जातकपारिजातः/तृतीयचतुर्थभावफलाध्यायः
तत्र तृतियभावफलम् ।
ज्योष्ठानुजस्थितिपराक्रमसाहसानि कण्ठ्खरज़्रुतिवराभरणांज़ुकानि ।
धैर्य च वीर्यबलमूलफलाज़नानि वक्ष्ये तृतीयभवनात् क्रमज़ोऽखिलानि ॥ १॥
अथ भ्रातृविचार ।
भ्रातृस्थानं तृतीयं च नवैकदशसप्तमम् ।
तत्तदीशादशायां च भ्रतृलाभो भवेन्नृणाम् ॥ २॥
भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् ।
मध्ये बलसमेतस्य दशा सोदरकृद्धिदा ॥ ३॥
भौमो बलविहीनश्चेदीर्घायुर्भ्रातृगो भवेत् ।
विलग्नगो बली यस्य कारकः स प्रभुः त्मृतः ॥ ४॥
जन्मकाले गुणी प्राणी कारको यः समृदकृत् ।
क्षयकारी विपर्याते भावपो विपकोऽहिकः ॥ ५॥
सोदरेशेकुजौ नाशं गतौ चेत्मोदरक्षयः
पापर्क्षगौ सपापौ वा भ्रातृनुत्पाद्य नाशदौ ॥ ६॥
नीचास्तगौ सोदरनायकाख्यौ(सोदरनायकारव्यौ)नीचंशगौ पापसमगतौ वा ।
क्रूरादिषष्टर्यंशगतौ तदानीं भ्रातृन्समुत्पाद्य विनाशहेतुः ॥ ७॥
अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा ।
तद्भावनायके वाऽपि बल्ये सोदरनाशनम् ॥ ८॥
धनेश्वरे नग्शगते बलाढ्ये पापान्विते सोदरकारकाख्ये ।
तन्मातृकारमहसंयुते च सापत्नमातुः सहजा वदन्ति ॥ ९॥
भ्रातृस्थाने यदि शुभयुते सोदराणं चिरायुः
पापाक्रन्ते सहजभवने पापदृष्टे विनाशम् ।
ज्येष्टं हन्ति द्युमणिरनुजस्थानगः पापदृष्टः
सौरस्तस्यानुजमवनिजो हन्ति सर्वन् कनिष्टान् ॥ १०॥
त्रिकोणकेन्द्रे यदि पापखेटे तृतीयभावादनुजस्य नाशम् ।
शुभोपयाते सहजाभिवृधिः शुभाशुभं मिश्रफलं वदन्ति ॥ ११॥
दुःस्थे चन्द्रे सोदरस्वायुक्ते जातस्यान्यस्तन्यपानं वदन्ति ।
मातृभ्रातृस्थानपौ बन्धुयातौ नास्ति भ्रातृस्थानवृद्धिर्नराणां ॥ १२॥
भौमान्वितौ सोदरदौ भवेतामन्यैः समेतौ यदि नानुजः स्यात् ।
सौरस्तृतीयेऽनुजनाशकर्ता विधुन्तुदः सोदरवृद्धिकृत्स्यात् ॥ १३॥
अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे ।
जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥ १४॥
भ्रातृस्थानपतौ तु पुम्भवनगे तस्यानुजो जायते
युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते ।
सौम्यर्क्षे शुभखेचरेक्षितयुते केन्द्रत्रिकोणस्थिते
पश्चाज्जातसहोदरिश्वरसुखी दीर्घायुरारोग्यभाक् ॥ १५॥
सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा ।
गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयराशौ सपतौ तथैव ॥ १६॥
अथ सोदरसङ्ख्याशानम् ।
लाभावसानभवनोपगतग्रहेन्द्रसङ्ख्यास्तदग्रजजनाः सहजा भवन्ति ।
लग्नात्तृतीयधनयातवियच्चरेन्द्रैः सङ्ख्याजनाः स्युरनुजाः कथयन्ति तज्ज्ञाः ॥ १७॥
