जैमिनीयं ब्राह्मणम्/काण्डम् २/१८१-१९०

विकिस्रोतः तः
Jump to navigation Jump to search

अथैतान्य् आप्रीर् आज्यानि भवन्ति। प्रजापतिः प्रजा असृजत। स सृष्ट्वा रिरिचानो ऽमन्यत। स एतान्य् आप्रीर् आज्यान्य् अपश्यत्। तैर् आत्मानम् आप्रीणीतायातयामतायै। रिच्यत इव वा एष यत् सर्वं ददाति। तद् यद् एतान्य् आप्रीर् आज्यानि भवन्त्य् आत्मानम् एवैतैर् यजमान आप्रीणीते ऽयातयामतायै। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते य एतानि नानारूपाणि नानादेवत्यानि नानाछन्दःसु समाने यज्ञक्रतौ संप्रोहन्तीति। तद् यद् गायत्रीषु बृहद् भवति - प्राणो वै बृहत्। प्राणो गायत्री - प्राणैर् एव तत् समृध्यन्ते। यद् यथापूर्वं पृष्ठान्य् उपेयू रेवतीर् उत्तमाः कुर्यू रेवतीनाम् एता रूपम् ऋचस्, तेनैव रेवतीनां रूपान् न यन्ति। तद् आहुर् यन्ति वा एते ऽग्निष्टोमसाम्नो ये त्रयस्त्रिंशं स्तोमं कुर्वन्तीति। एकविंशत्यक्षरा एता ऋचो भवन्ति। तेनैवाग्निष्टोमसाम्नो न यन्ति। तद् आहुर् यन्ति वा एते यज्ञायज्ञीयाद् य बृहद् अग्निष्टोमसाम कुर्वन्तीति। तद् यत् त्वम् अग्ने यज्ञानां होतेति भवति तेनैव यज्ञायज्ञीयस्य रूपान् न यन्ति, तेन तृतीयसवनान् न यन्ति। तद् आहुर् वीव वा एष पशुभिर् ऋध्यते यत् सर्वं ददातीति॥2.181॥


रोहिणीं छविं परिधत्ते। एतद् वै पशूनां प्रियं रूपं यद् रोहितम्। पशूनाम् एव तत् प्रियेण रूपेण समृध्यते। खनति खनित्रम् अवृत्तिम् अपजयति। उभयतःक्ष्णुद् अभ्रिर् भवत्य - उभयत एवास्मा अन्नाद्यं रदति। अरण्ये तिस्रो वसति - यद् आरण्यम् अन्नाद्यं तद् एव ताभिर् अवरुन्द्धे। न ग्रामे नारण्ये तिस्रो - यन् न ग्रामे नारण्ये ऽन्नाद्यं तद् एव ताभिः। जने तिस्रो - जन्यं ताभिः। सजने तिस्रः - सजन्यं ताभिः। ता द्वादश संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सराद् एवान्नाद्यम् अवरुन्द्धे। रोहिणीं छविं परिधत्ते। एषा ह वा अग्रे पशूनां त्वग् आस या पुरुषस्य, या पशूनां सा पुरुषस्य। ते पशव आतपं वर्षं दशान् मशकान् न धारन्ति। ते पुरुषम् एत्याब्रुवन् - पुरुषेयं तव त्वग् अस्त्व् एषास्माकम् इति। किं तत स्याद् इति। आद्या ते स्याम इत्य् अब्रुवन्। इदं ते वास इति वासः प्रायच्छन्। तद् यद् रोहिणीं छविं परिधत्ते स्वेनैव तद्रूपेण समृध्यते। तथा हैनम् अमुष्मिन् लोके पशवो नादन्ति। अदन्ति ह वा अमुष्मिन् लोके पशवः पुरुषम्। तस्माद् उ ह गोर् अन्ते नग्नो न स्यात्। ईश्वरो हास्माद् अपक्रमितोस् त्वचम् अस्य बिभर्मीति॥2.182॥


