सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् २/१५१-१६०

विकिस्रोतः तः
← कण्डिका १४१-१५० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका १५१-१६०
[[लेखकः :|]]
कण्डिका १६१-१७० →

अथैष तीव्रसोमः। प्रजाकामो हैतेन यजेत। तनुर् इव ह वा एष यो ऽप्रजः। प्रजयो ह वै पुरुषस् तीव्रो बहुलः। प्रजया तीव्रो बहुलो ऽसानीति। अथो आहुः पशुकाम एवैनेन यजेतेति। तनुर् इव ह वा एष यो ऽपशुः। पशुभिर् ह वै पुरुषस् तीव्रो बहुलः। पशुभिस्तीव्रो बहुलो ऽसानीति। स सप्तदशो भवति। एष ह वै तीव्रो बहुलो यत् सप्तदशः। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति। तस्योभे बृहद्रथन्तरे सामनी भवतः। एते ह वै तीव्रे बहुले यद् उभे बृहद्रथन्तरे। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति। तस्य वडवा गर्भिणी दक्षिणा भवति। एषा ह वै तीव्रा बहुला यद् वडवा। तीव्रा तेन बहुला यद् गर्भिणी। तीव्रा तेन बहुला यद् उभयतोदती। तीव्रा तेन बहुला यद् एका सती बह्वीर् गा अर्हति। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति। अथो आहुर् धेनुशतम् एवास्य नानावत्सं दक्षिणा स्याद् इति। एतद् ध वै तीव्रं बहुलं यद् धेनुशतम्। तीव्रं तेन बहुलं यच् छतम्। तीव्रं तेन बहुलम् यद् अस्य पयः। तीव्रं तेन बहुलं यद् अस्य शतं वत्साः। प्रजया पशुभिस् तीव्रो बहुलो ऽसानीति॥2.151॥


इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तं देवा अन्वैच्छन्। तं नान्वविन्दन्। ते ऽब्रुवन्न् अभिषुणवामैव। तत आगमिष्यतीति। ते ऽभ्यषुण्वन्। तेषां ह सर्वम् एव प्रातस्सवनं नाजगाम। ते ह स्म चमसान् उरस्य् उपनिग्राहम् अभ्युन्नयन्ते - नेद् अपेन्द्रस्य सोमस्य भक्षयामेति। स उ ह माध्यन्दिने सवन आजगाम। ते होत्क्रोदं चक्रिरे यथा श्रेष्ठिन्य् आगत उत्क्रोदं कुर्वते तथा। तद् उ वा आहुर् अच्छावाकस्येद् वाव स्तोत्रे प्रातस्सवन आजगाम। अन्तरितो वै तथा यज्ञाद् अभविष्यद्, यद् अच्छावाकस्य स्तोत्रे प्रातस्सवने नागमिष्यद् इति। तस्माद् एतस्य यज्ञस्याच्छावाकस्य स्तोत्रे भक्षयन्ति। तस्माद् व् अच्छावाकायोभाव् अध्वर्यू प्रत्यागृणीतः सर्वे चमसाध्वर्यवः। उत्क्रोदम् एव तत् कुर्वते। तद् यस्माच् छ्रीर् अपक्रामेत्, स एतेन यजेत। श्रीर् वै तेषां सापाक्रामद् यद् एषां श्रेष्ठ्य् अपाक्रामत्। ताम् एतेनैवान्विन्दन्। अनु ह तां श्रियं विन्दति नास्मात् सा श्रीर् अपक्रामति य एवं वेद॥2.152॥


त्रिशीर्षा ह वै त्वाष्ट्र आस। तस्य ह त्रीणि मुखान्य् आसुस् सोमपानम् एकं सुरापानम् एकम् अन्नादनम् एकम्। प्रस्तौति ह स्मैकेनैकेन गायति प्रतिहरत्य् एकेनाश्रावयत्य् एकेन प्रत्याश्रावयत्य् एकेन शंसत्य् एकेन । स ह स्मैकात्येवानुपरि सर्वं यज्ञं संस्थापयति। सहेयद्वीर्यावान् आस। स उ हासुरीपुत्र आस। स ह स्म प्रत्यक्षं देवेभ्यो वदति, परोक्षम् असुरेभ्यः। यस्मा उ ह वै भूयः कामयते तस्मै परोक्षं वदति। तस्माद् उ हेन्द्रो बिभयांचकार यच् चासुरीपुत्र आस, यद् उ चेयद्वीर्यावान् आस। स हेक्षांचक्रे - असुर्यो वा अयम् आसुरीपुत्रः। स प्रत्यक्षम् अस्मभ्यं वदति परोक्षम् असुरेभ्यः। हन्तैनं हनानीति॥2.153॥