भ्राटृस्थानपकारकेक्षितयुता वीर्याधिका यद्यदा
तद्युक्तप्रहसङ्ख्ययाऽनुजजनिं जातः समेति ध्रवम् ॥
चत्वारो यदि नीचमुढरिपुगा निघ्नन्ति जातानुजां
स्ते कुर्वन्ति चिरायुरिष्टबलिनः सर्वानुजानां ग्रहाः ॥ १८॥
भ्रात्रृस्थानपमुख्यखेचरगणे द्वौ वीर्यवन्तौ यदा
नाशानाशफलप्रदौ समतया वीर्याधिकाश्चेत्त्रयः ।
खेटः स्त्रल्पसहोदरक्षयकरा दुःस्थानगाः स्त्रीग्रहाः
यद्यल्पानुजवृद्धिदास्तदनुजस्वाम्यंशसङ्ख्यानुजाः ॥ १९॥
भूमिजे सहजस्थाने यवतां विद्यते बलम् ।
शत्रुनीचग्रहं स्यक्त्वा तावन्तः सहजाः स्मृताः ॥ २०॥
भ्रात्रीदौ खीग्रहर्क्षस्थौ भ्रातृदौ पुङ्ग्रहर्क्षगौ ।
सोदरेशकुजौ स्यातां भ्रातृभ्रात्रिसुखप्रदौ ॥ २१॥
स्वीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृहे विलग्नात् ।
सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥ २२॥
कारकः सहजाधिशस्तदृर्शे(तद्दर्शे)तत्र संस्थितः ।
इष्टानिष्टकरास्तेषां स्वदशान्तर्दशासु च ॥ २३॥
कारकादिचतुःखेटफुटयोगांशकानुजाः ।
वर्ज्या नीचारिमूढांशाः स्वोच्चांशा द्वीगुणिकृताः ॥ २४॥
तृतीयात्सप्तमर्क्षेण भ्रातृभार्याफलं वदेत् ।
लग्नेशकुजसोत्थेशा भ्रात्रनिष्टशुभप्रदाः ॥ २५॥
अन्योन्यामिष्टविपुलं तु सहोदराणां लग्नाधिपेन साहिते यदि सोदरेशे ।
अन्योन्यामिष्टस्वचरां यदि तौ बलाढ्यौ लग्नेऽथवा सहजभे न विभागमाहुः ॥ २६॥
अथभ्रात्ररिष्टम् ।
लग्नेशानुजनायकौ विबलिनावन्योन्यशत्रुग्रहौ
दुश्चिक्यस्थितकारकौ च यदि वा दुःस्थानगौ दुर्बलौ ।
तत्पाके सहजप्रमादकलहं तन्नाशभर्थक्षयं
तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥ २७॥
गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः ।
रविदृष्टे बुधे सोत्थे सुहृन्नाशकरो भवेत् ॥ २८॥
भ्रातृस्थातन्नायककारकाणां नीचरिदुःस्थानसमन्वितानाम् ।
भुक्तौ दशायां भनसत्त्वनाशं पराजयं भ्रातृविनाशमाहः ॥ २९॥
लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटम्
तन्वक्षत्रगते शनौ तु मरणं तस्मोदराणां वदेत् ।
तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते
राशौ भानुसुते तथैव च चतुर्थोगस्फुतांशेऽथवा ॥ ३०॥
चतुःस्फुटाक्रान्तदृकाणराशिं गते गुरौ सोदरनाशमाहुः ।
तत्तारकानाथदशाऽनुजानामतीव सम्पत्सुखदायिनी स्यान् ॥ ३१॥
भूसूनुस्फुटतो विशोध्य फणिनं शेषत्रिकोणे गुरौ
जातस्यानुजनाशनं क्षितिसुतं राहुस्फुटाच्छोधयेत् ।
तद्राशिस्थनवांशकेऽमरगुरौ तज्ज्येष्ठनाशं वदेद्
जन्माधानपकर्मपस्फुटगृहे जीवेऽनुजो जायते ॥ ३२॥
पराक्रमविचारः
विक्रमाधिपतौ स्वोच्चे नाशस्थे पापसंयुते ।
चरराशौ चरांशस्थे युद्धात्पूर्व दृढो भवेत् ॥ ३३॥
