सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/२७१-२८०

विकिस्रोतः तः
← कण्डिका २६१-२७० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका २७१-२८०
[[लेखकः :|]]
कण्डिका २८१-२९० →

अथैतेषां महतां ब्राह्मणानां समुदितम् []आरुणेर् जीवलस्य कारीरादेर् अषाढस्य सावयसस्येन्द्रद्युम्नस्य भाल्लवेयस्येति। जीवलश् च ह कारीरादिर् इन्द्रद्युम्नश् च भाल्लवेयस् तौ हारुणेर् आचार्यस्य सभाग आजग्मतुः। ते हाषाढस्य गृहेषु शिश्यिरे। स होवाचाषाढ आम् आरुणे यत् सहैव ब्रह्मचर्यम् अचराव सहान्वाब्रवीवह्य् अथ केनेदं त्वम् अस्मान् अत्यनूचिषे। यद् इदं त्वम् इयत्प्रियः कीर्त्तेर् इयत्प्रियश् चक्षुष इयत्प्रियस् सनेर् असि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। प्रियम् इति। य आसां प्रियम् उपास्ते किं स भवतीति। प्रिय एव स कीर्त्तेः प्रियश् चक्षुषः प्रियस् सनेर् भवतीति। एवम् एव त्वम् असीति होचुः॥

अथ होचुर् जीवलं कारीरादिं यद् इदं त्वम् एव तस्यार्धस्य श्रेष्ठो ऽसि यस्मिन्न् अस्य् अपि त्वा राजानो ऽधस्ताद् उपासते केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति । किं त्वं तद् धूर्षूपास्स् इति । श्रियम् इति । य आसां श्रियम् उपास्ते किं स भवतीति। यस्मिन्न् एवार्धे भवति तस्य श्रेष्ठो भवत्य् अप्य् एनं राजानो ऽधस्ताद् उपासत इति। एवम् एव त्वम् असीति होचुः॥

अथ होचुर् अषाढं सावयसं यत् त्वं शार्कराक्षाणां वाव ग्रामण्य् एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। जातम् इति। य आसां जातम् उपास्ते किं स भवतीति । यत्रैव सजातो भवति तद् ग्रामणीर् भवतीति। एवम् एव त्वम् असीति होचुः॥

अथ होचुर् इन्द्रद्युम्नं भाल्लवेयं यद् इदं तवोपर्युपर्य अन्यान् कीर्त्तिश् चरति विवचनम् एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। यश इति। य आसां यश उपास्ते किं स भवतीति। उपर्युपर्य् एवान्यान् कीर्त्तिश् चरति विवचनम् एव भवतीति। एवम् एव त्वम् असीति होचुः।

ते होचुर् इत्थं चेद् इदम् अभूद् एतेदं संप्रब्रवामहा इति॥1.271॥


ते हारुणिम् ऊचुस् त्वं वै न आचार्यो ऽसि त्वं प्रथमो ब्रूष्वेति। स होवाच गायत्रीम् एवाहं प्रियम् उपास इति। प्राणो वै गायत्री प्राणो वै प्रियम्। न वै प्राणात् प्रेयः किं चनास्ति। स य एवम् एतां गायत्रीं प्रियम् उपास्ते यथा प्रिय एव प्राण आत्मन एवं प्रिय एव स कीर्त्तेर् एवं प्रियश् चक्षुष एवं प्रियस्सनेर् भवतीति॥

अथ होवाच जीवलः कारीरादिस् त्रिष्टुभम् एवाहं श्रियम् उपास इति। क्षत्रं वै त्रिष्टुप् क्षत्रं वै श्रीः। स य एवम् एतां त्रिष्टुभं श्रियम् उपास्ते यस्मिन्न् एवार्ध भवति तस्य श्रेष्ठो भवत्य् अप्य् एनं राजानो ऽधस्ताद् उपासत इति॥

अथ होवाचाषाढस् सावयसो जगतीम् एवाहं भूमानं प्रजातिम् उपास इति। भूमा वै प्रजातिर् जगती छन्दसाम्। स य एवम् एतां जगतीं भूमानं प्रजातिम् उपास्ते भूमानम् एव प्रजया पशुभिर् गच्छति यत्रैव सजातो भवति तद् ग्रामणीर भवतीति॥

अथ होवाचेन्द्रद्युम्नो भाल्लवेयो ऽनुष्टुभम् एवाहं यश उपास इति। वाग् वा अनुष्टुप् वाग् उ वै यशः। वाग् उपर्युपर्य् अन्यान् कीर्त्तिश् चरति। स य एवम् एताम् अनुष्टुभं यश उपास्त एषैवास्य वाग् अनुष्टुब् उपर्युपर्य् एवान्यान् कीर्त्तिर् विहरन्त्य् एति विवचनम् एव भवतीति॥1.272॥


