जैमिनीयं ब्राह्मणम्/काण्डम् १/०६१-०७०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

- - -यद् अग्नयो ऽनुगच्छेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति। तम् उ हैक उल्मुकाद् एव निर्मन्थन्ति। यतो वै मनुष्यस्यान्ततो नश्यति ततो वाव स तस्य प्रायश्चित्तिम् इच्छत इति वदन्तः। तद् उ तथा न विद्यात्। उल्मुकं ह्य् एव तत आदाय चरेद् उल्मुकस्य वावव्रश्चम्। इत्थम् एव कुर्यात्। उल्मुकाद् एवापच्छिद्यारण्योर् अभिविमन्थेत्। उप ह तं कामम् आप्नोति य उल्मुकमथ्यायाम् उपो तं यो ऽरण्योः॥

अथो खल्व् आहुर् यद् आहवनीय उद्धृतो ऽनुगच्छेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। अनुगतो वा एष तावद् भवति यावद् गार्हपत्यो नानुगच्छति। स यद्य् अपि बह्व् इव कृत्वो ऽनुगच्छेत् पुनः पुनर् एवैनम् उद्धरेत्। एतद् एवात्र कर्म॥

अथो खल्व् आहुर् यद् आहवनीय उद्धृत गार्हपत्यो ऽनुगच्छेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। तम् उ हैके तत एव प्राञ्चम् उद्धरन्ति। तद् उ तथा न कुर्यात्। यो ऽङ्ग तत्र ब्रूयात् प्राचो न्वा अयं यजमानस्य प्राणान् प्रावृक्षन् मरिष्यत्य् अयं यजमान इति तथा हैव स्यात्॥

तम् उ हैके तत एव प्रत्यञ्चम् आहरन्ति। प्राणो वै गार्हपत्यो ऽपान आहवनीयः। संविदानौ वा इमौ प्राणापानाव् अन्नम् अत्त इति वदन्तः। अथो गृहो वै गार्हपत्यः। प्रतिष्ठो वै गृहाः। स य एनं तत्र ब्रूयात् प्र न्वा अयम् अस्यै प्रतिष्ठाया अच्योष्ट मरिष्यत्य् अयं यजमान इति तथा हैव स्यात्॥

तम् उ हैके गार्हपत्य एवम् अवधित्वोपसमादधति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् अग्नाव् अध्य् अग्निम् अजीजनत् क्षिप्रे ऽस्य द्विषन् भ्रातृव्यो जनिष्यत इति तथा हैव स्यात्॥

तम् उ हैके ऽनुगमय्य मन्थन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् अपि यत् परिशिष्टम् अभूत् तद् अजीजसन् नास्य दायादश् चन परिशेक्ष्यत इति तथा हैव स्यात्॥

इत्थम् एव कुर्यात्। अरण्योर् एव समारोहयेत

अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः।
तं जानन्न् अग्न आरोहाथा नो वर्धया रयिम् अथा नो वर्धया गिरः॥

इति। वास उदवसाय जुह्वद् वसेत्। नवावसाने हास्योभयतोरात्रं हुतं भवति नो कांचन परिचक्षां कुरुते॥

स प्रातर् भस्मोद्धृत्य शकृत्पिण्डेन परिलिप्य यथायथम् अग्नीन् आदधीत। एतद् एवात्र कर्म॥

अथो खल्व् आहुर् यद् आहवनीयम् अनुद्धृतम् -- ॥1.61॥


-- अभ्य् अस्तम् इयात् किं तत्र कर्म का प्रायश्चित्तिर् इति। एतस्माद् ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयम् अनुद्धृतम् अभ्य् अस्तम् एति। स दर्भेण सुवर्णं हिरण्यं प्रबध्य पश्चाद् धरेत्। तद् एतस्य रूपं क्रियते य एष तपति। अह्नो वा एतद् रूपम्। तद् अह्नो रूपं क्रियते। अथेध्मम् आदीप्य प्राञ्चं हरेयुः। तम् उपसमाधाय चतुर्गृहीतम् आज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस् स्वाहा इति जुहुयात्। तद् यथा वा अदवद आवसथवासिनं क्रुद्धं यन्तम् उक्षवेहता वानुमन्त्रयेतान्येन वा प्रियेण धाम्नैवम् एव तद् विश्वान् देवान् अनुमन्त्रयते। ते हास्मै सर्व एवाक्रुद्धा भवन्ति॥ अथो खल्व् आहुर् यद् आहवनीयम् अनुद्धृतम् -- ॥1.62॥


