जैमिनीयं ब्राह्मणम्/काण्डम् १/०९१-१००

विकिस्रोतः तः
Jump to navigation Jump to search

पवस्व वाचो अग्रियः इति श्रैष्ठयकामः प्रतिपदं कुर्वीत। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा नापाचायन्। सो ऽकामयत श्रैष्ठयम् आसां प्रजानां गच्छेयम् इति। स एतां प्रतिपदम् अपश्यत्। तयास्तुत। ततो वै स तासां प्रजानां श्रैष्ठयम् अगच्छत्। गच्छति स्वानां श्रैष्ठयं य एवं वेद। एषो ह वै समृद्धा स्तोत्रिया यस्यै पवस्व इत्यारम्भः। समृद्धयैवास्य स्तोत्रियया स्तुतं भवति। यो वै दैव्यं मिथनुं वेद प्र मिथुनेन जायते। पवस्व इति च वाचः इति च दैव्यं मिथुनम्। प्र मिथुनेन जायते य एवं वेद। सर्वेषां वा एषा त्रयाणां साम्नां प्रतिपत् -- पवस्व इति वामदेव्यस्य वाचः इति रथन्तरस्य अग्रियः इति बृहतः। सर्वेषाम् अस्य साम्नां प्रतिपदा स्तुतं भवति। सोम चित्राभिर् ऊतिभिः इति -- सोमो वै देवानां चित्रं -- सोमेनैव देवानां चित्रेण बहुर् भवति प्रजायते। अभि विश्वानि काव्या इति विश्वम् एवैतेन काव्यम् अवरुन्द्धे॥1.91॥


पवस्वेन्दो वृषा सुतः इति जने प्रतिष्ठाकामः प्रतिपदं कुर्वीत। कृधी नो यशसो जनः इति ह्य् अस्यै यशस्य् एव जने भवति। वृषा सुतः इति वृषेव वै प्रजनितेवाधिपतिर् इव तस्यां जनतायां भवति यस्याम् ऋध्यते। वृषेवैव प्रजनितेवाधिपतिर् इव तस्यां जनतायां भाति यस्यां भवति य एवं वेद॥

सर्वो ह वै जने बुभूषते ऽरातीयति। विश्वा अप द्विषो जहि इति विश्वा एवैतेन द्विषो ऽपहते। तया पवस्व धारया इति संग्रामं संयतिष्यमाणस्य प्रतिपदं कुर्यात्। यया गाव इहागमन् जन्यास उप नो गृहान् इति जन्या वा एष गा आजिहीर्षति यस् संग्रामं संयतते। आ जन्या गा हरति॥

एताम् एव प्रतिपदं कुर्वीत सनिं प्रैष्यन्। जन्या वा एष गा आजिहीर्षति यस् सनिं प्रैति। आ जन्या गा हरत्य् उपैनं जन्या गावो नमन्ति य एवं वेद॥

अग्न आयूंषि पवसे इत्य् आमयाविनः प्रतिपदं कुर्यात्। अग्निं वा एतस्य शरीरम् अप्येति वायुं प्राणः। अग्निनैवास्य पवमानेन शरीरं प्राणेन संदधाति॥

एताम् एवं प्रतिपदं कुर्वीरन् येषां दीक्षितानां प्रमीयेत। अपूता इव वा एते ऽमेध्या मन्यन्ते येषां दीक्षितानां प्रमीयते। अग्निनैवैनान् पवमानेन पूतान् मेध्यान् करोति॥

एताम् एव प्रतिपदं कुर्वीत-॥1.92॥


-ब्रह्मवर्चसकामः। अग्निर् वै देवानां ब्रह्मा। अग्निनैव देवानां ब्रह्मणा वर्चसी भवति।
एताम् एव प्रतिपदं कुर्वीताभिचरन्। अग्निर् वै देवानां ब्रह्मा। अग्निनैव देवानां ब्रह्मणा यं द्वेष्टि तं स्तृणुते।
एताम् एव प्रतिपदं कुर्वीतान्नाद्यकामः। आ सुवोर्जम् इषं च नः इति ह्य् अस्या इषं चैवैतेनोर्जे चावरुन्द्धे॥