ते ह वै ते तथैकैकेनैवासुः। अथ य एवम् एतानि सर्वाण्य् एकधा वेदैवं ह्य् एतानि सर्वाण्य् एकधा भवन्त्य् एकधैव श्रेष्ठस् स्वानां भवति॥

तद् उ होवाच वासिष्ठश्चैकितानेयः पश्चैवानुबुध्य धुरो ह वा इमे ब्राह्मणा मीमांसमानास् ताम् एव धुरं नावाग्मन् यस्याम् एता धुरि सर्वा अधीति। रेतस्यां ह वै स तद् उवाच। यां ह वा आहुर् एका धूर् इति रेतस्या ह वै सा धुरां धूः। अन्नं तद् धुराम्। अलंकरणं सुरभिर्गन्धो गायत्र्यै दर्शनीयस् त्रिष्टुभश् श्रवणीयो जगत्यै। यद् एव वाचा पुण्यं वदति तद् अनुष्टुभः। स ह वा एना अन्नम् आदधाति य एना एतैस् समृद्धयति। ता एनम् अन्नाद्यमाना अन्नादं श्रेष्ठं स्वानां कुर्वन्ति। अन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद॥1.273॥


त्रयो ह वा एते समुद्रा यत् पवमाना अग्निर् वायुर् असाव् आदित्यः। तैश् छन्नैर् उद्गायेत्। स यर्हि वै प्रजापतिः प्रजाभ्यो वृष्टिम् अन्नाद्यं प्रयच्छति छाद्यन्त एते तर्हि। प्रजापतिर् एष सः। यद् उद्गास्यन् पवमानैश् चान्यैर् उद्गायति छादयत्य् एव यजमानम् अन्नाद्येन छादयत्य् आत्मानं छादयति प्रजा बहुवर्षी तत्र पर्जन्यो भवतीति ह स्माह कूटश् शैलनो यत्राहम् उद्गायामीति। यत्र वै बहुवर्षी पर्जन्यो भवति कल्याणो वै तत्र बलीवर्दो ऽश्वतरो हस्ती निष्कः पुरुषः। रूपंरूपं वाव तत्र कल्याणम् आजायत इत्य् एतद् ध तद् विद्वान् उवाच। यो वै देवांश् च मनुष्यांश् च व्यावर्तयति वि पाप्मना वर्तते॥

देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। तैश्छन्नैः परोक्षम् अनिरुक्तैः पवमानैर् उद्गायेत्। छन्ना इव हि परोक्षम् अनिरुक्ता इव देवाः प्रजाः पृष्ठोक्थानि। तैर् अच्छन्नैः प्रत्यक्षं निरुक्तैर् उद्गायेत्। अच्छन्ना इव हि प्रत्यक्षं निरुक्ता इव मनुष्याः। एतद्वै देवांश् च व्यावर्तयति वि पाप्मनावर्तते य एवं वेद॥1.274॥


दैवीं ह वा एष संसदम् एति यः पवमानैर् उद्गायति। स यथा श्रेयांसम् अभ्यायन्न् एवं शिक्षन्न् एवोपशिक्षन्न् इवोपनमस्यन्न् इव। संसिद्धैश् शक्नुवन्न् उपहन्यमान उद्गायेत्। यथायन्तम् आमिवेद् यथा यद् याचेत् तद् दद्यात् तादृक् तत्। अथ य एतैर् असंसिद्धैर् अशक्नुवन्न् उपहन्यमान उद्गायेद् यथायन्तं प्रतिमिवेद् यथा यद् याचेत्तन् न दद्यात् तादृग् उ तत्। तद् उ हात्रैव यज्ञस्य समृद्धं च व्यृद्धं च विज्ञायते॥

अतिहार्या ह वा एषा यत् पवमाना। यो वा अतिहार्याम् असंवीतो ऽतिगाहते मृदा वै स लिप्यत आयति वा। अथ यस् संवीतो ऽतिगाहते न मृदा लिप्यते नायति। एवम् इव वै पवमाना उपचर्याः।

