सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

09.01-01

।। अथ श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायाम् नवमोऽध्यायः ।।

"" स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ।। (13)

इति संग्रहश्लोकमपि व्याकुर्वन् तदनुसारेणाष्टमनवमयोस्सङ्गतिं च दर्शयति उपासकेत्यादिना ।

विशे

षाः ज्ञातव्येपादेयभेदाः । परमपुरुषमाहात्म्यस्य ज्ञानिनां विशेषस्य च प्रागेव पाकृतत्वात् तत्प्रभावविश #ोधन

मात्रमत्रोपासनातत्फलानुप्रविष्टतया क्रियतेः अध्यायप्रधानर्थस्तूपासनस्वरूपनिष्कर्ष इत्यभिप्रायेण विश #ोध्

येति विच्छिद्य भक्तिरूपस्येत्यादि पृथगुक्तम् । भजनापासनशब्दयोरस्मिन्नेवाध्याये प्रकरणान्तरेषु च समानविषयतयैव

प्रयोगवशात् श्रतिसिद्धोपासनस्यैवात्र भक्तिशब्देन विशेषणं कृतमित्यभिप्रायेण भक्तिरूपस्योपासनस्येत्युक्तम् ।

अत्र इदं तु ते गुह्रमितममिति ज्ञानस्योपक्रान्तत्वात्, मन्मना भवेति चोपसंह्यियमाणत्वात्, मध्ये च बहुशो

भजनस्यैवाभ्यस्यमानत्वात्, प्रत्यक्षरूपत्वनिरतिशयप्रियत्वकीर्तनयजननमस्काररूपत्वादीनां चापूर्वाणां भक्तिस्वरूपानुप्रवेशिनां

प्रकाराणां प्रतिपाद्यमानत्वात्, स्वरूपतस्साघ्यतया निरतिशयफलप्रतिपादनात्, राजविद्यैत्यादिना प्रशंसारू

पार्थवाददर्शनाच्चात्रोपक्रमोपसंहारादितात्पर्यलिङ्

गैः भक्तिस्वरूपनिष्कर्षेऽध्यायस्य तात्पर्यम्; तदन्विततयाऽन्विततयाऽन्यदत्रोच्यत इत्यभिप्रायः । इदं तु ते

इति । अत्र प्राणविदपेक्षया सत्यविदोऽधिकत्ववत्, तुशब्देन कर्मयोगज्ञानयोगाभ्यामप्यस्याधिक्यं विवक्षितम्

। तयोर्हि गुह्रत्वं गुह्रतरत्वं च ; इदं तु गुह्रतमम् । इदं च शुश्रूषातिशत्थापनार्थं गोपनाधिक्यशिक्षणार्थं

चोक्तम् । उपबृंहणीयवेदान्तवाक्येष्विवात्रापि ज्ञानशब्दस्य वक्ष्यमाणविशेषपर्यायवसानप्रदर्शनाय भक्तिरूपमुपासनाख्यमित्युक्तम्

। उपासनागतविशेषज्ञानसहित

मिति 1.पूर्वोक्तविज्ञानादत्रत्यविज्ञानस्य भेदः ; तद्धि उपास्यादिविशेषज्ञानम् । उपासनगतविशेषः

उपासनप्रकारः । प्रस्तुतोपयिकमनसूयुत्वप्रकारं दर्शयति मद्वषयमिति । गुणेषु दोषाविष्करणचित्तवृत्ति

विशेषो ह्रसूया; तद्विपर्ययश्च गुणेषु गुणाध्यवसाय एव हीति भावः । एतेनोपदेशयोग्यायोग्यविभागेन शिष्य

शिक्षणं कृतम् । स्मरन्ति च विद्याय वचनम्, ""असूयकाय मां मा दाः (भा.मो.328.49)

इत्यादि ।

वक्ष्यति च "इदं ते नातपस्काय' इत्यारभ्य, "न च मां योऽभ्यसूयति' (18.67) इति भावः । कर्मादिभिर्हि

भक्त्युत्पत्त्यादिविरोधिपापनिरसनम् ; भक्त्या तु भगवत्प्राप्तिविरोधिसमस्तपापनिरस्तं हि प्रमाणसिद्धिमि त्य

