चतुर्दण्डीप्रकाशिका/मेलप्रकरणम्
दिखावट
← स्वरप्रकरणम् | चतुर्दण्डीप्रकाशिका मेलप्रकरणम् वेङ्कटमखी |
रागप्रकरणम् → |
- तृतीयेस्मिन्प्रकरणे स्वराः सम्यङ् निरूपिताः ।
- अथ प्रकरणे तुर्ये कुर्वे मेलनिरूपणम् ॥४.१
- षड्जस्वरस्य पुरतश्चत्वारः क्रमशः स्वराः ।
- रिषभाख्यानकाः केचित्गांधाराख्यानकाश्चते ॥४.२
- तत्राधो नैव गांधारश्चतुर्थो रिषभो न हि ।
- रिषभावपि गांधारौ द्वितीयकतृतीयकौ ॥४.३
- द्वितीयं वा चतिर्थं वा व्यपेक्ष्य स्यात्तृतीयकः ।
- रिषभाख्यः स एव स्याद्गांधरोपेक्ष्य चादिमम् ॥४.४
- तृतीये रिषभाख्यानश्चतुर्थापेक्षया भवेत् ।
- स हि व्यपेक्ष्य गांधारः प्रथमं वा द्वितीयकम् ॥४.५
- एवं च सति निष्पन्नं द्वितीयकतृतीययोः ।
- गांधारत्वं च रिषभभूयमित्येव निर्णयः ॥४.६
- तस्मदाद्यद्वितीयौ च तृतीयश्चर्षभा मता ।
- तेष्वाद्यो गौलरिषभः श्रीरागरिषभः परः ॥४.७
- तृतीयो नाटरिषभ इति लक्ष्यविदां मतम् ।
- आद्यः शुद्धर्षभः पञ्चश्रुतिकर्षभसंज्ञकः ॥४.८
- द्वितीयश्च तृतीयः षट्श्रुतिकर्षभ उच्यते ।
- लक्षणज्ञैर्मयोक्तास्ते त्रयो ररिरुसंज्ञकाः ॥४.९
- द्वितीयश्च तृतीयश्च चतुर्थश्च त्रयः स्वराः ।
- सामान्यतः स्युर्गांधारास्तेष्वाद्यो लक्ष्यवेदिभिः ॥४.१०
- प्रोक्तो मुखारिगांधारो द्वितीयो भैरवीयुतः ।
- गांधारोथ तृतीयस्तु गौलगांधार उच्यते ॥४.११
- लक्षणज्ञैस्तु तेष्वाद्यः शुद्धगांधार उच्यते ।
- साधारणाख्यगांधारो द्वितीयः परिकीर्तितः ॥४.१२
- तृतीयोन्तरगांधार इत्यहं तु वदामि तान् ।
- क्रमाद्गगिगुनाम्नस्त्रीन्मेलप्रस्तारसिद्धये ॥४.१३
- एबं च षड्जात्पुरतो निवसस्तु चतुर्ष्वपि ।
- स्वरेषु प्रथमादित्रितयं रिषभनामकम् ॥४.१४
- गांधाराख्यं द्वितीयादित्रयमित्येव निर्णयः ।
- चतुर्ष्वेतेषु जातस्य ररिर्वाख्यानशालिनः ॥४.१५
- गांधारत्रितयस्यापि पूर्वाङ्गाख्या मया कृता ।
- कथं द्वितीयो रिषभो गांधारः प्रथमो भवेत् ॥४.१६
- कथं तृतीयो रिषभो गांधारः स्याद् द्वितीयकः ।
- विरुद्धत्वात्तुरङ्गत्वगोत्वयोरिव सर्वथा ॥४.१७
- कथं स्याद्रिषभत्वेन गांधारत्वस्य संगतिः ।
- किं च स्वरेषु चतुर्षु रिषभौ द्वौ परावुभौ ॥४.१८
- गांधाराविति युक्तं स्यात्तत्कथं रिषभास्त्रयः ।
- गांधारास्त्रय इत्युक्तमिति चेदत्र वच्म्यहम् ॥४.१९
- विरुद्धे नर्षभत्वं च गांधारत्वमुभे इमे ।
- किं तु सापेक्षकौ धर्मौ स्यातामेकत्र तेन तौ ॥४.२०
- यथा चत्वर एकस्य तनुजाः सर्व एव हि ।
- ज्येष्ठा अपि कनिष्ठाः स्युस्तत्र चाद्यस्तु नानुजः ॥४.२१
- न चतुर्थः पूर्वजः स्याद् द्विरूपावितरवुभौ ।
- तृतीयं वा चतुर्थं वा व्यपेक्ष्य स्याद् द्वितीयकः ॥४.२२
- पुत्रे ज्येष्ठः स एव स्यात्कनिष्ठोपेक्ष्य चादिमम् ।
- द्वितीयो ज्येष्ठतायुक्तश्चतुर्थापेक्षया भवेत् ॥४.२३
- स एवावरजोपेक्ष्य प्रथमं च द्वितीयकम् ।
- प्रथमाद्यास्त्रयस्तस्माद्यथा ज्येष्ठा भवन्त्यमी ॥४.२४
- द्वितीयाद्यास्त्रयः पुत्राः कनीयांसो यथाभवन् ।
- एवं त्रयोत्र रिषभा ज्येष्ठकल्पा भवन्त्यमी ॥४.२५
- कनिष्ठकल्पा गांधारास्त्रयोप्यत्र भवन्त्यमी ।