तद् आहुर् यद् अन्यानि स्तोत्राणि स्तोत्रियप्रतिपदो ऽथ कस्मात् पवमाना अस्तोत्रियप्रतिपद इति। स ब्रूयात् प्राणा वै पवमानाः प्राणा उ पावमान्यः। तद् यत् पवमानान् पावमानीभिर् एवानुप्रतिपद्येरन् पराञ्च एव प्राणान् निर्मृज्युर् इति। तान् यद् अनुष्टुभानुप्रतिपद्यन्ते - वाग् वा अनुष्टुप्। वाच्य् अपानो नियतः -- वाचैव तद् अपानं दधार॥1.275॥


तद् आहुर् अशान्तम् इव वा एतत् स्तोत्रं यत् स्तोत्रियेण नानुप्रतिपद्यन्ते। केनैषां स्तोत्रियप्रतिपदो ऽनितं भवतीति। स् ब्रूयाद् वाग् वा अनुष्टुब् वाच्य् उ वै सर्वाणि छन्दांसि। यद् आग्नेयम् ऐन्द्रं पवमानं तेनैषां स्तोत्रियप्रतिपदो ऽनितं भवति॥

जया ह वै नामैते स्तोमा यत् पवमानाः। पवमानैर् वै देवा असुरान् पराञ्च एव जयन्त आयन्। तद् यत् पवमानाः पराञ्च एव भवन्ति यथा पराङ् एव जयन्न् इयात् तादृक् तत्। तान् यद् अनुष्टुभानुप्रतिपद्यन्ते -- वाग् वा अनुष्टुब् वाग् उ वै वाचयित्री -- वाचा वा आह प्रेहि जयाभिक्राम मापक्रमीर् इति। स यथा वाचा ब्रूयाद् प्रेहि जयाभिक्राम मापक्रमीर् इति तादृक् तत्॥

देवा वै पवमानाः। (तानि) देवानां स्तोत्राणि। तानि देवा अन्वायत्ताः। प्रजाः पृष्ठोक्थानि। तानि प्रजानां स्तोत्राणि। तानि प्रजा अन्वायत्ताः। तद् यत्पवमानैः पराचीनैर् एव स्तुवते तस्मात् पराञ्चो देवाः। पराङ् आदित्य एति पराङ् चन्द्रमाः पराञ्चि नक्षत्राणि पराङ् अग्निर् दहन्न् एति। अथ यस्मात् पृष्ठोक्थैः पराचीनैश् चार्वाचीनैश् च स्तुवते तस्माद् उ पराचीश् चार्वाचीश् च प्रजाः। पराञ्चः प्रातः प्रेरते। ते सायं समावर्तन्ते। पराग् रेतस् सिक्तम्। तद् अर्वाक् प्रजायते॥1.276॥


पृथुर् ह वैन्यो दिव्यान् व्रात्यान् पप्रच्छ
यज्ञस्य धाम परमं गुहायां
निर्मितं महतो ऽन्तरिक्षात्।
कस्माद् यन्ति पवमानाः पराञ्चः
कस्माद् उक्थ्याः पुनर् अभ्याकनिक्रति॥
इति।
देवा अन्यां वर्तनिम् अध्वरस्य मानुषास उपजीवन्त्य् अन्याम्।
तस्माद् यन्ति पवमानाः पराञ्चम्
तस्माद् उक्थ्याः पुनर् अभ्याकनिक्रति॥
इति ह प्रत्यूचुः। यो वै देवान् मनुष्येष्व आभक्तान् वेद मनुष्यान् उ देवेष्व् आभक्त एव देवेषु भवत्य् आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा नास्माद् देवता अपक्रामन्ति॥

देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। साम वै देवाः प्रजाश् छन्दांसि। तद् यत् पवमानसामानि पराञ्च्य् एव भवन्त्य् अथेयम् अनुनिवेष्टते। तेन देवा मनुष्येष्व् आभक्ताः। अथ यद् अभ्यावर्तिष्व् ऋचं निवेष्टमानां सामानुनिवेष्टे तेनो मनुष्या देवेष्व् आभक्ताः। स य एतद् एवं वेदाभक्त एव देवेषु भवत्य् आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा नास्माद् देवता अपक्रामन्ति॥1.277॥


यो वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते। देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। तद् यत् पवमानान् पावमानीष्व् एव स्तुवते तस्माद् देवा एकरूपास् सर्वे शुक्लः। अथ यस्मात् पृष्ठोक्थैर् नानारूपा असुराः। नानादेवत्यासु स्तुवते। तस्माद् उ प्रजा नानारूपाश् श्वेतो रोहितः कृष्णः। एतद् वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते य एवं वेद॥