कारके बलहीने वा क्रूरषष्टयंशसंयुते ।
शुभदृग्योगसम्बन्धे विजयी विक्रमेश्वरे ॥ ३४॥
सौम्यार्धिपे भानुयुतेऽत्र वीरश्वन्द्रान्विते भानस्तधैर्यजातः ।
दुष्टो जहो भौमयुते प्रकोपी सौम्यन्विते सात्त्विकषुद्धियुक्तः ॥ ३५॥
जीवान्वते धीरगुणाभिरामः समस्तशास्त्रार्थविशारदः स्यात् ।
कामातुरः शुक्रसमन्विते तु तन्मूलकोपत् कलहप्रवीणः ॥ ३६॥
जडो भवेद्वासरनाथस्तूनुयुक्तेऽतिभीतो फाणिसंयुते स्यात् ।
बाहिर्गदो हृद्रदजाड्ययुक्तः केत्वन्विते मान्दियुते तथैव ॥ ३७॥
लग्ने गुरौ विक्रमनाथयुक्ते चतुष्पदानां प्रवदन्ति भीतिम् ।
गवां भयं जलराशिलग्ने जलप्रमादं समुपैति जातः ॥ ३८॥
कुजेन युक्ते स्वचरे विलष्ठे सत्त्वं बलं गानौखं समेति ।
कुजानुजस्यानुजराइनाथास्त्रयो बलीष्ठा रणरङ्गशूराः ॥ ३९॥
तेषां त्रयाणामपहारकाले पाकेऽथवा मूलफलार्दसौख्यम् ।
श्रोत्रद्वयं भूषणसत्कथादिसम्पत्करं भ्रातृसुतादिलामम् ॥ ४०॥
सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते ।
नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥ ४१॥
अथ कण्ठविचारः
शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥ ४२॥
पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् ।
भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्तुरोगम् ॥ ४३॥
विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ ।
राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥ ४४॥
सुबुधो विक्रमपतिर्गलरोगकरो भवेत् ।
सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥ ४५
बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च ।
तत्क्न्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥ ४६ ॥
अथ श्रुतिभूषाणाविचारः
तृतीये सौम्यसंयुते सौम्यखेचरवीक्षिते ।
तदिशे शुभसंयुक्ते कर्णयोर्भूषणं वदेत् ॥ ४७॥
शुक्रे तृतीये यदि मौक्तिकं तु जीवे तुलस्याभरणं वदन्ति ।
सरक्तमानीलमयं दिनेशे चन्द्रे बहु त्वाभरणं बलाढ्ये ॥ ४८॥
सौम्ये श्यामं कुजक्षेत्रे विचित्राभरणं वदेत् ।
तत्पतौ स्वोच्चवर्गस्थे दिव्यभाभरणं ॥ ४९॥
अथ वस्त्रविचारः
मानस्थे गुरगेऽथवाऽनुजपतौ सौम्यर्क्षगे तद्यते
दिव्यं वस्त्रमपूर्वमेति सहजे सौम्ये सुवस्त्रं लभेत् ।
वीर्याथौ बहुवस्त्रभूषणक्रौ शुक्रानुजस्थानपौ
स्यातां धर्मकथारसश्रवणदौ जीवज्ञायुक्तेक्षितौ ॥ ५०॥
अथ धैर्यविचारः ।
धैर्यान्वितो विक्रमेशे सौम्यग्रहनवांशके ।
शुभेक्षिते शुभयुते वैशेषिकसमन्विते ॥ ५१॥
धैर्याधिपे पातयुतेक्षिते वा दुःस्थानगे धैर्यविनाशमेति ।
