चतुर्दण्डीप्रकाशिका/स्वरप्रकरणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← श्रुतिप्रकरणम् चतुर्दण्डीप्रकाशिका
स्वरप्रकरणम्
वेङ्कटमखी
मेलप्रकरणम् →
द्वितीयस्मिन्प्रकरणे श्रुतयः समुदारिताः ।
अथेदानीं निरूप्यन्ते स्वराः श्रुतिसमुद्भवाः ॥३.१
तत्र शुद्धस्वराः सप्त मुखारीमात्रभासकाः ।
चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ॥३.२
द्वे द्वे निषादगांधारौ त्रिस्त्री रिषभधैवतौ ।
इत्येवं भरतश्लोकसंख्यातश्रुतिशालिनः ॥३.३
विकृतास्तु स्वराः पञ्चेत्यस्माभिरवधार्यते ।
रत्नाकरे तु निःशङ्को विकृतान्द्वादश स्वरान् ॥३.४
अब्रवीत्केचन पुनः सप्ताहुर्विकृतस्वरान् ।
सर्वमेतत्समालोच्य लक्ष्यमार्गानुसारतः ॥३.५
स्वराः पञ्चैव विकृता इति राद्धान्तितं मया ।
तांश्च पञ्च स्वरान्सम्यग्विविच्य व्याहरामहे ॥३.६
साधारणश्च गांधारो गांधारश्चान्तराभिधः ।
द्वौ तौ च मध्यमक्षेत्रसंभूतौ विकृतस्वरौ ॥३.७
वरालीमध्यमश्चैकः पञ्चमक्षेत्रसंभवः ।
षड्जक्षेत्रसमुद्भूतौ कैशिकीकाकलीस्वरौ ॥३.८
एवमेते स्वराः पञ्च विकृता इति निर्णयः ।
आहत्य शुद्धविकृताः स्वरा द्वादश कीर्तिताः ॥३.९
स्वरेषु द्वादशस्वेषु केषामप्येकरूपता ।
द्वैरूप्यमपि केषांचित्केषांचित्तु त्रिरूपता ॥३.१०
तथा हि शुद्धरिषभशुद्धधैवतयोः पुनः ।
त्रित्रिश्रुत्येकभावेन सर्वदाप्येकरूपता ॥३.११
यदा तु शुद्धगांधारो गांधारत्वं प्रपद्यते ।
तदा द्विश्रुतिको ज्ञेयो मुखारीरागके यथा ॥३.१२
यदा स एव जायेत रिषभस्तु तदा पुनः ।
पञ्चश्रुतिरिति ज्ञेयः श्रीरागोत्र निदर्शनम् ॥३.१३
एवं शुद्धनिषादस्य निषादत्वं यदा भवेत् ।
तदा द्विश्रुतिकत्वं स्यान्मुखार्यत्र निदर्शनम् ॥३.१४
स एव यदि जायेत धैवतस्तु तदा पुनः ।
पञ्चश्रुतिरिति ज्ञेयः शंकराभरणे यथा ॥३.१५
तदेवं शुद्धगांधारनिषादौ द्वौ निरूपिणौ ।
साधारणाख्यगांधारः शुद्धर्षभयुतो यदि ॥३.१६
तदा त्रिश्रुतिको ज्ञेयो भूपालोत्र निदर्शनम् ।
तत्रैव पञ्चश्रुतिना रिषभेणान्वयो यदि ॥३.१७
तदैकश्रुतिता ज्ञेया श्रीरागोत्र निदर्शनम् ।
यदा रिषभसंज्ञोयं तदा षट्श्रुतिको भवेत् ॥३.१८
अत्रोदाहरणं नाट एवमस्य त्रिरूपता ।
कैशिक्याख्यनिषादस्य शुद्धधैवतसंगमे ॥३.१९
त्रिश्रुतित्वमिति ज्ञेयं भैरव्यत्र निदर्शनम् ।
तस्यैव पञ्चश्रुतिकधैवतेनान्वयो यदि ॥३.२०
तदैकश्रुतिकत्वं स्याच्छ्रीरागोत्र निदर्शनम् ।
स एव धैवतश्चेत्स्यात्षट्श्रुतिर्नाटके यथा ॥३.२१