यो वै देवानाम् उद्धारं वेदोद् उद्धारं हरत उद्धार्यो भवति। बहिष्पवमानं वाव देवानाम् उद्धारः। तेन सकृद् धिंकृतेन पराचा स्तुवते। तस्मात् पराङ् उद्धारः। स एष एव देवानां श्रेष्ठः। तस्योद्धारः प्रजाः। प्रजापतेर् एवोद् उद्धारं हरत उद्धार्यो भवति य एवं वेद॥

तम् एतं यज्ञस्य रसं प्रवृह्य परान् यस्मात् प्रजापतये प्रयच्छति तस्माद् बहिष्पवमानेन स्तोष्यन्तः प्रह्वारा इव प्रकुपिता इव सर्पन्ति। एवम् इव वै श्रेयस उपचारः। तस्माद् उ तस्य स्तोत्रेण व्याहरेत्। को हि श्रेयसः परिवेषणम् उपवदितुम् अर्हति। यो वै श्रेयसः परिवेषणम् उपवदति यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ यत् ततो ऽध्वर्युस् संप्रैषान् वदति प्रजापतय एव तद् यज्ञस्य रसं प्रदाय तम् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति॥1.278॥


यो वै देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु। पवमाना वै देवयशसम्। ते ह ते प्राणा एव। त एनं देवेषु निवेदयन्ते। अभ्यावर्ता मनुष्ययशसम्। ते ह ते ऽपाना एव। त एनं मनुष्येषु निवेदयन्ते। एतद् वै देवयशसं च मनुष्ययशसं च। स य एवम् एतद्देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु॥

यो वै मितं चामितं च वेद मितं च हास्यामितं च बहु भवति। देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। साम वै देवाः प्रजाश् शस्त्राणि। तद् वा एतत्। एत एवापि सर्वे देवा यत्स्तोत्राणि। तद् यन् मितानि स्तोत्राणि भवन्ति तस्मान् मिता देवाः। अष्टौ वसव एकादश रुद्रा द्वादशादित्याः। अथ यस्माद् अमितानि शस्त्राणि तस्माद् व् अमिताः प्रजाः। न तान् विद्म यावन्तो ब्राह्मणा यावन्तो राजन्या यावन्तो वैश्या यावन्तश् शूद्रा इति। एतद् वै मितं चामितं च। मितं हास्यामितं च बहु भवति य एवं वेद॥
ये अर्वाञ्चस् तं उ पराच आहुर् ये पराञ्चस्तं उ अर्वाच आहुः।
इन्द्रश् च या चक्रथुस् सोमश् च तानि धुरा नियुक्ता रजसो वहन्ति॥
इति। पवमाना वै पराञ्चः। तेषां चमसा अर्वाञ्चः। ते ह ते प्राणा एव। तस्मात् प्राण्यापानितुं शक्नोति। अभ्यावर्ता अर्वाञ्चः। तेषां पराञ्चश् चमसाः। ते ह ते ऽपाना एव। तस्माद् व् अपान्य प्राणितुं शक्नोति॥1.279॥


यो वै सवनानां ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्याद् अवरोहति। गायत्री वै प्रातस्सवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तद् गायत्रम् इत्य् आख्यायते। त्रिष्टुप् माध्यंदिनस्य सवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तत् त्रैष्टुभम् इत्याख्यायते। जगती तृतीयसवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तज् जागतम् इत्य् आख्यायते । एतद् वै सवनानां ज्यैष्ठ्यम्। स य एवम् एतत् सवनानां ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्याद् अवरोहति॥

यो वै देवानां गृहान् वेद गृही भवति विन्दते गृहान्। छन्दांसि वाव देवानां गृहाः। अष्टाक्षरा गायत्र्य् अष्टौ वसवः। गायत्र्यैव वसवो गृहिणः। एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। त्रिष्टुभैव रुद्रा गृहिणः। द्वादशाक्षरा जगती द्वादशादित्याः। जगत्यैवादित्या गृहिणः। अनुष्टुभैव विश्वे देवाः। सवनैर् इन्द्राग्नी। स य एवम् एतान् देवानां गृहान् वेद गृही भवति विन्दते गृहान्॥

यो वै देवानां तृप्तीर् वेद तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा॥1.280॥


  1. महाभारते आदिपर्वे ३.२९ उल्लेखः अस्ति यत् आरुणिः कालांतरे उद्दालकसंज्ञां गृह्णाति। पुराणेषु सार्वत्रिकरूपेण उल्लेखः अस्ति यत् उद्दालकः ज्येष्ठा अलक्ष्म्याः पतिः भवति। आरुणेन गायत्री छन्दसा प्रियस्य प्राप्तिः, अप्रियस्य निवारणं केन प्रकारेण संभवमस्ति, अन्वेषणीयः।