जैमिनीयं ब्राह्मणम्/काण्डम् १/२१-३०

विकिस्रोतः तः
Jump to navigation Jump to search

रौद्रं गवि वायव्यम् उपसृष्टम् आश्विनं दुह्यमानम् अग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश् शरो वारुणम् ओधश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवम् उन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योर् उपसन्नम् इन्द्राग्न्योः पूर्वाहुतिः प्रजापतेर् उत्तरा। तद् एतत् सप्तदशम् अग्निहोत्रम्। सप्तदश उ एवा वाजपेयः। स य एवं विद्वान् अग्निहोत्रं जुहोत्य् उभाव् एव लोकाव् अभिजयति यश् चाग्निहोत्रहुतो यश् च वाजपेययाजिनः॥

त्रयो ऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः। यद् अप्रदीप्तायां समिधि जुहोति स स्थाणुः। यद् एनाम् अपराध्नोति स स्थाणुः। यद् एने संसृजति स स्थाणुः। आदीप्तायै समिधस् समुन्मुखे जुहोति। एतिहायोत्तराम् आहुतिं जुहोति। प्र ह सप्तदश -- सप्तदश सहस्रपोषान् पुष्यति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.21॥


आरुणिर् वाजसनेयो बर्कुर् वार्ष्णः प्रियो जानश्रुतेयो बुडिल आश्वतराश्विर् वैयाघ्रपद्य इत्य एते ह पञ्च महाब्रह्मा आसुः। ते होचुर् जनको वा अयं वैदेहो ऽग्निहोत्रे ऽनुशिष्टस् स नो ऽतिवदन्न् इव मन्यते। एत। तम् अग्निहोत्रं कथां वादयिष्याम इति॥

ते हाजग्मुः। ते ह ब्रह्मवादिनम् ऊचुः प्र णो ब्रूहीति। तान् ह प्रोवाच॥

तेभ्यो ह प्रोक्तेभ्यः पृथग् आसनानि पृथग् उदकानि पृथङ् मधुपर्कान् पृथग् आवसथान् पृथक् पञ्चभ्यः पञ्चापचितीश् चकार॥

अथ हैषां सभाग आवव्राजोप्त्वा केशश्मश्रूणि नखान् निकृत्याज्याभ्यज्य दण्डोपानहं बिभ्रत्। तान होवाच ब्राह्मणाः कथा भगवन्तो नो ऽनुसंवादयथेति। अति नो ऽवादीर् इति होचुः॥

अथ हैनान् पूर्वः पप्रच्छ ब्राह्मणाः कथा भगवन्तो यूयम् अग्निहोत्रं जुहुथेति। अति वै नो ऽवादीर् इति होचुर् यो नो भूयसस् सतः पूर्वो ऽप्राक्षीः। गौतम प्रतिब्रूहीति॥1.22॥


स होवाच यश इत्य एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं यशो ऽस्मि। यशो वाव मे प्रजायाम् अन्ततो भवितेति। तं होवाच गौतम किं यश इति। अग्निम् उपदिशन् वाचेदं यश इत्य् अदो यश इत्य् आदित्यम्। सो ऽहम् अदो यशो ऽस्मिन् यशसि सायं जुहोमीदं यशो ऽमुष्मिन् यशसि प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति ह प्रशशंस॥

अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति। स होवाच वाजसनेयस् सत्यम् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं सत्यम् अस्मि। तस्मान् मम सत्यम् इव वदतः प्रकाश इति। तं होवाच याज्ञवल्क्य किं सत्यम् इति। अग्निम् उपदिशन् वाचेदं सत्यम् इत्य् अदस् सत्यम् इत्य् आदित्यम्। सो ऽहम् अदस् सत्यम् अस्मिन् सत्ये सायं जुहोमीदं सत्यम् अमुष्मिन् सत्ये प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥

अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति॥1.23॥


स होवाच बर्कुर् वार्ष्णो भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं भूयिष्ठं श्रेष्ठं वित्तानाम् अस्मि। भूयिष्ठ वाव मे श्रेष्ठं वित्तानां प्रजायाम अन्ततो भवितेति। तं होवाचाग्निवेश्य किं भूयिष्ठं श्रेष्ठं वित्तानाम् इति। अग्निम् उपदिशन् वाचेदं भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् अदो भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् आदित्यम्। सो ऽहम् अदो भूयिष्ठं श्रेष्ठं वित्तानाम् अस्मिन् भूयिष्ठे श्रेष्ठे वित्तानां सायं जुहोमीदं भूयिष्ठं श्रेष्ठं वित्तानाम् अमुष्मिन् भूयिष्ठे श्रेष्ठे वित्तानां प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥

अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति। स होवाच प्रियो जानश्रुतेयस् तेज इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि तस्माद् अहं तेजो ऽस्मि। तेजो वाव मे प्रजायाम् अन्ततो भवितेति। तं होवाच काण्ड्वीय किं तेज इति। अग्निम् उपदिशन् वाचेदं तेज इत्य् अदस् तेज इत्य् आदित्यम्। सो ऽहम् अदस् तेजो ऽस्मिंस् तेजसि सायं जुहोमीदं तेजो ऽमुष्मिंस् तेजसि प्रातर् जुहोमि। एताव एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥

अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति॥1.24॥


स होवाच बुडिल आश्वतराश्विर् वैयाघ्रपद्यो ऽर्काश्वमेधाव् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। अन्नं ह्य् एतद् देवानां यद् अर्को ऽश्वो मेधो मेध्य इति। तं होवाच वैयाघ्रपद् को ऽर्कः को ऽश्वो मेधो मेध्य इति। अग्निम् उपदिशन् वाचायम् अर्क इत्य् असाव् अश्वो मेधो मेध्य इत्य् आदित्यम्। सो ऽहम् अमुम् अश्वं मेधं मेध्यं अस्मिन्न् अर्के सायं जुहोमीमम् अर्कम् अमुष्मिन्न् अश्वे मेधे मेध्ये प्रातर् जुहोमि। एताव् एव मा तद् गमिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतम् इति ह प्रशस्योवाच यो ह किल मह्यम् अग्निहोत्र इतिं च गतिं च ब्रूयात् तस्मा अहं वरं दद्याम् इति। ते होचुर् न न्वै वयम् अग्निहोत्र इतिं च गतिं चानूचिमह त्वम् अस्मभ्यम् अग्निहोत्र इतिं च गतिं च ब्रूहि वयं तुभ्यं पृथक् पञ्च वरान् दद्म इति। अग्निम् उपदिशन् वाचेयम् इतिर् इत्य् असौ गतिर् इत्य् आदित्यम्। सो ऽहम् अमूं गतिम् अस्याम् इतौ सायं जुहोमीमाम् इतिम् अमुष्यां गतौ प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतम् इति ह प्रशस्योचुर् वरान् वृणीष्व यान् अदामेति। स होवाचैष एव मे वरो ऽहम् एव युष्मभ्यं पृथक् पञ्च सहस्राणि शताश्वानि ददानीति॥

एतानि वा अग्निहोत्र उपासनान्य् एते कामाः। एतान् एव कामान् अवरुन्द्धे य एवं वेदाथो यस्यैवं विद्वान् अग्निहोत्र जुहोति॥1.25॥


अग्नीन् आदधानः प्रातर् एवोद्धरेत। द्विस् सायं द्विः प्रातर् जुहोति। चतस्र आहुतयस् संपद्यन्ते। चतुष्पदा वै पशवो ये च ग्राम्या ये चारण्याः। तेषाम् एवैतत् प्रत्याशं प्रत्यपचयति। एष वै मृत्युर् यद् अग्नी रिहन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा पृथिवीं लोकानां जयत्य् अग्निं देव देवानाम्। अग्नेर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥

स ततो धूमम् एव रथं समास्थाय वायोस् सलोकताम् अभिप्रयाति। द्वयहं जुहोति। अष्टाव् आहुतयस् संपद्यन्ते। अष्टाशफा ह वै पशवो ये च ग्राम्या ये चारण्याः। तेषाम् एवैतत् प्रत्याशं प्रत्य चयति। एष वै मृत्युर् यद् वायुर् अजिर एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वान्तरिक्षं लोकानां जयति वायुं देवं देवानाम्। वायोर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.26॥


स ततो रेष्माणम् एव रथं समास्थायादित्यस्य सलोकताम् अभिप्रयाति। त्र्यहं जुहोति। द्वादशाहुतयस् संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सरो वा इदं सर्वं यद् इ?श्नाति यत् पिबति यस्मै कस्मै चन प्रतिव्याददाति। सर्वं तद् अस्यानशित भवति यावज् जीवानाशकप्रती भवति। एष वै मृत्युर् यद् आदित्यो म्रोचन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा दिवं लोकानां जयत्य् आदित्यं देवं देवानाम्। आदित्यस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.27॥


स ततो रश्मीन् एव रथं समास्थाय चन्द्रमसस् सलोकताम् अभिप्रयाति। चतुरहं जुहोति। षोडशाहुतयस् संपद्यन्त। षोडशकलं वै ब्रह्म। षोडशकला देवाः। षोडशकलम् इदं सकृत् सर्वम्। स यद् इह रिप्रं पापं कर्म करोत्य् एकयवः ततः कलया। यथा सुवर्णः प्रवृत्तस् तप्यमानस् सुवर्णताम् अभिनिष्पद्यत एवम् एव द्विषत्सु भ्रातृव्येषु मलं पाप्मानं प्रत्यूह्य स्वर्गं लोकम् अभिप्रैति॥

एष वै शशो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं शास्ति। एष वै यमो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं यमिति। एष मृत्युर् यद् यमो ऽत्स्यन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वोर्जं लोकानां जयति यमं देव देवानाम्। यमस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.28॥


स ततस् स्वधाम् एव हिरण्मयीं नावं समारुह्य प्रजापतेस् सलोकताम् अभिप्रयाति। पञ्चाहं जुहोति। विंशतिर् आहुतयस् संपद्यन्ते। सविंशो वै प्रजापतिः। एष वै मृत्युर् यत् प्रजापतिः प्रभूमान् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा नभो लोकानां जयति प्रजापतिं देवं देवानाम्। प्रजापतेर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.29॥


तद् यद् वै तन्नभो नामाभीर् वै सा। न हि तत् प्राप्य कस्माच् चन बिभेति। तस्मात् तन्नभः। षडहं जुहोति। चतुर्विंशतिर् आहुतयस् संपद्यन्ते। चतुर्विंशत्यक्षरा वै गायत्री। चतुर्विंशतिर् वसवो देवाः। ते गायत्रीम् अन्वायत्ताः। तेभ्यो गायत्रीव वसुभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। गायत्रीं स छन्दसां जयति वसून् देवान् देवानाम्। वसूनां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.30॥