जैमिनीयं ब्राह्मणम्/काण्डम् २/१११-१२०

विकिस्रोतः तः
Jump to navigation Jump to search

ता द्वाषष्टि स्तोत्रियास् संपद्यन्ते। ततो याष् षष्टिस् सा विराट्। पशवो विराट्। अथ ये द्वे यजमान एवैष द्विपात् परस्तात् पर्यूढः। पशूनां गुप्त्यै पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। अथो आहुर् एकम् एवैतत् स्तोत्रं सत् तच् चतुर्धा विहृत्य स्तुयुष्, षड्भिर् एव होत्रे स्तुयुष्, षड्भिर् मैत्रावरुणाय, षड्भिर् ब्राह्मणाच्छंसिने, षड्भिर् अष्छावाकाय। तद् उ होतैवानुशंसेद् इति। ताश् चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजापतिः। प्रजापतिर् एवैष परस्तात् पर्यूढः। पशूनां गुप्त्यै, पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। तद् उ वा आहुस् त्रिवृत् पञ्चदशं सप्तदशम् एकविंशम् इत्य् एवैतानि स्तोत्राणि स्युः। एकविंशं वा अनु सर्वे यज्ञक्रतवस् संतिष्ठन्ते। अथो एष वाव दृढः प्रतिष्ठित स्तोमो यद् एकविंशः। तस्माद् एकविंश एव स्तोमो ऽन्तकः कार्य इति। तद् आहुः पृष्ठरूपैर् एवान्वियुर् इति ॥2.111॥


अभि त्वा वृषभा सुत इत्य् आर्षभम्। अभीति रथन्तरस्य रूपम्। तेन रथन्तरस्य रूपान् न यन्ति। यद् अद्य कच् च वृत्रहन्न् इति शाकलं हिंकारवद्, वामदेव्यस्य रूपम्। तेन वामदेव्यस्य रूपान् न यन्ति। तम् इन्द्रं वाजयामसीत्य् एदावसुनिधनं बहिर्निधनं बृहतो रूपम्। तेन बृहतो रूपान् न यन्त्य् - अथो पशवो वै वसु - पशूनाम् एवावरुद्ध्यै। अथो हैनांस् तद् इदं वस्व् इत्य् एवाप्त्वोपेयायेदं विष्णुर् विचक्रम इतीळानां संक्षारः - पशवो वा इळानां संक्षारः - पशूनाम् एवावरुद्ध्यै। एतद् ध वा एनांस् तन् निजुह्व एहीळा एहीळा इति - पशवो वा इळा - तस्मात् एतान्य् अतिरिक्तोक्थानि कार्याणीति। तद् उ होवाच ताण्ड्यः - प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रमन्। सो ऽग्निम् अब्रवीद् एतान् मे वारयस्वेति। तान स जराबोधीयेन नावारयत। स इन्द्रम् अब्रवीद् एतान् मे वारयस्वेति। तान् स सत्रासाहीयेन नावारयत। स ईशानं देवम् अब्रवीद् एतान् मे वारयस्वेति। तान् स मार्गीयवेण नैवावारयत। स विष्णुम् अब्रवीद् एतान् मे वारयस्वेति। तान् स वैष्णवीषु वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तस्माद् एतान्य् अतिरिक्तोक्थानि कार्याण्य् एवेति॥2.112॥