इति साधारणाख्यानो गांधारः कैशिकाभिधः ।
निषादश्चेत्युभावेतौ त्रित्रिरूपाविति स्थितिः ॥३.२२
गांधारस्यान्तराख्यस्य यदा शुद्धर्षभान्वयः ।
तदा पञ्चश्रुतित्वं स्याद्रागे गौलादिके यथा ॥३.२३
तस्यैव पञ्चश्रुतिकरिषभेणान्वयो यदा ।
तदा त्रिश्रुतिकत्वं स्याच्छंकराभरणे यथा ॥३.२४
स एव द्विश्रुतिर्ज्ञेयः षट्श्रुत्यृषभसंगमे ।
यथा नाटाभिधे राग इति तस्य त्रिरूपता ॥३.२५
काकल्याख्यनिषादस्य शुद्धधैवतसंगमे ।
पञ्चश्रुतिकता ज्ञेया यथा गौलादिके पुनः ॥३.२६
स एव पञ्चश्रुतिकधैवतेनान्वितो यदि ।
तदा त्रिश्रुतिको ज्ञेयः शंकरभरणे यथा ॥३.२७
तस्यैव धैवतेन स्याद्यदि षट्श्रुतिनान्वयः ।
तदा द्विश्रुतिकत्वं स्याद्रागे नाटाभिधे यथा ॥३.२८
इत्यन्तराख्यगांधारकाकल्याख्यनिषादयोः ।
प्रत्येकं त्रित्रिरूपत्वमस्माभिरूपवर्णितम् ॥३.२९
यदा तु मध्यमः शुद्धः शुद्धगांधारसंगतः ।
तदा चतुःश्रुतिर्ज्ञेयो मुखार्यत्र निदर्शनम् ॥३.३०
साधारणाख्यगांधारसंयुक्तश्चेत्स एव हि ।
तदा त्रिश्रुतिको ज्ञेयो रागे श्रीरागके यथा ॥३.३१
स एवान्तरगांधारयोगे त्वेकश्रुतिर्भवेत् ।
गौलादिषु यथा रागेष्वित्येतस्य त्रिरूपता ॥३.३२
एवं षड्जस्य शुद्धेन निषादेन सहान्वये ।
चतुःश्रुतिकता ज्ञेया मुखार्यत्र निदर्शनम् ॥३.३३
स एव कैशिकीनामनिषादेनान्वितो यदि ।
तदा त्रिश्रुतिरित्यत्र श्रीरागः स्यान्निदर्शनम् ॥३.३४
तस्यैव काकलीनाम्ना निषादेनान्वयो यदि ।
तदैकश्रुतिकत्वं स्याद्रागे गौलादिके यथा ॥३.३५
इत्युक्तं त्रित्रिरूपत्वं शुद्धमध्यमषड्जयोः ।
वरालीमध्यमस्याथ शुद्धगांधारसंगमे ॥३.३६
सप्तश्रुतित्वमित्यर्थे वराल्येव निदर्शनम् ।
तस्य साधारणाख्येन गांधारेण यदान्वयः ॥३.३७
तदा षट्श्रुतिता पन्तुवराल्यादिषु दृश्यते ।
स एवान्तरगांधारसंबन्धी चेच्छतुःश्रुतिः ॥३.३८
अत्रोदाहरणं रागः शुद्धरामक्रियाभिधः ।
वरालीमध्यमस्यैवं त्रैरूप्यमुपपादितम् ॥३.३९
यदा तु पञ्चमः शुद्धमध्यमेन समन्वितः ।
तदा चतुःश्रुतिर्ज्ञेयो मुखार्यत्र निदर्शनम् ॥३.४०
स एवैकश्रुतिर्युक्तो वरालीमध्यमेन चेत् ।
इति द्वैरूप्यमस्माभिः पञ्चमस्य प्रकल्पितम् ॥३.४१
तदेवं शुद्धरिषभशुद्धधैवतयोः पृथक् ।
एकैकरूपता शुद्धगांधारकनिषादयोः ॥३.४२
तथैव पञ्चमस्यापि द्वैरूप्यं पृथगीरितम् ।
साधारणाख्यगांधारकैशिक्याख्यनिषादयोः ॥३.४३
अन्तराभिधगांधारकाकल्याख्यनिषादयोः ।
मध्यमस्यापि षड्जस्य वरालीमध्यमस्य च ॥३.४४