- चतुर्ष्वेषु स्वरेष्वेतौ द्वितीयकतृतीयकौ ॥४.२६
- रिषभावपि गांधारौ स्यातां तस्मात्समञ्जसम् ।
- तदूर्ध्वे पर्वणि भवन्पञ्चमे शुद्धमध्यमः ॥४.२७
- मसंज्ञको मयाप्रोक्तस्तदूर्ध्वे पर्वणि स्थितः ।
- षष्ठे वरालीरागस्य कुर्वाणः प्रतिभासनम् ॥४.२८
- द्वितीयो मध्यमः प्रोक्तो मिसंज्ञः स मया कृतः ।
- सप्तमे पर्वणि वसन्पञ्चमः स्यात्पसंज्ञकः ॥४.२९
- पञ्चमस्य पुरस्तात्स्युश्चत्वारः क्रमशः स्वराः ।
- धैवताश्च निषादाश्च निषादस्तत्र नादिमः ॥४.३०
- न चतुर्थो धैवतः स्याद् द्विरूपावितरवुभौ ।
- धैवतौ च निषादौ च कथ्येते शास्त्रकोविदैः ॥४.३१
- तृतीयं वा चतुर्थं वा व्यपेक्ष्य स्याद् द्वितीयकः ।
- धैवताख्यः स एव स्यान्निषादोपेक्ष्य चादिमम् ॥४.३२
- तृतीयो धैवताख्यनश्चतुर्थापेक्षया भवेत् ।
- स एवाद्यं द्वितीयं वा व्यपेक्ष्य स्यान्निषादकः ॥४.३३
- एवं च सति निष्पन्नं द्वितीयकतृतीययोः ।
- धैवतत्वं निषादत्वमुभयोरुभयोः पृथक् ॥४.३४
- तस्मदाद्यद्वितीयौ च तृतीयश्चापि धैवताः ।
- गौलधैवत आद्यः स्यात्परः श्रीरागधैवतः ॥४.३५
- तृतीयस्तत्र नाटस्य धैवतो लक्ष्यविन्मते ।
- शुद्धधैवत आद्योन्यः पञ्चश्रुतिकधैवतः ॥४.३६
- तृतीयो लक्षणज्ञैः षट्श्रुतिको धैवतः स्मृतः ।
- अस्मन्मते त्रयस्ते स्युः क्रमाद्धधिधुसंज्ञकाः ॥४.३७
- द्वितीयश्च तृतीयश्च चतुर्थश्च स्वरास्त्रयः ।
- सामान्यतो निषादाः स्युस्तेष्वाद्यो लक्ष्यवेदिनाम् ॥४.३८
- मते मुखारिरागस्य निषादोथ द्वितीयकः ।
- प्रोक्तो निषादो भैरव्या गौलरागनिषादकः ॥४.३९
- तृतीयो लक्षणज्ञानां मते तेषु प्रकीर्तितः ।
- आद्यः शुद्धनिषादोन्यः कैशिक्याख्यनिषादकः ॥४.४०
- स्यात्काकलीनिषादोन्यस्तृतीयः परिकीर्तितः ।
- एते त्रयो मया तूक्ताः क्रमान्ननिनुसंज्ञकाः ॥४.४१
- एवं च पञ्चमाग्रेथ निवसस्तु चतुर्ष्वपि ।
- स्वरेषु प्रथमादित्रितयं धैवतनामकम् ॥४.४२
- निषादाख्यं द्वितीयादित्रयमित्येव निर्णयः ।
- चतुर्ष्वेतेषु जातस्य धधिध्वाख्यानशालिनः ॥४.४३
- निषादत्रितयस्यापि ननिन्वख्यनशालिनः ।
- उत्तराङाभिधा प्रोक्ता मेलप्रस्तारसिद्धये ॥४.४४
- शङ्का चैव समाधानमुभयं पूर्ववद्भवेत् ।
- मेलो नाम स को वेति प्रश्नस्योत्तरमुच्यते ॥४.४५
- नियमेनैव संग्राह्यः षड्जस्तत्पुरतः क्रमात् ।
- विद्यमानेषु चतुर्षु स्वरेष्वन्यतरावुभौ ॥४.४६
- तत्रर्षभः पूर्वभवो गांधारस्त्वनुजो भवेत् ।
- द्वयोर्मध्यमयोरेकः संग्राह्यो मध्यमो भवेत् ॥४.४७
- नियमेन हि संग्राह्याः पञ्चमस्तत्पुरः स्थितः ।
- स्वराः क्रमेण चत्वारस्तेषु चान्यतरावुभौ ॥४.४८
- संग्राह्यः पूर्वजातोत्र धैवतः परिकीर्तितः ।
- पश्चाद्भवो निषादः स्यादिति सप्त स्वराश्च ये ॥४.४९
- तेषां च मेलनं मेलो गीतविद्भिः प्रकीर्तितः ।
- भेदा द्विसप्ततिस्तस्य भवन्त्यस्माभिरीरितः ॥४.५०
- येनोपायेन मेलास्ते द्विसप्ततिरिति स्फुटाः ।
- तमुपायं प्रवक्ष्यामि लक्ष्यज्ञसुखबुद्धये ॥४.५१
- रगौ रगी रगू चैव रिगी रिगू रुगू तथा ।
- षड् भेदा इति पूर्वाङ्गे द्रष्टव्यं गीतकोविदैः ॥४.५२
- धनौ धनी धनू चैव धिनी धिनू धुनू तथा ।
