो, यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। पञ्चनिधनं वामदेव्यं ब्रह्मसाम भवति। पञ्चधेव हि व्रतेन स्तुवते। तद् अतिच्छन्दस्सु भवति त्रिकद्रुकेषु महिषो यवाशिरम् इत्य् एतासु। अति वा एषो ऽन्यानि छन्दांसि यद् अतिच्छन्दाः। अत्य् एते ऽन्यान् ये संवत्सरसदः। स्व एवैतच् छन्दसि प्रतितिष्ठन्ति। तद् व् अतिच्छन्दस्स्व् एव तद् एहिवद् इहवद् भवत्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तद् आहुर् इलान्दम् एवैतस्याह्नो ऽग्निष्टोमसाम कार्यम् इति। इलान्देन वै प्रजापतिः प्रजाभ्य इराम् अन्नाद्यं प्रायच्छत्। तद् येन प्रजापतिः प्रजाभ्य इराम् अन्नाद्यं प्रायच्छत् तेनेराम् अन्नाद्यम् अवरुध्योत्तिष्ठामेति। तद् व् अतिच्छन्दस्स्व् एव भवति। अति वा एषो ऽन्यानि छन्दांसि यद् अतिच्छन्दाः। अत्य् एते ऽन्यान् ये संवत्सरसदः। स्व एवैतच् छन्दसि प्रतितिष्ठन्ति॥2.412॥


तद् वैश्वानरीयासु भवति। वैश्वानरस्य ह्य् एतत् स्तोत्रम्। अशीत्यक्षरासु भवत्य् अश्नवामहा इति। समुद्र इवाक्षितम् इव ह खलु वा एतच् छन्दो यद् अतिच्छन्दास्, समुद्र इवाक्षितास् तुष्टुवाना असामेति। तत् पक्षि भवति। पक्षि ह्य् एतस्याह्नो व्रतम्। ए व्रतम् इत्य् आह - अन्नं वै व्रतम् - अन्नाद्यस्यैवावरुद्ध्यै। ए सुवर् इत्य् आह स्वर्गस्यैव लोकस्य समष्ट्यै। ए शकुना इत्य् आह वय एवैतच् छकुना भूत्वा स्वर्गं लोकं समश्नुवते। तद् आहुर् वारवन्तीयम् एवैतस्याह्नो ऽग्निष्टोमसाम कार्यम् इति। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् वारवन्तीयेनैव वरणशाखाम् आच्छिद्यावारयत। यद् अवारयत् तद् वारवन्तीयस्य वारवन्तीयत्वम्। तस्माद् वरुणं भिषज्यम् आहुः। तद् यद् एतस्याह्नो वारवन्तीयम् अग्निष्टोसाम भवति, यद् एनेन कर्मणावारुत्स्महि, तन् नो वारवन्तीयेन वारितम् अन्तत उपतिष्ठाता इति। तद् एहिवद् इहवद् भवत्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्। कुतो हि वाग् वाचम् अतिवदिष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति॥2.413॥


अन्नं वै व्रतं, श्रीर् वै व्रतम्। व्रतेन वा अन्नम् अद्यते, व्रतेन श्रीर् आप्यते। तद् आहुर् उपरिष्टाद् एव संवत्सरस्योपेत्यम्। दूरूपं वै ततो व्रतं विज्ञायते यत्रोपजायत इति। तत् पञ्चविंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरो, ऽन्नाद्यं पञ्चविश्य्, अन्नाद्यम् एवैतत् पञ्चविंश्योपधीयते। पञ्चविंशो ह खलु वै पुरुषः। पुरुषस्यैतत् स्तोत्रम् इत्य् आहुर् - दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्याश्, चत्वारि प्रांगाण्य्, आत्मा पञ्चविंशष्, षड् इमानि पर्वाणि, षड् इमानि, षड् इमानि, षड् इमान्य् , आत्मा पञ्चविंशो, द्वादशेमाः परिशवो, द्वादशेमा, आत्मैव पञ्चविंशः। पुरुषं वावैतेन संस्कुर्वन्ति पुरुषं प्रजनयन्ति। तद् आहुस् सर्वम् एवैतद् अहः पञ्चविंशम् उपेत्यम् इति। पञ्चविंशम् एव शिर उपेयुः, पञ्चविंशम् अन्यं पक्षं, पञ्चविंशम् अन्यं, पञ्चविंशं पुच्छं, पञ्चविंशम् आत्मानम्, एवं व्रतस्योपाप्तिर् अंगेनाङ्गेन व्रतम् उपाप्नवामेति। तस्माद् अथ ह स्माहर्ज्जिश्वा वातवात - एकं वावैतत् स्तोत्रं सत् तत् पञ्चधा विहृत्य स्तुयुः - पञ्चभिर् एव शिर स्तुयुः, पञ्चभिर् अन्यं पक्षं, पञ्चभिर् अन्यं, पञ्चभिः पुच्छं, पञ्चभिर् आत्मानम्। तथैकम् एव पञ्चविंशं नातिरिच्यते। एवं व्रतस्योपाप्तिर् इति॥2.414॥