प्रत्येकं त्रित्रिरूपत्वमस्माभिरूपवर्णितम् ।
नन्वेतदेकरूपादिवर्णने किं फलं तव ॥३.४५
चतुश्चतुरितिश्लोकपर्यालोचनया यतः ।
मुखारिमेलमात्रस्थाः शुद्धाः सर्वे स्वराः स्थिताः ॥३.४६
न तु तद्व्यतिरिक्तानां मेलानामेकसप्ततौ ।
प्रतिमेलं च नियताः सप्तस्वरगता अपि ॥३.४७
अस्माभिः कल्पयिष्यन्ते मेलाश्चाग्रे द्विसप्ततिः ।
ततः सकलमेलस्थसर्वस्वरजुषामपि ॥३.४८
द्वाविंशतिश्रुतीनां च विभागाय मया कृतम् ।
ऐकरूप्यद्विरूपत्वत्रिरूपत्वनिरूपणम् ॥३.४९
नन्वास्तामैकरूप्यादिवर्णनस्य प्रयोजनम् ।
षाडवौडुवरागेषु वर्ज्यन्ते ये स्वराः पुनः ॥३.५०
तदाश्रयश्रुतीनां किं त्यागः किं वोत्तरान्वयः ।
अत्रेदमुत्तरं ब्रूमो वर्जनीयस्वराश्रयाः ॥३.५१
श्रुतयो नैव वर्ज्यन्ते न च यान्त्युत्तरस्वरान् ।
किं तु वर्ज्यस्वरेष्वेवान्वधस्तिष्ठन्ति ताः पुनः ॥३.५२
संभवन्त्युपयोगिन्यः श्रुतीनां गणनामके ।
प्रतिमेलं च यत्सप्तनियतस्वरसिद्धये ॥३.५३
द्वाविंशतिश्रुतीनामप्यवश्यं भाव इष्यते ।
यद्येवं षाडवत्वादिव्यवस्था नैव संभवेत् ॥३.५४
तदा सर्वेपि रागाः स्युः संपूर्णा एव केवलम् ।
अत्र संगीतशास्त्रार्थरहस्यमिदमुच्यते ॥३.५५
वीणावादनगानादिसमये वर्जितान्स्वरान् ।
समुत्प्लुत्य समुत्प्लुत्य वादयन्त्येव वादकाः ॥३.५६
गायन्ति गायकाश्चाथो इति वादिव्यवस्थितिः ।
सर्वदा षाडवे त्याज्यस्वराणां परिवर्जने ॥३.५७
तदुत्तरस्वराणां तु जननं नैव संभवेत् ।
पूर्वपूर्वस्वराभावे कथं कार्यः समुद्भवः ॥३.५८
स्वरणां घटते तावदुत्तरोत्तरभाविनाम् ।
एवं निरूपिताः शुद्धा विकृताश्च स्वराः स्फुद् तम् ॥३.५९
अथ स्वरसमूहात्मग्रामलक्षणमुच्यते ।
ग्रामवद् ग्राम इत्येवमुपचारो विवक्षितः ॥३.६०
यथा जनसमूहस्य लोके ग्राम इति प्रथा ।
तथा स्वरसमूहोत्र ग्राम इत्युपचर्यते ॥३.६१
केवलस्वरबृन्दस्य ग्रामत्वे कथिते सति ।
गामानयेत्यादिवाक्येष्वतिव्याप्तिर्भवेदतः ॥३.६२
मूर्च्छनाशुद्धकूटाख्यतानाद्याश्रय इत्यपि ।
देयं स्वरसमूहस्य विशेषणमिति स्थितिः ॥३.६३
स च ग्रामस्त्रिधा तत्र स्यात्षड्जग्राम आदिमः ।
मध्यमग्रामनामाथ गांधारग्रामसंज्ञकः ॥३.६४
त्रयणामपि चेतेषां क्रमाल्लक्षणमुच्यते ।
षड्जग्रामः पञ्चमे स्वचतुर्थश्रुतिसंस्थिते ॥३.६५
स्वोपान्त्यश्रुतिसंस्थेस्मिन्मध्यमग्राम इष्यते ।
रिमयोः श्रुतिमेकैकां गांधारश्चेत्समाश्रितः ॥३.६६
पश्रुतिं धो निषादस्तु धश्रुतिं सश्रुतिं श्रितः ।
गांधारग्राममाचष्टे तदा तं नारदो मुनिः ॥३.६७