तस्य ह वज्रेण शीर्षाणि प्रचिच्छेद। तान्य् एव वयांस्य् अभवन्। तद् यत् सोमपानम् आसीत् स कपिञ्जलो ऽभवत्। तस्मात् स बभ्रुर् इव। बभ्रुर् इव हि सोमः। अथ यत् सुरापानम् आसीत् स कलविंको ऽभवत्। तस्मात् स मत्त इवावक्रन्दति। अथ यद् अन्नादनम् आसीत् स तित्तिरिर् अभवत्। तस्मात् स बहुरूप इव। बहुरूपम् इव ह्य् अन्नम्। तस्माद् उ तस्य वृश्चिकश् शंकुलिष्ठ इत्य् एतद् अन्नम्। स त्वष्टा हतपुत्रो ऽपेन्द्रं सोमम् आजह्रे। स इन्द्र ईक्षांचक्रे - अस्माच् चेद् वै मा यज्ञाद् अन्तरेत्य्, अन्तरितो वै तथा यज्ञाद् भवानि, हन्तैनं हनानीति॥2.154॥


तं ह वज्रहस्तो ऽभिदुद्राव। स त्वष्टा प्रत्यङ् पतित्वा पत्नीः प्रपेदे। तं ह तत्र नानुप्रपेदे। तस्मात् त्वष्टारं पत्नीषु संयजन्ति। तस्माद् उ पत्नीः प्रपन्नं न हन्यात्। उदेयायेन्द्रः। स हविर्धानयोर् एव द्रोणकलशे सोमं राजानं संपवितुम् उपेयाय। तं ह द्रोणकलशेनैव प्रतिधाय पीत्वा प्रवव्राज। अनूदेयाय त्वष्टा। स ह पप्रच्छ - अस्ति किंचित् परिशिष्टा3म् इति। अस्त्य् अयं संस्राव इति होचुः। तं हाग्नौ प्रवर्तयांचकारेन्द्रशत्रुर् वर्धस्व स्वाहेति। तं यत् प्रावर्त्तयत् स एव वृत्रो ऽभवत्। स वर्तमान एवाग्नीषोमाव् अभिसंबभूव। तस्माद् आहुर् अग्नीषोमाव् असुर्याव् इति। सहस्रेषु मात्रमूर्ध्वमुददिति। ततो ह स्मानावच्छां क्षितिस् त्रयीविद्भ्यां सर्वां श्रियं सर्वम् अन्नाद्यम् अपि यद् इदं त्रिरात्रे सहस्रं प्रोच्यते तद् अभिसंबभूव। तस्य हेदं सर्वं बलिकृद् आस। कीलालं ह स्मास्मै नद्यो वहन्ति। अथ हाभियुग्वानो नामाष्टौ देवानां सहचरा आसुर्, अष्टौ पितॄणाम्, अष्टौ मनुष्याणाम्, अष्टाव् असुराणाम्। तेषां ह स्मेन्द्रो मायया ऽष्टमो भवति वृत्रं जिघांसन्। तस्माद् उ हैनम् इन्द्र एव जघान। यद् इन्द्रशत्रुर् वर्धस्व स्वाहेति प्रवर्तयांचकार, अथ यद् ध प्रावर्तयिष्यद् इन्द्रस्य शत्रुर् वर्धस्व स्वाहेति॥2.155॥


