जातकपारिजातः/राजयोगाध्यायः
कन्यमीननृयुग्मगोहरिधनुः कुम्भस्थितैः खेचरैः
सेनामत्तमतङ्गचाजिविपुलो राजा यशस्वी भवेत् ।
तौलिच्छागवृधावसानगृहगैर्जातोऽखिलक्ष्मापति-
र्गिचापान्त्यमकेन्द्रगैः पृथुयशाः पृथ्वीश्चरो जायते ॥ १॥
कन्यामेषतुलामृगेन्द्रघटगैर्जतो महीपालको
दुश्चिक्यप्रतिभारसातलगतैर्बहुर्र्थदेशाधिपः ।
खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ
शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्द्वार्मिकः ॥ २॥
तारेशहोरासहिता गभोगा जातो यशस्वी मनुजाधिपः स्यात् ।
सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥ ३॥
लग्नास्पदानङ्गगृहोपयाता बलान्वितः शोभनखेचरेन्द्राः ।
कुजार्कपुत्रौ नवमायसंस्थौ नृपो भवेत्सर्वगुणाभिरांअः ॥ ४॥
वर्गोत्तमांशोपगते विलग्ने चन्द्रेऽथवा चन्द्रविमुक्तखेटैः ।
सुखास्पदानङ्गगृहोपयातैर्विलोकितैर्भानवनायकः स्यात् ॥ ५॥
अश्विन्यामुदयस्थिते भृगुसुते सर्वग्रहैरीक्षिते
जातो राजकुलाग्नजो रिपुकुलघ्वंसी बहुस्त्रीरतः ।
हित्वा नीचनवांशमम्बरचरैस्त्र्याद्यैः स्वमागान्वितै-
रेको लग्नगतो यदि क्षितिपतिः पङ्चादिकैर्वित्तवान् ॥ ६॥
शुक्रेऽरिनीचमपहाय कुतुम्बसंस्थे लग्नेश्वरे बलयुते पृथिवीपतिः स्यात् ।
चन्द्रेऽतिमित्रनिजभागगते निशायां शुक्रेक्षिते नृपतिरन्यविलोकहीने ॥ ७॥
मीने मीननवांशके भृउगुसुते लग्नस्थिते भूपतिः
स्वोच्चे लग्नगृहाधिपे बलयुते राजा शशाङ्केक्षिते ।
लग्नस्वामिनि तुङ्गमन्दिरगते नीचारिभागंविना विना
केन्द्रस्थानगते नभोगवियुते जातो महीपालकः ॥ ८॥
भाग्यस्थे निजतुङ्गमित्रभवने सम्पूर्णगात्रे विधौ
लग्नादास्पदवित्तराशिगतयोः शन्यारयोर्भूपतिः ।
चन्द्रे पूर्णकलान्विते बलयुते लग्नं विना केन्द्रगे
दृष्टे दानवमन्त्रिणा च गुरुणा राजा महीदानकृत् ॥ ९॥
एकस्मिन्परमोच्चगेऽतिसुहृदा दृईष्टे यदि क्ष्मापति-
स्तत्तुल्यो भृगुनन्दने बलयुते लाभेऽथवा रिःफगे ।
द्वित्रिव्योमचरेषु तुङ्गगृहगेष्विन्दौ कुलीरे स्थिते
लग्ने पूर्णबलान्विते नरपतिः सर्वत्र पूज्यो भवेत् ॥ २०॥
सर्वे चोपचयस्थिताः शुभस्वगाः पापा विलग्नस्थिता
मानस्था यदि वा जितारिनिचयः क्रूरो महीपालकः ।
भानौ सप्तमगे निशाकरयुते तुङ्गादिवर्गस्थिते
सौम्यासौम्यनिरीक्षितेऽतिचपलो राजाऽथवा तत्समः ॥ २१॥
नीचङ्गतो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः ।
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धर्मिकचक्रवर्ती ॥ २३॥
नीचस्थितग्रहनवांशपतौ त्रिकोणे केन्द्रेऽथवा चरगृहे यदि जन्मलग्ने ।
तद्भावपे चरगृहांशसमन्विते वा जातो महीपतिरतिप्रबलोऽथवा स्यात् ॥ २४॥
मानस्थनपतौ पराभवगते पारावतांशेऽथवा
स्वोच्चस्वर्क्षसुहृन्नवांशकगते राजाधिराजो भवेत् ।
लग्ने नीचगृहे पुरन्द्दरगुरौ रन्ध्रे सपापग्रहे
तद्राश्यंशसमन्विते यदि तदा राजाधिराजो भवेत् ॥ २५॥
जीवस्य व्ययगे शनौ सहजपे लाभेऽथवा भास्करे
रिःफे लग्नपतौ तु निर्जरगुरावुर्वीशराजो भवेत् ।
भाग्येशस्थन्वांशपे तनयगे बन्धुस्थिते वा नृपो
दृष्टे वा शशिजे सुरेन्द्रगुरुणा युक्ते स राजप्रियः ॥ २६॥
भाग्शेयेन निरीक्षिते ययिसुते केन्द्रस्थिते भृगुजाम्
तुल्शत्वं समुपैति जातमनुजो लग्नस्थिते वाक्पतौ ।
केन्द्रे वा शदि कोणगे रविसुते मूलत्रिकोणोच्चगे
लाभेयेन निरीक्षिते बलशुते भूपालतुल्शो भवेत् ॥ २७॥
लग्ने शीतकरे गुरौ सुखगते कर्मस्थिते भार्गवे
तुङ्गस्वर्क्षगते दिवाकरसुते राजाऽथवा तत्समः ।
अन्त्योपा न्त्वविलग्नवित्तसहजव्यापारगेहेषु वा
सौम्यव्योमचरेपु भूपतिसमो राजाधिराजप्रियः ॥ २८॥
मन्दे चोत्तमवर्गके बलयुते नीचा<शवर्ज्ये गुरौ
भानौ शोभनदृष्तिभागसहिते राजप्रियस्तत्समः ।
राहौ कर्मणि लाभगे रविसुते भाग्याधिपेनेक्षिते
लग्नेशे यदि नीचखेटरहिते पृथ्वीशतुल्यो भवेत् ॥ २९॥