ग्रामेष्वेतेषु गांधारग्रामो नास्ति महीतले ।
स्वर्गलोके परमिति सर्वेषामेव संमतम् ॥३.६८
अस्माभिर्मध्यमग्रामोप्यसत्प्राय इतीर्यते ।
तथा हि मध्यमग्रामे विश्रुतिः पञ्चमः खलु ॥३.६९
वरालीमध्यमो जातः स पुनर्लक्ष्यमार्गतः ।
मध्यमादिप्रभृतिषु मध्यमग्रामजन्मसु ॥३.७०
रागेषु दृश्यते नैव वरालीमध्यमस्ततः ।
अयुक्तो मध्यमग्रामो लक्ष्यमार्गविरोधतः ॥३.७१
एक एव ततः षड्जग्राम इत्यवधार्यते ।
ग्रामावयवभूतोथ मूर्च्छनादिर्निरूप्यते ॥३.७२
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यते तास्तु प्रतिमेलं च सप्तधा ॥३.७३
तथा हि षड्जमारभ्य निषादान्ताधिरोहणात् ।
निषादादिषु षड्जान्तावरोहान्मूर्च्छनादिमा ॥३.७४
एवं रिषभमारभ्य षड्जान्तमधिरोहणात् ।
षड्जादि रिषभन्तं चावरोहेण द्वितीयका ॥३.७५
एवमेव समुन्नेयं गांधारादिस्वरेष्वपि ।
अतः प्रतिस्वरं तावदेकैका मूर्च्छना भवेत् ॥३.७६
आहत्य वक्ष्यमाणेषु द्विसप्ततिविधेष्वपि ।
सप्तस्वरसमूहात्ममेलेषु प्रतिमेलकम् ॥३.७७
मूर्च्छना सप्त सप्तेति वेङ्कटाध्वरिकल्पितम् ।
निरूप्यतेधुना तानः स्वरविस्तारलक्षणः ॥३.७८
तानो द्विधा शुद्धतानः कूटतान इति क्रमात् ।
एकैकरागमात्राभिव्यक्तिसंपादकस्तु यः ॥३.७९
स शुद्धतान इत्युक्तः कूटतानः स उच्यते ।
यस्तु रागद्वयस्फूर्तिसाधारणतया स्थितः ॥३.८०
अथ स्वरपरिष्कारानलंकारान्प्रचक्ष्महे ।
ते च त्रिषष्टिरुदिताः शार्ङ्गदेवेन सूरिणा ॥३.८१
न ते पुनर्लक्ष्यमार्गे लक्ष्यन्ते कुत्रचित्ततः ।
अष्टौ प्रसिद्धालंकारा लक्ष्यन्ते तत्र झोम्पटः ॥३.८२
ध्रुवो मठ्यो रूपकश्च झम्पा त्रिपुट एव च ।
अठतालैकतालौ चेत्यष्टालंकृतयः स्मृताः ॥३.८३
अथैतेषां क्रमेणैव लक्षणं प्रतिपाद्यते ।
झोम्पटाख्येन तालेन निबद्धो झोम्पटः स्मृतः ॥३.८४
तत्र झोम्पटताले द्विद्व्यक्षरौ द्वौ द्रुतौ ततः ।
लघुरेकः परिज्ञेयश्चतुरक्षरसंमितः ॥३.८५
आहत्याष्टाक्षरमितो झोम्पटः स्याद् द्विमात्रकः ।
सरि, गम, पधनिस, सनि, धप, मगरिस
अत्र ध्रुवाख्यालंकारो द्वितीयः प्रतिपाद्यते ॥३.८६
ध्रुवतालेन संबद्धो ध्रुवालंकार उच्यते ।
ध्रुवतालः पुनर्द्वेधा नाट्यदण्द्दीध्रुवस्तथा ॥३.८७
वीणवाद्यध्रुवश्चेति नाट्यदण्डीध्रुवे लघुः ।
चतुरक्षरवानादौ गुरुः पश्चाद्दशाक्षरः ॥३.८८
वीणावाद्यध्रुवे त्यादौ लघू द्वौ चतुरक्षरौ ।
ततः षडक्षरोच्चारसांमितो लघुशेखरः ॥३.८९
चतुर्दशाक्षरमितावाहत्यैतावुभौ ध्रुवौ ।