एताम् एव प्रतिपदं कुर्वीताभिचर्यमाणः। यो वा अभिचरति यो ऽभिदासति यः पापं कामयते स वै दुच्छुनः। आरे बाधस्व दुच्छुनाम् इत्य् आराद् एवैतेन द्विषन्तं पाप्मानं भ्रातृव्यम् अवाञ्चम् अपबाधते॥

दविद्युतत्या रुचा इति ब्रह्मवर्चसकामः प्रतिपदं कुर्वीत। दविद्युतती वै गायत्री। गायत्री ब्रह्मवर्चसम् ओजो वीर्ये त्रिष्टुप् प्रजननं जगती। ब्रह्मवर्चस्य् ओजस्वी वीर्यवान् प्रजया पशुभिर् जायते य एवं वेद। परिष्टोभन्त्या कृपा सोमाश् शुक्रा गवाशिरः इति। यज्ञो वै सोमाश् शुक्राः पशवो गवाशिरः। यज्ञं चैवैतेन पशूंश् चावरुन्द्धे॥

अस्य प्रत्नाम् अनु द्युतम् इति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान् स्याद् अथात्मना पापीयान् इव मन्येत। यैवास्य पित्र्या पैतामही श्रीस् ताम् एवाश्नुते॥

शुक्रं दुदुह्ने अह्रयः इति। यज्ञो वै शुक्रः पशवो ऽह्रयः। यज्ञं चैवैतेन पशूंश् वावरुन्द्ध॥
पयस् सहस्रसाम् ऋषिम् इति। पयस्वान् एव भवत्य् आस्य सहस्रसा वीरो जायते॥1.93॥


एते असृग्रम् इन्दवः इति बहूनां संयजमानानां प्रतिपदं कुर्यात्। एते इत्य् एवैनान् ज्यैष्ठयायाभिवदति छन्दसैवैनान् रूपिणा समावद्भाजः करोति। समावत्य् एनान् यज्ञस्याशीर् आगच्छति। प्रजापतिर् यत् प्रजा असृजत ता एनयैव प्रतिपदासृजत। एते इत्य् एव देवान् असृजत असृग्रम् इति मनुष्यान् इन्दवः इति पितृन् तिरः पवित्रम् इति ग्रहान् आशवः इति स्तोमान् विश्वानि इत्य् उक्थानि अभि सौभगा इत्य् एवैनान् जातान् सौभाग्येनाभ्यानक्। प्रजापतिर् एव भूतः प्रजास् सृजते य एवं विद्वान् एतया प्रतिपदोद्गायति। अथो हैनास् तत् सौभाग्येनैवाभ्यानक्ति॥

असृक्षत प्र वाजिनः इति त्रयाणां संयजमानानां प्रतिपदं कुर्यात्। छन्दसैवैनान् रूपिणा समावद्भाजः करोति। समावत्य् एनान् यज्ञस्याशीर् आगच्छति। गव्या सोमासो अश्वया इति गोअश्वम् एवैभ्य एतेनावरुन्द्धे। शुक्रासो वीरयाशवः इति-यज्ञो वै शुक्रः प्रजा वीरः-यज्ञं चैवैभ्य एतेन प्रजां चावरुन्द्धे। युवं हि स्थः स्वःपति इति द्वयोस् संयजमानयोः प्रतिपदं कुर्यात्। छन्दसैवैनौ रूपिणा समावद्भाजौ करोति। समावत्य् एनौ यज्ञस्याशीर् आगच्छति॥1.94॥


इन्द्रश् च सोम गोपती ईशाना पिप्यतं धियः इति। इन्द्रश् च वै सोमश् चाकामयेतां सर्वासां प्रजानाम् ऐश्वर्यम् आधिपत्यम् अश्नुवीवहीति। ताव् एतां प्रतिपदम् अपश्यताम्। तयास्तुवताम्। ततो वै तौ सर्वासां प्रजानाम् ऐश्वर्यम् आधिपत्यम् आश्नुवाताम्। अश्नुते ह वै स्वानाम् ऐश्वर्यम् आधिपत्यम् एतया प्रतिपदा तुष्टुवानः॥