भिप्रायेण मत्प्राप्तिविरोधिनः सर्वस्मादशुभादित्युक्तम् । अशुभशब्दस्यात्र स्वर्गाद्यपरपर्यायव्यामोहनन #िर

यहेतुभूतपुण्यशब्दाभिलप्यपापविषयत्वमपि सर्वस्मादित्यनेन विवक्षितम् ।।1 ।।

09.02-02

उपायान्तरेभ्योऽस्योपायस्यातिशयं दर्शयति राजविद्येति । राजशब्दस्यात्र क्षत्रियविषयत्वे "विशे

षविधिः शेषनिषेधं गमयति' इति न्यायात् ब्रााहृणादेरनधिकारप्रङ्गात् राज्ञां विद्येति विग्रहमनादृत्याह

विद्यानां राजा....गुह्रानां राजेति । समानाधिकरणसमामफलमनुरुध्येदमुक्तम् ; शब्दार्थस्तु राजभूता

विद्येति । राजदन्तादिषु वा पाठो द्रष्टव्यः । पवित्रमिदमुत्तममित्युत्तमशब्दसमानन्यायतया राजशब्दोऽ

त्र श्रेष्ठवाची । एवमप्रसिद्धार्थक्लेशसहमान आह राज्ञां विद्येति । ब्रााहृणादेरधिकारनिषेधपरत्वशङ्का

परिहारायोबचारनिमित्तं गुणं दर्शयति राजानो हीति । फलितमाह महामनसामिति । अजहल्लक्षणा वा

गौणी वा वृत्तिरिह विवक्षिता । अन्यैज्र्ञातुमशक्यत्वादिति भावः । राजगुह्रमित्यस्यापि सप्रयोजनत्वायौप

चारिकार्थत्वं दर्शयतिमहामनस एव हीति । उपायविरोधिनिवर्तक 2. कतिपयनिवर्तकव्यवच्छेदार्थमुत्तम

शब्दविशेषितपवित्रशब्दविवक्षितमाह मत्प्राप्तीति । प्रत्यक्षावगममित्यत्र प्रत्यक्षरूपज्ञानपरत्वे नपुंस कत्वा

योगात्, ज्ञानस्यैव विशेषस्य ज्ञानमेव विशेषणीकृत्य बहुव्रीह्रयोगाच्च कर्मणि व्युत्पात्त्या बहुव्रीहित्वं

घटयति अवगम्यत इत्यादिना । नन्विदमयुक्तम्, उपासनस्य स्मृतिसन्ततिरूपत्वात्, उपास्यस्य चाप्रत्यक्षत्वश्रुतेः,

प्रत्यक्षस्य तु विषयान्तरस्य भक्तावनन्वयादित्यत्राह भक्तिरूपेणेति । "भक्त्या त्वनन्यया

शक्यः ' (गी.11.54) इत्यादिकमिह भाव्यम् । तदानीमेवेत्यासतिवशादुक्तम् । स्वयं फलभूतानां हि

फलान्तरसाधनत्वरूपं धर्मत्वं दुर्लभमित्यभिप्रायेणाह अथापि धम्र्यमिति । ""धर्मपथ्यर्थन्यायादनपेते

(अष्टा.4.4.92) इति सूत्रानुसारेण धम्र्यशब्दं निर्वक्त धर्मादिति । अभिप्रेतं विवृणोति धर्मत्वं हीत्यादिना

। प्रीतिपर्यायधृतिवाचके धातौ करणविवक्षया व्युत्पन्नो ह्रं धर्मशब्द इति भावः ।उक्तं चाभियुक्तैः, '"धर्म

इत्युपसंहार्ये यच्छ्रेयस्करभाषणम् । तत् धर्मपदवाच्यार्थनिरूपणविवतक्षया इत्यादि ।

श्रेयसोऽत्रावच्छेदकाभावात् ""मुक्तिः कैवल्यनिर्वाणश्रेयोनिशश्रेयसामृतम् (नाम.1.धी.46) इति नैधुण् टुक

पाठाच्च निरतिशयेत्यादिकमुक्तम् । अत एवेति । स्वरूपतस्साध्यतश्च पुरुषार्थरूपत्वादित्यर्थः । कर्तुं

