सामग्री पर जाएँ

चतुर्विंशतिजिनस्तवः (जिनप्रभसूरिविरचितः)

विकिस्रोतः तः
चतुर्विंशतिजिनस्तवः
जिनप्रभसूरिः
१९२६

श्रीजिनप्रभसूरिविरचितः चतुर्विंशतिजिनस्तवः । कनककान्तिधनुःशतपञ्चकोच्छ्रितवृषाङ्कितदेहमुपास्महे । रतिपतेर्जयिनं प्रथमं जिनं नृवृषमं वृषभं वृषभञ्जिनः ॥ १॥ द्विरदलान्छित वाञ्छितदायक कमलुठत्रिदशासुरनायक । स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितरागते ॥ २ ॥ तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् । हृदि दधे भणितीर्गुणभूरुहां शमहिता महितामहि तावकीः ॥ ३॥ भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे । व्रतभृतां कुगतेः स्मरनिग्रह्मसमया सभया सभयात्मना त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ । तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद ॥ ५॥ धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः । रभसतः प्रथितार्थि "तोपरमया रमयारमयान्वितः ॥ ६॥ प्रभुसुपार्श्व जगत्रितयाजनुःपवितकाशिपुरीक विलक्षण । सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतोदनम् ॥ ७ ॥ कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो। निखिलजीवनिकायहितोक्तिभिः शुभवदाभवदाभवदागमाः ॥८॥ काव्यमाला। युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्ध्वजमस्य यः । स्तुतजनाः सुविधि कुदृशां सुरस्तुतमसंतमसं तपसंस्तुतम् ॥ २॥ दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती । मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ १० ॥ जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजग्दशमोत्तरः । कनकदीप्तिरमर्षित हीरकस्तव रदो वरदो वर दोर्युगः ॥ ११ ॥ शुममयी वसुपूज्यसुतप्रभो भुवननेत्रमहो महिपाक्षिता । तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता ॥ १२ ॥ सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते । अपि शमं नवते तव गीर्जितामृतरसा तरसा तरसा तृपम् ॥ १३ ॥ निजयशोभरनिह्नुतजाह्नवीजलवलक्षितकीर्तिरनन्तजित् । दिशतु वः कुमतासुरनिग्रहे भृशमनःशमनः शमनश्वरम् ॥ १४ ॥ भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती । किमु करोति न पित्तरजःशमं वरसिता रसिता रसिताजुपा ॥ १५ ॥ जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः । रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ १६ ॥ अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् । त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्धनरसा नरसा न रसा न किम् ॥१७॥ जगदधीश सुदर्शनभूमिपान्वयपयःसरिदीशशिखामणे । प्रणिधेऽन्तिपदो विषदव्रता वनरता न रता नर तावकान् ॥ १८॥ हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम् । निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ १९ ॥ त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो पियाम् ॥ २०॥ विरतिवर्मतटावतिकुण्ठितसरशरः शरणीक्रियतां त्वया । गुणगणस्य नमिर्बुधबहणवजनभाजनमाजनभावभाव ॥ २१ ॥ पार्श्वस्तवः । अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियचिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा स्म विरज्यतामुदयिता दयितादयि ताबकात् ॥२४॥ च्युतजनुर्व्रतकेवलनितिक्षणदिनाददता मुदमार्हता । व्यरचि यैरुपयस्त्रिदशैर्दृशा नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्तिभित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा भरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरव कौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८॥ करकृताम्रफला पृणती जिनप्रमवतीर्थमिभारिमधिष्ठिता । हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥ इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तवः ।