केन्द्रत्रिकोणे शुभखेटयुक्ते शुभेक्षिते वा यदि धैर्यशाली ॥ ५२॥
अथ बलविचारः
वीर्याधिपे भूमुसुतेन युक्ते पापर्क्षगे वीर्याविनाशहेतुः ।
केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥ ५३॥
अथ अशनंविचारः
शुक्रं निशाकरं स्यात्वा लग्नात्सोदरभे शुभे ।
शुभराश्यांशगे जातः समेति सुखभोजनम् ॥ ५४॥
जीवस्य राशिनवभाग़ाडॄख़नाषाम्स्थे वीर्याधिपे यदि सुराचिन्तवीक्षिते वा ।
तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥ ५५॥
सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात्पुरतो यदि भारकरात् ॥ ५६॥
गुरुशुक्रयुते भुक्तौ नाथे सौम्ययुतेक्षिते ।
बलवच्छुभदृष्टे वा त्वन्नदाता भवेन्नरः ॥ ५७॥
सौम्ये स्वोच्चं गते भुक्तौ सौम्यग्रहनिरीक्षिते ।
नाथे वैशेषिकांश वा सुखभुक्तिप्रदो भवेत् ॥ ५८॥
इति तृतीयभावफलानि ।
अथ चतुर्थभावफलम् ।
वदन्ति विद्याजननीसुखानि सुगन्धगोबन्धुमनोगुणानि ।
महीपयानक्षितिमन्दिराणि चतुर्थभावप्रभवानि तज्ज्ञाः ॥ ५९॥
अथ विद्याधिचारः ।
विद्याराशौ निजपतियुते सौम्ययुक्तेक्षिते वा
जातो विद्याविनयचतुरश्चन्द्रसूनौ बलिष्ठे ।
दुःस्थे पापद्युचरसहिते पापदृष्टे तदीशे
विद्याहीनो भवति मनुजः पापराशिस्थिते वा ॥ ६०॥
विद्यास्थानपजीवचन्द्रत्नयाः षट्त्रिव्ययायुःस्तिता
विद्याबुद्धिविवेकहीनफलदा नीचारिगा वा यदि ।
स्वोच्चस्वर्क्षगतास्त्रिकोणगृहगाः केन्द्रस्थिता वा यदि
शीविद्याविनयादियुक्तिनिपुणो राजाधिराजप्रियः ॥ ६१॥
अथ मातृविचारः ।
शुक्रे बलिष्ठे यदि वा शशाङ्के सौम्येक्षिते शोभनभागयुक्ते ।
चतुष्टये मातृगृहे बलाढ्ये मातुश्विरायुष्टमुदाहरन्ति ॥ ६२॥
मातृस्थानाधिपे षष्ठे व्यये वा वलवर्जिते ।
लग्ने पापे पापदृष्टे मातृनाशं वदेद् बुधः ॥ ६३॥
क्षीणे चन्द्रेऽष्टभे षष्ठे व्यये वा पापसंयुते ।
पाताले पापसंयुक्ते मातृहानिर्न संशयः ॥ ६४॥
मातृस्थानगते मन्दे पापग्रहनिरीक्षिते ।
रन्ध्रनाथेऽरिनीचस्थे मातृनाशं विनिर्दिशेत् ॥ ६५॥
भ्रातृपुत्रगते पापे पातालेशेऽरिनीचगे ।
चन्द्रे पापसमायुक्ते मातृरोगं विनिर्दिशेत् ॥ ६६॥
षष्ठेश्वरेण सहितः सुखराशिनाथो धर्मस्थितो जनकमत्र विटं करोति ।
भाग्यधिपेन सहितो यदि मातृनाथः सौख्यस्थितो जन्कमत्र विटं करोति ॥ ६७॥
षण्मातृपौ पितृस्थने पितुश्व व्यभिचारदौ ।
मातृतातारिदेहेशैरेकस्थैः परजातकः ॥ ६८॥
पापेक्षिते पापशुते शशाञ्के दिवाकरे वा यदि केन्द्रराशौ ।
क्रूरे सुखे वा यदि पापदृष्टे जातो नरः स्याद्यदि मातृगमी ॥ ६९॥
चन्द्रे भृगौ वा केन्द्रस्थे पापदृईष्टेऽथवा द्वयोः ।
क्रूरे सुखे मातृगामी यदि वा गुरुदारभाक् ॥ ७०॥