सुसुखं करणे सुसुखमित्यर्थः । सुसुखमित्यस्य तुमुनन्तक्रियाकर्मीभावभ्रमव्युदासायाह सुसुखोपादान

मिति । उपसर्गसुखशब्दयोरत्राभिप्रेतमाह अत्यर्थेति । स्वरुपतो विषयतश्चात्यर्थानुकूलत्वात् सुखेनानुष्ठे

यमित्यर्थः । फलविनाश्यं हि सर्वमन्यत्कर्म ; इदं तु सुकरमपि फलेनापि न क्षीयते ; अपवर्गरूपं फल

प्येतस्य नालमित्यतिशयपरोऽव्ययशब्द इत्यभिप्रायेणाह अक्षयमिति ।। 2 ।।

09.03-03

उक्तप्रकाराश्रद्धेयज्ञानानुष्ठानाभावे मोक्षो न सिध्यतीति दर्शयन्, स्वरुपतः फलस्य निरतिशयसुख

रूपस्य सर्वैरनुष्ठानाभावे हेतुं च वदन्, "नान्यः पन्था अयनाय ' (पु.) इत्यादिकमुपबृंहयति अश्रद्दधाना

इति श्लोकेन । अस्येति पूर्वोक्तसर्वाकारपरामर्श इत्याह निरतिशयेत्यादिना । धर्मस्येति संबनधसामा

न्यविषयायाः षष्ठयाः फलितान्वयप्रदर्शायाह उपादानयोग्यदशां प्राप्येति । यद्वा श्रद्धानिषेधस्तत्प्रसङ्ग #े

सति हीत्यभिप्रायः । कारणनिवृत्तेः कार्यानुष्ठाननिवृत्तिपर्यन्तत्वप्रदर्शायोक्तं विश्वासपूर्वकत्वारारहिता

इति । मृत्युरूप इति बाधकस्वरूप इत्यर्थः । अथवा मरणगर्भत्वादेव मृत्युरूपता । निवर्तन्ते इत्यत्र

प्रतिनिवृत्तिविवक्षायामवधिसाकाङ्क्षत्वात् अत्र च तन्निर्देशाभावात्, मामप्राप्येति पृथङ्निर्दिष्टत्वेन परम

पुरुषस्याप्वधिकल्पनायोगात्, संसारवत्र्मानीति सप्तम्याः स्वरसत आधेयसाङ्क्षत्वात्, उपसर्गाणां चानेका

र्थत्वात् नितरां वर्तन्त इत्युक्तम् । स्वरूपतः फलतश्च निरतिशयपुरुषार्थमयं संसारमादरेण सेवन्त

इति

। आश्चर्यतमो दुष्कर्मप्रभाव इत्यभिप्रायेणाह महदिदमाश्चर्यमिति । अश्रद्धाहेतव आन्तरशत्रवोऽपि

त्वया निराकार्या इति परन्तपेति संबुद्धेर्भावः ।। 3।।

09.04-05

एवमध्यायप्रधानर्थस्य प्रापकस्य माहात्म्यमुक्तम्; अथ प्राप्यमाहात्म्यद्वाराऽपि तदेव स्थिरीक्रियत इत् यभिप्रा

येणाह शृणु तावदिति । इदं सर्वमिति निर्देशः प्रमाणसिद्धसमस्तवस्तुपर इत्यभिप्रायेण इदं चेतनातचेत

त्मकमित्युक्तम् । अव्यक्तमूर्तिनेत्यस्य विग्रहविषयत्वेऽत्रानुपयोगात् स्वरूपविषयोऽयमौपचारिकः प्रयोग

इति दर्शयितुम् अप्रकाशितस्वरूपेणेत्युक्तम् । आकाशझ्र्दिटवत् संन्निधिमात्ररूपव्याप्तिव्युदासाय बहुप्रमाणसिद्धो

व्याप्तिप्रकारो मयेत्यनेनाभिप्रेत इत्याह अन्तर्यामिणेति । उक्तप्रकाराया व्याप्तेः प्रयोजनं तन्निदानं

च दर्शयति अस्त्येति । अत्र धारणमनन्तरग्रन्थसिद्धम् । अत एव नियमनमप्यर्थसिद्धम् । धारणं हि प्रशासनाधीनं

