जैमिनीयं ब्राह्मणम्/काण्डम् २/२०१-२१०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

अथैतास् संसृप इष्टयो भवन्ति। वरुणस्य ह वै सुष्वाणस्य षोडशतयैर् आपो भर्गं निरघ्नन्। तद् इमां दशम् अपतत्। तच् चतुर्धाभवद् - भृगुस् तुरीयं सरस्वती तुरीयं दशपेयस् तुरीयं श्रायन्तीयं तुरीयम्। तस्माद् एतस्य यज्ञस्य भार्गवो होता भवति, सरस्वतीर् आपो ऽभिषेचनीया, दशपेयो यज्ञ, श्रायन्तीयं ब्रह्मसाम। ते देवा अब्रुवन्न् एतेदं भर्गम् अनुविन्दामेति। त एतास् संसृप इष्टीर् अपश्यन्। ताभिर् एनद् अनु समसर्पन्। यद् अनु समसर्पंस् तत् संसृपां संसृप्त्वम्। तद् विष्णुनैव देवतया दशम्याम् अन्वविन्दन्। तस्माद् एतस्य यज्ञस्य वैष्णवं दशमं हविर् निरूप्यते। दशम्यां ह्य् अन्वविन्दन्। दशमीं प्रसृतो भवति। दशम्यां ह्य् अन्वविन्दन्। दश चमसा भवन्ति। दशम्यां ह्य् अन्वविन्दन्। दश दश चमसम् अनु प्रसृप्ता भवन्ति। दशम्यां ह्य् अन्वविन्दन्। यो दशपुरुषं सोमपीथाद् अव्यवच्छिन्नस् स भक्षस्य कर्ता। दशम्यां ह्य् अन्वविन्दन्। तद् अनुविद्याग्निना पर्यैन्धत। मरुतो यं श्रायन्तीयेनैनद् अश्रीणंस्, तच् छ्रायन्तीयस्य श्रीयन्तीयत्वम्। तस्य यज्ञायज्ञीयस्यर्क्षु बहिष्पवमानं भवति। अग्निर् वै यज्ञायज्ञीयस्यर्चः। अग्निनैवैनत् तत् परीन्धते॥2.201॥


श्रायन्तीयं ब्रह्मसाम। सम् एवैनत् तच् छ्रीणन्ति। यज्ञायज्ञीयम् अनुष्टुप्सु प्रोहन्ति। वाग् वै यज्ञायज्ञीयम्। वाग् अनुष्टुप्। वाचैवैनत् तत् समृद्धयन्ति। वारवन्तीयम् अग्निष्टोमसाम। इन्द्रियं वै वीर्यं वारवन्तीयम्। इन्द्रियेणैवैनत् तद् वीर्येण समृद्धयन्ति। सप्तदशस्तोमो भवति - प्रजापतिर् वै सप्तदशः। प्रजापतिर् नष्टस्यानुवेत्ता - स यो नष्टस्यानुवेत्ता तेनेदं भर्गम् अनुविन्दामेति। अग्निष्टोमो यज्ञस् - संवत्सरो वा एष यद् अग्निष्टोमस् - संवत्सरेणैवैनांस् तत् परिगृह्यात्मस्व् अदधत। तस्मिन्न् एता यथारूपं दक्षिणा नीयन्ते - स्रग् उद्गातू, रुक्मो होतुः, प्राकाशाव् अध्वर्योर्, द्वादश पष्ठौहीर् ब्रह्मणे, धेनुर् मैत्रावरुणाय, ऋषभो ब्राह्मणाच्छंसिने, वाससी नेष्टापोत्रो, स्थूर यवाचितम् अच्छावाकाय, अनड्वान् अग्नीधः। तद् यत् स्रग् उद्गातुर् भवति - सौर्या वै स्रक् - सौर्य उद्गाता तत् तत्सलक्ष्म क्रियते॥2.202॥


सा पटरणी भवति। पटरीव ह्य् असाव् आदित्यः। अथ यद् रुक्मो होतुर् भवति, त्रीणि वा एतानि सम्यञ्चि सन्धीयन्ते। रुक्म आहवनीयो ऽसाव् आदित्यः। तद् यद् एतानि सम्यञ्चि सन्धीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद। अथ यत् प्राकाशाव् अध्वर्योर् भवतो रूपेणेन्तताम् आह्वयन्तीति वा आहुः। अथो यद् एव तौ प्रकाशैव चरतस् तत् तत्सलक्ष्म क्रियते। अथ यद् द्वादश पष्ठौहीर् ब्रह्मणे भवन्ति - प्रजननं वै पष्ठौहीः - प्रजननं ब्रह्मा तत् तत्सलक्ष्म क्रियते। अथ यद् धेनुर् मैत्रावरुणाय भवति - पयस्या वै धेनुः - पयस्याभाजसौ मित्रावरुणौ तत् तत्सलक्ष्म क्रियते। अथ यद् ऋषभो ब्राह्मणाच्छंसिने भवत्य् - ऐन्द्रो वै ब्राह्मणाच्छंस्य् - ऐन्द्र ऋषभस् तत् तत्सलक्ष्म क्रियते। अथ यद् वाससी नेष्टापोत्रोर् भवतो - मारुते वै वाससी - मारुतौ नेष्टापोतारौ तत् तत्सलक्ष्म क्रियते। अथो भूमा वै मरुतो, भूमा तन्तुभिर् वासः। अथ यत् स्थूर् यवाचितम् अच्छावाकाय भवति, धीतेव ह वा एषा होत्रायातयाम्नी यद् अच्छावाकीया। ताम् एतैर् एव यवैर् आप्याययन्ति। तत् स्थूरि भवति क्षेमस्य रूपम्। होत्रा अनुविमुच्यान्ता इति। अथ यद् अनड्वान् अग्नीधे भवति - वहति वा अनड्वान्, वह्त्य अग्निर् देवेभ्यो हविस् - तत् तत्सलक्ष्म क्रियते। तद् यद् एता यथारूपं दक्षिणा नीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद॥2.203॥