सुखस्थे सारषष्थेशे चन्द्रे माताऽन्यमैथुनी ।
व्यभिचरप्रदो मातुः सरादुदिननायकः ॥ ७१॥
शीतांशौ राहुकेतुभ्यां युक्ते नीचेन सङ्गमः ।
मन्दयुक्ते च शूद्रेण वैश्येन बुधयोगतः ॥ ७२॥
रवियुक्ते क्षेत्रियेन्ण मन्त्रिभ्यां द्विजसङ्गमः ।
एवं चन्द्रः कुजारीशयुक्तस्तत्फलदो भवेत् ॥ ७३॥
चन्द्रोऽनिष्टस्थानगः सानुजेशो जातस्यास्तन्यपानं करोति ।
दुःस्थानस्थौ मातृपितृईक्षनाथौ पित्रोर्मृत्युर्लग्ननाथे बलाढ्ये ॥ ७४॥
पितृकर्माधिपे दुःस्थे लग्नेशे बलसंयुते ।
पित्रोरनिष्टकारी स्यात् सीमन्तरहितोऽथवा ॥ ७५॥
मातृस्थानेशलग्नेशौ तत्र कोणगतौ यदि ।
तदीशो लग्नगो माता पित्रा सह मृता भवेत् ॥ ७६॥
मातृलग्नेशपितृपाः केन्द्रकोणस्थिता यदि ।
तदृशान्तर्दशकाले जन्न्यास्त्वनुमृत्युदाः ॥ ७७॥
रवीन्दू पितृमातृस्थौ यदि तावनुमृत्युदौ ।
तदीशोक्षितयुक्ता वा रविसम्बन्धिनस्तथा ॥ ७८॥
ये मातृभावमतिकारकतत्समेता-स्तन्मातृराशिगतवीक्षितखेचरेन्द्राः ।
तेषामनिष्टकरखेटदशापहारे-जातस्य मातृमरणं प्रवदन्ति सन्तः ॥ ७९॥
मार्तण्डस्फुटतो विशोध्य शशिणं तच्छेषराश्यंशके
जीवे भानुसुते च मातृमरणं तत्कोनगे वा नृणाम् ।
संशोध्यं यमकरुटकं हिमकराद्रन्ध्राधिपस्य स्फुटं
तद्राशौ रविनन्दने मृतिमुपैत्यम्बा तदंशे रवौ ॥ ८०॥
अथ सुखविचारः ।
गोपुराद्यंशके जीवे सुखस्थानगतेऽपि वा ।
धनायवृद्धिभावेषु खेटेषु च सुखी भवेत् ॥ ८१॥
बुधदृष्टियुते सौख्ये सौम्यमध्यगतेऽथवा ।
जीवराश्यंशके वाऽपि पुण्यकर्मरतः सदा ॥ ८२॥
सुखस्थितः शोभनराशिगो बली विलग्नसम्बन्धगुणाधिको यदि ।
तज्जातिवर्गेण सुखं तदीयधातुश्रियमेति मानवः ॥ ८३॥
चतुर्थगो नीचसपलयातस्त्वनिष्टभावाधिपतिर्विलग्नात् ।
लग्नेशशत्रुर्यदि तत्प्रकोपान् शरीरसौख्यादिविनाशमाहुः ॥ ८४॥
चतुर्थभावस्थितदर्शिकारका बलान्विता यद्यतिसौख्यद्रेतुकाः ।
अनिष्टदा नीचसपत्नमुढगाः सुखं शुभेनाशुभमन्यखेचरैः ॥ ८५॥
चतुर्थगे भाग्शपतौ सयुक्रे बलाधिके स्याच्चिरकालभोगी ।
शुभान्विते रन्ध्ररिपुव्ययस्थे जातोऽल्पकालं समुपैति सौख्यम् ॥ ८६॥
अथ सुखादिविचारनिर्णयः ।
सुखाचिन्ता गृहेज्याभ्याण् मातृचिन्ता सुखेन्दुतः ।
सुगन्धं गृहशुक्राभ्यां वस्त्रवहानभूषणम् ॥ ८७॥
अथ सुगन्धविचारः ।
सुखेश्वरे शोभनराशियुक्ते शुक्रेण दृष्टे सति संयुते वा ।
अरातिनीचग्रहदृष्तिहीने सुगन्धमाल्यादिसुखं समेति ॥ ८८॥
अथ वस्त्रविचारः ।
वीर्यान्विते शीतकरे सुवस्त्रं साहिध्वजे जीर्णतरं समेति ।
कौशेयकं जीवयुते च रत्नचित्रं सशुक्रे सशनौ तु कृष्णं ॥ ८९॥
शुक्रेन्दुवर्गसहिते सुखराशिनाथे शुक्रेण शीतरुचिना सहितेक्षिते या ।
