चाक्षुष उपनिषद
॥ चाक्षुषोपनिषत् ॥
अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः। यच्चक्षूरोगाः सर्वतो नश्यंति। चाक्षुषी दीप्तिर्भविष्यतीति। अस्याश्चाक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय । अहोवाहिन्यहोवाहिनी स्वाहा। ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्। पुण्डरीकाक्षाय नमः। पुष्करेक्षणाय नमः। अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः।महाविष्णवे नमः।
इति चाक्षुषोपनिषत् संपूर्णा।
टिप्पणी
मेरुदंडधारकेषु जीवेषु लालाग्रन्थिः श्रोत्रयोः अधोभागे भवति( देहस्य विकासे लालाग्रन्थ्याः श्रोत्रतः सन्धिर्भवति)। किन्तु कथनमस्ति यत् विषधारकस्य सर्पस्य लालाग्रन्थिः अथवा विषग्रन्थिः चक्षुषोः पृष्ठे भवति। अहिर्बुध्न्यस्य अस्मिन् विषये किं योगदानमस्ति, अन्वेषणीयः।