गोतमस्तोत्रम् (जिनप्रभसूरिविरचितम्)

विकिस्रोतः तः
गोतमस्तोत्रम्
जिनप्रभसूरिः
१९२६

श्रीजिनप्रभसूरिविरचितं गौतमस्तोत्रम् । श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिःसंश्रयगौतमान्वयविपत्प्रद्योतनद्योमणिं तापोत्तीर्णसुवर्णवर्णवपुष भक्त्येन्द्रभूति स्तुवे ॥१॥ के नाम नामङ्गुरभाग्यसृश्य दृष्ट्यै सुराणां स्पृहयन्ति सन्तः । निमेषविघ्नोज्झितमाननेन्दुज्योल्लां मनोहत्य तवापिबद्या ॥२॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः । इत्थं न चेत्तर्हि कुतत्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाह्रदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४॥ सौभाग्यभङ्ग्यापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समया अपि लब्धिकान्ताः समालिलिङ्गः समकालमेव ।। ५ ॥ त्वत्पादपीठे विलुठन्त्यमास्त्वद्नेहभृत्याः किल कल्पवृक्षाः । तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ।। ६ ॥ गोतमस्तोत्रम् । पदोर्नखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा। वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टबिम्वोऽपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिषदामदास्त्रम् (१) । लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरिताद्भुतानाम् ॥ ८॥ भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः । स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति ॥ ९ ॥ न रागवान्नो भजसेऽतिचारं नालम्बसे वक्रगति कदाचित् । पुरस्कृतेनोऽपि धनाय नासि तथापि पृथ्वीतनयोऽसि सूढः ।। १० ।। प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरलत्रयीजुषा कीर्तिरतानि तेन ॥ ११ ॥ त्वद्वाणिमाधुर्यचिता पलाय्य सितोपला काचघटी विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वने ॥ १२ ॥ श्रीवीरसेवारसलालसत्वात्तद्वाधिनी केवलबोधलक्ष्मीम् । अन्यायगतामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः () ॥ १३ ॥ अपोढपङ्के कविभिनिषेव्ये निरस्ततापे बहुमङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति ।। १४ ।। राकामये दिग्बलये समन्ताद्यशःशशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार ।। १५ ॥ जगत्त्रयोद्भासि यशस्तवैतत्क्व स्पर्धतां सामनेन चन्द्रः । यस्यापरार्धेऽपि तृणस्य (1) नैव प्रभाप्रभावो लभतेऽवकाशम् ॥ १६ ॥ छत्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नानि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः ।। १७ ।। वसुभूतिसुतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः ॥ १८ ॥ नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः । काव्यमाला। श्रीदोऽपि सूत्रितयमालयवासकेलि- स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ १९ ॥ यत्तपत्यपि कलौ जिनप्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ २० ॥ मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो । गुरुद्योतं क्लीवद्दिनपतिसुधागौ तमसि मे प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥ २१ ॥ इति श्रीजिनप्रभाचार्यविरचितं गोतमस्तोत्रम् ।