अथ ह स्माहारुणिर् न वा अन्यान्य् अंगान्य् आत्मना समानि। नो ऽन्यैर् अंगैर् आत्मा समः। विषमेण वै पुरुषः कल्पते, विषमेण समः। तद् यथाविधम् एवैतद् एवम् उपेत्यम् इति। ब्रह्म वै व्रतस्य शिरो, द्यावापृथिवी पक्षाव्, अन्तरिक्षम् आत्मा, साम पुच्छम्। गायत्रं वै व्रतस्य शिरस्, तद् धि ब्रह्म। बृह्द्रथन्तरे पक्षौ, ते हि द्यावापृथिवी। वामदेव्यम् आत्मा, तद् ध्य् अन्तरिक्षम्। यज्ञायज्ञीयम् पुच्छं, तद् धि साम। नवभिश् शिर स्तुवन्ति। नव वै पुरुषे प्राणाः। प्राणानाम् एवैषा संमा प्राणानाम् ऋद्धिः। तस्मिन् गायत्रसामाध्यूहन्ति। प्राणो वै गायत्रसाम। प्राणम् एव तच् छीर्षन् दधति। तस्माच् छीर्षन् प्राणो हितः। ते प्रत्यञ्चो निसृव्यार्कशीर्षम् इति तेन स्तुवते। ग्रीवा हि तास् तद् यद् इमान् लोकान् अनुदाख्यायम् इव गायति। शिरश् चैव तद् आत्मानं च संदधाति। तस्माच् छिरश् चात्मा च संहितौ। तद् आहुर् अपञ्चविंशं भवत्य्, अतिरिच्यते, तस्माद् एतद् अत्र न कार्यम् इति॥2.415॥


त एतेन त्रिवृता स्तोमेन रथन्तरम् अभ्यायन्ति। ब्रह्म वै त्रिवृद्, अन्नं रथन्तरम्। ब्रह्मणैव तद् अन्नाद्यं स्पृण्वन्ति। तस्मिन् पञ्चदशं स्तोमम् अध्यूहन्ति। वज्रो वै पञ्चदशो ऽन्नं रथन्तरम्। वज्रेणैव तद् अन्नाद्यं परिगृह्णन्ति। त एतेन पञ्चदशेन सप्तदशम् अभ्यायन्ति। वज्रो वै पञ्चदशो, विट् सप्तदशः। वज्रेणैव तद् विशं स्पृण्वन्ति। तस्मिन् ब्रह्मसामाध्यूहन्ति। क्षत्रं वै बृहत्। क्षत्रम् एव तद् विश्य् अध्यूहन्ति। स तस्मात् क्षत्रियो विश्य् अध्यूढः। तद् आहुर् इतो बृहता स्तोतव्यम्, इतो रथन्तरेणेति। प्राणम् इव वा इदं सर्वं प्रत्युद्यत्या इति। तद् उ ह स्माह कीजो वाकायनः - पृष्ठतो वा एते ऽन्नाद्यं कुर्वते, य इतो बृहता स्तुवत, इतो रथन्तरेण। अन्नं वै रथन्तरम्। दक्षिणतो वा अन्नाद्यम् अवरुद्धम् उपाचरति। तस्माद् इत एव बृहता स्तुवत, इतो रथन्तरेणान्नाद्यस्यावरुद्ध्या इति। य उ एवैष पञ्चदश स्तोमस् स उ प्रत्युद्यत्या इति। तस्माद् उ सव्यं पक्षं वयांस्य् अनु परिप्लवन्ते। त एतेन सर्वेणैकविंशं प्रतिष्ठाम् आयन्ति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। सर्वस्मिन् वा एषो ऽस्मिन्न् अधि प्रतिष्ठितः। तद् यस्मिन्न् एष सर्वस्मिन्न् अधि प्रतिष्ठितस् तस्मिन् सर्वस्मिन्न् अधि प्रतितिष्ठामेत्य् एतं प्रतिष्ठापयन्ति॥2.416॥