सा सपुच्छा भवति कृत्स्नत्वाय। अथो सर्वं वाव स्म प्राजापत्याः। यस् त्वाव पुत्राणां कृपणतमो भवति, स पितुर् हृदयम् आप्येति। कृपणताम् इवैष न्येति यस् सर्वं ददातीति, गच्छति प्रजापतेर् अनुबोधम्। तद् या अरण्ये वसेद् उदुम्बरे हैव ता वसेत्। प्रजापतिर् यत् प्रजाभ्य ऊर्जम् अन्नाद्यं व्यभजत्, ततो यः संशेषः समशिष्यत, स एष वनस्पतिर् अभवत्। उर्ग वा उदुम्बरो ऽन्नम्। अरण्यं वा एतस्यान्नाद्यम् इतं भवति यस् सर्वं ददाति। स यो ऽत्र प्रजापतिन्यंगो यद् अन्नाद्यम्। तद् एव ताभिर् अवरुन्द्धे। अथ या न ग्रामे नारण्ये वसेत्, निषादेषु हैव ता वसेत्। एष ह वै न ग्रामे नारण्ये यन् निषादाः। एताभिर् ह वा उभयम् अन्नाद्यं समभ्यवैति यच् च ग्राम्यं यच् चारण्यम्। स यो ऽत्र प्रजापतिन्यंगो यद् अन्नाद्यं तद् एव ताभिर् अवरुन्द्धे। अथ या जने वसेद्, वैश्ये वा ह ता भ्रातृव्ये वा वसेत्। एष ह वै ब्राह्मणस्य जनो यद् वैश्यो वा भ्रातृव्यो वा। जनं वा एतस्यान्नाद्यम् इतं भवति यस् सर्वं ददाति। स यो ऽत्र प्रजापतिन्यंगो यद् अन्नाद्यं, तद् एव ताभिर् अवरुन्द्धे। अथ यास् सजने वसेद्, राजनि हैव ता वसेत्। एतद् ध वै सजनं यद् राजा। अन्त उ वा अन्नाद्यस्य श्रीर्, अन्त एव तद् अन्नाद्यस्य श्रियाम् अन्ततः प्रतितिष्ठति॥2.183॥


प्रजापतिः प्रजा असृजत। स एतेनैव विश्वजितेदम् असृजत विश्वम्। तद् यद् एता नानारूपाः प्रतिपदो भवन्ति, तस्माद् उ हेदं विश्वं भूतं नानरूपम्। पृष्ठानां वावैष योगः। उपवत्यैव रथन्तरं युज्यते। सरस्वता वैराजस् सारस्वत्या महानाम्नयो ब्राह्मणस्पत्यया वैरूपं सावित्र्या रेवतयः आग्निपावमान्या बृहत्। तद् यद् एता नानारूपाः प्रतिपदो भवन्ति पृष्ठान्य् एवैतत् प्रातस्सवने युक्तानि। तानि माध्यंदिने सवने ऽभ्यारोहन्ति। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये पवस्विनीभिः प्रतिपद्यन्त इति। तद् यद् एषा वायव्या प्रतिपद् भवति - प्राणो वै वायु- - प्राणैर् एव तत् समृध्यन्ते॥2.184॥


अथैते सरस्वतश् च सरस्वत्याश् च। एतद् वै दैव्यं मिथुनं प्रजननं यत् सरस्वांश् च सरस्वती च। दैव्येन मिथुनेन प्रजाया इति। तद् आहुः पुंसः पूर्वा कार्या स्त्रिया उत्तराः। तथा यजमानस्यानपगद्भ्यैः प्रजा जायत इति। तद् उ वा आहुर् वायुर् वै रेतोधाः, प्रजननं सरस्वती। तौ सरस्वन्तं मिथुनात् प्रजनयतः। अथो वाशिता वै पूर्वा धावत्य् अन्वम् ऋषभः सरस्वत्या एव पूर्व कार्येति। एतद् उ हैतत् सरस्वतस् त्व् एव पूर्वा कार्या। अथैषा ब्राह्मणस्पत्या प्रतिपद् भवति। प्रजापतिर् या ऋते ब्रह्मणः प्रजा असृजत, ता अस्य सृष्टाः पराभवन्। स एतां ब्राह्मणस्पत्यां प्रतिपदम् अपश्यत्। तया ब्रह्मण्वतीः प्रजा असृजत। ता अस्य सृष्टा न पराभवन्। तद् यद् एषा ब्राह्मणस्पत्या प्रतिपद् भवति, ब्रह्मण्वतीर् एवैतया प्रजास् सृजते, ता अस्य सृष्टा न पराभवन्ति॥2.185॥


अथ सावित्रीप्रसवाः। यद् इह विषुरूपम् इमा नानारूपाः प्रतिपद् उपागाम तन् नस् सवितृप्रसूतम् असद् इति। अथाग्निपावमान्यः। पथम् इव वा एते यन्ति ये पावमानीभिः प्रतिपद्यन्त इति। अग्निर् वै पथिकृद् देवतानाम्। येन वै केन चाग्निनैति पन्थानम् एव कुर्वन्न् एति। तद् यद् एवाग्निपावमानी प्रतिपद् भवत्य् अग्निनैव तत् पथिकृता पन्थानं पर्यवयन्ति। पवमानस्य ते कव इति पर्यासो भवति। एतत् पुनः पन्थानं पर्यवयन्ति। यो वै पृष्ठानां धुर्यं वेद धुर्य स्वानां भवति। वैराजं वाव पृष्ठानां धुर्यम्। धुर्य स्वानां भवति य एवं वेद॥2.186॥