- उत्तराङ्गेपि षड् भेदा द्रष्टव्या गीतकोविदैः ॥४.५३
- पूर्वाङ्गगतषड्भेदाः षड्जाद्याः स्युः पृथक्पृथक् ।
- उत्तराङ्गस्य षड्भेदाः पञ्चमाद्याः पृथक्पृथक् ॥४.५४
- आद्यः पूर्वाङ्गगो भेद उत्तराङ्गस्थितैः क्रमात् ।
- योज्यते यदि षड्भेदैः षण्मेलाः संभन्त्यतः ॥४.५५
- पूर्वाङ्गस्य द्वितीयोपि भेदस्तेनैव वर्त्मना ।
- संयोज्यते यदि तदा षण्मेलाः संभवन्त्यतः ॥४.५६
- एवं तृतीयो भेदोपि षण्मेलोत्पादको भवेत् ।
- चतुर्थोपि तथैव स्यात्पञ्चमोप्येवमेव हि ॥४.५७
- एवं षष्ठोपि विज्ञेयः षण्मेलोत्पत्तिकारणम् ।
- अतः पूर्वाङ्गभेदानां षण्णामपि पृथक्पृथक् ॥४.५८
- उत्तराङ्गस्थितैः षड्भिर्भेदैः संयोजने कृते ।
- षट्षण्मेलप्रकारेण मेलाः षट्त्रिंशदागताः ॥४.५९
- षट्त्रिंशन्मेलकेष्वेषु प्रतिमेलं च मध्यमः ।
- मसंज्ञो यदि मध्ये स्यात्पूर्वमेलाभिधास्तदा ॥४.६०
- एतेष्वेव तु षट्त्रिंशन्मेलेषु प्रतिमेलकम् ।
- मसंज्ञमध्यमस्थाने मिसंज्ञो यदि मध्यमः ॥४.६१
- निवेश्यते तदा तेषां भवेदुत्तरमेलता ।
- इत्यस्माभिः समुन्नीता जाता मेला द्विसप्ततिः ॥४.६२
- ननु त्यक्त्वा मसंज्ञं तु केवलं मध्यमं पुनः ।
- मिसंज्ञकस्य तत्स्थाने मध्यमस्य निवेशनात् ॥४.६३
- त एव पूर्वमेलाः किं भवन्त्युत्तरमेलकाः ।
- इति चोक्ते सदृष्टान्तं परिहारं प्रचक्ष्महे ॥४.६४
- कटाहसंभृतं क्षीरं केवलं दधिबिन्दुना ।
- यथा संयोगमासाद्य दधिभावं प्रपद्यते ॥४.६५
- तथैव पूर्वमेलास्ते मध्यमेन मिसंज्ञिना ।
- केवलेनापि संयुक्ता भजन्त्युत्तरमेलताम् ॥४.६६
- द्विसप्ततेश्च मेलानां प्रस्तारं लक्षयेधुना ।
- षट् पङ्क्तीर्विलिखेत्पूर्वं षण्मेलोत्पत्तिसिद्धये ६७ ॥४.६७
- एकैकस्यां पङ्क्तिकायां सप्त सप्त गृहां लिखेत् ।
- चतुष्कमेकमेवं च सति निष्पद्यते पुनः ॥४.६८
- तथैवैकादशान्यानि चतुष्काणि लिखेत्क्रमात् ।
- चतुष्काणि तदेतानि जातानि द्वादश स्फुटम् ॥४.६९
- द्वादशस्वपि चैतेषु चतुष्केषु स्थिताः ग्रहाः ।
- सप्त सप्त हि तेष्वाद्यद्वितीयकतृतीयकाः ॥४.७०
- गृहाः पूर्वाङ्गसंयुक्ताः कर्तव्या इति निर्णयः ।
- पञ्चमा अथ षष्ठाश्च सप्तमाश्च गृहास्तथा ॥४.७१
- उत्तराङ्गेण संयुक्ताः कर्तव्या इति निर्णयः ।
- चतुर्थाः पूर्वमेलेषु मसंज्ञेन युता गृहाः ॥४.७२
- त एवोत्तरमेलेषु मिसंज्ञेन युता मताः ।
- ततश्च द्वादशस्वेषु चतुष्केषूक्तवर्त्मना ॥४.७३
- जाताः प्रतिचतुष्कं च षट्षण्मेलप्रकारतः ।
- मेलाः द्विसप्ततिः श्रीमद्वेङ्कटाध्वरिकल्पिताः ॥४.७४
- तदेवमनया रीत्या मेलानां च द्विसप्ततिः ।
- स्फुटप्रबुद्धयेस्माभिः स्वरेषु द्वादशस्वपि ॥४.७५
- रगौ रिगीत्येवमाद्यः संकेतः परिकल्पितः ।
- तत्संकेतप्रकारेण स्वरेषु द्वादशस्वपि ॥४.७६
- सप्त सप्त समादाय प्रतिमेलमपि स्वरान् ।
- विद्याद् द्विसप्ततिं मेलानुक्तप्रस्तारवर्त्मना ॥४.७७
- अथ विज्ञाय तत्वेन मेलानेद्व्यधिकसप्ततिम् ।
- तेषां प्रयोगसमये रगौ रिगीति मत्कृतः ॥४.७८
- संकेतो नैव संग्राह्यः किं तु पूर्वप्रसिद्धये ।
- व्यवहारः सरिगमपधनीत्येव संज्ञया ॥४.७९
- द्विसप्ततेश्च मेलानां कर्तव्य इति निर्णयः ।