--अभ्युदियात् किं तत्र कर्म का प्रायश्चित्तिर् इति। एतस्माद् ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयम् अनुद्धृतम् अभ्युदेति। स दर्भेण रजतं हिरण्यं प्रबध्य पुरस्ताद् धरेत्। तच् चन्द्रमसो रूपं क्रियते। रात्रेर् वा एतद् रूपम्। तद् रात्रे रूपं क्रियते। अथेध्मम् आदीप्यान्वञ्चं हरेयुः। तम् उपसमाधाय चतुर्गृहीतम् आज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस् स्वाहा इति जुहुयात्। यत्र वै दीप्तं तत्रैतद् इह गार्हपत्य इत्य् एव विद्वान् उद्धरेत्। असाव् एव बन्धु। अथ हैक आहुर् एत ह वै स्वर्गं लोकं पश्यन्तो जुह्वति य आदित्यम् इति। स यो वा त्वै गतश्रीस् स्याद् यो वास्माल् लोकात् क्षिप्रे प्रजिगांस्ते स उदितहोमी स्यात्॥

अथो खल्व् आहुः -- ॥1.63॥


--यद् अग्नयस् संसृज्येरन् किं तत्र कर्म का प्रायश्चित्तिर् इति। स यदि परस्ताद् अन्यो ऽभिदहन्न् एयात् स विद्यात् परस्तान्मा शुक्रम् आगात् प्रजातिर् मे भूयस्य् अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्। यदि त्व् अस्य हृदयं विलिखेद् अग्नये विविचय इष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये

वि ते विष्वग् वातजूतासो अग्ने भामासश् शुचे शुचयश् चरन्ति।
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः॥

इति। अथ याज्या

त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम्।
गुहा सन्तं सुभग विश्वदर्शतं तुविष्मणसं सुयजं घृतश्रियम्॥

इति। अथो हैनया पाप्मना व्यावृत्स्यमानो यजेत। क्षिप्रे हैव पाप्मनो व्यावर्तते॥

यदि त्व् अयम् इतो ऽभिदहन्न् एयाद् अग्नये संवर्गायेष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये -- ॥1.64॥


-- मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा।
सं वर्गं सं रयिं जय॥

इति। अथ याज्या

परस्या अधि संवतो अवरं अभ्य् आ तर।
यत्राहम् अस्मि तं अव॥

इति। अथो हैनया यद् भ्रातृव्यस्य संविवृक्षेत तत्कामो यजेत। क्षिप्रे हैवास्य संवृंक्ते॥

अथो खल्व् आहुर् यद् अग्नाव् अग्निम् अभ्युद्धरेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। अग्नये ऽग्निमत इष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये

अग्निनाग्निस् समिध्यते कविर् गृहपतिर् युवा।
हव्यवाड् जुह्वास्यः॥

इति। अथ याज्या

त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता।
सखा सख्या समिध्यसे॥

इति। अथो हैनया ब्रह्मवर्चसकामो यजेत। तेजस्वी हैव ब्रह्मवर्चसी भवति॥

अथो खल्व् आहुर् यद् आहवनीयगार्हपत्यौ संसृज्येयातां किं तत्र कर्म का प्रायश्चित्तिर् इति। अग्नये वीतय इष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये

अग्न आ याहि वीतये गृणानो हव्यदातये। नि होता सत्सि बर्हिषि॥

इति। अथ याज्या

यो अग्निं देववीतये हविष्मं आविवासति।
तस्मै पावक मृडय॥

इति। तस्मै पावक मृडय इति॥1.65॥


जैमिनीयं ब्राह्मणम्

(अग्निष्टोमम्)