अथैष गोसवः। स्वर्गकामो हैतेन यजेत। स वा एष षट्त्रिंशो भवति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। साम्राज्यं बृहत्याम् एव। तत् स्वर्गे लोके साम्राज्यै प्रतितिष्ठन्तो यन्ति। बृहत्य् उ ह वा इमान् सर्वान् लोकान् अक्षरैर् व्याप्नोति - दशभिर् एवाक्षरैर् इमं लोकं व्याप्नोति, दशिभर् अन्तरिक्षं, दशभिर् अमुं, चतुर्भिर् दिशो, द्वाभ्याम् अहोरात्रे। सा येमांल् लोकान् व्याप्नोति तयेमांल् लोकान् व्याप्नवानीति। तस्य स्तोत्रं स्तोत्रं चतुरश् चतुरस् त्रिवृतो ऽभिसंपद्यते। त्रिवृतं वा अन्ये स्तोमा अभिसंपद्यन्ते त्रिवृत् स्वर्गं लोकम्। स यथा क्षिप्राश्वेन चतुर्युजा यत्र जिगमिषेत् तद् गच्छेद् एवम् एवैतेन स्वर्गं लोकं गच्छति। तस्योभे बृहद्रथन्तरे सामनी भवत स्वर्ग्ये, स्वर्गस्य लोकस्य समष्ट्यै। स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशव स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य द्वादश सहस्राणि दक्षिणा भवन्ति - द्वादश मासास् संवत्सरस्, संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य व्रतम्। उप मातरम् इयाद् उप स्वसारम् उप सगोत्राम्। उपावहायोदकम् आचामेद्, उपावहाय तृणान्य् आछिन्द्यात्। यत्र यत्रैनं विष्ठा विन्देत्, तत् तद् वितिष्ठेत। अनडुहो ह लोकं जयति। तेन हैतेन जनको वैदेह इयाक्षांचक्रे। तम् उ ह ब्राह्मणा अभितो निषेदुः। स ह पप्रच्छ - क स्तोम इति। स होवाच सुदक्षिणः क्षैमिर् नायं त्रिवृद् एवाहुर् इति। तस्य किं व्रतं, का दक्षिणा इति। तस्मा उ हैतत् प्रोवाच। स होवाच - उद् एवास्य दक्षिणा आशंसे, व्रतं त्व् एवास्य नोदाशंस इति। तेनो ह स नोपदधर्षेष्टुम्। तेनो ह पुण्यकेशो यौधेनिर् ईजे शैब्यो राजा। तं ह सभायाम् एव विष्ठा विवेद. सह तद् एवोदावृणान उवाच - स्थविरयज्ञो वाव किलायम् आस। स्थविर एवानेन यज्ञेन यजेत। स्थविरस्य ह्य् एवेदं सर्वम् अनुज्ञातम् इति। स हैष स्थविरयज्ञ एव। तेन हैतेनोत्तरवयस्ये यजेत॥2.113॥


अषैष विवधः। पशुकामो हैतेन यजेत। स वा एष षट् च पंक्तीर् अभिसंपद्यते दश च स्तोत्र्याः। ततो याष् षट् पंक्तयः पशवस् ते। अथ या दश स्तोत्र्याः पशूनाम् एव स दोहः। पय एवैषां तत्। ते उ एव द्वे पञ्च पञ्च पञ्चिन्यौ पंक्त्यौ संपद्येते। त उ ते पशव एव। तस्य सविंशं प्रातस्सवनं भवति, सदशंमाध्यंदिनं सवनं, सविंशं तृतीयसवनम्। तद् यथा ह वै विवधस्योभयतस् स गुरु सविवधतायै। तादृक् तद् यत् सदशं माध्यंदिनं सवनं भवति। सविंशे अभितः पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति। पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानुडुत्पयसं चावरुन्धे य एवं वेद। तस्मिन्न् उ ह तर्ह्य् उभे बृहद्रथन्तरे कुर्युर् - द्वया उ ह वै पशवो राथन्तरा अन्ये बार्हता अन्ये। ये ह वा अन्यतोदन्ताः पशवस् ते राथन्तरा, य उभयतोदन्तास् ते बार्हता - उभयेषाम् एव पशूनाम् अवरुद्ध्यै. स उक्थ्यो भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्योद्वंशीयम् अच्छावाकसाम भवति सर्वपृष्ठरूपं - पृष्ठानि वै पशवो - ऽभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥2.114॥