- ननु द्विसप्ततिर्मेला भवता परिकल्पिताः ॥४.८०
- प्रसिद्धाः पुनरेतेषु मेलाः कतिचिदेव हि ।
- दृश्यन्ते ननु सर्वेपि तेन तत्कल्पनं वृथा ॥४.८१
- कल्पनागौरवन्यायादिति चेदिदमुच्यते ।
- अनन्ताः खलु देशास्तद्देशस्था अपि मानवाः ॥४.८२
- तेषु सांगीतकैरुच्चावचसंगीतकोविदैः ।
- ये कल्पयिष्यमाणाश्च कल्प्यमानाश्च कल्पिताः ॥४.८३
- अस्मदादिभिरज्ञाता ये च शास्त्रैकगोचराः ।
- ये च देशीयरागास्तद्रागसामान्यमेलकाः ॥४.८४
- येन पन्तुवराल्याख्यकल्याणिप्रमुखा अपि ।
- नानादेशीयरागास्तद्रागसामन्यमेलकान् ॥४.८५
- संग्रहीतुं समुन्नीता एते मेला द्विसप्ततिः ।
- ततश्चैतेषु वैयर्थ्यशङ्का किंकारणं भवेत् ॥४.८६
- न हि संघटते वृत्तरत्नाकरनिरूपिते ।
- तत्र प्रस्तारलब्धानां वृत्तानां निकुरुम्बके ॥४.८७
- अस्मदादिप्रसिद्धान्यवृत्तवैयर्थ्यशंसनम् ।
- न हि संघटते तालप्रस्तारजनिते पुनः ॥४.८८
- तालजाले प्रसिद्धान्यतालवैयर्थ्यशंसनम् ।
- यदि कश्चिन्मदुन्नीतमेलेभ्यस्तद्द्विसप्ततेः ॥४.८९
- न्यूनं वाप्यधिकं वापि प्रसिद्धैर्द्वादशस्वरैः ।
- कल्पयेन्मेलनं तर्हि ममायासो वृथा भवेत् ॥४.९०
- न हि तत्कल्पने फाललोचनोपि प्रगल्भते ।
- तस्माद्यथैकपञ्चाशद्वर्णाः स्युर्मातृकाभिधाः ॥४.९१
- न हीयन्ते न वर्धन्ते तथा मेला द्विसप्ततिः ।
- एवं सामान्यतो मेलाः प्रोक्ता ह्यधिकसप्ततिः ॥४.९२
- अथैतेष्वेव ये मेला लक्ष्यवर्त्मनि विश्रुताः ।
- तेष्वहं कतिचिन्मेलाल्द्{ं लक्ष्यलक्षणसंगतान् ॥४.९३
- प्रतिमेलमपि स्पष्टं श्रुतीद्वाविंशतिं तथा ।
- लक्षणं वच्यते पश्चादुद्देशस्तावदादितः ॥४.९४
- पूर्वोक्तमेलप्रस्तारः क्रमेण क्रियतेधुना ।
- आदिमः सर्वमेलानां मुखारीमेल उच्यते ॥४.९५
- मेलः सामवराल्याख्यरागस्यातः परं मतः ।
- ततो भूपालमेलोथ हेज्जुज्जीमेल ईरितः ॥४.९६
- वसन्तभैरवीमेलो गौलमेलस्ततः परम् ।
- भैरवीमेल आहर्या मेलः श्रीरागमेलकः ॥४.९७
- काम्भोजिमेलो मेलोथ शंकरभरणस्य च ।
- सामन्तमेलो देशाक्षीमेलो नाटस्य मेलकः ॥४.९८
- मेलः शुद्धवराल्याख्यरागस्यातः परं मतः ।
- मेलः पन्तुवराल्याश्च शुद्धरामक्रियायुतः ॥४.९९
- मेलः सिंहरवाख्योस्मत्सृष्द्तरागस्य ।
- मेलकः कल्याणीरागमेलश्चेत्याहत्यैकोनविंशतिः ॥४.१००
- अस्मादतिप्रसिद्धनां देशभेदप्रचारिणाम् ।
- उच्चावचानां रागाणां मेलस्तावद् द्विसप्ततौ ॥४.१०१
- मेलेषु पूर्वमेलेषु शारीरानुगुणत्वतः ।
- बुद्धिमद्भिः समुन्नेया इति सर्वं समञ्जसम् ॥४.१०२
- यद्वा सामन्तरागोयं श्रीरागे मेलके गतः ।
- रागप्रकरणे ब्रूमो रागान्मेलविशेषजान् ॥४.१०३
- उद्दिष्टानां तु मेलानामधुना लक्ष्म चक्ष्महे ।
- प्रतिमेलमतिस्पष्टं श्रुतीर्द्वाविंशतिं तथा ॥४.१०४
- शुद्धैः सप्तस्वरैर्युक्तो मुखारीमेल उच्यते ।
- चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ॥४.१०५
- द्वे द्वे निषादगांधारौ त्रिस्त्री रिषभधैवतौ ।
- इत्यस्य श्रुतयः पूर्वैर्द्वाविंशतिरुदाहृताः ॥४.१०६
- पूर्वोक्तमेलप्रस्तारे भेदोयं प्रथमो मतः ।
- इति मुखारीमेलः १
- षड्जः शुद्धाश्च रिगमाः शुद्धौ पञ्चमधैवतौ ॥४.१०७