तस्मिन् भद्रं सामाध्यूहन्ति। प्रजा वै भद्रम्। पुच्छतो वै प्रजाः प्रजायन्ते। पुच्छत एवैतत् प्रजनने प्रजां दधते प्रजात्यै। तत्रापि श्रेयः कार्यम् आहुः। प्रजा वै भद्रं, प्रजायै या प्रजा सा श्रेयः। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। तद् आहुस् सकृद् एव सर्वेण स्तोतव्यं वयसो ऽनुरूपं कृत्वेति। यद् वै वयः प्रपतति सर्वाण्य् अङ्गानि नाआनाशो युक्त्वा प्रपतति। अथ यद् उपविशति सर्वाण्य् अङ्गान्य् आत्मानम् उपसमाहृ्त्योपविशतीति। तद् यत् सकृद्एव सर्वेण स्तुवन्ति यथा वयः प्रपतत् सर्वाण्य् अङ्गानि नानाशो युक्त्वा प्रपतेत् तादृक् तत्। अथ यद् एकैकया स्तुतयोपसमायन्ति यथा वय उपविशत् सर्वाण्य् एवाङगान्य् आत्मानम् उपसमाहृत्योपविशेत् तादृग् उ (त)त् । अथ ह स्माह भाह् भाल्लवेयो - नैतस्मिन्न् अहन्न् अन्य उद्गातुस् साम्नार्त्विज्यं कुर्यात्। श्रीर् वा एतद् अहः, श्रीर् उद्गाता। यद् एतस्मिन्न् अहन्न् अन्य उद्गातुस् साम्नार्त्विज्यं कुर्याद् अनववदितैनान् अववदेद् अनभ्यारोढाभ्यारोहेत्, पापवस्यसं स्यात्, स वैवानुपरिसर्पं संस्थापयेत्, स वैकैकया स्तुतयोपसमेयाद् इति। तद् इव त्व् अत्र परिचक्षते यन् नवविंशस्तोमस् संपद्यते। तद् आहुर् नवविंश स्तोमस् संपद्यतेवाश्यमानानुपतेत् स्वं यूथं जानमेजय गौर् गास् साहस्रयाजिन शलकाण्डाणि विगच्छतीतीव वा एता यथायथम् अपियन्तीति। शिव एव शीर्षन्न् आप्येति, पक्षौ पक्षे, पुच्छं पुच्छ्यात्मानम् इद् आत्मन्न् आप्येति। नवविंश स्तोमस् संपद्यते कार्यम् एवाप्य् एवम् इति॥2.417॥


आसन्दीम् उद्गाताधिरोहति, प्लेंखं होता, कूर्चाव् अध्वर्यू, कूर्चसद एवान्या होत्रा भवन्ति। तद् आहुर् न दीक्षितेनासन्द्य् अधिरुह्येति। उत्थिता ह खलु वा एतद् अहर् आगच्छन्ति। यद् वावादो दशमम् अहस् तद् एवोक्थानि। इयम् अधिरुह्यैवेत्य् आहुः। अन्तरिक्षसाच्य् एवै वै श्रीः। एवं श्रिया उप्पातिर् इति। वाणश् शतश्रीर् भवति। शतायुर् वै पुरुषश्शतेन्द्रियश् शतवीर्यस्,तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै। तद् आहुर् न वाणश् शतश्रीः कार्यो, यर्हि वा एतस्य ब्राह्मणास् सन्तानम् अविदुस् सकृत् सन्ततो वा एष तर्हि राज्ञां समासु प्रविशामि ब्रुवन्न् अशयत् तं किं तत् कुर्युर् यस् तथैतर्हि न यथा पुरेति। तद् उ वा आहुः किं खलु तथैतर्हि यथा पुरा। एकसाम्नाह स्म वै पुरा स्तुत्वा स्वर्गं लोकं गच्छन्त्य्, अथो ऽवभृथाद्एवोद्त्य कार्यः। एवं वाणश् शतश्रीर् वाचः कृत्स्नत्वायेति। तस्यैष सन्तानो - भूर् भुव स्वर् वदा वदा वदी वदा वदोरुः पृथुस् सुगस् सुगन्तुः कर्मः करणः करः करिष्यन्न् ऐन्द्रीं वाचं बृहतीं विश्वरूपां शतायुषं प्रवद देव वाणेति। अथेन्द्रणतया चेषीकया वेतसशाखया चोल्लिखति - मनो ज्योतिर् इति, वाक् सत्यम् इति, मनो भद्र इति॥2.418॥