इन्द्रायेन्दो मरुत्वते इति राजन्यबन्धोः प्रतिपदं कुर्यात्। ऐन्द्रो वै राजन्यो मारुतीर् विशः। क्षत्रायैव तद् विशम् अनुवर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनुवर्त्मा॥

यो जिनाति न जीयते इति वा जिनात्य् एव न जीयते। हन्ति शत्रुम् अभीत्य इत्य् अन्यतो वात्येवाभीत्य शत्रुं हन्ति नैनं शत्रुः प्रत्युद्यामी भवति। स पवस्व सहस्रजित् इति। यो वै सर्वं जयति विजयते सः। सर्वजित् सर्वम् एव जयति। विजयत एतया प्रतिपदा तुष्टुवानः॥1.95॥


अपघ्रन् पवते मृधः इत्य् अभिशस्यमानस्य प्रतिपदं कुर्यात्। मृधो वा एतम् अजुष्टास् सचन्ते यम् अभिशंसन्ति। अप पापीर् मृधो हते। अप सोमो अराव्णः इति। अरावाण इव ह्य् एतं सचन्ते यम् अभिशंसन्ति। गच्छन्न् इन्द्रस्य निष्कृतम् इति। अनिन्द्रियो वा एषो ऽपदेवो भवति यम् अभिशंसन्ति। इन्द्रियावन्तम् एवैनम् एतेन सदेवं कुर्वन्ति॥

आग्नावारुणीम् आमयाविनो ज्योगामयाविनः प्रतिपदं कुर्यात्। अग्निना वा एष वरुणेन गृहीतो भवति य आमयावी ज्योगामयावी। अग्निनैवैनम् आग्नेयान् मुञ्चन्ति वरुणेन वारुणात्॥

यस्यां वर्षीयस्याम् ऋचि ह्रसीयो ह्रसीयस्यां वा वर्षीयस् ताम् आनायकामः प्रतिपदं कुर्वीत। वर्षीयसा वा एष ह्रसीयः प्रेप्स्यतीति ह्रसीयसा वर्षीयः। प्र ह्रसीयसा वर्षीय आप्नोति य एवं वेद॥

एष देवो अमर्त्यः इति प्रतिपदं कुर्वीत यः कामयेताहम् एवैकधा श्रेष्ठस् स्वानां स्यां रुचम् अश्नुवीयेति। एष एषः इत्य् एवैनां ज्यैष्ठयायाभिवदति। एकधैव श्रेष्ठस् स्वानां भवति रुचम् अश्नुते। ईश्वरो ह त्व् अस्यापरः प्रजायाम् एतादृङ् वीरो नाजनितोः। एष एव नातो ऽन्य इतीव ह्य् एनं वाग् अभिवदति। तद् उ त्व् एतन् न तथा। देवो अमर्त्यः इति वा आह। अदेवश् च ह वै स मर्त्यश् च यस्य वीरस्य सतो वीरो वीर्यवान् नाजयते। अथ ह वै स एव देवस् सो ऽमर्त्यो यस्य वीरस्य सतो वीरो वीर्यवान् आजायते। आ हास्य वीरस्य सतो वीरो वीर्यवान् जायते संधीयते प्रजया न व्यवच्छिद्यते॥1.96॥


देवासुरा अस्पर्धन्त। ते देवा वज्रं क्षुरपविम् असृजन्त पुरुषम् एव। तम् असुरान् अभ्यवृञ्जन्। सो ऽसुरान् अपोह्य देवान् अभ्यावर्तत। तस्माद् देवा अबिभयुः। तम् अभिपद्य त्रेधा समशृणन्। स त्रेधा संशीर्ण उद् एवातिष्ठत्। तम् आरभ्य पर्यैक्षन्त। तस्मिन् देवताश् छन्दांसि पुरुषे प्रविष्टा अपश्यन्। ते ऽब्रुवन् देवता वै छन्दांसीमा अस्मिन् पुरुषे प्रविष्टाः। अस्मिन् वा अयं लोके पुण्यं जीवित्वेष्टापूर्तेन तपसा सुकृतेनास्मान् अन्वगमिष्यतीति। ते वै तथा करवामेत्य् अब्रुवन् यथा नो नान्वागच्छाद् इति। तस्मै व पाप्मानम् अन्ववदधामेति। तस्मा एतं पाप्मानम् अन्ववादधुः --॥1.97॥