नीचं गता द्वित्रिचतुर्ग्रहेन्द्राः षष्ठ्यंशके शोभनभागयुक्ताः ।
स्वतुङ्गराश्यांशसमन्विता वा धरापतिर्धर्मिकचक्रवर्ती ॥ २०॥
लग्नात्कर्मशुभाहिपौ शुभगृहाद्वयापारधर्मेश्वरौ
मानादास्पदभाग्यपौ च सहित्तावन्योन्यराशिस्थितौ ।
अन्योन्यक्षणकेन्द्रगौ धनपतेः सम्बन्धिनौ चेद्धनी
जातो यानपकायपिक्षितयुतौ बहुर्थयनाधिपः ॥ २१॥
षतसु ग्रहेषुच्चगृहस्थितेषु राजाधिराजोऽखिलभूपतिः स्यात् ।
उच्चं गतैः पङ्चभिरिन्द्रवन्द्ये लग्नस्थिते सर्वजनावनीशः ॥ २२॥
कुम्भोदयस्थे रविजे चतुर्भिः स्वोच्चङ्गतैः सर्वमहीपतिः स्यात् ।
मेषोदयस्थे यदि चन्द्रपुत्रे स्वोच्चं गते देवगुरौ नृपालः ॥ २३॥
चन्द्रे वृषोदयगते यदि षड्भिरन्यैर्दृष्टेऽतिबाल्यवयसि क्षितिनायकः स्यात् ।
तुङ्गस्थितैकस्वचरे निजमित्रयातैरन्यैः समेति नरपालसमानभोग्यम् ॥ २४॥
वर्गोत्तमे वा यदि पुष्करांशे सारेन्दुदेवेन्द्रगुरौ नृपालः ।
कर्मस्थिते शोभनदृष्तियुक्ते सम्पूर्णगात्रे शशिनि क्षितीशः ॥ २५॥
गुरुसितयुतचन्द्रे चापगे चन्द्रसूनौ यदि तनुगृहयाते भूमिजे कन्यकायाम् ।
मृईगसुखभवनस्थे भानुपुत्रे नृपः स्यादतिशयबलयुक्तः सर्वभूपालपूज्यः ॥ २६॥
कन्यावसानयुगचापमृगाननस्थैः सौम्येन्दुभौमगुरुभानुसुतैर्नृपालः ।
मीनोदये शशिनि पूर्णतनौ बलाढ्ये स्वोच्चे कुजे रविसुते घटगे नरेशः ॥ २७॥
मृगोदयस्थे यदि भुकुमारे कुलीरगे चन्द्रमसि क्षितीशः ।
धराजपूषामरवन्द्यमाना मृगाजकुम्भोपगता नरेशः ॥ २८॥
लग्नाधिपेतरयुते यदि पूर्णचन्द्रे शुक्रज्ञदेवगुरुदृईष्टियुते तु राजा ।
वर्गोत्तमांशसहिता गुरुशुक्रभौमाः पापा न केन्द्रभवनोपगता नरेशः ॥ २९॥
शीर्षोदयेषु निखिलद्युचरेषु चन्द्रे सौम्यग्रहेक्षणयुते कटके महीपः ।
लग्नाधिपे नवमगे दशमस्थिते वा लग्ने सुधाकरयुते पृथिवीपतिः स्यात् ॥ ३०॥
चापार्धं गतवान् सहन्नकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहिते स्वोच्चे च भूनन्दनः ।
यद्येवं भवति क्षितेरधिपतिः सन्त्यज्य शौर्यं भयाद्
दूरादेव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ ३१॥
उपचयगृहसंस्थो जन्मपो स्यस्य चन्द्रात्
शुभगृहनवांशे केन्द्रयाताश्च सौम्याः ।
सकलबलवियुक्ता ये च पापाभिधानाः
स भवति नरनाथः शक्रतुल्यो बलेन ॥ ३२॥
उच्चामिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः ।
स शास्ति पृथ्वी बहुरत्नपूर्णा बृहस्पतिः कर्कटकोपगश्चेत् ॥ ३३॥
स्वस्य त्रिकोणे रविरुच्चगोऽपि वा स्वस्वांशस्था रविशुक्रसोमजाः ।
तृतीयषष्ठमगा निशाकरात् कुर्वन्ति गोपालमिव क्षितीश्वरम् ॥ ३४॥
रविशाशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थैर्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः ।
स भवति नरपुत्रो भुपतिर्यत् प्रयणे गजमदजलसेकैः सिच्यते यस्य रेणुः ॥ ३५॥
क्षमासुतः स्वोच्चमुपाश्रितो बली रवीन्दुवाचस्पतिभिर्निरिक्षितः ।
भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणक्षमः ॥ ३६॥
भ्धोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेऽमले ।
वियद्रते भार्गवनन्दने ग्रहे प्रशास्ति पृठ्वीमगदो निराकुलः ॥ ३७॥
प्रधानबलसंयुक्तः सम्पूर्णः शशलाङ्छनः ।
एकोऽपि कुरुते जातं नराधिपमरिन्दमम् ॥ ३८॥
देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः ।
करोति बहुधानाथं निर्जितारातिमण्डलम् ॥ ३९॥
लग्नेशे केन्द्रराशिस्थे कर्मेशे वृधिराशिगे ।
भाग्येशे लाभगे जातश्चिरञ्जिवी महीपतिः ॥ ४०॥
रविलुप्तकरः सौम्यः स्वस्थो मूलत्रिकोणगः ।
सर्वविद्याधिको राजा नेतरेषां स्वचारिणाम् ॥ ४१॥
अर्कज्ञौ सुखराशिश्थौ मन्देन्दू दशमस्थितौ ।
कुजोदये च सङ्जातो यदिराजा न संशयः ॥ ४२॥
दिवाकरोदये सिंहे शुक्रांशक्विवर्जिते ।
कन्यागते बुधे जातो नीचोऽपि पृथिवीपतिः ॥ ४३॥