श्रूयते । शेषित्वं तु प्रागुक्तम्, शरीरित्वेनार्थसिद्धं च । अप्रकाशितस्वरुपत्वेन

च सर्वव्याÏप्त श्रुतौ दर्शयति यथेति । पृथिव्युदाहरणं तत्प्रकरणोक्तसर्वाचेतनोपलक्षणार्थम् । उक्तप्रक #ार

व्यापकत्ववशात् मत्स्थानीत्यनेन जगतः पृथक्सिद्धता निरस्यत इत्यभिप्रायेणाह तत इति । श्रीविश्वरूपा

दिषु विग्रहाश्रितत्वमपि सर्वस्योच्यते ; अत्र तु स्वरूपनिष्ठतेत्यपौनरुक्त्याय मय्यन्तर्यामिणीत्युक्तम्

। अनयोर्धारणनियमनयोरपि व्याप्त्या सहाधीततामाह (ततां दर्शयितुमाह) तत्रैवेति । स्थितिनियमने स्थितिप्रवृत्ती

इत्यर्थः । शरीरशरीरित्ववचनात् धृतिः शेषित्वं च तत्रार्थसिद्धे इत्यभिप्रायेणाह शेषित्वं चेति। "मया ततमिदं

सर्वम्' इत्भिधायैव, "न चाहं तेष्ववस्थितः' इति वचनं व्याहतम्, "यः पृथिव्यां तिष्ठन्' इत्यादिश्रुतिविरुद्धं

चेत्यत्राह अहं त्विति । मत्स्थानि सर्वभूतानीति प्रस्तुतप्रकारा स्थितिरत्र

निषिध्यते । "स भगवः कस्मिन् प्रतिष्ठितः' इत्यत्र, " स्वे महिम्नि ' (छा.24.1) इति हि श्रूयत इति भावः

। मत्स्थिताविति । न कश्चिदिति स्वरूपतः सङ्कल्पादृष्टादिना वेति भावः । उक्तं विवृणोति मत्स्

थितानीत्येतत् । व्यातमित्यत्राह न घटादीनामिति । मूर्तं हि मूर्तान्तरं पतनप्रतिघातिना संयोगेन धारय

ति ; न तथाऽत्रेति भावः । लोकदृष्टिविपरीतं न संभवतीत्यभिप्रायेण शङ्कते कथंमिति । शरीरशरीरिणोरिव संभवमभिप्रेत्याह

मत्सङ्कल्पेनेति । स्वेच्छाधीनधारकत्वं हि विहितम्; अस्वतन्त्रतया

धारकत्वं तु निषिध्यत इत्यविरोध इति भावः । ऐश्वरमित्यनेनान्यसाधारणत्वं फलितम्, पश्येत्यनेन च

आश्चर्यता द्योतितेत्यभिप्रायेणाह अन्यत्रेति । "" योगः, युज्यमानस्वभावादिर्वा पश्य मे योगमित्युक्ते य #ोग

स्वरूपमेवानन्तरं वक्तव्यमिति तदाकाङ्क्षां दर्शयति कोऽसाविति । भूतभृन्न च भूतस्थः इत्यत्रार्थीचित्या

दहमित्येव विशेष्यम् । अथवा भूतभावनः इतिवत् ममात्मेति व्यधिकरणनिर्देशस्वारस्यसिद्धमात्मशब्दार्

थमाह मम मनोमयस्सङ्कल्प इति । एतेन देहादिसङघातेऽहङ्कारमध्यारोप्य लोकबुद्धयनुसारेण

ममात्मेति व्यपदेश इति शङ्करोक्तं प्रत्युक्तम् । सङ्कल्प एव मनःकार्यतयाऽन्यत्र प्रसिद्धो मनःप्रतिपादकेन

आत्मशब्देनात्र व्यपदिष्टः । यद्वा आत्मशब्दोऽत्र सङ्कल्परूपमनःपर एव, "मनसैव

जगत्सृष्टिम् ' (वि.5.22.15), मनोऽकुरुतस्यामिति' (वृ.1.2.1) इत्यादेः । तदर्थझ्र्ता?ज्ञापनाय तु मनो