- निषादः काकलीनामेत्येतैर्युक्तः स्वरैस्तु यः ।
- मेलः सामवराल्याख्यरागस्यायमुदाहृतः ॥४.१०८
- षड्ज एकर्षभे तिस्रो द्वे गे च मपयोः पृथक् ।
- चतस्रश्च चतस्रश्च धे तिस्रः पञ्च नौ स्मृताः ॥४.१०९
- इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ।
- पूर्वोक्तमेलप्रस्तारे भेदोयं स्यात्तृतीयकः ॥४.११०
- इति सामवरालीमेलः २
- षड्जः शुद्धर्षभः साधारणगांधार एव च ।
- शुद्धाश्च मपधा ज्ञेयाः कैशिक्याख्यो निषादकः ॥४.१११
- एभिः सप्तस्वरैर्युक्तः प्रोक्तो भूपालमेलकः ।
- तिस्रस्तिस्रश्च तिस्रश्च तिस्रः सरिगमाश्रयाः ॥४.११२
- चतस्रः पञ्चमे तिस्रो धैवते तिस्र एव नौ ।
- इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥४.११३
- पूर्वोक्तमेलप्रस्तारे जातो भेदोयमष्द् तमः ।
- इति भूपालमेलः ३
- गांधरोन्तरनामान्ये स्वराः शुद्धाः प्रकीर्तिताः ॥४.११४
- एतावन्स्वरसंभूतो हेज्जुज्जीमेल ईरितः ।
- षड्जे च तिस्र ऋषभे तिस्रो गे पञ्च मध्यमे ॥४.११५
- एका स्यात्पे चतस्रः स्युर्ध तिस्रो द्वे निषादके ।
- इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥४.११६
- यं त्रयोदशो भेदो मेलप्रस्तारके भवेत् ।
- इति हेज्जुज्जिमेलः
- षड्जः शुद्धर्षभश्चैव गांदारोन्तरसंज्ञकः ॥४.११७
- शुद्धाश्च मपधाः कैशिक्याभिधानो निषादकः ।
- वसन्तभैरवीमेलः स्वरैरेतैः समुत्थितः ॥४.११८
- षड्जे तिस्रस्तु रिषभे तिस्रो गे पञ्च मध्यमे ।
- एकैव पे चतस्रः स्युस्तिस्रस्तिस्रो धनिश्रिताः ॥४.११९
- इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ।
- अयं च मेलप्रस्तारे ज्ञेयो भेदश्चतुर्दश ॥४.१२०
- इति वसन्तभैरवीमेलः
- षड्जः शुद्धर्षभश्चैव गांधारोन्तरसंज्ञकः ।
- मपधाख्याः स्वराः शुद्धाः काकल्याख्यनिषादकः ॥४.१२१
- एतावत्स्वरसंभूतो गौलमेलः प्रकीर्तितः ।
- एका षड्जे ति रिषभे तिस्रो गे पञ्च मध्यमे ॥४.१२२
- एकैव पे चतस्रः स्युस्तिस्रो धे पञ्च नौ मताः ।
- इतस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥४.१२३
- अयं पञ्चदशो भेदो मेलप्रस्तारके स्मृतः ।
- इति गौलमेलः ६
- षड्जश्च पञ्चश्रुतिकर्षभः साधारणाह्वयः ॥४.१२४
- गांधारो मध्यमः शुद्धः पञ्चमः शुद्धधैवतः ।
- कैशिक्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ॥४.१२५
- भैरवी नाम रागः स्यादिति मेलसमाह्वयः ।
- षड्जे तिस्र ऋषभे पञ्चैका गे तिस्रो मध्यमे ॥४.१२६
- चतस्रः पे धे च तिस्रो निषादे तिस्र एव च ।
- इत्यस्य श्रुतयोस्मभिर्द्वाविंशतिरुदीरिताः ॥४.१२७
- विंशभेदकसंभूतो मेलप्रस्तारके स्मृतः ।
- इति भैरवीमेलः ७
- षड्जश्च पञ्चश्रुतिको रिषभश्च तथा परः ॥४.१२८
- साधारणाख्यगांधारः शुद्धाश्च मपधास्तथा ।
- काकल्याख्यनिषादश्चेत्याहरीमेलके स्वराः ॥४.१२९
- एका षड्जेथ रिषभे पञ्च गे त्वेकिका मता ।
- तिस्रश्चतस्रो मपयोर्धे तिस्रः पञ्च नौ स्मृताः ॥४.१३०
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
- भेदोयमेकविंशोस्मन्मेलप्रस्तारके स्मृतः ॥४.१३१
- इत्याहरीमेलः ८
- षड्जश्च पञ्चश्रुतिरिषभाख्यः स्वरः परः ।
- साधारणाख्यगांधारः शुद्धौ मध्यमपञ्चमौ ॥४.१३२
