सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/००१-०१०

विकिस्रोतः तः
← काण्डम् १ जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ००१-०१०
[[लेखकः :|]]
कण्डिका ११-२० →

जैमिनीयं ब्राह्मणम्

प्रथम काण्डम् (अग्निहोत्रम्)

तद् आहुः केन जुहोति कस्मिन् हूयत इति। प्राणेनैव जुहोति प्राणे हूयते॥

तद् यद् एतद् अग्नीन् मन्थन्ति यजमानस्यैव तत् प्राणान् जनयन्ति। तद् यावद् वै मन्थन्त न तर्हि प्राणिति। अरण्योर् एवास्य तर्हि प्राणा भवन्ति॥

तस्य वै मथ्यमानस्य भस्मावशीयते। अन्नम् एवास्य तज् जायते। अन्नं म एतद् अजनीत्य एव तद् विद्यात्॥

धूमो ऽनु निनर्दति। मन एवास्य तज् जायते। मनो म एतद् अजनीत्य एव तद् विद्यात्॥

अङ्गारो ऽनु निर्वर्तते। चक्षुर् एवास्य तज् जायते। चक्षुर म एतद् अजनीत्य एव तद् विद्यात्॥

स एषो ऽङ्गार एतानि भस्मानि ग्रसते। यथा कुमारो जातस् स्तनम् अभिपद्येत तथा तिर्यङ् विसर्पति। श्रोत्रम् एवास्य तज् जायते। श्रोत्रं म एतद् अजनीत्य् एव तद् विद्यात्॥

उपरि तृणानि धुनोति। प्राण एवास्य स जायते। प्राणो म एषो ऽजनीत्य् एव तद् विद्यात्॥

भा इत्य् उद्दीप्यते। वाग् एवास्य सा जायते। वाङ् म एषाजनीत्य एव तद् विद्यात्॥

स एतान् पञ्च प्राणान् जनयते। तांस् त्रेधा व्यूह्य देवान् कृत्वा तेषु जुह्वद् आ ते। देवा हैवास्य देवा भवन्ति। इमे त्व् एवास्य देवा भवन्ति येषु जुह्वद् आस्त॥1.1॥


तद् यद् आहुः -- केन जुहोति कस्मिन् हूयत इति -- प्राणेनैव जुहोति प्राणे हूयते। तद् एतद् अन्नं प्राणे जुहोति। स एषो ऽन्नं कामयमान इमान् हि प्राणान् अभि वर्धयमानस् तेषु जुह्वद् आस्ते। अथैतद् ध वाव ब्राह्मणस्य स्वर् यद् धविः। तद् आत्मन् निधत्त एष्व अमृतेषु प्राणेषु। तद् अस्यात्मन् निहितं न प्रमीयते॥

तद् यदा वै मन उत्क्रामति यदा प्राणो यदा चक्षुर् यदा श्रोत्रं यदा वाग् एतान् एवाग्नीन् अभिगच्छति। अथास्येदं शरीरम् एतेष्व एवाग्निष्व् अनुप्रविध्यन्ति अस्माद् वै त्वम् अजायथा एष त्वज् जायतां स्वाहा इति। सो ऽत आहुतिमयो मनोमयः प्राणमयश् चक्षुर्मयश् श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति। अमृता हैवास्य प्राणा भवन्ति। अमृतशरीरम् इदं कुरुते। सो ऽमृतत्वं गच्छति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.2॥


प्रजापतिस् सहस्रसंवत्सरम् आस्त। स सप्त शतानि वर्षाणां समाप्येमाम् एव जितिम् अजयद् यास्येयं जितिस् ताम्॥

स स्वर्गं लोकम् आरोहन् देवान् अब्रवीद् एतानि यूयं त्रीणि शतानि वर्षाणां समापयाथेति। तथेति। ते त्रीणि शतानि वर्षाणां समाप्य ताम् उ एव जितिम् अजयन् यां प्रजापतिर् अजयत्। त एते सर्व एव प्रजापतिमात्रा अयामयाम् ? इति॥