नीचारिपापगगनाटनडृष्टिमुक्ते पङ्चादिवित्तमखिलं लभते मनुष्यः ॥ ९०॥
अथ बन्धुविचारः ।
बन्धुस्थानेश्वरे सौम्ये सौम्यग्रहनिरीक्षिते ।
कारके बलसम्पूर्णे बन्धुपूज्यो भवेन्नरः ॥ ९१॥
बन्धूपकर्ता तन्नाथे केन्द्रकोणायसंयुते ।
वैशेषिकांशसंयुक्ते पापदृईग्योगवर्जिते ॥ ९२॥
बन्धुद्वेषी भवेन्नित्यं पापाक्रान्ते रसातले ।
नीचास्तखेटसंयुक्ते शुभदृग्योगवर्जिते ॥ ९३॥
अथ यनोविचारः ।
सपापे रन्ध्रपे सौख्ये कपटी पापसंयुते ।
स्वोच्चमित्रस्वर्गस्थे निष्कानव्यं शुभेक्षिते ॥ ९४॥
विशुद्धह्वदयः शान्तो हृदयंशे बलान्विते ।
गोपुराद्यंशके वाऽपि मृद्वंशादिसमन्विते ॥ ९५॥
अथ वाहनविचारः ।
वाहनेशे बलयुते यानराशौ बलान्विते ।
शुभग्रहेण सन्दृष्ते वाहनादि फलं वदेत् ॥ ९६॥
वाहनेशे वाहनस्थे सेन्दुजे शुभवीक्षिते ।
शुभखेचरराश्यंशे वाहनादि फलं वदेत् ॥ ९७॥
चन्द्रो विलग्नसम्बन्धी वाहनेशसमन्वितः ॥
तुरङ्गवाहनं तस्य वदन्ति मुनिपुङ्गवाः ॥ ९८॥
द्वितीये वा चतुर्थे वा चन्द्रे शोभनराशिगे ।
शुभखेचरसंयुक्ते समुपैत्यश्ववाहनम् ॥ ९९॥
सेन्दौ चतुर्थाधिपतौ विलग्नेलग्नेश्वरेणापि युतेऽश्वलाभम् ।
शुक्रेण युक्ते यदि वाहनेशे देहान्यते वा नरवाहनं स्यात् ॥ १००॥
आन्दोलिकाभरणदौ सितपूर्णचन्द्रौ केन्द्रत्रिकोणगृहगौ बलिनौ भवेतां ।
रक्ताम्बराभरणदः सुरपूजितर्क्षे चन्द्रे सुरेन्द्रसचिवेक्षितसंयुते वा ॥ १०१॥
आन्दोलिकातुरगलाभभुपैति जातः शुक्रेन्दुयानपतयस्तनुनाथयुक्ताः ।
एकत्र देवगुरुयानपचन्द्रशुक्राः केन्द्रत्रिकोणगृहगाश्वतुरङ्गयानं ॥ १०२॥
वाहनेशे गुरुयुते चतुरङ्गाख्यवाहनम् ।
यानेशे सशुभे माने चामरच्छत्रसंयुतः ॥ १०३॥
सुखेश्वरे केन्द्रगते तदीशे लग्नस्थिते वाहनयोगवन्तः ।
कर्मेश्वरे लाभगते तदीशे कर्मस्थिते भूषणयानवन्तः ॥ १०४॥
अथ राज्यविचारः ।
यानेशे लाभराशिस्थे सुखे वा लाभगे कुजे ।
अथवा भौमराशिस्थे राज्यप्राप्तिर्न संशयः ॥ १०५॥
लग्नाद्वाहनराशिगस्तदधिपस्तद्वीक्षकश्च त्रयः
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः केन्द्रत्रिकोणायगाः ।
दीर्घायुः शायनासनाम्वरबबन्धुक्षेत्राणी सन्मन्दिरं
बन्धुस्नेहमनोज्ञवाहनयशह्सौख्यानि कुर्वन्ति ते ॥ १०६॥
स्वोच्चराशिगतश्चान्द्रिः केन्द्रकोणसमन्वितः ।
विद्यावाहनसम्पतिं करोति विपुलं धनम् ॥ १०७॥
लग्नेशात्सुखनाथतद्भवनगौ भाग्येशभाग्यस्थितौ
चत्वार्ः शुभवर्गगाः सुबलिनस्ते लग्नसम्बन्धिनः ।
अन्योन्याश्रितवीक्षिता यदि महीपालिश्वरायुः सुखी
तेजस्वी चतुरङ्गयानविपुलश्रीराजचिहाञ्कितः ॥ १०८॥
ग्रहत्रयं स्थानबलाधिकं चेद्विचित्रत्नाभरणादि यानम् ।