- चतुःश्रुतिर्धैवतश्च कैशिक्याख्यनिषादकः ।
- एतैः सप्तस्वरैर्जातः श्रीरागस्य तु मेलकः ॥४.१३३
- तिस्रः षड्जेथ रिषभे पञ्च गे त्वेकिकैव मे ।
- तिस्रः पे तु चतस्रः स्युर्धे पञ्चैकैव नौ स्मृताः ॥४.१३४
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
- अयं द्वाविंशको भेदो मेलप्रस्तारके भवेत् ॥४.१३५
- इति श्रीरागमेलः ९
- षड्जोथ पञ्चश्रुतिको रिषभोन्तरसंज्ञकः ।
- गांधारश्च मपौ शुद्धौ पञ्चश्रुतिकधैवतः ॥४.१३६
- कैशिक्याख्यनिषादश्च काम्भोजीमेलके स्वराः ।
- षड्जे तिस्रस्तु रिषभे पञ्च तिस्रस्तु गे स्मृताः ॥४.१३७
- एकैव मे चतस्रः पे धे पञ्चैका निषादके ।
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ॥४.१३८
- अष्टविंशत्ययं भेदो मेलप्रस्तारके स्मृतः ।
- इति काम्भोजीमेलः १०
- षड्जश्च पञ्चश्रुतिको रिषभश्चान्तराभिधः ॥४.१३९
- गांधारस्तु मपौ शुद्धौ पञ्चश्रुतिकधैवतः ।
- काकल्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ॥४.१४०
- शंकराभरणाख्यानरागराजस्य मेलकः ।
- षड्ज एकर्षभे पञ्च तिस्रो गे त्वेकिकैव मे ॥४.१४१
- चतस्रः पे पञ्च धे च निषादे तिस्र एव च ।
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ॥४.१४२
- एकोनत्रिंशभेदोयं मेलप्रस्तारके स्मृतः ।
- इति शंकराभरणमेलः ११
- षड्जः पञ्चश्रुतिश्चाथ रिषभोन्तरनामकः ॥४.१४३
- गांधारश्च मपौ शुद्धौ षट्श्रुतिर्धैवतस्तथा ।
- काकल्याख्यनिषादश्च स्वराः सामन्तमेलके ॥४.१४४
- षड्ज एकर्षभे पञ्च तिस्रो गे चैकिका च मे ।
- चतस्रः पञ्चमे धे तु षट् तथा द्वौ निषादके ॥४.१४५
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
- पूर्वोक्तमेलप्रस्तारे त्रिंशभेदोयमुच्यते ॥४.१४६
- इति सामन्तमेलः १२
- षड्जः षट्श्रुतिको नाम रिषभोन्तरसंज्ञकः ।
- गांधारस्तु मपौ शुद्धौ पञ्चश्रुतिकधैवतः ॥४.१४७
- काकल्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ।
- देशाक्षी नाम रागः स्यादिति मेलसमाह्वयः ॥४.१४८
- एका षड्जे च रिषभे षड् गे द्वे चैकिका च मे ।
- चतस्रः पे पञ्च धे च निषादे तिस्र एव च ॥४.१४९
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
- पञ्चत्रिंशकभेदोयं मेलप्रस्तारके स्मृतः ॥४.१५०
- इति देशाक्षीमेलः १३
- षड्जः षट्श्रुतिको नाम रिषभोन्तरसंज्ञकः ।
- गांधारस्तु मपौ शुद्धौ षट्श्रुतिधैवतः स्वरः ॥४.१५१
- काकल्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ।
- नाटाभिधानरागः स्यादिति मेलसमाह्वयः ॥४.१५२
- एका षड्जे च रिषभे षड् गे द्वे चैकिता च मे ।
- चतस्रः पञ्चमे धे च षट् तथा द्वे निषादके १५३ ॥४.१५३
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
- षट्त्रिंशभेदसंभूतो मेलप्रस्तरके स्मृतः ॥४.१५४
- इति नाटमेलः १४
- वरालीमध्यमश्चाथ काकल्याख्यनिषादकः ।
- शेषाः शुद्धस्वराः शुद्धवरालीमेलसंज्ञकः ॥४.१५५
- षड्ज एकर्षभे तिस्रो गांधारे द्वे च सप्त मे ।
- एकैव पञ्चमे तिस्रो धैवते पञ्च नौ स्मृताः ॥४.१५६
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