ते ऽब्रुवन् देवशरीरैर् वा इदम् अमृतशरीरैस् समापाम न वा इदं मनुष्यास् समाप्स्यन्ति। एतेमं यज्ञं संभरामेति। तं संवत्सरम् अभिसमभरन्। ते ऽब्रुवन् महद् वा इदं सम् एव भरामेति। तं द्वादशाहम् अभिसमभरन्। ते ऽब्रुवन् महद् वा इदं सम् एव भरामेति। ते पृष्ठ्यं षडहम् अभिसमभरन्। ते ऽब्रुवन् महद् वा इदं सम् एव भरामेति॥1.3॥


तं त्रिरात्रं तं द्विरात्रं तम् अप्तोर्यामं तम् अतिरात्रं तं वाजपेयं तं षोडशिनं तम् उक्थ्यं तम् अग्निष्टोमं तम् इष्टिपशुबन्धांस् तं चातुर्मास्यानि तं दर्शपूर्णमासौ तम् एते अग्निहोत्राहुती अभिसमभरन्। सो ऽतो न पराजयते। तद् वा अपराजितं यद् अग्निहोत्रम्। न ह वै पराजयते य एवं वेद॥

स यत् पुरस्ताद् अप उपस्पृशति -- सत्यं वा आपस् सत्यं दीक्षा -- दीक्षैवास्य सा॥

अग्निर् ज्योतिर् ज्योतिर् अग्निस् स्वाहा इत्य् अष्टाक्षरेण जुहोति। अष्टाक्षरा गायत्री। तद् एव प्रातःसवनम्। मनसा निष्केवल्येनोत्तराम् आहुतिं जुहोति। तद् एव माध्यंदिनं सवनम्। उपमृष्टे प्राश्नाति। तद् एव तृतीयसवनम्। लेलिहितम् इव हि तत् तृतीय सवनम्॥

उपरिष्टाद् अप उपस्पृशति। अवभृथ एवास्य सः॥

स यद् एते सायमाहुती जुहोत्य् एताभ्याम् एवास्याहुतिभ्यां सर्वैर् एतैर् यज्ञक्रतुभिर् इष्टं भवति॥

अथ यद् एते प्रातराहुती जुहोत्य् एताभ्याम् एवास्याहुतिभ्यां सर्वैर् एतैर् यज्ञक्रतुभिर् इष्टं भवति॥

तद् एतद् अपर्यन्तं यद् अग्निहोत्रम्॥1.4॥


अथ पशुकामस् सायं पशुषु समेतेष्व् अग्निहोत्रं जुहुयात्। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून् परिगृह्णाति। अविसृष्टेषु प्रातः। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून् परिगृह्णाति। स एतान् ब्रह्मणोभयतः पशून् परिगृह्णीते। अव पशून् रुन्द्धे। बहुपशुर् भवति॥

अथ स्वर्गकामः द्वौ समुद्राव् अचर्यौ विततौ महान्ताव् आवरीवर्तेते चर्येव पादौ इति। द्वौ हेव समुद्राव अचर्याव् अहश् चैव रात्रिश् च। ते ये नक्तं जुह्वति रात्रिम् एव ते समुद्रं प्रविशन्ति। अथ य उदिते जुह्वत्य् अहर् एव ते समुद्रं प्रविशन्ति। तयोर् वा एतयोर् अत्ययनम् अस्ति यथा वैषवं वा स्यात् सेतोर् वा संक्रमणम्। अस्तम् इते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात्॥1.5॥


अथो हैतौ श्यामशवलाव् एव यद् अहोरात्रे। अहर् वै शवलो रात्रिश् श्यामः। ते ये नक्तं जुह्वति रात्रिम् एव ते श्यामं प्रविशन्ति। अथ य उदिते जुह्वत्य अहर् एव ते शबलं प्रविशन्ति। तयोर् एतद् एवात्ययनम् , अस्तम् इते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात्॥

अथो हैषु सवितैव द्युम्नः। सविता वै प्रजापतिः प्रजापतिर् विश्वे देवाः। प्रजापताव् एवास्य तद् विश्वेषु देवेषु हुतं भवति। तद् एतत् प्राजापत्यं यद् अग्निहोत्रम्॥

अथ यद् एतत् प्रातः प्रभाति , एतस्मिन् वै द्युम्ने प्रजाः प्रजनयांचकार। सविता वै प्रजापतिः प्रजापतिर् विश्वे देवाः , प्रजापताव् एवास्य तद् विश्वेषु देवेषु हुतं भवति। तद् एतद् वैश्वदेवं यद् अग्निहोत्रम्॥