तद् आहुः पापवस्यसम् इव वा एतत् क्रियते यद् बृहद्रथन्तरे अभितो भवतो, मध्ये पृष्ठानि। यथा वै पापीयांसम् उपर्यासीनं श्रेयान् अधस्ताद् उपासीत तादृक् तद् यद् एते बृहद्रथन्तरे अभितो भवतो मध्ये पृष्ठानीति। बृहद्रथन्तरे एव मध्ये स्थाताम् अभितः पृष्ठानि पापवस्यसस्य व्यावृत्त्यै। अथो यथा श्रेयांसम् उपर्यासीनं पापीयान् अधस्ताद् उपासीत तादृक् तद् यद् बृहद्रथन्तरे मध्ये भवतो ऽभितः पृष्ठानीति। असर्वपृष्ठो ह तु तथा स्यात्। सर्वेषां वै पृष्ठानां वैराजम् एव पूर्वं योगम् आनशे। अथो यद्यपि चरमं यन्तं पृच्छेयुर् उप पृष्ठान्य् अगूर्णा इति, नेत्य् एव ब्रूयात्। बृहद्रथन्तरे एवाभित स्यातां, मध्ये पृष्ठानि सर्वपृष्ठतायै। इदं वै रथन्तरम्, अदो बृहत्। पशवः पृष्ठानि। आभ्याम् एवैतल् लोकाभ्याम् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.187॥


अथो यथा पिता मातैवं बृहद्रथन्तरे, यथा पुत्रा एवं पृष्ठानि। यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा। तद् यद् बृह्द्रथन्तरे अभितो भवतश् शान्त्या एव निषिद्ध्यै। अथो यथा पितरौ पुत्रान् अभित परिशय्यातां तादृक् तद् यद् बृहद्रथन्तरे अभितो भवतो, मध्ये पृष्ठानि। यथा ह वा इदम् ऋषभा वा परस्वन्तो वा समुत्क्रुद्धास् तिष्ठेयुर् एवम् एतद् यद् एतानि मध्यतः पृष्ठानि भवन्ति, तद् यच् छ्यैतनौधसे अभितो भवतः। ब्रह्म वै नौधसम्। ब्रह्मणैवैनांस् तत् पुरस्ताच् छमयित्वा श्यैतेनोपरिष्टाच् छ्येतीकुर्वन्ति। तस्मात् पुरस्ताद् एव नौधसं स्याद् उपरिष्टाच् छ्यैतम्। तद् आहुर् यत् समाननिधनानि पृष्ठानि, केनाजामी क्रियन्त इति। वैराजं च महानाम्नयश् च वैरूपं च रेवत्यश् चैतेनाख्यानेनाजामीति। अथो यद् एवैतानि मध्ये निधनानि भवन्ति तेनो एवेति। तस्मिंस् त्रयस् सप्तदशा भवन्ति। ता एकपञ्चाशत् स्तोत्र्याः। तद् गोः प्रातस्सवनम्। एकान्नवतिशतं रात्रेस् सा ज्योतिष्टोमस्य रात्रिः। तद् एतन् मिथुनं प्रजननं क्रियते। प्र मिथुनेन जायते य एवं वेद। ता उभयी स्तोत्र्यास् संपद्यन्ते द्वे चत्वारिंशच्छते। सा विराट्। अन्नं विराट्। विराज्य् एव तद् अन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति॥2.188॥


देवासुरा अस्पर्धन्त। अथ ह तर्हि प्रजापताव् एवैतानि शिल्पान्यआसुर् नेतरेषु देवेषु। स इन्द्रः प्रजापतिम् उपाधावज् जयामासुरान् इति। तस्मा एव तच् छिल्पं प्रायच्छत्। तद् अस्मिन् प्रत्यमु्ञ्चत्। यथा निष्कं मणिं स्रजं प्रतिमु्ञ्चेद् एवं तन्वोदयच्छत्। तस्माद् एतच् छिल्पं निरमिमीतैतानि पृष्ठानि। अथ यद् इतरत् तेज आसीद् येनैष एतत् तपति। ते ऽसुरा इदं रूपं ज्ञात्वा सो नः पिता हन्ति सो नः पिता हन्तीत्य् एव भवन्तः पराजयन्त। ततो वै देवा अभवन् परासुराः। भवत्य आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥2.189॥


तद् आहुर् नातिष्टुत्यम्। यथा वै निष्कं मणिं स्रजं प्रतिमुच्य तत् पुनर् उन्मु्ञ्चेत् तादृक् तद् यो ऽग्निष्टोमे ऽतिष्टौतीति। अन्यतरद् ध त्वाव स विश्वयोर् जयति। अहोरात्रे वै सर्वं विश्वम्। अथो यथा महावृक्षस्याग्रं रूढ्वा प्रत्यवरोढुं न विन्देत् तादृक् तद् यद् अग्निष्टोमो भवति। तद् यत् प्रत्यवरोहीणि स्तोत्राणि भवन्त्य् - एषा वै कृत्स्ना प्रतिष्ठा यद् अतिरात्रस् - तेनैवास्यां प्रतितिष्ठति। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये ऽतिरात्रम् उपयन्तीति। तद् यद् गायत्रीषु बृहद् भवति - इयं वै गायत्री - अस्याम् एवैतत् प्रतितिष्ठन्ति॥2.190॥