मा(भा)नपुत्रोदयस्थौ वा मन्दावनिसुतौ यदि ।
पूर्णेन्दौ गुरुराशिस्थे जातो राजा भविष्यति ॥ ४४॥
बली विलग्नाधिपतिश्च केन्द्रे भूपालयोगं कुरुते नराणाम् ।
तन्मित्रदृष्टे यदि नीचवंशे जातोऽपि राजा नृपवन्दितो वा ॥ ४५॥
जन्माधिपः स्वोच्चगृहे मृगाङ्कं पश्यत्यवश्यं यदि भूमिपालः ।
गजादिसेनातुरगादिसङ्धैर्जितारिकोटिर्जगति प्रजातः ॥ ४६॥
लग्नं विहाय केन्द्रस्थे चन्द्रे पूर्णकलान्विते ।
गुरुभार्गवसन्दृष्टे जातो राजा भवेन्नरः ॥ ४७॥
लग्नेशे केन्द्रमावस्थे नीचमूढारिभं विना ।
नान्यग्रहयुक्ते राजा सार्वभौमो भविष्यति ॥ ४८॥
गुरुचन्द्रदिवानाथाः सुतविक्रमधर्मगः ।
जातो यदि महीपालः कुबेरसमवित्तवान् ॥ ४९॥
चापोदयस्थे बलिनि प्रभाकरे महीसुते कर्मगते सशीतगौ ।
उपान्त्यगे वा भृगुजे व्ययस्थिते सुरेन्द्रतुल्यो नृपतिः प्रजायते ॥ ५०॥
विक्रमायारिगाः पापा जन्मपः शुभवीक्षितः ।
राजा भवति तेजस्वी समस्तजनवन्दितः ॥ ५१॥
मृगोदयस्थे बलिनि क्षमासुते शनौतपःस्थानतेऽथवाऽन्त्यगे ।
देवाकरे सप्तमगे सशीतगौ महीपतिश्चङ्चलमानसो भवेत् ॥ ५२॥
लाभे सुखे वा दशमे समन्दश्चन्द्रमा यदि ।
जातो नृपकुले राजा तत्समो वा धनीभवेत् ॥ ५३॥
जातश्चोपचयस्थिते तनुपतौ चन्द्रे तपःस्थानगे
केन्द्रस्थाः शुभवर्गगा यदि शुभा वीर्यन्विता भूपतिः ।
जीवेन्दू वृषभस्थितौ बलयुतः कोणस्थितो लग्नपः
शान्यारेक्षणवर्जितो यदि तदा जातोऽवनीशो भवेत् ॥ ५४॥
विवाकरे मीनगृहोपयाते कुलीरलग्ने शशिनि क्षितीशः ।
अरातिनीचग्रहदृष्टियुक्ता भूपालयोगं न दिशन्ति सर्वे ॥ ५५॥
जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् ।
विवसुखमूढव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥ ५६॥
धनुर्मीनतुलामेषभृगकुम्भोदये शनौ ।
चार्वङ्गो नृपतिविद्वान् परुग्रामाप्रणिर्भवेत् ॥ ५७॥
स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः ।
शुभं सम्पूर्णपादोनदलपादालप्निष्फलम् ॥ ५८॥
अथ पङ्च महापुरुषयोगाः ।
मूलत्रिकोणनिजतुङ्गगृहोपगाता भौमज्ञजीवसितभानुसुता बलिष्ठाः ।
केन्द्रस्थिता यदा रुचभद्रहंसमालव्यचारुशशयोगकरा भवन्ति ॥ ५९॥
अथ रुचक-योगफलम् ।
जातः श्रीरुचके बलान्वितवपुः श्रीकीर्तिशीलान्वितः
शस्त्री मन्त्रजपाभिचारकुशलो राजाऽथवा तत्समः ।
लावण्यारुणकान्तिकोमलतनुस्त्यागी जीतारिर्धनी
सप्तत्यब्दमितायुषा सह सुखी सेनातुङ्गाधिपः ॥ ६०॥
धर्मेशलाभेशधनेश्वराणामेकोऽपि शीतद्युतिकेन्द्रवर्ती ।
स्वयं च लाभाधिपतिर्गुरुश्चेदखण्डसाभ्राज्यपतित्वमेति ॥ ६१॥
अथ भाद्रयोगफलम् ।
शारूउलप्रतिमाननो गजगातिः पीनोरुवक्षस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छयः ।
मानी बन्धुजनोपकारनिपुणः श्रीभद्रयोगोद्भवो
राजाऽशीतिभितायुरेति विपुलप्रज्ञायशोवित्तवान् ॥ ६२॥
अथ हंसयोगफलम् ।
रक्तास्योन्नतनासिकः सुचरणो हंसखरः श्लेष्मको
गौरङ्गः सुकुमारदारसहितः कन्दर्पतुल्यः सुखी ।
शास्त्रज्ञानपरायणोऽतिनिपुणः श्रीहंसयोगे गुणी
जातोऽशीतिकमायुरेति सयुगं ८४ साधुक्रियाचारवान् ॥ ६३॥
अथ मालव्ययोगफलम् ।
स्त्रीचेष्टो ललिताङ्गसन्धिनयनः सौन्दर्यशाली गुणी
तेजस्वी सुतदारवाहनधनी शास्त्रार्थवित्पण्डितः ।
उत्साहप्रभुशक्तिमन्त्रचतुरस्त्यागी परस्त्रीरतः
सप्तत्यब्दमुपैति सप्तसहितं (77) मालव्ययोगोद्भवः ॥ ६४॥
अथ शशयोगफलम् ।
भूपो वा सचिवो वनाच्लरतः सेनापतिः क्रूरधी-
र्घतोवार्दविनोदङ्चनपरो दाता सरोषेक्षणः ।
तेजस्वी निजमातृभक्तिनिरतः शूरोऽसिताङ्गः सुखी
जातः सप्ततिरायुरेति शशके जारक्रियाशीलवान् ॥ ६५॥
गर्गहोरायाम् ।
यस्य योगस्य यः कर्ता बलवान् जितदृग्युतः ।
अधियोगादियोगेषु स्वदशायां फलप्रदः ॥ ६६॥
अथ भास्करादियोगाः ।
भानोरर्थगते बुधे शशिसुताल्लाभस्थितश्चन्द्रमा-
श्चन्द्रात्कोणगतैः पुरन्दरगुरुर्योगस्तदा भास्करः ।
