सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ८

विकिस्रोतः तः
← अध्यायः ७ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →

।।श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां अष्टमोऽध्यायः ।।

08.01.01

सङगतिप्रदर्शनायाह सप्तम इति । परस्य ब्राम्हणो वासुदेवस्योपास्यत्वमिति 'मय्यासक्तमनाः'

(1) इत्यादेरर्थः । तत्रैव ह्रुपासनं प्रस्तुतम् । तच्छेषतया चान्यत् सर्वमिहोच्यते । तस्यैव

प्रपञ्चनम् 'अहं सर्वस्य (कृत्स्नस्य?)...प्रभवः' (7.6), 'वासुदेवस्सर्वं ' (19), 'चतुर्विधा भजन्ते

माम्' (16) इत्यादिभिः परस्तात् क्रियत इति भावः । परस्येत्यादिभिरुपहितब्राहृ-व्योमातीतांदि

पक्षप्रतिक्षेपः । ब्राहृशब्दस्य विशेषशब्दसमभिव्याहारात् देवतान्तरव्यावृत्तिः । वासुंदेवशब्देनात्रवता र

विशेषो वा विवक्षितः । निखिलेत्यादिभिरुपास्यत्वपरब्राहृत्वोपयुक्ताकारकथनम् । निखिलशब्देन

सकार्यकारणादिरूपावस्था संग्रहात् कार्य "भूमिरापः' (4) इत्यादेः श्लोकस्यार्थः । ",मत्तः परतरं

नान्यत्' (7) इत्युक्तस्य परत्वस्य "मामेभ्यः परम्' (13) इत्यत्रोपयुक्ततया तत्रैवोदाहर्तुमत्र तदति-

क्रमेण 'मयि सर्वम्, (7) इत्याद्युक्ताधारत्वोपादानम् । 'रसोऽहम्' (8) इत्यादिसामानाधिकरण्य-

फलितं सर्वशब्दवाच्यत्वम् । तत्र हेतुराधारत्वादिविशेषसिद्धं सर्वशरीरकत्वम् । एवं शेषित्वाद्यनुवादेन

वक्ष्यमाणतत्तदधिकारिप्राप्यवस्तुविशेषसामानाधिकरण्स्यापि शरीराकत्वम् । एवं शेषित्वाद्यनुवादेन

वक्ष्यमाणतत्तदधिकारिप्राप्यवस्तुविशेषसामानाधिकरण्यस्यापि शरीरात्मभावहेतुकत्वं दर्शितम् ।

'मत्त एवेति तान् विद्धि' (12) इत्यादिषु प्रवृत्तितादधीकरण्यस्यापि विवक्षितत्वात् सिद्धं सर्व

नियन्तृत्वम् । सर्वैश्चेत्यनेन अनिरदिष्टानाम् अन्येषां च आभिप्रायिकाणां संग्रहः। तस्यैवेत्यवधाणेन

'नान्यत् किञ्चिदस्ति '(7) इत्यस्यार्थ उक्तः । 'त्रिभिर्गुणमयैः' (13) इति श्लोकस्य सार्धस्यार्थः

सत्त्वेत्यादिनोक्तः 'मामेव' (14) इत्याद्युक्तप्रपत्तेः सुकृतविशेषहेतुकत्वं 'जनास्सुकृतिनः' (16)

इत्यादेः पूर्वोक्ततिरोधानप्रकारवविशेष कथनरूपत्वात् सुकृतिप्रशंसाशेषत्वाच्च तदर्थोऽत्र पृथङ्नोपात्तः ।

'चतुर्विधाः' (16) इत्यादिकं सुकृततारतम्येनेत्यादिनाऽनुसंहितम् । उपासकभेदं चेत्यन्वयः ।

'तेषां ज्ञानी' (17) इत्यादेःश्वलोकद्वयस्यार्थो भगवन्तमित्यादिनोक्तः । 'वहूनां जन्मनाम् ' (19)

इत्यादिना 'सर्गे यान्ति परन्तप' (27) इत्यादेरध्यायशेषस्य अर्थमाह एषां त्रयाणामिति । ज्ञातव्यमिह

सिद्धिरूपं विवक्षितम् । उपादेयम् अनुष्ठेयम् । एतेन स्वयाथात्म्यम् (11) इत्यादिसंग्रहश्लोकस्यार्थौऽप #ि

प्रपञ्चितः । अयं त्वष्टमस्य संग्रहः, ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् । वेद्योपादेयभावानामष #्टमें

भेद उच्यते ।। (12) इति । अत्र भेदोक्तेरध्यायार्थत्वात् स्वरूपप्रपस्तावः प्रागेव कृत इति दर्शितम् ।