मयशब्दः ।। 4-5 ।।



अथ नवमः

"" स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ।। (13)

इति संग्रह श्लोकमपि व्याकुर्वन् तदनुसारेणाष्टमनवमयोस्सङ्गतिं च दर्शयति उपासके त्यादिना । विशे

षाः ज्ञातव्येपादेयभेदाः । परमपुरुषमाहात्म्यस्य ज्ञानिनां विशेषस्य च प्रागेव पाकृतत्वात् तत्प्रभावविशोधन

मात्रमत्रोपासनातत्फलानुप्रविष्टतया क्रियतेः अध्यायप्रधानर्थस्तूपासनस्वरूपनिष्कर्ष इत्यभिप्रायेण विशोध्

ये ति विच्छिद्य भक्तिरूपस्ये त्यादि पृथगुक्तम् । भजनापासनशब्दयोरस्मिन्नेवाध्याये प्रकरणान्तरेषु च समानविषयतयैव प्रयोगवशात् श्रतिसिद्धोपासनस्यैवात्र भक्तिशब्देन विशेषणं कृतमित्यभिप्रायेण भक्तिरूपस्योपासनस्ये त्युक्तम् ।

अत्र इदं तु ते गुह्रमितम मिति ज्ञानस्योपक्रान्तत्वात्, मन्मना भवेति चोपसंह्यियमाणत्वात्, मध्ये च बहुशो भजनस्यैवाभ्यस्यमानत्वात्, प्रत्यक्षरूपत्वनिरतिशयप्रियत्वकीर्तनयजननमस्काररूपत्वादीनां चापूर्वाणां भक्तिस्वरूपानुप्रवेशिनां प्रकाराणां प्रतिपाद्यमानत्वात्, स्वरूपतस्साघ्यतया निरतिशयफलप्रतिपादनात्, राजविद्यै त्यादिना प्रशंसारूपार्थवाददर्शनाच्चात्रोपक्रमोपसंहारादितात्पर्यलिङ्

गैः भक्तिस्वरूपनिष्कर्षेऽध्यायस्य तात्पर्यम्; तदन्विततयाऽन्विततयाऽन्यदत्रोच्यत इत्यभिप्रायः । इदं तु ते

इति । अत्र प्राणविदपेक्षया सत्यविदोऽधिकत्ववत्, तु शब्देन कर्मयोगज्ञानयोगाभ्यामप्यस्याधिक्यं विवक्षितम् । तयोर्हि गुह्रत्वं गुह्रतरत्वं च ; इदं तु गुह्रतमम् । इदं च शुश्रूषातिशत्थापनार्थं गोपनाधिक्यशिक्षणार्थं चोक्तम् । उपबृंहणीयवेदान्तवाक्येष्विवात्रापि ज्ञानशब्दस्य वक्ष्यमाणविशेषपर्यायवसानप्रदर्शनाय भक्तिरूपमुपासनाख्यमि त्युक्तम् । उपासनागतविशेषज्ञानसहित

मिति 1.पूर्वोक्तविज्ञानादत्रत्यविज्ञानस्य भेदः ; तद्धि उपास्यादिविशेषज्ञानम् । उपासनगतविशेषः

उपासनप्रकारः । प्रस्तुतोपयिकमनसूयुत्वप्रकारं दर्शयति मद्वषय मिति । गुणेषु दोषाविष्करणचित्तवृत्ति

विशेषो ह्रसूया; तद्विपर्ययश्च गुणेषु गुणाध्यवसाय एव हीति भावः । एतेनोपदेशयोग्यायोग्यविभागेन शिष्य

शिक्षणं कृतम् । स्मरन्ति च विद्याय वचनम्, ""असूयकाय मां मा दाः (भा.मो.328.49) इत्यादि ।

वक्ष्यति च "इदं ते नातपस्काय' इत्यारभ्य, "न च मां योऽभ्यसूयति'(18.67) इति भावः । कर्मादिभिर्हि

भक्त्युत्पत्त्यादिविरोधिपापनिरसनम् ; भक्त्या तु भगवत्प्राप्तिविरोधिसमस्तपापनिरस्तं हि प्रमाणसिद्धिमित्य

