जाबालदर्शनोपनिषत्/खण्डः ५

विकिस्रोतः तः
(जाबालदर्शन उपनिषद्/खण्डः ५ इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः ४ जाबालदर्शनोपनिषत्
खण्डः ५
[[लेखकः :|]]
खण्डः ६ →
अनुक्रमणिका


सम्यक्कथय मे ब्रह्मन्नाडीशुद्धिं समासतः ।
यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ ५.१॥
साङ्कृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः ।
विध्युक्तकर्मसंयुक्तः कामसङ्कल्पवर्जितः ॥ २॥
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ ३॥
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥
आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ।
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥
नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥
इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् ।
ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥
पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥
नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः ।
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥
नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
यावदेतानि सम्पश्येत्तावदेवं समाचरेत् ॥ १२॥
अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः ॥ १३॥
अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् ।
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः ।
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥ इति॥
इति पञ्चमः खण्डः ॥ ५॥