प्रजननं ज्योतिः। अग्निर् देवतानां ज्योतिः। विराड् वाच्य् अग्नौ संतिष्ठते। विराजं संपद्यते। तस्माद् एष ज्योतिर् उच्यते। द्वौ स्तोमौ प्रातस्सवनं वहतो यथा चक्षुश् च प्राणश् च तथा तत्। द्वौ स्तोमौ माध्यंदिनं सवनं वहतो यथा च श्रोत्रं च बाहू च तथा तत्। द्वौ स्तोमौ तृतीयसवनं वहंतो यथा मध्यं च प्रतिष्ठा च तथा तत्।

हिंकारेण वै ज्योतिषा देवास् त्रिवृते ब्रह्मवर्चसाय ज्योतिर् अदधुः। त्रिवृता ब्रह्मवर्चसेन पञ्चदशायौजसे वीर्याय ज्योतिर् अदधुः। पञ्चदशेनौजसा वीर्येण सप्तदशाय प्रजायै पशुभ्यः प्रजननाय ज्योतिर् अदधुः। सप्तदशेन प्रजया पशुभिः प्रजनेनैकविंशाय प्रतिष्ठायै ज्योतिर् अदधुः॥

स्तोमो वा एतत्। स्तोमे ज्योतिर् दधत इति। तस्माज् ज्योतिष्टोम इत्य् आख्यायते। अथ यत् स्तोमस्तोमं सवनम् अभिप्रणयति तस्माज् ज्योतिष्टोम इत्य् आख्यायते। अथो यद् यज्ञस् संस्तुतो विराजम् अभिसंपद्यते-ज्योतिर् विराट्-तस्माज् ज्योतिष्टोम इत्य् आख्यायते॥1.66॥


अस्थूरिर् वा एष यज्ञः पुरुषसंमितः। यत्काम एनम् आहरते सम् अस्मै काम ऋध्यते। अस्थूरिणा हि तत्र गच्छति यत्र जिगमिषति॥

प्रजापतिर् यत् प्रजा असृजत ता अग्निष्टोमेनासृजत। दशमेन च वै स ता अग्निष्टोमस्य स्तोत्रेणासृजत दशमेन च मासा संवत्सरस्य। ता द्वादशेन चैवाग्निष्टोमस्य स्तोत्रेण पर्यगृह्णाद द्वादशेन च मासा संवत्सरस्य। तस्मात् पशवो दशमासो गर्भान् बिभ्रति। त एकादशम् अनुप्रजायन्ते। न का चन द्वादशम् अतिहरति। परिगृहीता हि तेन॥

तासां परिगृहीतानाम् अश्वतरो ऽत्यप्लवत। तस्यानुहाय रेत आदत्त। तद् गर्दभे न्यमार्ट् तद् बडवायां तत् पशुषु तद ओषधीषु। तस्माद् गर्दभो द्विरेतास् तस्माद् बडवा द्विरेताः। तस्मात् पशवो द्वौ द्वौ जनयन्ति। तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति। तस्माद् अश्वतरो बर्हिषि न देयः। अति ह्य् अप्लवताप ह्य् अक्रामत्। आत्त रेता ह्य् अप्रजा हि। षोडशिनस् स्तोत्रे देयः। अतिरिक्तो वै षोडशि स्तोत्राणाम् अतिरिक्तो ऽश्वतरः पशूनाम्। अतिरिक्त एवा तद् अतिरिक्तं दधति यज्ञस्य सलोमतायै। स य एवं विद्वान् अग्निष्टोमेनोद्गायति प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति। ज्येष्ठयज्ञो वा एष प्रजापतियज्ञो यद् अग्निष्टोमः। अश्नुते ज्यैष्ठयं श्रैष्ठयं य एवं वेद॥1.67॥