शश्वद् धैनं नाहनिष्यत्। तम् अयम् इन्द्रं सोमो राजा पीतो अनुपहूतो ऽहिनोत्। तस्य ह सर्वेभ्य एव छिद्रेभ्यः प्रेयाय, मुखाद् एव न। तस्माद् उ ह भिषज्य आस। तस्येदवायोय सैव सुरावारिटका बभूव। यच् छिश्नात् सा परिस्रुक्। त्रिर् निरष्ठीवत्। तद् यत् प्रथमं निरष्ठीवत् तद् एव कर्कन्ध्व् अभवद्, यद् द्वितीयं तद् बदरं, यत् तृतीयं तत् क्वलम्। तस्माद् एतेषाम् अन्नं चैव रसाः खाट्कृत्य चतुर्थं निरष्ठीवत्। तद् एवाम्रम् अभवत्। तम् एवं सन्तं देवो अभितो निषेदुः। अयं न एको वीरो ऽभूत्। स इत्थं न्यगात्। क्व भवाम इति। स होवाच न वै विद्म य भुवम् इति। किम् इति। चुक्षुषामि वा इति। अथ ह स्म ततः पुरा क्षुत्वैव म्रियन्ते। तं होचुः - क्षुहि, जीवेति त्वा वक्ष्याम इति. स ह क्षुवाव। तं ह जीवेत्य् ओचुः। स ह जिजीव। तस्माद् इदम् अप्य् एतर्हि चुक्ष्वांसम् आहुर् जीवेति। तस्माद् उ यम् एव मन्येत तं ब्रूयाज् जीवेति। तस्य यन् नस्त इयाय -- ॥2.156॥


-ताव एव सिंह्याव् अभवताम्। यद् अक्षिभ्यां तौ शार्दूलौ, यत् कर्णाभ्यां तौ वृकौ वैलूषौ, यद् अपपक्षाभ्यां ताव् अपाष्टिहौ। तस्माद् एते वयसां वीर्यावत्तराः। इन्द्रो ह्य् एतेषाम् आजानम्। अथ यद् अवाग् इयाय तद् इदं क्षुद्रं श्वापदं बभूव। स ह विषिक्तश् शिश्ये। अपि ह तृणैर् अभिविलूढ आस। तं होचुः क्वेवासि क्वेव त्वाभिषज्याम इति। तस्माद् इदम् अप्य् एतर्हि उपतापिनं पृ्च्छन्ति क्वेव ते रुजति क्वेव ते ऽभिषज्याम इति। स ह तृणान्य् अभिपरिदिशन्न् उवाचेदम् इवैवम् आभितो ऽस्मीदम् इवैवम् आभितो ऽभिषज्यतेति। तद् अग्निम् अब्रुवन्न् इदं दहेति। तद् अग्निर् अदहत्। तत् पर्जन्यम् अब्रुवन्न् इदम् अभि वर्षेति। तत् पर्जन्यो ऽभ्यवर्षत्। तत् कल्याण्य ओषधयो ऽजायन्त। ता धेनूभिर् आधयन्। तत् पयो ऽदुहन्। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनैनम् अयाजयन्। तस्य प्रतिधुक् प्रातस्सवने वानयत्। प्रतीव वा अनेनाधायीति तस्मात् प्रतिधुक्। श्रितं माध्यंदिने सवने, श्रेष्ठेव वा अनेनेति तस्माच् छ्रितम्। दधि तृतीयसवने, ऽधायीव वा अनेनेति तस्माद् दधि। स यथा च ह पुर आसातितरां ह तत आस। स यस् सोमवामी वा सोमातिपवितो वा स्यात् स एतेन यजेत। यथा च ह पुरा भवत्य् अतितरां ह ततो भवति। तस्माद् उ ह सोमवामिनं वा सोमातिपावितं वा न परिचक्षीत। इन्द्रो ह्य् अपि तथास॥2.157॥