खेटद्वये वीर्ययुते विलग्ने रदीयपाके समुपैति सौख्यम् ॥ १०९॥
उक्तस्थानत्र्येष्वेको बली वाहनराशिपः ।
लग्नलग्नेशसम्बन्धी तद्दशा वाहनप्रदा ॥ ११०॥
चतुर्थधर्मायधनाधिनाथा विलग्नसम्बन्धिबलाधिकाश्वेत् ।
तदीयपाके समुपैति राश्ज्यं क्रमेण भाग्यं धनलाभमर्थम् ॥ १११॥
ते चत्वारोऽधिकबलयुता देहसम्बन्धिनश्चे-
देतत्सर्वं भवति विपुलं दुर्बला दुःखदाः स्युः ।
मिश्रं मिश्रैस्तनुपरिभवः कारको भावनाथो
भावाक्रान्तो विगतबलिनश्वेदतिक्लेशदास्ते ॥। ११२॥
वाहनेशेऽरिनीचस्थे दुःस्थे धर्माधिपेक्षिते ।
सुदुर्वाहनसम्प्राप्तिश्वलवाहनताऽपि वा ॥ ११३॥
धर्मकर्मविलग्नस्थास्तुङ्गोपगशुभग्रहाः ।
लग्नाधिपेन सन्दृष्ता यानान्ते दुःखमाप्नुयात् ॥ ११४॥
जीवे वा सुखपे शुभग्रहयुते लग्नात्तपःस्थानगे
सौम्यर्क्षे नरवहानं चिरतरं राजप्रतापान्वितम् ।
दुःस्ते पापयुतेऽस्तनीचरिपुगे यानादिभाग्यं नहि
स्वर्क्षे सर्वबलाधिके चिरसुखं चान्दोलिकारोहणम् ॥ ११५॥
बन्धुकर्मगृहाधीशौ लाभस्थानगतेक्षकौ ।
बलवन्तौ यदि स्यातां सर्वभाग्यफलग्नदौ ॥ ११६॥
लाभस्थौ सुखभाग्येशौ पश्यन्तौ वा सुखस्थलम् ।
वाहिनीसर्वभाग्याढ्यो राजप्रीतिकरो भवेत् ॥ ११७॥
धर्मवाहनराशीशौ लग्नसम्बान्धुनौ यदि ।
जीवदृष्तियुतौ तस्य राजवश्यादिभूषणं ॥ ११८॥
शुभवाहनराशीशौ शुभखेचरसंयुतौ ।
बहुसेनाधिपः श्रीमान् बलिनौ यदि जायते ॥ ११९॥
भाग्यस्थिते वाहनराशिनाथे सशुक्रजीवे शुभखेटराशौ ।
भाग्याधिपे कोणचतुष्टये बहुत्वदेशाभरणार्थयानम् ॥ १२०॥
कामारियानसहजतपोलग्नव्ययेश्वराः ।
सुखाधिपेन संयुक्तारत्वसङ्ख्याकरदेशभाक् ॥ १२१॥
सुखाधिपो देवगुरुः सितो वा बली विलग्नान्नवमोपयातः ।
त्रिकोणकेन्द्रेपगतः शुभेशः समेति जातो बहुवाहनानि ॥ १२२॥
सशुक्रजीवो गेहेशो भाग्यस्थो भाग्यपे सुखे ।
केन्द्रत्रिकोणयोर्वाऽपि बहुवाहनदेशभाक् ॥ १२३॥
अथ राजयोगाः ।
लग्नकेन्द्रस्थिते सौम्ये धर्मे तुङ्गगृहाश्रिते ।
धनेशे केन्द्रभावस्थे योगः सिंहासनप्रदः ॥ १२४॥
भाग्ये शुभेक्षिते केन्द्रे शुभैः सह धनाधिपे ।
उच्चग्रहे द्वितीयस्थे जन्म सिम्हासनप्रदम् ॥ १२५॥
लग्नवाहनभाग्येशाः कर्मस्थाः कर्मपस्तनौ ।
लग्नं पश्यति वा खेटः सिंहासनफलप्रदः ॥ १२६॥
कर्मलग्नसुखाधीशाः कर्मस्थानगता यदि ।
कर्मपो लग्नसम्बन्धी सिंहासनपतिर्भवेत् ॥ १२७॥
गुरुशुक्रशुभाधीशाः केन्द्रकोणयगा यदि ।
अनेकयानसम्पन्नो मण्डलाधिपतिर्भवेत् ॥ १२८॥
थानेशकर्मोपगतौ बलिष्टौ धर्मेशदृष्टौ यदि तद्युतौ वा ।
परस्परक्षेत्रसमागतौ वा सिंहासनप्राप्तिकरौ भवेताम् ॥ १२९॥
तद्दशान्तर्द्दशाकाले तद्राशिपदशागमे ।
तदीशभुक्तिसम्प्रासौ सिंहासनपतिर्भवेत् ॥ १३०॥