शूरो भास्करयोगजः प्रभुसमः शास्त्रार्थविद्रुपवान्
गान्धर्वश्रुतिवित्तवान् गणितविद्धीरः समर्थो भवेत् ॥ ६७॥
अथ चन्द्रयोगः ।
चन्द्राद्विक्रमगः कुजोऽवनिसुतादस्ते शनिः सूर्यजा-
दस्ते दैत्यगुतुः सितान्मदनगो जीवो यदीन्द्राह्वयः ।
स्यातस्तत्रभवः सशीलगुणवान् भूपोऽथवा तत्समो
वाग्मी वित्तविचित्रभूषणयशोरूपप्रतापान्वितः ॥ ६८॥
अथ मरुद्योगः ।
शुक्रात् कोणगतो गुरुः सुरगुरोः पुत्र शशी शीतगोः
केन्द्रस्थानसमाश्रितो दिनकरो योगो मरुत्संज्ञकः ।
वाग्मी वायुभवो विशालह्वदयः स्थूलोदरः शास्त्रवित्
सम्पन्नः क्रयविक्रयेषु कुशलो राजाऽथवा तत्समः ॥ ६९॥
अथ बुधयोगः ।
लग्नेज्ञो गुरुकेन्द्रगो हिमकरश्चन्द्रादहिर्वित्तगः
सौर्यस्थानगतौ च भानुरुधिरौ योगो बुधः कीर्तितः ।
राजश्रीबुधयोगजोऽतुलप्रख्यातनामा विदुः
शास्त्रज्ञानकरक्रियासु चतुरो भीमानशत्रुर्भवेत् ॥ ७०॥
अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः ।
लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने ।
अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥ ७१॥
द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते ।
शीतांशोः सुनफायोगस्त्वनफानाम् कीर्तितः ॥ ७२॥
योगो धुरन्धुराख्यः स्याद्वीना सर्वत्र भास्करम् ।
एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥ ७३॥
चन्द्रे सभानौ यदि नीचदृष्टे पापांशके यादि दरिद्रयोगम् ।
क्षीणेन्दुलग्नान्निधने निशायां पापेक्षिते पापयुते तथा स्यात् ॥ ७४॥
विधुन्तुदादिग्रहपीडितेन्तौ पापेक्षिते चाशु दरिद्रमेति ।
लग्नाचतुष्केन्द्रगृहे सपापे निशाकराद्वाऽशु दरिद्रमेति ॥ ७५॥
चन्द्रे पराजितशुभग्रहदृष्टियुक्ते राह्वादिपीडिततनौ तु दरिद्र एव ।
नीचारिवीक्षणयुते रिपुराशिवर्गे चन्द्रे तुलाधरगते तु तथा वदन्ति ॥ ७६॥
केन्द्रे वा यदि कोणगे हिमकरे नीचारिवर्गस्थिते
चन्द्रादन्त्यसपत्नरन्ध्रगृहगे जीवे दरिद्रो भवेत् ।
पापांशे रिपुवीक्षिते चरगृहे चन्द्रे चरांशेऽथवा
जातो याति दरिद्रयोगमतुलं देवेज्यदृग्वर्जिते ॥ ७७॥
अन्योन्यदृष्तौ शनिदानवेज्यौ नीचारिपापग्रहवर्गयातौ ।
एकर्क्षगौ वा यदि राजवंशे जातोऽपि लेमद्रुमयोगमेति ॥ ७८॥
चन्द्रे पापयुते तु पापभवने पापाम्शके वा निशि
व्योमेशेन निरिक्षिते गतबले केमद्रुयोगो भवेत् ।
भाग्यस्थानपवीक्षिते खलयुते नीचांशकेऽब्जे तथा
चन्द्रे नीचयुते निशि क्षयतनौ जातस्य केमद्रुमः ॥ ७९॥
अथ केमद्रुमयोगापवादः ।
निशाकरे केन्द्रगते भृगौ वा जीवेक्षिते नैव दरिद्रयोगः ।
शुभान्विते वाऽशुभमध्यगेन्दौ जीवेक्षिते नैव दरिद्रयोगः ॥ ८०॥
चन्द्रेऽतिमित्रनिजतुङ्गांशकस्थे जीवेक्षिते यदि दरिद्रतया विहीनः ।
चन्द्रेऽतिमित्रनिजतुङ्गगृहांशकस्थे जीवेक्षिते यदि दरोद्रतया विहीनः ॥ ८१॥
योगे केमद्रुमे प्राप्ते यस्मिन् कस्मिश्च जातके ।
राजयोगा विनश्यन्ति हरिं दृईष्वा यथा द्विपाः ॥ ८२॥
होरायाम् ।
हित्वाऽर्कं सुनफाऽनफादुरुधुरा स्वान्त्योभयत्थैर्ग्रहः
शीतांशोः कथितोऽन्यथा तु बलिभिः केमद्रुमोऽन्यैस्त्वसौ ।
केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेष्यते
केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिप्रसिद्धा न ते ॥ ८३॥
अथ सुनफादियोगफलम् ।
स्वयमधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च ।
प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिविषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ ८४॥
दत्पङ्गभोगसुख भाग्धनवाहनाच्यस्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः ।
केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ ८५॥
अथ कुजादिकृतसुनफायोगफलानि ।
जातश्च भूपतिश्चण्डो हिंस्त्रो हिम्भः सुधीरधीः ।
धनविक्रमवान् कोपी चन्द्राद्धनगते कुजे ॥ ८६॥