अवभृथाद् उदेत्य श्मश्रूण्य् एव वपते न केशान्। श्रीर् वै शिरः। शिर उ ह वै सुष्वाणस्य श्रीर् गच्छति। स यत् पुरा संवत्सरात् केशान् वपेत श्रियम् एव वपेत न केशान्। अथ यद् उपरिष्टात् संवत्सरस्य केशान् वपते संवत्सरेणैव तद् आत्मन् श्रियं परिगृह्य केशान् एव वपते, न श्रियम्। तस्माद् उपरिष्टाद् एव वपेत। सो ऽतिरात्रो भवति। एतद् वै केशानां रूपं यद् अतिरात्रः। ये शुक्ला अह्नस् ते रूपं, ये कृष्णा रात्र्ये ते। तस्माद् अतिरात्रो भवति। तस्यैते प्रतिलोमा भवन्ति। तदा श्रेयांसं वा एषो ऽभ्यारोहति यस् सूयत इति। तस्यैकविंशं प्रातस्सवनं भति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एष वै वरुणः। वरुणसव एष एतर्ह्य् अभ्यारोहति यो वै श्रेयांसम् अभ्यारुह्याथास्मै न निह्नुते। यया वै स तम् आर्त्या कामयते तयैनं निह्नोति। तद् यद् एते प्रतिलोमा स्तोमा भवन्ति निह्नवाना एवैतद् अपविजानानाः पुनर् अर्वा्ञ्च स्तोमा आयन्ति। यो वै श्रेयांसम् अभ्यारुह्याथास्मै निह्नुते व्येहि मापक्रमीर् इति वै स तम् आह तद् यद् आश्विनाः क्रतवः पुनर् ऊर्ध्वा उद्यन्ति यथा निह्नवानं ब्रूयाद् व्येहि मापक्रमीर् इति तादृक् तत्। तस्य रथन्तरं माध्यंदिने भवति। इयं वै रथन्तरम्। अस्याम् एवैतत् प्रतितिष्ठति॥2.204॥


अथैष द्विरात्रः। प्रजाकामो हैतेन यजेत। तस्योभये स्तोमा भवन्त्य्, अयुजश् च युग्मन्तश् च - एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमास् - तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे सामनी भवत - एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे - तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रनयताद् इति। तस्य पञ्चविंशं ब्रह्मसाम भवति। पुरुषो वै पञ्चविंशः। यजमानकामो वा एष यद् ब्रह्मसाम। प्रजाम् एव तत् पुरुषतां गमयति। तस्य सप्त च शतानि विंशतिश् च स्तोत्र्या भवन्ति। तावन्तस् संवत्सरस्याहोरात्राः। अहोरात्रा वा इदं सर्वं प्रजनयन्ति। ते य इदं सर्वं प्रजनयन्ति ते य इदं सर्वं प्रजनयन्ति ते मा प्रजनयाद् इति॥2.205॥


अथैष त्रिष्टोमो ऽग्निष्टोमः। प्रतिष्ठाकामो हैतम् आहरेत। तद् आहुः प्रेव वा एषो ऽस्माल् लोकाच् च्यवते यस् सूयत इति। तद् यत् त्रिष्टोमो भवति - त्रयो वा इमे लोका - एष्व् एव तल् लोकेषु प्रतितिष्ठति। अथो हैष धृतिर् एव नाम यज्ञक्रतुः। तस्य रथन्तरं पृष्ठं भवति। तेन हैतेनाभिप्रतारणो राजा नेजे। द्विरात्रान्तं हैव चक्रे। तम् उ ह ब्राह्मण उवाच परा कुरवः कुरुक्षेत्रं जेष्यन्ते। प्रजाम् एवाहरत, न क्षेत्राणीति। त एते कुरवः कुरुक्षेत्रं पराजित्य चरन्ति, सल्वा एते कुरुक्षेत्रे। स वा एष क्षेत्राणाम् एव धृत्वा ह्रियते यत् त्रिष्टोमो ऽग्निष्टोमः॥2.206॥