अथ भाग्यविचारः ।
शुभोदयेशौ सुखरावातौ सुखाधिपो लग्नगतः शुभर्क्षे ।
अतीव सौख्यं समुपैति नित्यं सपत्नयातू यदि शत्रुभाग्यम् ॥ १३१॥
सपत्नभावाधिपतौ तपःस्थे शुभैरदृष्टे बलसंयुते वा ।
स्वकीयभाग्यादिकमल्पकालं ददाति शत्रौ उखनाथदाये ॥ १३२॥
सुखाधिपे शोभनखेटयुक्ते तदीयपाकान्तमरातिगं तत् ।
पापान्विते तस्य दशावसाने पुनः स्वभाग्यं समुपैति सर्वम् ॥ १३३॥
अथ क्षेत्रविचारः ।
चेत्रस्थाने शुभक्षेत्रे तदीशे शुभसंयुते ।
तत्कारके तथा प्राप्ते बहुक्षेत्रधनान्वितः ॥ १३४॥
क्षेत्रेश्वरे नीचसम्पन्नभागे कालाग्निशूलान्तकषष्टिभागे ।
पापान्विते पापमीक्षिते वा क्षेत्रादिनाशं कथयन्ति तज्ज्ञाः ॥ १३५॥
लग्नाधिपस्य गृहपो शत्रुखेटस्तत्पाकभुक्तिसमये गृहभूमिनाशम् ।
यनेशभुक्तिसमये निजबन्धुहानिः शान्यारमान्दियुतभुक्तिरनर्थहेतुः ॥ १३६॥
वित्तेशः ससुखाधिपो नवमगः सौम्यान्वितः सौम्यभे
निक्षेपं समुपैति लाभवनपौ पापालराशिस्थितौ ।
तन्नाथः शुभराशिगः शुभयुतो निक्षेपसिद्धिर्भवे-
लत्वाभेशः सुखराशिगः शुभयुतो निक्षेपवित्तप्रदः ॥ १३७॥
अथ गृहविचारः ।
अर्थव्ययगृहाधीशा नाशगाः पापसंयुताः ।
यावाद्भिरशुभैर्युक्तास्तावद्गेहालसत्वदाः ॥ १३८॥
पापेऽरौ वा पाप्दृष्टे सुखे गेहसुखार्तिभाक् ।
नीचेऽरातौ वा पापदृष्टे सुखे स्याद्गृहो नरः ॥ १३९॥
नीचेऽस्तगे वा गेहस्थे दुःखाम्भोधौ पतिष्यति ।
सुखे पापे पापभाक् स्यात् सुखे मन्दे सुखक्षयः ॥ १४०॥
गृहेशे व्ययगे लग्नादेन्यगेहेऽन्यदेसगः ।
रन्ध्रे गृहाद्यभावो वा षष्ठे ज्ञात्यदिसङ्ग्रहः ॥ १४१ ॥
अयत्नतो मन्दिरलाभदः स्यत् चतुर्थपस्तत्र बलाधिको वा ।
दुःस्थानगो दुष्टबलान्वितश्चेदालस्यगेहं ग्रहपीडितं वा ॥ १४२॥
घट्त्रिव्ययाष्टमोपेता व्ययवित्तगृहाधिपाः ।
यावत्पापसमोपेतास्तावद्गृहविनाशदाः ॥ १४३॥
लग्नत्रिकोनकेन्द्रस्था यावद्बलसमन्विताः ।
तावत्सङ्ख्य्कगेहानां सामीचीन्यं वदेद् बुधः ॥ १४४॥
चतुर्थभावाधिपतौ विलग्नाद्वययस्थिते जिर्णगृहं समेति ।
त्रिकोणकेन्द्रेपगते बलाढ्ये विचित्रगेहं रुचिरं तदाहुः ॥ १४५॥
तृतीये सौम्यसम्युक्ते गेहेशे बलसंयुते ।
गोपुराद्यांशगे वाऽपि समेति दृढमन्दिरम् ॥ १४६॥
आज्ञाक्रियाक्षेत्रविनाशमाहुराज्ञेश्वरे गेहगते सपापे ।
क्रूरांशके मृत्युकरादिभाग् रन्ध्रेश्वरेणापि युते तथैव ॥ १४७॥
तृतीये सय्म्यसंयुक्ते ग्षेशे स्वबलान्विते ।
लग्नेशे बलसम्पूर्णे हम्ये प्राकाररसंयुतम् ॥ १४८॥
पारावतांशके गेहनाथे गुविन्दुवीक्षिते ।
गोपुराद्यंशके वाऽपि दैविकं गृहमादिशेत् ॥ १४९॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजात द्वादशोऽध्यायः ॥ १२॥