ध्रुवयोरनयोस्तावन्नाट्यदण्डीध्रुवः परम् ॥३.९०
प्रामाणिकः शास्त्रदृष्टः स एव भुवि वैणिकैः ।
वीणायां वाद्यते रक्तिलाभाद्धातुत्रयान्वितः ॥३.९१
सरिगमगरि, सरिगरि, सरिगम,
रिगमपमग, रिगमग, रिगमप
अलंकारस्तृतीयोथ लक्ष्यते मठ्यनामकः ।
मठ्यतालनिबद्धो यः स मठ्य इति कीर्तितः ॥३.९२
मठ्यताले द्रुतस्त्वादावक्षरद्वयसंमितः ।
ततो लघू द्वौ विज्ञेयौ चतुरक्षरसंमितौ ॥३.९३
आहत्य्त मठ्यतालोयं दशाक्षरमिति स्मृतः ।
रूपकाख्यश्चतुर्थश्चालंकारः प्रतिपाद्यते ॥३.९४
बद्धो रूपकतालेन रूपकः परिकीर्तितः ।
आदौ द्रुतो लघुः पश्चात्ताले रूपकनामके ॥३.९५
तेन रूपकनामायं विज्ञातव्यः षडक्षरः ।
सरि, सरिगम, रिग, रिगमप
अलंकारोथ झम्पाख्यः पञ्चमः प्रतिपाद्यते ॥३.९६
झम्पतालेन संयुक्तो झम्पालंकार उच्यते ।
झम्पतलो द्विधा नाट्यवीणयोः परिदृश्यते ॥३.९७
तत्र स्यान्नाट्यझम्पायामादौ तावदणुद्रुतः ।
एकाक्षरमितः पश्चाद् द्रुतो द्व्यक्षरसंमितः ॥३.९८
ततः सप्ताक्षरीकालसंमितो लघुशेखरः ।
वाग्गेयकारझम्पायां विरामान्तद्रुतो मतः ॥३.९९
त्र्यक्षरः स परं सप्ताक्षरोच्चारणसंमितः ।
लघुशेखरनामैको झम्पतालावुभाविमौ ॥३.१००
दशलघ्वक्षरोच्चारसंमिताविति निर्णयः ।
अनयोरुभयोर्नाट्यझम्पा प्रामाणिकी स्मृता ॥३.१०१
तामेव रक्तिलाभेन कृत्वा धातुत्रयान्विताम् ।
वीणायां वादयन्तीह वैणिका इति निर्णयः ॥३.१०२
सरिगसरिसरि, ग, मा॑ रिगमरिगरिग, म, पां
षष्ठोथ त्रिपुटो नामालंकारः प्रतिपाद्यते ।
त्रिपुटाख्येन तालेन निबद्धस्त्रिपुटः स्मृतः ॥३.१०३
त्रिपुटे द्वौ द्रुतावादौ पृथग्द्व्यक्षरसंमितौ ।
विरामान्तद्रुतः पश्चादक्षरत्रयसंमितः ॥३.१०४
आहत्य त्रिपुटस्तालो ज्ञेयः सप्ताक्षरीमितः ।
सरि, गस, रिगम॑ रिग, मरि, गमपं
निरूप्यतेद् थतालाख्योलंकारः सप्तमोधुना ॥३.१०५
अठतालेन संयुक्तमठतालं प्रचक्षते ।
अठताले द्रुतौ द्विद्व्यक्षरकालावुभौ स्मृतौ ॥३.१०६
पञ्चपञ्चाक्षरमितौ लघू द्वौ तदनन्तरम् ।
चतुर्दशाक्षरीकालो जातस्तेनाठतालकः ॥३.१०७
सरि, इग, असारिग, अमामा॑ रिग, अम, अरीगम, पापा
अष्टमः स्फुटमेवाथालंकारः प्रतिपाद्यते ।
एकतालेन युक्तत्वादेकतालः प्रकीर्तितः ॥३.१०८
एकद्रुतेनैकताल एकतालस्य लक्षणम् ।
लक्ष्ये त्विदानीमेतादृगेकतालो न रक्तिदः ॥३.१०९
इत्येकतालस्थानेस्मिन्नादितालो निवेशितः ।
आदिताले त्वेकलघुश्चतुरक्षरसंमितः ॥३.११०
एवमष्टावलंकारा लक्षिता लक्षसंमताः ।
एतान्ध्रुवादिकान्सप्त तालान्सूलादिसंज्ञकान् ॥३.१११