अहीनसं हाश्वत्थिं पुत्रा उपसमेत्योचुस् - सत्रायामो वै भगवो ऽनु नश् शाधीति। स होवाच - मैवं वोचत। दुरुपधर्षो वै संवत्सरः। यथा वै रथनाभाव् अराः प्रतिष्ठिता, एवं वै संवत्सरे सर्वे मृ्त्यवः प्रतिष्ठिताः। अथैतद् एवं ब्रूथेति। ते होचुस् तेषां वै त्वम् एव भिषग् असि, त्वं प्रायश्चित्तिर्, अन्व् एव नश् शाधीति। तद् धास्य प्रियम् आस। स होवाचैवं चेद् ब्रूथ, षट्सु स्म प्रतिष्ठासु प्रतितिष्ठत। षड्भ्य स्म हरित्मतीभ्यो मेत। चतुश्चक्रं स्म पारयिष्णुं समारोहत। स्वर्गस्य स्म लोकस्य पथो ऽञ्जसायनान् मेत। संवत्सरस्य स्म व्याप्तम् अतिप्लवध्वम्। दैव्यं स्म मिथुनम् उपेत। प्रस्पष्टात् स्म सार्थान् मा हीयध्वम्। अच्युतं स्म यज्ञस्य मा च्यावयत। यज्ञस्य स्म श्वस्तनम् उपेत। वाचं स्म सत्यवतीम् उपेत। वर्षिष्ठान् स्माजौ युङ्ध्वम्। उत्तरावतीं स्म श्रियम् उपेत। स्वर्गं स्म लोके प्रतितिष्ठत। ग्रामात् स्मारण्यं मेत। ज्ञानात् स्माविर्भवान् मेत। दैव्यात् स्म विवाहान् मेत। यज्ञात् स्म मेतेति। एतानि हैनान् अनुशशास। ते होचुर् अनु न इदम् अशिषः परोक्षेणैव। तथा नो ऽनुशाधि यथेदं विजानीयामेति॥2.419॥


स होवाच यद् वो ऽवोचं - षट्सु स्म प्रतिष्ठासु प्रतितिष्ठतेति, निधनवन्ति स्म पवमानमुखेभ्यो मा च्यावयतेत्य् एव वस् तद् अवोचम् इति। एषा ह वै साम्नः प्रतिष्ठा यन् निधनम्। षड् एतानि निधनवन्ति भवन्ति, षड् ऋतवस् संवत्सरः। स यथा वृक्षम् आक्रमणैर् आक्रममाण इयाद् एवम् एवैतैस् सामनिधनै स्वर्गं लोकं रोहन्तो यन्ति। तस्मान् निधनवन्ति पवमानमुखेभ्यो न च्यावयितव्यानि।

अथ यद् वो ऽवोचं षड्भ्य स्म हरित्मतीभ्यो मेतेतीळाविभक्तिर् एव वस् तद् अवोचम्, इळाभि स्म बृहतीर् आरभध्वम् इत्य् एव वस् तद् अवोचम् इति। ता एताष् षड् हरित्मतीः। स यथा षड् ढरित्मतीर् अश्वतरीस् संयुज्य यत्र जिगमिषेत् तद् गच्छेद्, एवम् एवैताभिर् इळाविभक्तिभि स्वर्गं लोकम् अभ्यश्नुवते। तस्माद् इळाभिर् एव बृहतीर् आरभ्या॥2.420॥