भिप्रायेण मत्प्राप्तिविरोधिनः सर्वस्मादशुभा दित्युक्तम् । अशुभ शब्दस्यात्र स्वर्गाद्यपरपर्यायव्यामोहननिर

यहेतुभूतपुण्यशब्दाभिलप्यपापविषयत्वमपि सर्वस्मा दित्यनेन विवक्षितम् ।।1 ।।

उपायान्तरेभ्योऽस्योपायस्यातिशयं दर्शयति राजविद्ये ति । राज शब्दस्यात्र क्षत्रियविषयत्वे "विशे

षविधिः शेषनिषेधं गमयति' इति न्यायात् ब्रााहृणादेरनधिकारप्रङ्गात् राज्ञां विद्येति विग्रहमनादृत्याह

विद्यानां राजा....गुह्रानां राजे ति । समानाधिकरणसमामफलमनुरुध्येदमुक्तम् ; शब्दार्थस्तु राजभूता

विद्येति । राजदन्तादिषु वा पाठो द्रष्टव्यः । पवित्रमिदमुत्तम मित्यु त्तम शब्दसमानन्यायतया राज शब्दोऽ

त्र श्रेष्ठवाची । एवमप्रसिद्धार्थक्लेशसहमान आह राज्ञां विद्ये ति । ब्रााहृणादेरधिकारनिषेधपरत्वशङ्का

परिहारायोबचारनिमित्तं गुणं दर्शयति राजानो ही ति । फलितमाह महामनसा मिति । अजहल्लक्षणा वा

गौणी वा वृत्तिरिह विवक्षिता । अन्यैज्र्ञातुमशक्यत्वादिति भावः । राजगुह्र मित्यस्यापि सप्रयोजनत्वायौप

चारिकार्थत्वं दर्शयति महामनस एव ही ति । उपायविरोधिनिवर्तक 2. कतिपयनिवर्तकव्यवच्छेदार्थ मुत्तम

शब्दविशेषित पवित्र शब्दविवक्षितमाह मत्प्राप्ती ति । प्रत्यक्षावगम मित्यत्र प्रत्यक्षरूपज्ञानपरत्वे नपुंसकत्वा

योगात्, ज्ञानस्यैव विशेषस्य ज्ञानमेव विशेषणीकृत्य बहुव्रीह्रयोगाच्च कर्मणि व्युत्पात्त्या बहुव्रीहित्वं घटयति अवगम्यत इत्यादिना । नन्विदमयुक्तम्, उपासनस्य स्मृतिसन्ततिरूपत्वात्, उपास्यस्य चाप्रत्यक्षत्वश्रुतेः, प्रत्यक्षस्य तु विषयान्तरस्य भक्तावनन्वयादित्यत्राह भक्तिरूपेणे ति । "भक्त्या त्वनन्यया

शक्यः ' (गी.11.54) इत्यादिकमिह भाव्यम् । तदानीमेवे त्यासतिवशादुक्तम् । स्वयं फलभूतानां हि

फलान्तरसाधनत्वरूपं धर्मत्वं दुर्लभमित्यभिप्रायेणाह अथापि धम्र्य मिति । ""धर्मपथ्यर्थन्यायादनपेते

(अष्टा.4.4.92) इति सूत्रानुसारेण धम्र्यशब्दं निर्वक्त धर्मा दिति । अभिप्रेतं विवृणोति धर्मत्वं ही त्यादिना । प्रीतिपर्यायधृतिवाचके धातौ करणविवक्षया व्युत्पन्नो ह्रं धर्मशब्द इति भावः ।उक्तं चाभियुक्तैः, '"धर्म इत्युपसंहार्ये यच्छ्रेयस्करभाषणम् । तत् धर्मपदवाच्यार्थनिरूपणविवतक्षया इत्यादि ।

श्रेयसोऽत्रावच्छेदकाभावात् ""मुक्तिः कैवल्यनिर्वाणश्रेयोनिशश्रेयसामृतम् (नाम.1.धी.46) इति नैधुण्टुक

पाठाच्च निरतिशये त्यादिकमुक्तम् । अत एवे ति । स्वरूपतस्साध्यतश्च पुरुषार्थरूपत्वादित्यर्थः । कर्तुं