तालं च झोम्पटाख्यानं रगणं च क्वचित्क्वचित् ।
गीतप्रकरणोक्तेषु गीतेषु विनिवेशयेत् ॥३.११२
एतन्नवातिरिक्तांस्तु न गीतेषु निवेशयेत् ।
प्राबन्धेषु च संयोज्यास्तालप्रकरणोदिताः ॥३.११३
तालाः सूलादिकाश्चैते सर्व एवेति निर्णयः ।
यद्यप्यष्टावलंकारा लक्ष्यवर्त्मनि संप्रति ॥३.११४
उक्तलक्षणमार्गेण दृश्यन्ते नैव कुत्रचित् ।
तथाप्यनागतातीतसमाख्यानग्रहत्रयम् ॥३.११५
अनुसृत्येव वीणायां रक्तिलोभेन वैणिकैः ।
लघुद्रुतादेरधुना पौर्वापर्यं समाश्रितम् ॥३.११६
अलंकारान्निरूप्यैवं गमकान्व्याहरामहे ।
स्वरस्य कम्पो गमकः श्रोतृचित्तसुखावहः ॥३.११७
स्वीयस्थानश्रुतिगतच्छायामन्याश्रयामपि ।
छायां गमयतीत्येष गमकः परिकीर्तितः ॥३.११८
ते च पञ्चदश प्रोक्ता गमका भरतातिभिः ।
तिरुपः स्फुरितश्चैव कम्पितो लीन इत्यपि ॥३.११९
आन्दोलितो वलिश्चाथ त्रिभिन्नः कुरुलाहतौ ।
उल्लसितः प्लावितश्च हुम्फितो मुद्रितस्तथा ॥३.१२०
नामितो मिश्रितश्चेति भेदाः पञ्चदश स्मृताः ।
अत्यल्पडमरुध्वानकम्पानुकृतिसुन्दरः ॥३.१२१
द्रुततुर्यांशवेगेन युक्तः कम्पः स्वरस्य च ।
स एव तिरुपो नाम गमकः परिकीर्तितः ॥३.१२२
यस्तु द्रुततृतीयांशवेगेन सहितो भवेत् ।
स्वरकम्पः स एवोक्तः स्फुरितो नाम नामतः ॥३.१२३
दृश्यते स्फुरितस्थाने डोलो लोके विकल्पितः ।
लक्षणं तस्य डोलस्य पूर्वाचार्यैरुदीरितम् ॥३.१२४
डोलो मुक्ताफलस्येव चलनं लुठनात्मकम् ।
द्रुतार्धमानवेगेन स्वरकम्पस्तु कम्पितः ॥३.१२५
पूर्णद्रुतप्रमाणेन वेगेन सहितस्तु यः ।
स्वरकम्पः स एवोक्तो गमको लीनसंज्ञकः ॥३.१२६
लघुप्रमाणवेगेन स्वरकम्पस्तु यो भवेत् ।
तदान्दोलितनामानां गमकं तद्विदो विदुः ॥३.१२७
नानावक्रगतस्वैरभिन्नवेगस्पृशां तु यः ।
कम्पः स्वराणां स पुनर्वलिरित्यभिधीयते ॥३.१२८
वलिरेव ऋजुर्भूत्वा कुरुलो नाम कथ्यते ।
अक्लेशेनैव मन्द्रादिस्थानत्रितयसंस्पृशाम् ॥३.१२९
स्वराणां कम्पनं लोके त्रिभिन्न इति कथ्यते ।
प्रागग्रिमस्वराद्वेगान्निवृत्तस्त्वाहतो मतः ॥३.१३०
य उत्तरोत्तरान्गच्छेत्क्रमेणैव स्वरोत्करान् ।
तमुल्लासितनामानां गमकं ब्रुवते बुधाः ॥३.१३१
प्लुतप्रमाणवेगेन कम्पो यः प्लावितस्तु सः ।
मनोज्ञतरहुंकारगर्भितस्वरकम्पनम् ॥३.१३२
हुम्फितं नाम गमकं गमकज्ञाः प्रचक्षते ।
यो जायते स्वरे कम्पस्त्वधरद्वयमुद्रणात् ॥३.१३३
मुद्रितो नाम गमकः स एव समुदाहृतः ।
मन्द्रो यस्त्ववरोहेण स्वरकम्पः स नामितः ॥३.१३४
