जाबालदर्शन उपनिषद्/खण्डः ९
Jump to navigation
Jump to search
अनुक्रमणिका
← खण्डः ८ | जाबालदर्शन उपनिषद् खण्डः ९ [[लेखकः :|]] |
खण्डः १० → |
अथातः संप्रवक्श्यामि ध्यानं संसारनाशनम् ।
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ॥ १॥
ऊर्ध्वरेतं विश्वरूपं विरूपाक्शं महेश्वरम् ।
सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम् ॥ २॥
अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ ३॥
तथा स्थूलमनाकाशमसंस्पृश्यमचाक्शुषम् ।
न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ४॥
आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ५॥
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ॥ ६॥ इति॥
इति नवमः खण्डः ॥ ९॥