सुसुखं करणे सुसुखमित्यर्थः । सुसुखमित्यस्य तुमुनन्तक्रियाकर्मीभावभ्रमव्युदासायाह सुसुखोपादान

मिति । उपसर्ग सुख शब्दयोरत्राभिप्रेतमाह अत्यर्थे ति । स्वरुपतो विषयतश्चात्यर्थानुकूलत्वात् सुखेनानुष्ठे

यमित्यर्थः । फलविनाश्यं हि सर्वमन्यत्कर्म ; इदं तु सुकरमपि फलेनापि न क्षीयते ; अपवर्गरूपं फल

प्येतस्य नालमित्यतिशयपरोऽ व्यय शब्द इत्यभिप्रायेणाह अक्षय मिति ।। 2 ।।

उक्तप्रकाराश्रद्धेयज्ञानानुष्ठानाभावे मोक्षो न सिध्यतीति दर्शयन्, स्वरुपतः फलस्य निरतिशयसुख

रूपस्य सर्वैरनुष्ठानाभावे हेतुं च वदन्, "नान्यः पन्था अयनाय ' (पु.) इत्यादिकमुपबृंहयति अश्रद्दधाना

इति श्लोकेन । अस्येति पूर्वोक्तसर्वाकारपरामर्श इत्याह निरतिशये त्यादिना । धर्मस्ये ति संबनधसामा

न्यविषयायाः षष्ठयाः फलितान्वयप्रदर्शायाह उपादानयोग्यदशां प्राप्ये ति । यद्वा श्रद्धानिषेधस्तत्प्रसङ्गे

सति हीत्यभिप्रायः । कारणनिवृत्तेः कार्यानुष्ठाननिवृत्तिपर्यन्तत्वप्रदर्शायोक्तं विश्वासपूर्वकत्वारारहिता

इति । मृत्युरूप इति बाधकस्वरूप इत्यर्थः । अथवा मरणगर्भत्वादेव मृत्युरूपता । निवर्तन्ते इत्यत्र

प्रतिनिवृत्तिविवक्षायामवधिसाकाङ्क्षत्वात् अत्र च तन्निर्देशाभावात्, मामप्राप्ये ति पृथङ्निर्दिष्टत्वेन परम

पुरुषस्याप्वधिकल्पनायोगात्, संसारवत्र्मानीति सप्तम्याः स्वरसत आधेयसाङ्क्षत्वात्, उपसर्गाणां चानेका

र्थत्वात् नितरां वर्तन्त इत्युक्तम् । स्वरूपतः फलतश्च निरतिशयपुरुषार्थमयं संसारमादरेण सेवन्त इति

। आश्चर्यतमो दुष्कर्मप्रभाव इत्यभिप्रायेणाह महदिदमाश्चर्य मिति । अश्रद्धाहेतव आन्तरशत्रवोऽपि

त्वया निराकार्या इति परन्तपे ति संबुद्धेर्भावः ।। 3।।

एवमध्यायप्रधानर्थस्य प्रापकस्य माहात्म्यमुक्तम्; अथ प्राप्यमाहात्म्यद्वाराऽपि तदेव स्थिरीक्रियत इत्यभिप्रा

येणाह शृणु ताव दिति । इदं सर्व मिति निर्देशः प्रमाणसिद्धसमस्तवस्तुपर इत्यभिप्रायेण इदं चेतनातचेत

त्मकमि त्युक्तम् । अव्यक्तमूर्तिने त्यस्य विग्रहविषयत्वेऽत्रानुपयोगात् स्वरूपविषयोऽयमौपचारिकः प्रयोग इति दर्शयितुम् अप्रकाशितस्वरूपेणे त्युक्तम् । आकाशझ्र्#ादिटवत् संन्निधिमात्ररूपव्याप्तिव्युदासाय बहुप्रमाणसिद्धो व्याप्तिप्रकारो मये त्यनेनाभिप्रेत इत्याह अन्तर्यामिणे ति । उक्तप्रकाराया व्याप्तेः प्रयोजनं तन्निदानं च दर्शयति अस्त्ये ति । अत्र धारणमनन्तरग्रन्थसिद्धम् । अत एव नियमनमप्यर्थसिद्धम् । धारणं हि प्रशासनाधीनं श्रूयते । शेषित्वं तु प्रागुक्तम्, शरीरित्वेनार्थसिद्धं च । अप्रकाशितस्वरुपत्वेन