अथैष सद्यःक्रीः। ते वृता नापाक्रामन्। त एत्यायाजयन्। तेभ्य एतां वाचं वळवां श्वेतां भूतां अश्वाभिधान्यभिहिताम् आनयन्न् - इमां प्रतिगृह्णीतेति। ते ऽब्रुवन् - श्रेयसीयम् अस्मन् , नो इमाम् उद्यंस्याम इति। सा क्रुद्धा - न मा प्रत्यगृह्णन्न् इति सिंह्य् उभयतोमुखी भूत्वोर्ध्वोदक्रामत्। सोभयान् देवासुरान् अन्तरातिष्ठद् यं देवानाम् उपाप्नोद् यं असुराणां तद् आददाना। ताम् उपैव देवा आमन्त्रयन्तोपासुराः। सा देवान् अभ्युपावर्तमानाब्रवीत् - किं मे तत स्याद्, यद् वो ऽभ्युपावर्तेयेति। पूर्वां त्वाग्नेर् आहुतिर् अश्नुवीतेति। ताम् अध्वरे ऽवाकल्पयन्। सैषोत्तरवेदिः। ताम् एतां पूर्वाम् अग्नेर् आहुतिर् अश्नुते॥2.115॥


धारयन्त्य् अग्निं, व्याघारयन्त्य् उत्तरवेदिम्। एतद् एनां तत् पूर्वाम् अग्नेर् आहुतिर् अश्नुते। अथैतेभ्य एतम् आदित्या आदित्यम् एवाश्वं श्वेतं भूतम् अश्वाभिधान्यभिहितम् आनयन्न् - इमम् उ वै प्रतिगृह्णीतेति। ते ऽब्रुवन् श्रेयान् उ वावायम् अस्मन्, नो वावेमम् उद्यंस्याम इति। तान् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - विच्छेत्स्यन्ते वा अदक्षिणा यज्ञाः, प्रतिगृह्णीतेति। तद् एवाभ्यनूच्यते -
आदित्या ह जरितर् अंगिरोभ्यो ऽश्वं दक्षिणाम् अनयंस्
तं ह जरितर् न प्रत्यायंस् तं ह जरितर् न प्रत्यगृह्णंस्
ताम् उ ह जरितः प्रत्यायंस् ताम् उ ह जरितः प्रत्यगृह्णन्न्
अहा नेद् असन्न् अपुरोगवाणि यज्ञा नेद् असन्न् अविचेतनासः॥2.116॥


आदित्य रुद्रा वसवस्त्वेळत इदं राधः प्रतिगृह्णीह्य् अंगिर
इदं राधो बृहत् पृथु देवा ददतु वो वरम्
तद् वो अस्तु सुचेतनं
युष्मे अस्तु दिवे दिवे प्रत्य् एव गृभायत॥
इत्य् एवैनान् प्रत्यग्राहयन्। ततो वा आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न्, अहीयन्तांगिरसः। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद्, य स्पर्धेत, स एतेन यजेत। हीयते ऽस्य पाप्मा भ्रातृव्यो, गच्छति स्वर्गं लोकम्। यवोर्वरा वेदिर् भवति। सा हि पुराकृता हि भवति। यवानाम् उत्तरवेदिः। यवैर् वा आदित्या अंगिरसां यज्ञम् अयुवत। यद् यज्ञं यवैर् अयुवत तद् यवानां यवत्वम्। यवैर् एव द्विषतो भ्रातृव्यस्य यज्ञं युते। खलेवला यूपस्फ्याग्रो भवत्य् ऐन्द्रः। विजित्यै सह पशू आलभन्ते समष्ट्यै। पुमान् गौस् सोमक्रयणो भवति - वीर्यं वै पुमान् - वीर्यवन्तो ऽसामेति। साण्डो भवति सेन्द्रत्वाय। कुंभ्या वसतीवर्य्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। ता हि पुरागृहीता भवन्ति। सर्पिष्मन्तम् अशित्वा निपद्यते। यम् एवामुं दीक्षणीयम् अश्नाति स एवास्य सो ऽशितो भवति। प्रियायै जायाया अन्तरोरु शेते निपद्यमानः। तपस्यम् एवास्य तद् धिरण्यम् मुख आधाय शेते। सत्यं वै हिरण्यम्। सत्यम् एवास्य तद् उदितं भवति॥2.117॥