अथैष ऋतपेयः। देवेभ्यो वा ऊर्ग् अन्नाद्यम् उदक्रामत्। सोमाहुतिर् ह वा एभ्यस् सोच्चक्राम। सो एव विराट्। ते देवा अब्रुवन्न् एतेमां विराजम् अन्विच्छामेति। ते तपो ऽतप्यन्त। त एत विराजं यज्ञम् अपश्यन्। तम् आहरन्त। तम् अभ्य् अदीक्षन्त। त एकम् अहर् नाश्नन्। तस्यै नियानम् अन्ववापश्यन्। ते ऽब्रुवन् भूयो न्व् एव तपस् तप्यामहा इति। ते द्वितीयम् अहर् नाश्नन्। तस्यै घोषम् उपाशृण्वन्। ते ऽब्रुवन् भूयो न्व् एव तपस् तप्यामहा इति। ते तृतीयम् अहर् नाश्नन्। तां परापश्यन् यथा महान्तं गिरिम् उ दीक्षितं यथा वा महद् अभ्रम् एवम्। ताम् अभिक्रामम् अपक्रामम् अभ्यत्सरन्। य उ ह वै मृगं पराङ् एवाभित्सरति, नैनं स गृह्णाति। अथ य एनम् अभिक्रामम् अपक्रामम् अभित्सरति, स एवैनं गृह्णाति। तां दशमेनैवाह्नावरुन्धत। दशाक्षरा विराट्। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै॥2.158॥


तस्यापश् च घृतं च व्रतम्। अशीरा वा आपो ऽशरीरं घृतम् अशरीरा स्वधा। अशरीरेणाशरीरां स्वधाम् अवरुणधामहा इति। एतावच्छो व्रतयति। एतावती वै पुरुषस्य मात्रा - नेत् पुरुषम् अतिव्रतयानीति। अथो हैतत् पर्वश एवात्मनो ऽङ्गानि प्रतिसंदधाति. सर्पिष्मान् अन्तरेण भवति - समष्ट्यै। सप्तदशस्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापतिर् नष्टस्यानुवेत्ता। स यो नष्टस्यानुवेत्ता, तेनेमां स्वधाम् अनुविन्दामेति। तस्योभे बृहद्रथन्तरे सामनी भवतो - यद्य् अस्मिन् लोके रथन्तरेणानुविन्दाम, यद्य् अन्तरिक्षे वामदेव्येन, यद्य् अमुष्मिन् लोके बृहतेति। तस्यौदुम्बरस् सोमचमसो दक्षिणा भवत्य् - ऊर्ग् वा अन्नम् उदुंबरम् - ऊर्ज एवान्नाद्यस्यावरुद्ध्यै। अथो अशरीरो वै सोमो, ऽशरीरा स्वधा - ऽशरीरेणाशरीरां स्वधाम् अवरुणधामहा इति॥2.159॥

तद् आहुर् हुतो देया3 अहुता3 इति। अहुत इत्य् आहुः। यातयामेव वै तथा स्याद् यद् धुतं दद्याद् इति। तद् उ वा आहुर् हुत एव देयः। देवानां वा एष भागः। को देवानां भागं दातुम् अर्हति। तस्माद् धुत एव देय इति। यादृग् अह वा अस्मिन् लोके अन्नं ददाति, तादृग् अस्यामुष्मिन् लोके ऽन्नं भवति। एतद् उ ह वा अमुष्मिन् लोके परमम् अन्नाद्यं यत् सोमपीथः। एषा हैवास्य सोमाहुतिर् अमुष्मिन् लोके ऽन्नं भवति।

ऋतं सत्यं वदन्तो भक्षयन्ति। ऋतेन हि ते तां सत्येनान्वविन्दन्। ऋतम् अमृतम् इत्य् आह। ऋतेन हि ते तद् अमृतम् अन्वविन्दन्। ओ यि ज्वरा ओयि जूवेति सामनिधने भवतो वाचस् सत्ये। वाचो हि ते तां सत्येनान्वविन्दन्।

तेन हैतेनाथो दिवो गार्ग्य ईजे केशी दार्भ्य ऋजिश्वा वातवात इति। स हर्जिश्वा वातवातो ऽवतताम। तम् उ ह वृषशुष्मेण कुमारेणार्जिश्वनेनाक्ताक्षेणोपनिषेदुर् - यद्य अयम् उ रिष्यत्य् अनेनेदं समापयिष्याम इति। स ह तताम। स ह तान्तः परं लोकं जगाम। स हामुष्मिन् लोके पितरम् आजगाम॥2.160॥