अथो हैतद् अहोरात्रे एवंमुखं संधत्तः। अन्नं वा अग्निहोत्रम्। अन्नाद्यम् एवैतद् अहोरात्रयोर् मुखतो ऽपिदधाति। एवम् एव पुनः प्रातस् संधत्तः॥ अन्नं वा अग्निहोत्रम्। अन्नाद्यम् एवैतद् अहोरात्रयोर् मुखतो ऽपिधायैतौ पुनर्मृत्यू अतिमुच्यते यद् अहोरात्रे॥1.6॥


असौ वा आदित्यो ऽस्तं यन् षोढा विम्रोचति। व्यम्रुचद् इति ह स्म वा एतं पूर्वे पुराणिन आचक्षते। अथैतर्हि न्यम्रुचद् इति॥

स वा एषो ऽस्तं यन् ब्राह्मणम् एव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्॥

स यद् ब्राह्मणो ऽग्निहोत्रपात्राणि निर्णेनेक्ति यत् परिचेष्टति ययैवैनं श्रद्धया प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥

अथ यत् पयो दुहन्ति येन पयसा पशून् प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति॥

अथ यद् अङ्गारान् निरूहति येन तेजसाग्निं प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति॥

अथ यत् तृणेनावद्योतयति ययोर्जौषधीः प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥

अथ यद् अपः प्रत्यानयति येन रसेनापः प्रविष्टो भवति तम् एवास्मिंस् तत् संभरति॥

अथ यत् समिधम् अभ्यादधाति यया स्वधया वनस्पतीन् प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥1.7॥


तम् एवं संभृत्य सायं जुहोति। स तां गर्भकृतो रात्रिं वसति। एवम् एव पुनस् संभृत्य प्रातर् जुहोति। तं जनयति। सो ऽस्य जायमान एव सर्वं पाप्मानम् अपहन्ति। देवा वै प्रजापतेर् अजायन्त। एष उ एवंविदो जायते। स यावन्तं प्रजापतिर् लोकम् अजयत् तावन्तं जयति॥

अथो हेक्षत ऽयं वाव माम् अनुष्ठ्या संभरति हन्तायं साङ्गस् सतनुर् अविह्रुतो जरसं गच्छत्व् इति। स ह साङ्ग एव सतनुर् अविह्रुतो जरसं गच्छति॥

अथो हेक्षते ऽयं वाव माम् अनुष्ठ्या वद् हन्तेमम् एवाविशानीति। स हैवंविदम् एवाविशति॥

स एष वा एको वीरो य एष तपत्य् एष इन्द्र एष प्रजापतिः। एतस्मिन् हास्य तद् धुतं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.8॥


यद् ध वा अह्ना पापं क्रियत आदित्यस् तत् कारयति। यद् रात्र्याग्निस् तत्। ताव् अब्रूताम् इत्थं चेद् वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम्। हन्तान्नम् एवासावान्योन्यस्मिन्न् एवात्मानं जुहवावेति। स यद् आदित्यो ऽस्तम् एत्य् अग्नाव् एव तद् आत्मानं जुहोति। स यत् किं चादित्यो ऽह्ना पापं करोति तद् अस्याग्नी रात्र्यापहन्ति॥

आदित्यम् उद्यन्तम् अग्निर् अनूदेति। आदित्य एव तद् आत्मानं जुहोति। स यत् किं चाग्नौ रात्र्या पापं करोति तद् अस्यादित्यो ऽह्नापहन्ति। स यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निर्मुच्यते स य एवं विद्वान् अग्निहोत्रं जुहोति॥1.९॥


सायमाहुत्यैव यत् किं चाह्ना पापं करोति तद् अस्याग्नी रात्र्यापहन्ति। प्रातराहुत्यैव यत् किं च रात्र्या पापं करोति तद् अस्यादित्यो ऽह्नापहन्ति। स यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निर्मुच्यते। तद् यथा हिरण्ये ध्माते न कश् चन न्यङ्गः पाप्मा परिशिष्यत एवं हैवास्मिन् न कश चन न्यङ्गः पाप्मा परिशिष्यते य एवं विद्वान् अग्निहोत्रं जुहोति॥1.10॥