- एकोनचत्वारिंशोयं मेलप्रस्तारके स्मृतः ॥४.१५७
- इति शुद्धवरालीमेलः १५
- षड्जः शुद्धर्षभः साधारणगांधारसंज्ञकः ।
- वरालीमध्यमश्चैव शुद्धौ पञ्चमधैवतौ ॥४.१५८
- काकल्यख्यनिषादस्श्चेत्येतावत्स्वरसंभवः ।
- मेलः पन्तुवराल्याख्यो रागश्च परिकीर्तितः ॥४.१५९
- षड्ज एकर्षभे तिस्र स्तिस्रो गे मध्यमे तु षट् ।
- पञ्चमे त्वेकिका तिस्रो धैवते पञ्च नौ स्मृताः ॥४.१६०
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
- मेलप्रस्तारके पञ्चचत्वारिंशोयमुच्यते ॥४.१६१
- इति पन्तुवरालीमेलः १६
- षड्जः शुद्धर्षभश्चैव गांधरोन्तरनामकः ।
- वरालीमध्यमश्चाथ शुद्धौ पञ्चमधैवतौ ॥४.१६२
- काकल्याख्यनिषादश्चेत्येतत्सप्तस्वरोदितः ।
- शुद्धरामक्रियाख्यानरागमेलोयमुच्यते ॥४.१६३
- षड्ज एकर्षभे तिस्रो गांधारे पञ्च मध्यमे ।
- चतस्रः पञ्चमे त्वेका धे तिस्रः पञ्च नौ स्मृताः ॥४.१६४
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
- भेदोयमेकपञ्चाशो मेलप्रस्तारके स्मृतः ॥४.१६५
- इति शुद्धरामक्रियामेलः १७
- षड्जस्वरश्च रिषभः पञ्चश्रुतिसमन्वितः ।
- साधारणाख्यगांधारो वरालीमध्यमस्तथा ॥४.१६६
- शुद्धश्च पञ्चमश्चैव पञ्चश्रुतिकधैवतः ।
- कैशिक्याख्यनिषादश्चेत्येतत्सप्तस्वरोदितः ॥४.१६७
- मेलः सिंहरवे रागे वेङ्कटाध्वरिकल्पिते ।
- षड्जे तिस्रोथ रिषभे पञ्च गे त्वेकिकैव मे ॥४.१६८
- षडेव पञ्चमे त्वेका धे पञ्चैकैव नौ स्मृताः ।
- इत्यस्य श्रुतयः प्रोक्ता मया द्वाविंशतिः स्फुटम् ॥४.१६९
- भेदोयमष्टपञ्चाशो मेलप्रस्तार इष्यते ।
- इति सिंहरवमेलः १८
- षड्जस्वरश्च रिषभः पञ्चश्रुतिसमन्वितः ॥४.१७०
- गांधारोन्तरसंज्ञश्च वरालीमध्यमस्तथा ।
- शुद्धश्च पञ्चमः पञ्चश्रुतिको धैवतस्तथा ॥४.१७१
- काकल्याख्यनिषादश्च कल्याणीमेलके स्वराः ।
- षड्ज एकर्षभे पञ्च गांधारे तिस्र एव मे ॥४.१७२
- चतस्रः पञ्चमे त्वेका पञ्च धे तिस्र एव नौ ।
- इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ॥४.१७३
- पञ्चषष्टितमो भेदो मेलप्रस्तारके स्मृतः ।
- इति कल्याणीमेलः १९
- अस्माभिर्दर्शिता इत्थं लक्ष्यलक्षणसंगताः ॥४.१७४
- एकोनविंशतिर्मेलाः संप्रति प्रचरन्ति ये ।
- अतेदानीं विचार्यन्ते रामामात्येन लक्षिताः ॥४.१७५
- मेलप्रकरणे मेलाः स्वरमेलकलानिधौ ।
- तथा हि विंशतिं मेलानाह रामो विमूद् धधीः ॥४.१७६
- युज्यते तत्कथं वेति तत्पृच्छामो वयं पुनः ।
- तदुक्तरीत्या सारङ्गनाटकेदारगौलयोः ॥४.१७७
- संप्राप्तमेकमेलत्वं मेला स्युर्विंशतिः कथम् ।
- ननु विंशतिमेलानां मध्ये पञ्चदशस्वपि ॥४.१७८
- मेलेषु पञ्चमेलानामन्तर्भावस्त्वयेरितः ।
- अन्यस्य पुनरन्यस्मिन्नान्तर्भावो भविष्यति ॥४.१७९
- अन्तराख्यानगांधारकाकल्याख्यनिषादयोः ।
- स्थाने प्रतिनिधित्वेन संगृह्येते यदा स्वरौ ॥४.१८०
- च्युतमध्यमगांधारच्युतषड्जनिषादकौ ।
- तथा विंशतिमेलानं मध्ये पञ्चदशस्वपि ॥४.१८१
- मेलेषु पञ्चमेलानामन्तर्भावस्त्वयेरितः ।
- सारङ्गनाटकेदारगौलमेलद्वयेपि च ॥४.१८२
- अविशेषेण भवता संग्राह्यत्वे सधर्मकौ ।
- च्युतमध्यमगांधारच्युतषड्जनिषादकौ ॥४.१८३