-- स्वप्नं तन्द्रीं मन्युम् अशनयाम् अक्षकाम्यां स्त्रीकाम्याम् इति। एते ह वै पाप्मानः पुरुषम् अस्मिन् लोके सचन्ते। य एतद् अग्ने तीर्त्वास्मिन् लोके साधु चिकीर्षात् तत् त्वम् अस्मिन् लोके धीप्सताद् इत्य् अग्निम् अस्मिन् लोके ऽदधुः। वायुम् अंतरिक्ष आदित्यं दिवि॥

उग्रदेवो ह स्माह राजनिर् नाहं मनुष्यायारातीयामि यान् अस्मै त्रीन् देवानां श्रेष्ठान् अरातीयतो ऽशृणोम्। अरातीतमरातीतं ह्य् एव तस्मै यस्मा एता देवता अरातीयन्तीति। अथो हास्मा एता देवता नारातीयन्ति य एवं वेद। अथो ह तम् एव धीप्सन्ति य एवं विद्वांसं धीप्सतीति॥ ते देवा अब्रुवन् या एवेमा देवताश् छन्दांसि पुरुषे प्रविष्टा एताभिर् एवासुरान् धूर्वामैवेति॥1.98॥


तेषां प्राणम् एव गायत्र्यावृञ्जत चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। अस्माद् एवैनान् लोकाद् गायत्र्यान्तरायन्न् अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या पशुभ्यो ऽनुष्टुभा। तान् सर्वस्माद् एवान्तरायन्। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥

यद् देवा असुरान् अधूर्वंस् तद् धुरां धूस्त्वम्। धूर्वति द्विषन्तं भ्रातृव्यं य एवं वेद। प्रजापतिर् यत् प्रजा असृजत ता धूर्भिर् एवासृजत। रेत एव रेतस्यासिञ्चत् प्राणं गायत्र्या समैरयच् चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्तया प्रत्युपादधात् प्रजापतिर् एव भूतः प्रजास् सृजते य एवं विद्वान् धूर्भिर् उद्गायति॥1.99॥


रेतस्यां गायति। रेतस् तत् सिञ्चति। संततम् इव गायति। सततिम् इव वै रेतः। परोक्षम् एव प्रथमे गायति। परोक्षम् इव वै रेतः। नर्चम् उपस्पृशेत्। यद् ऋचम् उपस्पृशेद् रेतो विच्छिन्द्यात्॥

त्र्युदासां गायति। प्राणम् एव प्रथमेनोदासेन परिगृह्णात्य् अपानं द्वितीयेन व्यानं तृतीयेन। त्र्युदासां गायति। आत्मानम् एव प्रथमेनोदासेन परिगृह्णाति जायां द्वितीयेन प्रजां तृतीयेन। त्र्युदासां गायति। इमम् एव लोकं प्रथमेनोदासेनाभ्यारोहत्य् अन्तरिक्षं द्वितीयेनामुं तृतीयेन। स यो हैवं विद्वांस् त्र्युदासां गायत्य् अभि ह भ्रातृव्यलोकाय विजयते॥

स यो भ्रातृव्यलोकं चिच्छित्सेद् द्वयुदासाम् एव गायेत्। ओषम् अस्य द्विषन् भ्रातृव्यः पराभवति श्रियम् आत्मानाश्नुते। ईश्वरो ह तु प्रमायुको भवितोः। प्राणेभ्यो ह्य् एति त्र्युदासायै। स तथैव चिकीर्षेद् यथा सर्वम् आयुर् इयात्। अन्येन भ्रातृव्यलोकं चिच्छित्सत्। त्र्युदासाम् एव गायेत्। न हिंकुर्यात्। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्॥1.100॥