अथैते नाकसदः। स्वर्गं ह वै लोकं देवा अभ्यारुरुहुः। ते स्वर्गं लोकं गत्वा सार्धम् एवाव्यवसिता आसन्। ते ऽकामयन्त नाके स्वर्गे लोके व्यवस्येमेति। त एतान् नाकसद स्तोमान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। ततो वै ते नाके स्वर्गे लोके व्यवास्यन्। यन् नाके स्वर्गे लोके व्यवास्यंस् तन् नाकसदां नाकसत्त्वम्। वि ह वै नाके स्वर्गे लोके वस्यति य एवं वेदेति ह स्माह जानश्रुतेयः। अथ ह स्माह वैतसव्यो(?) ऽस्मिन्न् एवाग्रे लोके प्रजापतिर् देवान् असृजतेति। अथ हेम ऊर्ध्वा लोकाः कृन्तत्राण्य् अवासुर् अरथयाना यथा वनाकक्षा एवम् अप्रैताः। ते देवा अकामयन्त स्वर्गं लोकम् इयामेति॥2.207॥


ते वसवः प्रथम आयन्। ते त्रिभिर् एव त्रिवृद्भिर् इमं लोकं प्रायुवन्न्, एकेन पंचदशेनान्ववास्यन्। त्रिभिर् एव त्रिवृद्भिर् इमम् अन्तरिक्षं लोकं प्रायुवन्। एकेन सप्तदशेनान्ववास्यन्। त्रिभिर् एव त्रिवृद्भिर् अमुं लोकं प्रायुवन्। एकेनैकविंशेनान्ववास्यन्। तद् यथा ह वै परशोस् तिग्म यथाग्निर् देवतानाम् एवम् एष यत् त्रिवृत् स्तोमः। तद् यथा परशुना पुरस्तात् संवृच्यन्न् इयाद् अग्निना पश्चात् समं कुर्वन्न्, एवम् एव तद् वसवस् त्रिवृता स्तोमेनेमान् लोकान् प्रायुवन्। तद् यद् इमान् लोकान् प्रायुवंस् तस्माद् उ हैते प्रयुतो नामापि स्तोमाः। तद् यथाग्निदग्धेषु गेवस्यन्न् इयाद् एवम् एव तद् वसव आयन्। तस्मात् ते परार्ध्या देवानाम्। ते हि प्रथम आयन्॥2.208॥


अथ रुद्राः कृततरं पन्थानम् अपश्यन्। त एकेनैव त्रिवृतेमं लोकं प्रायुवन्। त्रिभिः पञ्चदशैर् अन्ववास्यन्। एकेनैव त्रिवृतेमम् अन्तरिक्षं लोकं प्रायुवन्। त्रिभिस् सप्तदशैर् अन्ववास्यन्। एकेनैव त्रिवृतामुं लोकं प्रायुवन्। त्रिभिर् एकविंशैर् अन्ववास्यन्। तद् यथा ह वै कृतस्य पथो यत् तत् त्रिविषमम्। तत् पश्चात् समं कुर्वन्न् एवम् एव तद् रुद्रा आयन्। अथादित्याश् चतुर्भिर् एव त्रिवृद्भिश् चतुर्भिः पञ्चदशैस् त्रिभिस् सप्तदशैस् त्रिभिर् एकविंशैर् विराट् स्वराजेन पृथग् एवायन्। त्रिणवेनैव मरुत आयन्। ओजो वै वीर्यम्। मरुत ओजो वीर्यम्। त्रिणवस् ते ऽत ओजसैव वीर्येणायन्। त्रयस्त्रिंशेनैव विश्वे देवा आयन्। ते स्वर्गं लोकं गत्वा सार्धम् एवाव्यवसिता आसन्। ते ऽकामयन्त वयम् अपि नाके स्वर्गे लोके सीदेमेति॥2.209॥


त एतं विश्वे देवास् त्रयस्त्रिंशं स्तोमम् अपश्यन्। तम् आहरन्त। तद् आहुः कतमे विश्वे देवा इति। एता एव पञ्च देवतास् संपद्य एव विश्वे देवा भवन्तीति ह ब्रूयात्। त एतेन विश्वे देवास् त्रयस्त्रिंशेन स्तोमेन समयजन्त। तत् त्रयस्त्रिंशद् वै देवतास्, त्रयस्त्रिंशद् देवलोकाः. ततो वै ते नाके स्वर्गे लोके ऽसीदन्। ते ऽब्रुवन् न सदाम वै स्वर्गे लोके नाक इति। यद् अब्रुवन् न सदाम वै स्वर्गे लोके नाक इति तन् नाकसदां नाकसत्त्वम्। वि ह वै नाके स्वर्गे लोके सीदति य एवं वेद। तेषूभे उभेसामनी भवत, उभाभ्यां हि तत्र गच्छति यत्र जिगमिषति। तेषु यानि सुवर्निधनानि यानि ज्योतिर्निधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या, अहोरूपाणां च समृद्ध्यै॥2.210॥