प्रस्तुतप्रपञ्चनमिति सङतिमाह इदानीमिति ।।अ

08.02.02

दजीवस्वरूपादिज्ञातव्यस्योपासनाद्युनुष्ठेयस्य च भेदजिज्ञासयाऽर्जुन उवाच किं तदिति । 'आर्तोजिज्ञास #ु#ः'

(7.16 ) प्रागेवाधिकारित्रयस्योक्तत्वात् ' जरामरणमोक्षाय' (29) इत्यादिषु यच्छब्दावृत्तिसामर्थ #्यादर्थस्वभावा

च्चाधिकारिभेदस्तेषां ज्ञातव्योपादेयवस्तुप्रतिनियमश्चार्जुन उवाच किंतद्ब्राहृेत्यधर्मरक्षरयाथात्म #्यार्थिविषयम्,

अधिभूतं चेत्यधर्मैश्वर्यार्थिविषयम् ; अधियज्ञः इति श्लोकस्तु अर्थस्वभावात् त्रयाणां साधारण इति विविनक्ति

जरामरणेति । कथमिति प्रकारप्रश्ने । अधियज्ञभाव इत्यर्थलब्धम् । अत्रैत्यैतत्च्छब्दः शास्त #्रसन्निध्युपाधिकः;

तच्चोतरग्रन्थे व्याख्यास्यति, "अत्र इन्द्रादौ मम देहभूते' इति । अस्मिन्नितींदंशब्दस्तु स्वप्रत्यतक्ष सन्निध्यु

पाधिकः;प्रत्यक्षा हीन्द्रादयोऽपि प्रष्टुरर्जुनस्य । एतच्छब्देदंशब्दयोद्र्वाविंशयोर्द्विपद(वचन)योरयं पुरुषः

प्रतिष्ठितः' इत्यादौ । यद्वा 2. अत्रेति यज्ञस्वरूपपरामर्शः । नियतात्मत्वं त्रयाणामपेक्षितम्; अत्र बह #ुवचन

मधिकारित्रयपरमित्यधिकारित्रयपरमित्यभिप्रायेणोक्तम् एभिरिुाभिरिति ।। 2 ।।

08.03.03

अक्षरं ब्राहृ परममित्यत्र उद्देश्योपादेयान्यथाभावनिरासायाह तद्ब्राहृेति निर्दिष्टमिति । ब्राहृ शब्दोऽत्र

परमात्मसाधम्र्यादुपचारवृत्तयेति भावः । अक्षरशब्दस्य निर्वचनं प्रतिपाद्यं च दर्शयति न क्षरतीत्यादिना।

क्षेत्रज्ञसमष्टौ श्रौतं प्रयोगं दर्शयति तथा चेति । लयोऽत्र 1. संश्लेषविशेषः । अथवा श्रुतावक्षरशब्द #ेन

उन्मग्नेचेतनांशः प्रकृत्यवस्थाविशेष एव अभिधीयत इति साक्षात्प्रलयार्थत्वेऽपि न विरोधः । तथाऽपि

शब्दप्रवृत्तिद्वारभूतचिदंशे तात्पर्यात् तदुदाहरणम् । परममक्षरमित्यत्र विशेषणाभिप्रेतमाह प्रकृतिविनिम #ुक्त

मात्मस्वरूपमिति । स्वभावशब्दार्थः प्रकृतिरिति । नियतसंबद्धमिति यावत् । किं तदित्याकाङ्क्षायाम्

अध्यात्मशब्दानुसारेणाह अनात्मेति । आत्मन्यधिवसनात् 2. संबध्यमानमित्यात्मशब्दनिर्वचनम् ।

तत

एव सिद्धमनात्मत्वम् । तद्वासनादिकं तत्संसर्गोपधिकाज्ञानकर्मवासनादिकम् । भूतसूक्ष्मादेज्र्ञातव्यत्वे

श्रुतिं दर्शयति पञ्चाग्निविद्यामिति । वेत्थ यथा पञ्चम्यामाहुतामाहुतावापः पुरुषवचसो भवन्ति

(छा.5.3..3) इत्युपक्रम्य, ""इति तु पञ्चम्यामाहुतावपः पुरुषवचसो भवन्ति (छा.9.1.) इत्युक्त्वा

"तद्य इत्थं विदुः' इत्यप्छब्दोपलक्षितपञ्चभूतसूक्ष्मवेद्यत्वं ह्रुक्तमिति भावः। ननूपायकर्तृभूतेदानीन् तनातम