वेदशास्त्रकलागेयकुशलः सुशरीरवान् ।
मनस्वी हितवाग् धर्मी चन्द्राद्वित्तगते बुधे ॥ ८७॥
सर्वविद्याधिकः श्रीमान् कुटुम्बी नृपल्लभः ।
राजतुल्यशस्त्री च चद्रात्वित्तगते गुरौ ॥ ८८॥
विक्रमस्त्रीधनक्षेत्रकर्मवान् बहुवित्तवान् ।
च्तुष्पदाढ्या राजस्त्रीः सिते चद्रात् कुतुम्बगे ॥ ८९॥
पुरग्रामस्थिताशेषैः पूजितो धनवान् सुधिः ।
निपुणः सर्वकार्येषु चन्द्राद्वित्तगते शनौ ॥ ९०॥
अथ कुजादिग्रहकृतानफयोगफलानि ।
मानी रणोत्सुकः क्रोधी धृष्टश्चोरजनप्रभुः ।
धीरः स्वतनुलोभी स्याच्चन्द्रादन्त्यगते कुजे ॥ ९१॥
गान्धर्वलेख्यपटुवाक् कविर्वक्ता सुदेहवान् ।
यशःस्वी राजपूज्यः स्यात् चन्द्राद्व्ययगते बुधे ॥ ९२॥
राजपूज्योऽतिमेधावी गाम्भीर्यगुणसत्त्ववान् ।
शुचिः स्थानधनाढ्यः स्याद् चन्द्राद् द्वादशगे गुरौ ॥ ९३॥
युवतीजनकदर्पुः पश्चादिधनवान् सुधीः ।
धन्धान्याधिकश्चन्द्रादन्त्यस्थानगते भृगौ ॥ ९४॥
विस्तीर्णबाहुर्गुणवान् नेता पश्चादिवित्तवान् ।
गृहीतवाक्यो दुस्त्रीकश्चन्द्रादन्त्यङ्गते शनौ ॥ ९५॥
अथ दुरन्धरयोगफलानि ।
असत्यवादी गुणवान् बिपुणोऽतिषठो गुणी ।
लुब्धो वृद्धोऽसतीसक्तश्चन्द्रे सौम्यारमध्यगे ॥ ९६॥
स्वकर्मविभवो दृष्टो यशस्वी रिपिपीडितः ।
स्वगेहशीलकृच्चन्द्रे मध्यगे कुजजीवयोः ॥ ९७॥
व्यायानी सुभगः क्रूरो हृष्टः सत्कामवित्तवान् ।
भयादशीलः शीतांशौ मध्यगे कुजशुक्रयोः ॥ ९८॥
कुत्सितस्त्रीरतः क्रोधी धनवान् पिशुनोऽरिमान् ।
असन्तृप्तो निशानाथे मध्यगे कुजमदयोः ॥ ९९॥
धर्मात्मा शास्त्रविद्वाग्मी सत्कविः सज्जनान्वितः ।
यशस्वी च निशानाथे मध्यगे बुधजीवयोः ॥ १००॥
नृत्य्गानरतः कान्तः प्रियवाक् शुभगः सुधिः ।
शूर्प्रकृतिकश्चन्द्रे मध्यगे बुधशुक्रयोः ॥ १०१॥
देशाद्देशं गतः पूज्यो नातिविद्याधनान्वितः ।
स्वबन्धुजनविद्वेषी चन्द्रे मन्दज्ञमध्यगे ॥ १०२॥
नृपतुल्यकरः श्रीमान् नीतिज्ञो विक्रमान्वितः ।
ख्यारोऽदुष्टमतिश्चन्द्रे मध्यगे गुरुशुक्रयोः ॥ १०३॥
सुखी विनयविज्ञानविद्यारूपगुणान्वितः ।
धनी शान्तिकरश्चन्द्रे मध्यगे शनिजीवयोः ॥ १०४॥
वृद्धाचारः कुलाढ्यश्च निपुणस्त्रीजनप्रभुः ।
धनी नृपप्रियश्चन्द्रे सितादित्यसुतान्तरे ॥ १०५॥
अवोच्चस्वमित्रभवनोपगतेषु सर्वं प्राप्नोति जातमनुजो नियतं युदक्तम् ।
स्वांशेषु वा निजसुहृद्गृहसंयुतेषु प्राहुस्थैव फलमस्ति पराशरद्याः ॥ १०६॥
चन्द्रः सराहुर्यदि वा सकेतुश्चन्द्रादहिर्वा यदि रिःफयातः ।
नीचास्तगो वा यदि योगकर्ता जातस्य मिश्रं फलमाहुरार्याः ॥ १०७॥
अथ शकटयोगः ।
षष्ठामगतश्चन्द्रात्सुरराजपुरोहितः ।
केन्द्रादन्यगतो लग्नाद्योगः शकटसंज्ञितः ॥ १०८॥
अपि राजकुले जातो निःस्वः शकटयोगजः ।
क्लेशायासवशान्नित्यं सन्टप्तो नृपविप्रयः ॥ १०९॥
अथ पारिजातादियोगफलानि ।
सपारिजारद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः ।
सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ११०॥
करोति पारावतभागयुक्तो विद्यायशःशीविपुलं नराणाम् ।
सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् ॥ १११॥
अथ अधमादि योगः ।
अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे
शशिनि विनयवित्तज्ञानधीनैपुणानि ।
अहनि निशि च चन्द्रे स्वाधिमित्रंशके वा
सुर्गुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥ ११२॥
अथ चन्द्राधियोगा ।
सौम्यैः स्मरारिनिधनेष्वधियोग इन्द्रोस्तस्मिश्चमूपसचिवक्षितिपालजन्म ।
सम्पत्तिसौम्ख्यविभवा हतशत्रवश्च दीर्घयुषो विगतरेगभयाश्च जाताः ॥ ११३॥
अथ लग्नाधियोगः ।
लग्नादरिद्यूनगृहाष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः ।
लग्नाधियोगो भवति प्रसिद्धिः पापः सुखस्थानविवर्जितैश्च ॥ ११४॥
लग्नाधियोगो बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी ।
मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥ ११५॥
अथ गजकेसरीयोगः ।
केन्द्रस्थिते देवगुरौ मृगाङ्कायोगस्तदाहुर्गज्केसरीति ।
दृष्टे सितार्येन्दुसुतैः शशाङ्के नीचास्तहीनैर्गजकेसरी स्यात् ॥ ११६॥
गजकेसरिसङ्जातस्तेजस्वी धनधान्यवान् ।
मेधावी गुणसम्पन्नो राजप्रियकरो भवेत् ॥ ११७॥
अथ अमलायोगः ।
यस्य जन्मसमये शशिलग्नात् सद्ग्रहो यदि च कर्मणि संस्थः ।
तस्य कीर्तिरमला भुवि तिष्ठोदायुषोऽन्तमविनाशनसम्पत् ॥ ११८॥
लग्नाद्वा चन्द्रलग्नाद्वा दशमे शुभसंयुते ।
योगोऽयमभला नाम कीर्तिराचन्द्रतारकी ॥ ११९॥
राजपूज्यो महाभोगी दाता बन्धुजनप्रियः ।
परोपकारी गुणवान् अमलायोगसम्भवः ॥ १२०॥
अथ वास्यादियोगाः ।
व्ययधनयुतखेटैर्वासिवेवेशी दिनेशादुभयचरिकयोगश्चोभयस्थानसंस्थैः ।
निजगृहसुहृदुचस्थानयातैश्च जाता बहुधनसुखयुक्ता राजतुल्या भवन्ति ॥ १२१॥
वास्यादियोगफलानि ।
जातः सुशीलः शुभवेसियोगे वाग्मी धनी वीतभयो जितारिः ।
पापग्रहे दुष्टजनानुरक्तः पापार्मकरो वित्तसुखादिहीनः ॥ १२२॥
वासौ शुभग्रहयुते निपुणः प्रदाता विद्याविनोदसुखवित्तयशोबलाढ्यः ।
पापान्विते यदि विदेशगतोऽतिमूर्खः कामातुरो वधरुचिर्विकृताननः स्यात् ॥ १२३॥
सौम्यान्वितोभयचरीप्रभवा नरेन्द्रास्तत्तुल्यवित्तसुखशीलदयानुरक्ताः ।
पापान्वितोभयचरौ यदि पापकृत्या रोगाभिभूतपरकर्मरता दरिद्राः ॥ १२४॥
अथ शुभादियोगाः ।
शुभाशुभाढ्ये यदि जन्मलग्ने शुभाशुभाख्यौ भवतस्तदानीम् ।
व्ययस्वगैः पापशुभैर्विलग्नात् पापाल्ह्यसौम्यग्रहकर्त्तरी च ॥ १२५॥
शुभयोगभवो वाग्मी रूपशीलगुणान्वितः ।
पापयोगोद्भवः कामी पापकर्मा परार्थभुक् ॥ १२६॥
शुभकर्तरिसङ्जातस्तेजोवित्तबलाधिकः ।
पापकर्तरिके पापी भिक्षाशी मलिनो भवेत् ॥ १२७॥
अथ पर्वतयोगः ।
सौम्येषु केन्द्रगृहगेषु सपत्नरन्ध्रे शुद्धे,अथवा शुभयुते यदि पर्वतः स्यात् ।
लग्नान्त्यपौ यदि परस्परकेन्द्रयातौ मित्रेक्षितौ भवति पर्वतनाम योगः ॥ १२८॥
भाग्यान्वितः पर्वतयोगजातो विद्याविनोदाभिरतः प्रदाता ।
कामी परस्त्रीजनकेलिलोलस्तेजोयशस्वी पुरनायकः स्यात् ॥ १२९॥
अथ काहलयोगः ।
अन्योन्यकेन्द्रगृहगौ गुरुबन्धुनाथौ लग्नाधिपे बलयुते यदि काहलः स्यात् ।
कर्मेश्वरेण सहिते तु विलोकिते वा स्वोच्चस्वके सुखपतौ यदि ताद्दशः स्यात् ॥ १३०॥
ओजस्वी साहसी मूर्खश्चतुरङ्गबलैर्युतः ।
यत्किङ्चिद्ग्रामनाथस्तु जातः स्यात् काहले नरः ॥ १३१॥
अथ मालिकायोगः ।
लग्नादिसप्तगृहगा यदि सप्त खेटा जातो महीपतिरनेकगजाश्वनाथः ।
वित्तादिगो निधिपतिः पितृभक्तियुक्तो धीरोऽग्नरूपगुणवान् नरचक्रवर्ती ॥ १३२॥
जातो चदा विक्रममालिकायां भूपः स शूरो धनीकश्च रोगी ।
सुखदिकषेद् बहुदेशभाम्यभोगी महादानपरो महीपः ॥ १३३॥
पुत्राथा यदि मालिका नरपतिर्यन्वाऽथका कीर्तिमान् ।
लातः चष्ठगृहात् कचिद् धनसुखप्राप्तो दरिद्रो भवेत् ।
कामादिग्रहमालिका यदि बहुस्त्रीयज्ञभो भूपतिः ।
दीर्घर्धनवर्जितो नरवरस्त्रीनिर्जितश्चाष्टमान् ॥ १३४॥
धर्मादिग्रहमालिका गुणनिधिर्यज्वा तपस्वी विभुः ।
कर्माद्या यदि धर्मकर्मनिरतः सम्पूजितः सज्जनैः ।
लाभाद्राजवराङ्गनामनिपतिः सर्वक्रियादक्षको ।
जातो रिःफगृहाद्बहुव्ययकरः सर्वत्र पूज्यो भवेत् ॥ १३५॥
अथ चामरयोगः ।
लग्नेश्वरे केन्द्रगते स्वतुङ्गे जीवेक्षिते चामरनाम् योगः ।
सौम्यद्वये लग्नगृहे कलत्रे नवास्पदे वा यदि चामरः स्यात् ॥ १३६॥
योगे जातश्चामरे राजपूज्यो विद्वान् वाग्मी पण्डितो वा महीपः ।
सर्वज्ञः स्वाद्वेदशास्त्राधिकारी जीवेल्लोके सप्ततिर्वत्सराणाम् ॥ १३७॥
अथ शङ्कयोगः ।
अन्योन्यकेद्न्रगृहगौ सुतशत्रुनाथौ लग्नाधिपे बलयुते यदि शङ्कयोगः ।
लग्नाधिपे च गगनाधिपतौ चरस्थे भाम्याधिपे बलयुते तु तया वदन्ति ॥ १३८॥