प्रजापतिर् वावेदम् अग्र आसीत्। जनो ह वै प्रजापतिर् देवता। सो ऽकामयत बहुस् स्याम प्रजायेय भूमानं गच्छेयम् इति। स शीर्षत एव मुखतस् त्रिवृतं स्तोमम् असृजत गायत्रीं छन्दो रथन्तरं सामाग्निं देवतां ब्राह्मणं मनुष्यम् अजं पशुम्। तस्माद् ब्राह्मणो गायत्रीछन्दा आग्नेयो देवतया। तस्माद् उ मुखं प्रजानाम्। मुखाद् ध्य् एनम् असृजत॥

सो ऽकामयत प्रैव जायेयेति। स बाहुभ्याम् एवोरसः पञ्चदशं स्तोमम् असृजत त्रिष्टुभं छन्दो बृहत् सामेन्द्रं देवतां राजन्यं मनुष्यम् अश्वं पशुम्। तस्माद् राजन्यस् त्रिष्टुप्छन्दा ऐन्द्रो देवतया। तस्माद् उ बाहुभ्यां वीर्ये करोति। बाहुभ्यां ह्य् एनम् उरसो वीर्याद् असृजत॥

सो ऽकामयत प्रैव जायेयेति॥1.68॥


स उदराद् एव मध्यतस् सप्तदशं स्तोमम् असृजत जगतीं छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम्। तस्माद् वैश्यो जगतीछन्दा वैश्वदेवो देवतया। तस्माद् उ प्रजनिष्णुः। उदराद् ध्य् एनं प्रजननाद् असृजत॥

सो ऽकामयत प्रैव जायेयेति। स पद्भयाम् एव प्रतिष्ठाया एकविंशं स्तोमम् असृजतानुष्टुभं छन्दो यज्ञायज्ञीयं साम न कां चन देवतां शूद्रं मनुष्यम् अवि पशुम्। तस्माच् छूद्रो ऽनुष्टुप्छन्दा वेश्मपतिदेवः। तस्माद् उ पादावनेज्येनैव जिजीविषति। पद्भयां ह्य् एनं प्रतिष्ठाया असृजत॥

एतया वै सृष्टया प्रजापतिः प्रजा असृजत। स य एतद् एवं वेद भूमानम् एव प्रजया पशुभिर् गच्छति। तस्माद् व् एतं यज्ञं भूयिष्ठं प्रशंसन्ति यद् अग्निष्टोमम्। प्रजापतियज्ञो ह्य् एषः॥1.69॥


प्रजापतिः प्रजाभ्य ऊर्जं व्यभजत्। तद् उदुम्बरस् समभवत्। प्रजापतिर् उद्गाता प्राजापत्य उदुम्बरः। वृणुते ऽन्यान् ऋत्विजो नोद्गातारम्। यद् उद्गाता प्रथमेन कर्मणौदुम्बरीम् अन्वारभते स्वयैव तद् देवतायात्मानम् आर्त्विज्याय वृणीते। ताम् अन्वारभते आयोष् ट्वा सदने सादयाम्य् अवतश् छायायां समुद्रस्य हृदये॥ नमस् समुद्राय नमस् समुद्रस्य चक्षसे॥ मा मा योनोर्वां हासीः इति। यद् आह आयोष् ट्वा सदने सादयामि इति-यज्ञो वा आयुः - तस्यैतत् सदनं क्रियते। अवतश् छायायाम् इति। यज्ञो वा अवतिः। तस्यैषा छाया क्रियते यत् सदः। समुद्रस्य हृदये इति। मध्यतो वा आत्मनो हृदयम्। तस्मान् मध्यतस् सदस औदुम्बरीम् ईयते। नमस् समुद्राय नमस् समुद्रस्य चक्षसे इति। वाग् वै समुद्रो मनस् समुद्रस्य चक्षः। एताभ्याम् एवैतद् देवताभ्यां नमस्करोति। आर्त्विज्यं करिष्यन् मा मा योनोर्वां हासीः। इति-साम वै योनोर्वाम्-साम्न एवैतन् नमस्करोति। आर्त्विज्यं करिष्यन् नैनं सामावहते। न सामन्याम् आर्तिम् आर्छति। न साम्नो हीयते य एवं विद्वान् साम्ने नमस्करोति। य एवैनम् उपवदति स आर्तिम् आर्छति॥1.70॥