च सर्वव्याÏप्त श्रुतौ दर्शयति यथे ति । पृथिव्युदाहरणं तत्प्रकरणोक्तसर्वाचेतनोपलक्षणार्थम् । उक्तप्रकार

व्यापकत्ववशात् मत्स्थानी त्यनेन जगतः पृथक्सिद्धता निरस्यत इत्यभिप्रायेणाह तत इति । श्रीविश्वरूपा

दिषु विग्रहाश्रितत्वमपि सर्वस्योच्यते ; अत्र तु स्वरूपनिष्ठतेत्यपौनरुक्त्याय मय्यन्तर्यामिणी
त्युक्तम् । अनयोर्धारणनियमनयोरपि व्याप्त्या सहाधीततामाह (ततां दर्शयितुमाह) तत्रैवे ति । स्थितिनियमने स्थितिप्रवृत्ती इत्यर्थः । शरीरशरीरित्ववचनात् धृतिः शेषित्वं च तत्रार्थसिद्धे इत्यभिप्रायेणाह शेषित्वं चे ति। "मया ततमिदं सर्वम्'इत्भिधायैव, "न चाहं तेष्ववस्थितः' इति वचनं व्याहतम्, "यः पृथिव्यां तिष्ठन्'इत्यादिश्रुतिविरुद्धं चेत्यत्राह अहं त्वि ति । मत्स्थानि सर्वभूतानीति प्रस्तुतप्रकारा स्थितिरत्र

निषिध्यते । "स भगवः कस्मिन् प्रतिष्ठितः' इत्यत्र, " स्वे महिम्नि ' (छा.24.1) इति हि श्रूयत इति भावः

। मत्स्थिता विति । न कश्चि दिति स्वरूपतः सङ्कल्पादृष्टादिना वेति भावः । उक्तं विवृणोति मत्स्

थितानी त्येतत् । व्यातमित्यत्राह न घटादीना मिति । मूर्तं हि मूर्तान्तरं पतनप्रतिघातिना संयोगेन धारय

ति ; न तथाऽत्रेति भावः । लोकदृष्टिविपरीतं न संभवतीत्यभिप्रायेण शङ्कते कथं मिति । शरीरशरीरिणोरिव

संभवमभिप्रेत्याह मत्सङ्कल्पेने ति । स्वेच्छाधीनधारकत्वं हि विहितम्;अस्वतन्त्रतया

धारकत्वं तु निषिध्यत इत्यविरोध इति भावः । ऐश्वर मित्यनेनान्यसाधारणत्वं फलितम्, पश्ये त्यनेन च

आश्चर्यता द्योतितेत्यभिप्रायेणाह अन्यत्रे ति । "" योगः, युज्यमानस्वभावादिर्वा पश्य मे योग मित्युक्ते योग

स्वरूपमेवानन्तरं वक्तव्यमिति तदाकाङ्क्षां दर्शयति कोऽसा विति । भूतभृन्न च भूतस्थः इत्यत्रार्थीचित्या

दहमित्येव विशेष्यम् । अथवा भूतभावनः इतिवत् ममात्मेति व्यधिकरणनिर्देशस्वारस्यसिद्धमा त्म शब्दार्

थमाह मम मनोमयस्सङ्कल्प इति । एतेन देहादिसङघातेऽहङ्कारमध्यारोप्य लोकबुद्धयनुसारेण

ममात्मेति व्यपदेश इति शङ्करो क्तं प्रत्युक्तम् । सङ्कल्प एव मनःकार्यतयाऽन्यत्र प्रसिद्धो मनःप्रतिपादकेन आत्मशब्देनात्र व्यपदिष्टः । यद्वा आत्म शब्दोऽत्र सङ्कल्परूपमनःपर एव, "मनसैव

जगत्सृष्टिम् ' (वि.5.22.15), मनोऽकुरुतस्यामिति' (वृ.1.2.1) इत्यादेः । तदर्थझ्र्ता?ज्ञापनाय तु मनो

मय शब्दः ।