श॥ए जातो भोगशीलो दयालुः स्त्रीपुत्रार्थक्षेत्रवान् पुण्यकर्मा ।
शास्त्रज्ञानाचारसाधुक्रियावान् जीवेल्लोके वत्सराणाभशीतिः ॥ १३९॥
अथ भेरीयोगः ।
स्वान्त्योदयास्तभवनेषु वियचरेषु कर्माधिपे बलयुते यदि भेरियोगः ।
केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥ १४०॥
दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धः ।
आचारभुरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥ १४१॥
अथ् मृदङ्गयोगः ।
उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये ।
लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरुपनृपतुल्ययशःप्रदः स्यात् ॥ १४२॥
अथ श्रीन्नाथयोगः ।
कामेश्वरे कर्मगते स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च ।
श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥ १४३॥
अथ शारदयोगः ।
योगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजे
केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ।
चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे
लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ १४४॥
स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्तः ।
विद्याविदोदरतिशीलतपोबलाढ्या जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥ १४५॥
अथ मत्स्ययोगः ।
लग्नधर्मगते पापे पङ्चमे सदसद्युते ।
चतुरस्त्रं गते पापे योगोऽयं मत्स्यसंज्ञकः ॥ १४६॥
कालज्ञः करुणासिन्धुर्गुणधीबलरुपवान् ।
यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥ १४७॥
अथ कुर्मयोगः ।
कलत्रपुत्रारिगृहेषु सौम्याः स्वतुङ्गमित्रांशकराशियाताः ।
तृतीयलाभोदयगास्त्वसौम्या मित्रोच्चसंस्था यदि कूर्मयोगः ॥ १४८॥
विख्यातकीर्तिर्भुवि राजभोगी धर्माधिकः सत्त्वगुणप्रधानः ।
धीरः सुखा वागुपकारकर्ता कुर्मोद्भवो मानवनायको वा ॥ १४९॥
अथ खाङ्गयोगः ।
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
लग्नेशे केन्द्रकोणस्थे खङ्गयोग इतीरितः ॥ १५०॥
वेदार्यशास्त्रनिखिलागमतत्त्वयुक्तिभ्द्धिप्रतापबलवीर्यसुखानुरक्ताः ।
निर्मत्सराश्च निजवीर्यमहानुभावाः खङ्गे भवन्ति पुरुषाः कुशलाः कृतज्ञाः ॥ १५१॥
अथ लक्ष्मीयोगः ।
केन्द्रे मूलत्रिकोणस्थे भाग्येशे परमोच्चगे ।
कग्नाधिपे बलाढ्ये च लक्ष्मीयोग इतीरितः ॥ १५२॥
गुणाभिराभो बहुदेशनाथो विद्यामहाकीर्तिरनङ्गरूपः ।
दिगन्तविश्रान्तनृपालवन्द्यो राजाधिराजो बहुदारपुत्रः ॥ १५३॥
अथ कुसुमयोगः ।
स्थिरलग्ने भृगौ केन्द्रे त्रिकोणेन्दौ शुभेतरे ।
मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ १५४॥
दाता महीमण्डलणथवन्द्यो भोगी महावंशजराजमुख्यः ।
लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥ १५५॥
अथ पारिजातयोगः ।
विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि तदंशनाधः ।
केन्द्रत्रिकोणोपगतए यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥ १५६॥
मध्यान्तसौख्यः क्षितिपालवन्द्यो युद्धप्रियो वारणवार्जितयुक्तः ।
स्वकर्मधर्माभिरतो दयालुर्योगो स्याद्यदि पारिजातः ॥ १५७॥
अथ कलानिधियोगः ।
द्वितीये पङ्चमे जीवे बुधशुक्रयुतेक्षिते ।
क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥ १५८॥
कामी कलानिधिभवः सगुणाभिरामः संस्तूयमानचरणो नरपालमुख्यैः ।
सेनातुरङ्गमदवारणशङ्खभेरीवाद्यान्वितो विगतरेगभयारिसङ्घः ॥ १५९॥
अथ अंशावतारयोगः ।
केन्द्रगौ सितदेवेज्यौ स्वोचे केन्द्रगतेऽर्कजे ।
चरलग्ने यदा जन्म योगोऽयभवतारजः ॥ १६०॥
पुण्यश्लोकस्तीर्थचारी कलाज्ञः कामासक्तः कालकर्ता जितात्मा ।
वेदान्तज्ञो वेदशास्त्रधिकारी जातो राजश्रीधरोऽंशावतारे ॥ १६१॥
अथ हरि-हर-विवियोगाः ।
वित्तेशाद्भनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः
कामेशात् सुखभाग्यरन्ध्रगृहगा जीवाआब्जचन्द्रात्मजाः ।
देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः
प्रोक्तास्तत्र पुरातनैर्हरिहरव्रह्माख्ययोगा इमे ॥ १६२॥
निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः ।
जितरिपुकुलसङ्धः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा ॥ १६३॥
अथ नाभसयोगः ।
यूपेषुशक्तियवदण्डगदासमुद्रच्छत्रार्द्धचन्द्रशकटाम्बुजपक्षियोगाः ।
नौचक्रवज्नहलकार्मुककूटवापीशृन्गाटकाश्च विविधाकृतिविंशतिः स्युः ॥ १६४॥
रब्जुर्नलश्च मुसलस्त्रित यास्रयाख्याः स्रग्भोगिनौ तु दलयोगभवौ भवेताम् ।
वीणादयश्च कथिता दरदामपाशकेदारशूलयुगगोलकसप्तसङ्ख्याः ॥ १६५॥
होरायाम् ।
रब्जुर्मुसलं नल चराद्यैः सस्यस्त्वाश्चयजान् जगाद् योगान् ।
केन्द्रैः सदसद्युतैर्दवाख्यौ स्वक्सर्पौ कथितौ पराशरेण ॥ १६६॥
योगा व्रजन्त्याश्रयजाः समत्वं यावाब्जवश्राण्डजगोलकाद्यैः ।
केन्द्रोपगप्रोक्तफलौ दलाख्यावित्यहुरन्ये न पृथक् फलौ तौ ॥ १६७॥
इदानी गदाशकटविहगश्रृन्गाटकहलान् पञ्च योगानाह ।
आसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः स्वबन्ध्वोः ।
शृईङ्गटकं नवमपङ्चमलग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः ॥ १६८॥
शकटाण्डजवच्छुभाशुभैर्वज्नन्तद्विपरीतगैर्यवः ।
कमलं तु विमिश्रसंस्थतैर्वापी तद्यादि केन्द्रबाह्यतः ॥ १६९॥
कण्टकादिप्रवृत्तैश्च वतुर्गृहगतैर्ग्रहैः ।
यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥ १७०॥
नौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितैः ।
अर्धचन्द्रस्तु होराद्यैः प्रोक्तादन्यर्क्षसंस्थितैः ॥ १७१॥
एकान्तरगतैरर्थात्समुद्रः षड्गृहाश्रितैः ।
विलग्नादिस्थितैश्चक्रभित्याकृतिजसङ्ग्रहः ॥ १७२॥
सङ्ग्यायोगाः सप्त सप्तर्क्षसंस्थैरेकापायद्वल्लकीदामपाशाः ।
केदाराख्यः शूलयोगो बुगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ १७३॥
अथ आश्रयदलयोगफलम् ।
ईर्ष्युविदेशनिरतोऽध्वरतश्च रज्जवाम् मानी धनी च मुसले बहुभृत्यसक्तः ।
व्यङ्गः स्थिराढ्यनिपुणो नलजः स्नगुत्थो भोगान्वितो भजगतो बहुदुःखभाजः ॥ १७४॥
अथ गदादियोगफलम् ।
यज्वाऽर्थभाक् सततमर्थरुचिर्गदायां तद्वृत्तिभुक् शकतः सरुजः कुदारः ।
दूतोऽटनः कलकृद्विहगे प्रदिष्टः, शृण्गाटके चिरसुखी कृषकृद्धलाख्ये ॥ १७५॥
वज्नेऽन्त्यपूर्वसुखितः सुभगोऽतिशूरः, शौचान्वितोऽपि च यत्रे सुखितो वयोऽन्तः
विख्यातकीर्त्यमितसौख्यगुणाश्च पद्मे वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ॥ १७६॥
त्यागात्मवान् क्रतुरैर्यजते च यूपे हिंस्रोऽथ गुप्त्याधिकृतः शरकृच्छराख्ये ।
नीचोऽलसः सुखधनैर्वियुतश्च शल्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्त्यवृत्तिः ॥ १७७॥
क्षत्रे चाद्यन्तसौख्यातुलधनबलवान् नौभस्तोयजीवी
चक्रे राजा यशस्वी जलाधिभवनरस्तोयवृत्तिः क्षितीशः ।
अर्धेन्दौ भोगशाली गिरिविपिनचरः क्रूरकर्मा च कूटे
चापे जाता मनुष्या यदि गहनचराश्चौर्यनिष्ठा निकृष्टाः ॥ १७८॥
वीणायां सकलक्रियासु निपुणः सङ्गीतनृत्यप्रियो-
दामिह्यामुपकारकृत्पटुमतिः प्रख्यातविद्याधनी ।
पाशे शीलधनार्जनेऽतिचतुरो वाचालकः पुत्रवान्
केदारे कृषिवित्तवानलसदीर्बन्धूपकारी भवेत् ॥ १७९॥
शूले कोपरत्तन्वितो धनरुचिः शूरः क्षतो निर्धनी
भिक्षाशी युगयोगजोऽतिचपलः पापण्डको मद्यपः ।
गोले निर्द्वनकोऽलसोऽटनपरः स्वल्पायुरज्ञानधी-
द्वत्रिंशन् कथिता वराहमिहिराचार्येण योगा इये ॥ १८०॥
भूपालयोगरुचपङ्चकभास्कराद्याः केमद्रुमाधमसनग्रहमालिकाश्च ।
लक्ष्मीहरीशविधिकाहलनाभसद्याः सूर्यादिदेवकृपया परिकीर्तितास्ते ॥ १८१॥
इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते राजयोगासये सप्तमेऽध्याये ॥ ७॥