- अन्तस्य पुनरन्यस्मिन्नन्तर्भावो भवेत्तदा ।
- ततो विंशतिमेलोक्तिव्याघातोयं दुरुत्तरः ॥४.१८४
- मेलानां विंशतेर्यानि लक्ष्माण्युक्तानि हि त्वया ।
- तानि सर्वाणि दृश्यन्ते विरुद्धान्येव केवलम् ॥४.१८५
- तत्र स्थालीपुलाकाख्यन्यायेन कतिचित्पुनः ।
- लक्षणानि प्रदर्श्यन्ते राम येष्वेव मोहितः ॥४.१८६
- न हि तान्यत्र शक्यन्ते दूषणानि त्वयेरिते ।
- ग्रन्थे गणयितुं दोषसहस्रग्रथने मया ॥४.१८७
- तथा हि भैरवीरागः शंकराभरणस्तथा ।
- गौडिरागश्च कथितस्त्वया श्रीरागमेलजाः ॥४.१८८
- तत्कथं भैरवीशुद्धधैवतेनान्विता खलु ।
- शंकराभरणो रागोन्तरगांधारवांस्तथा ॥४.१८९
- सकाकलीनिषादश्च गौडीरागस्त्वयं पुनः ।
- जातो मालवगौलाख्यरागमेलादिसंस्थितः ॥४.१९०
- रागाणां पुनरेतेषां जन्म श्रीरागमेलतः ।
- कथं विकत्थसे राम राम राम तव भ्रमः ॥४.१९१
- यच्चोक्तं भवता शुद्धरामक्रीरागमेलतः ।
- पाडीरागर्द्रदेश्याख्यरागजन्म भवेदिति ॥४.१९२
- तद्दोषघातये राम रामस्मरणमातनु ।
- पाड्यार्द्रदेशिरागौ च प्रसिद्धौ गौलमेलजौ ॥४.१९३
- यदप्यावेदिता राम राम बुद्धिविरामता ।
- देशाक्षीमेल एवैष कैशिक्याख्यनिषादकम् ॥४.१९४
- प्राप्य कन्नडगौलः स्याद्गौलस्यातिमृषावहा ।
- कर्णाटगौलः श्रीरागमेलोद्भवनतो न किम् ॥४.१९५
- यच्च कन्नडगौलस्य मेले समुपजायते ।
- घण्टारव इति प्रोक्तं पातकेनामुना पुनः ॥४.१९६
- सत्यं न मोक्ष्यसे राम रामसेतुं गतोपि वा ।
- भैरवीमेलसंभूतो रागो घण्टारवः खलु ॥४.१९७
- यदप्युक्तं त्वया नादरामक्रीरागमेलके ।
- साधारणाख्यगांधारः संग्राह्य इति तत्वतः ॥४.१९८
- अपूर्ववयकारत्वमावेदयति राम ते ।
- नादरामक्रियामेलगांधारोप्यन्तराभिधः ॥४.१९९
- यच्चोक्तं रीतिगौलाख्यरागमेलस्य लक्षणम् ।
- शुधाः सरिगमाः पञ्च पञ्चश्रुतिकधैवतः ॥४.२००
- कैशिक्याख्यनिषादश्चेत्यत्र रामक्रियस्तथा ।
- भैरवीरागमेलोत्थो रीतिगौलः प्रकीर्त्यते ॥४.२०१
- शुद्धर्षभश्च गांधारः पञ्चश्रुतिकधैवतः ।
- यच्च केदारगौलाख्यरागमेलस्य लक्षणे ॥४.२०२
- संग्राह्यश्च्युतषड्जाख्यनिषाद इति कल्पितम् ।
- तत्र स्थानेनु शोचमि तव रामाभिधां पुनः ॥४.२०३
- कैशिक्याख्यनिषादो हि मेले केदारगौलके ।
- यदप्युक्तं त्वया राम हेज्जुज्जीरागमेलके ॥४.२०४
- काकल्याख्यनिषादस्तु संग्राह्य इति तत्पुनः ।
- अतितुच्छं यतस्तस्मिन्मेले शुद्धनिषादकः ॥४.२०५
- गृह्यते निखिलैर्लोकैर्वादकैर्गायकैरपि ।
- यच्चोक्तं भवता राम काम्भोजीमेललक्षणम् ॥४.२०६
- गनी अन्तरकाकल्यौ रिधौ पञ्चश्रुती तथा ।
- शेषाः शुद्धाश्च समपाः काम्भोजीमेलके त्विति ॥४.२०७
- तत्तावत्तव गीतज्ञबहिष्कार्यत्वसाधनम् ।
- काम्भोजीरागमेलस्य कैशिक्याख्यनिषादकः ॥४.२०८
- इति नो वेत्ति किं वीणावादिनां गृहदास्यपि ।
- तस्माद्वैकाररामोक्तान्मेलान्विश्वस्य वैणिकैः ॥४.२०९
- कान्तारकूपे वेष्टव्यमुद्धृत्य भुजमुच्यते ४.२०९ef
- इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य
- साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
- कृतौ चतुर्दण्दीप्रकाशिकायां चतुर्थं मेलप्रकरणं संपूर्णम्