जिनचतुर्विंशतिका (भूपालप्रणीता)

विकिस्रोतः तः
जिनचतुर्विंशतिका
भूपालः
१९२६

श्रीभूपालकविप्रणीता जिनचतुर्विंशतिका। श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम् ॥ १॥ शान्तं वयुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्सलरेन्दसान्द्र- च्छायामहीरुह भवन्तमुपाश्रयन्ते ॥ २ ॥ स्वामिन्नद्य विनिर्गतोऽसि जननीगर्भान्धकूपोदरा- दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी- नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ॥ ३ ॥ निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली- सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क्व च निःस्पृहत्त्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४॥ १. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता, तत्र टीकायां तत्कर्तुर्नाम नास्ति, २. पण्डिता. ३. रुन्दा विस्तीर्णा. ४, सिंहासनस्य. जिनचतुर्विंशतिका। राज्यं शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोकालोकमपि (१) स्वबोधमुकुरस्यान्तः कृतं यत्त्वया सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते ॥ ५ ॥ दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च बह्व्यः कृताः । शीलानां निचयः सहामलगुणैः सर्वः समासादितो दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम् ॥ ६ ॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत- स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे ॥ ७ ॥ जयति दिविजवृन्दान्दोलितैरिन्दुरोचि- र्निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी- युवतिनवकटाक्षक्षेपलीलां दधानैः ॥ ८ ॥ देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा- पुष्पौधासारसिंहासनसुरपटहैरष्टभिः प्रातिहार्यैः । (१) साश्चर्यैर्भ्राजमानः सुरमनुजसभाम्भोजिनीभानुमाली पायान्नः पादपीठीकृतसकलजगत्पालमौलिर्जिनेन्द्रः ॥९॥ नृत्यत्स्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारीनिकायः सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः । हस्ताम्भोजावलीलाविनिहितसुमनोदामरम्यामरस्त्री- काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते ॥१०॥ १. आज्ञाविधेयः शक्रो यस्मिन्, २. चमरिरहं चामरम्, भाश्चकं भामण्डलम् । भाषा दिव्यध्वनिः, 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुमिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ इति शान्तिपाठे पद्यम्. २८ काव्यमाला। चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वक्रेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् । येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ।। ११ ।। कन्तोः सकान्तमपि मल्लमवैति कश्चि- न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोधिकृतत्रिदशयोषिदपाङ्गपात- स्तस्य त्वमेव विजयी जिनराज मल्लः ॥ १२ ॥ किसलयितमनल्पं स्वद्विलोकाभिलाषा- त्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानीं नयनपथमवाप्ताद्देव पुण्यद्रुमेण ॥ १३ ॥ त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प- प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः । स जयति जिनराजबातजीमूतसङ्घः शतमस्वशिस्विनृत्यारम्भनिर्बन्धबन्धुः ॥ १४ ॥ भूपालखर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला- लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुझलास्त्रिः परीत्य श्रीपादच्छाययास्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५॥ देव त्वदङ्घ्रिनखमण्डलदर्पणेऽस्मि- न्नर्ध्ये निसर्गरुचिरे चिरदृष्टवक्रः । श्रीकीर्तिकान्तिधृतिसंगमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥ १६ ॥ १. कामस्य. २. माद्यन्, ३. जिनानां गणधरदेवानां राजानस्तेषां व्रातः समूह एव मेघसंघ इति दीका. ४. वृक्षविशेषस्य. ५. अपस्थितो दूरीभूतः. जिनचतुर्विंशतिका। no जयति सुरनरेन्द्रश्रीसुधानिर्झरिण्याः कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहाग्रप्रवाल- प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥ विनमदगरकान्ताकुन्तलाक्रान्तकान्ति- स्फुरितनखमयूखद्योतिताशान्तरालः । दिविजमनुजराजबातपूज्यक्रमाब्जो जयति विजितकर्मारातिजालो जिनेन्द्रः ॥१८॥ मुप्तोत्थितेन सुमुखेन सुमङ्गलाय द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्रं त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥ त्वं धर्मोदयतापसाश्रमशकस्त्वं काव्यबन्धक्रम- क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मौलिभिः ॥ २० ॥ शिवसुखमजरश्रीसंगमं चाभिलप्य स्वमभि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त- स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१॥ देवेन्द्रास्तव मज्जनानि विदधुर्दैवाङ्गना मङ्गला- न्यापेठुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे तत्किं देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥ २२ ॥ देव त्वज्जननाभिषेकसमये रोमाञ्चसत्कञ्चुकै- र्देवेन्द्रर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् । १. हे जगत्पालक. 30 काव्यमाला। किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम- प्रेङ्खद्वल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्बुजदलोरेक्षणं पश्यतां यत्रासाकमहो महोत्सबरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सम सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरे भिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वञ्चकोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम् ॥ २६ ॥ इति श्रीभूषालकविप्रणीता जिनचतुर्थिशतिका ॥ समाप्तेयं जिनपञ्चस्तवी।