एतेषां मिश्रणाज्ज्ञेयो गमको मिश्रणाभिधः ।
तदेवं मूर्च्छनाग्रामगमकादिप्रभेदवान् ॥३.१३५
स्वरो निरूपितः सोयं स्वरः प्रोक्तश्चतुर्विधः ।
वादो संवाद्यपि तथा विवादी चानुवाद्यथ ॥३.१३६
प्रयोगे बहुदावृत्तः स्वरो वादीति कथ्यते ।
श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः ॥३.१३७
मिथः संवादिनौ तौ चेत्येवं संवादिलक्षणम् ।
एवं स्पष्टयितुं वीणाप्रस्तारस्तावदुच्यते ॥३.१३८
लिखेद् द्वाविंशतिं तिर्यग्रेखास्तत्र च वामतः ।
यद्वा दक्षिणतो वापि भवन्ति द्वे च विंशतिः ॥३.१३९
रेखाग्राण्यत्र वामे वा दक्षिणे वा यथामति ।
विद्यमानानि रेखाग्राण्यादाय द्वे च विंशतिम् ॥३.१४०
लिखितेषु स्वराञ्शुद्धविकृतान्द्वादशात्मकान् ।
द्वादशानामपि स्वस्याद्यक्षरैस्तत्र लिख्यते ॥३.१४१
संकेत इति निःशङ्कं वेङ्कटाध्वरिणोदितम् ।
स्वरेषु लिखितेष्वेवं ययोस्तु स्वरयोर्द्वयोः ॥३.१४२
स्वस्याधारश्रुतिं त्यक्त्वा मध्ये द्वादश वाथ वा ।
अष्टौ चाप्युपलभ्यन्ते श्रुतयस्तु तयोर्द्वयोः ॥३.१४३
मिथः संवादिता ज्ञेया सर्वत्रावेवमिष्यते ।
समौ सपौ रिधौ चैव निगौ संवादिनौ मिथः ॥३.१४४
एवं शुद्धस्वरेषूक्तः संवादिस्वरनिर्णयः ।
साधारणाख्यगांधारकैशिक्याख्यनिषादयोः ॥३.१४५
तथैवान्तरकाकल्योः संवादो विकृतेष्वपि ।
शुद्धर्षभेण संवादी वरालीमध्यमस्तथा ॥३.१४६
शुद्धस्य मध्यमः शुद्धनिषादश्चेत्युभौ स्वरौ ।
श्रुत्यष्टकेनान्तरितावपि संवादिनो न हि ॥३.१४७
एवं संवादिलक्ष्मोक्तं विवादी लक्ष्यतेधुना ।
एकश्रुत्यन्तरितता ययोस्तु स्वरयोर्द्वयोः ॥३.१४८
तयोर्मिथो विवादित्वमेवं सर्वत्र कल्पयेत् ।
रिगौ धनी च शुद्धेषु स्वरौ स्यातां विवादिनौ ॥३.१४९
साधारणान्तरौ चैव कैशिकीकाकलीस्वरौ ।
मिथो विवादिनौ ज्ञेयौ विकृतेषु स्वरेष्वपि ॥३.१५०
विवादिवादिसंवादिभिन्नाः स्युरनुवादिनः ।
चतुर्विधस्वरेष्वेषु वादी राजा प्रकीर्त्यते ॥३.१५१
संवादी त्वनुसारित्वादस्यामात्यो विधीयते ।
विवादी विपरीतत्वाद्धीरैरुक्तौ रिपूपमः ॥३.१५२
स्वरूपमर्दनं तेन प्रयोगे स्याद्विवादिनः ।
स्वरूपमर्दनाभावे गीतरक्तिर्न लभ्यते ॥३.१५३
शत्रूपमर्दने हि स्याद्राज्ञां लोके प्रकाशनम् ।
नृपामात्यानुसारित्वादनुवादी तु भृत्यवत् ॥३.१५४
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित नागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
कृतौ चतुर्दण्दीप्रकाशिकायां तृतीयं स्वरप्रकरणं संपूर्णम्