जाबालदर्शनोपनिषत्/खण्डः ८

विकिस्रोतः तः
(जाबालदर्शन उपनिषद्/खण्डः ८ इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः ७ जाबालदर्शनोपनिषत्
खण्डः ८
[[लेखकः :|]]
खण्डः ९ →
अनुक्रमणिका


अथातः संप्रवक्श्यामि धारणाः पञ्च सुव्रत ।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ॥ १॥

प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे ।
तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २॥

हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् ।
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥ ३॥

जान्वन्तं पृथिवी ह्यंशो ह्यपां पाय्वन्तमुच्यते ।
हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः ॥ ४॥

आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः ।
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५॥

अग्न्यंशे चे महेशानमीश्वरं चानिलांशके ।
आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६॥

अथवा तव वक्श्यामि धारणां मुनिपुङ्गव ।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ७॥

धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये ।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ ८॥

सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ।
साक्शादात्मनि संपूर्णे धारयेत्प्रणवेन तु ।
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥ ९॥ इति॥

इत्यष्टमः खण्डः ॥ ८॥