अश्व श्वेतो दक्षिणा भवति - स्वर्ग्यो वा अश्व - स्वर्गस्यैव लोकस्य समष्ट्यै। अश्वरथस् सोमप्रवाको भवति योजनं परमम्। एतद् ध वै परमाणाम् अध्वानाम् अवमं यद् योजनम् अवमानां वा परमम्। तस्मिन् दधिदृतिर् उपावहितो भवति। तस्य यत् सर्पिस् संपतति तद् आज्यकुंभे ऽवास्यन्ति। तद् धि सद्योजम् इव द्विक्रोशम् इत्थं द्विक्रोशम् इत्थम् ऋत्विजो विनिहिता भवन्ति। त एनं प्रातर् उपसमेत्य याजयन्ति। स जुह्वत् त्रिर्निमीलयति त्रिर् वीक्षते। ता एव दीक्षोपसदः॥2.118॥


स त्रिवृद् रथन्तरसामा भवति - ब्रह्म वै त्रिवृत्। ब्रह्म रथन्तरं - ब्रह्मणा स्वर्गं लोकं गच्छामेति। अथो आहुस् त्रिवृद् व बृहत्साम स्याद् इति। ब्रह्म वै त्रिवृत्, क्षत्रं बृहत्। ब्रह्मणा च क्षत्रेण च संयुग्भ्यां स्वर्गं लोकं गच्छामेति। तद् उ वा आहुस् त्रिवृद् एव रथन्तरसामा स्यात्। ब्रह्म वै त्रिवृत्। ब्रह्म वै रथन्तरम्। ब्रह्म वै स्वर्गस्य लोकस्येशे। तस्मिंस् त्रिवृद् एव रथन्तरसामा स्याद् इति। तस्मिन्न् आहुर् इयवन्ति सामानि कार्याण्य् - इयवद्भिर् वै देवा स्वर्गं लोकम् अगच्छन्न् - इयवद्भि स्वर्गं लोकं गच्छामेति। अथो आहुर् यान्य् एवाग्नियोनीनि सामानि तानि कार्याणि। अशृत इव वा एष यत् सद्यःक्रीः। अग्निर् वा अशृतस्य श्रपयितेति। तद् उ वा आहुर् अग्निष्टोमसामान्य् एव कार्याणीति। एतानि वा अग्नियोनीनि यद् अग्निष्टोमसामानि। तस्माद् अग्निष्टोमसामान्य् एव कार्याण्य् - इत्यथैष क्षिप्रात् क्षेपीयान् - क्षिप्रात् क्षेपीय स्वर्गं लोकं गच्छामेति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरस्, संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै॥2.119॥


अथैताव् अनुक्रियौ। आदित्याश च वा अंगिरसश् च स्वर्गे लोके ऽस्पर्धन्त। त आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्। ते ऽङ्गिरसो ऽकामयन्त - वयम् अपि तं लोकं गच्छेम यम् आदित्या अग्मन्न् इति। त एतं यज्ञम् अपश्यन्। तम् एव सन्तं परोक्षेणैव तम् आहरन्। तेनायजन्त। ते वळवाम् एव श्वेतां दक्षिणां नीत्वादित्यैस् सलोका अभवन्। ते हैत आदित्याश् चांगिरसश् च सलोकाः। सलोको ह वा आदित्यैश् चांगिरोभिश् च भवति य एवं वेद। अथो आहुर् - यस्माद् एव श्रेयान् भ्रातृव्य स्यात् सो ऽनेन यजेतेति। पूर्वप्रेत इव ह वा एष य श्रेयान्। पूर्वप्रेतान् इव वा एतेन ते तान् आप्नुवन्। आप्त्वा श्रेयांसं वसीयान् आत्मना भवति॥2.120॥