स्वरूपपरित्यागेन परिशुद्धात्मस्वरूपकथनं मुमुक्षोः क्वोपयुक्तम्? भूतसूक्ष्मादिकथनं च किमर्थमित्यत्राह

तदुभयमिति ।.यथाक्रममन्वयः । अत्र पञ्चमाहुतेर्विवक्षितत्वात् योनिजभूतविषयोऽयं भूतशब्द भूतभाव

इति । मनुष्यत्वादिविशिष्टशरीरयोग इत्यर्थः । विशिष्टस्य विसर्गस्य ज्ञातव्यत्वे तस्य मनुष्यादिभाव

हेतुत्वे च श्रुतिं दर्शयति पञ्चम्यामिति । तदेव दर्शयति पञ्चम्यामिति । अत्र मूत्रमरुन्मलादि

विसर्गव्यवच्छेदार्थमुक्तं भूतभावोद्भवकर इति । तदेव दर्शयति योषित्संबन्धज इति । विसर्गविशेषण

सामथ्र्यादेतत् सिद्धम् । एवं कर्मसंज्ञितरेतोविसर्गज्ञानस्य सप्योजनतामाह तच्चाखिलमिति । अत्र

कर्माभिप्रायेण नपुंसकनिर्देशः । अखिलं मनुष्यत्वमृगत्वजातिभेदहेतुतयाऽनेकप्रकारम् । सानुबन्धं

हेतुभूतैः कर्मभिः फलभूतैश्च गर्भवासादिभिस्सहितमित्यर्थः । पञ्चाग्निविद्यायामचितस्सर्वावस्थानुयायित्व

दुस्त्यजत्वगर्भजन्मादिदु:खकरत्वादेः फलितत्वात् जुगुप्सनीयतारूपा भयावहत्वरूपा चोद्वेजनीता

युक्ता; परिहरणीयता सिध्येदित्यत्राह परिहरणीयता चेति ।। 3 ।।

08.04.04

ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टमित्येतत् 2.अधिदैवतेऽप्यनुषञ्जनीयम् । अधिभूतक्षरशब्दनिर्वचनानु

रोधेन व्याख्याति वियदादि शब्दः । शब्दाद्यवस्थातद्वतोर्भोग्ययोद्र्वयोरपि क्षरशब्देन संग्रहणाय क्षरणस #्वभाव

इति निर्वचनम् । नश्वर इत्यर्थः । विलक्षणा इति । 'क्षरो भावः' इत्येकवचनं जात्याभिप्रायमिति भावः ।

प्राप्याः प्राप्यत्वादित्यर्थः । अधिदैवतशब्दे रूढिभ्रमव्युदासायाह अधिदैवतशब्दनिर्दिष्ट इति । तन्निरु क्तिः

देवतोपरिवर्तमान इति । देवतोपरीति संबन्धसामान्यषष्ठया समासः । दैवतशब्दस्यात्र सर्वैश्वरात्

सङगोचं देवतान्तरेष्वभिव्याÏप्त चाह इन्द्रेति । उपरि वर्तमानत्वमिह न केवलं देशाद्यपेक्षया; किंतु भोग

प्रकर्षादपीत्यभिप्रायेणत्याह(णाह?) इन्द्रेत्यादि पुरुष इत्यन्तम् । ननु पुरुषान्तरमिहाविवक्षितम्;

स्वात्मस्वरूपपुरुषानुसन्धानमधिकार्यन्तरस्यापि समानम् ;ततोऽत्र को विशेष इत्यत्राह चेति । न परिशुद्ध

स्वरूपमिहानुसन्धेयम्; न चाशुद्धेऽपि हेयत्वमिह भाव्यम्; पुरुषशब्दनिर्देश्चात्र भावप्रधान इति भावः ।

अहमेवेति क इति प्रश्नस्योत्तरम् । कथमिति प्रश्नस्योत्तरत्वं तदभिप्रेतं तदभिप्रेतं विवृणोति अधियज्ञ

इति । यज्ञे संबध्यमानोऽधियज्ञः । तत्र च सर्वेश्वरस्याऽऽराध्यतया संबन्ध इत्याह यज्ञराराध्यतया

वर्तमान इति । इन्द्रादयो हि तत्र आराध्याः श्रुताः; तत् कथमहमेवेत्युच्यत इत्यत्रोत्तरम् अत्र देहे

इत्यनेन विवक्षितमिति दर्शयति अत्रेन्द्रादाविति । 'अधियज्ञोऽहमेवात्र देहे' इतीश्वरेणाभिधीयमानत्वात्

तद्देहविषयत्वं प्रतीतम्; स चेश्वरदेहः यज देवपूजायामिति याज्यदेवतापेक्षयज्ञप्रसङादिन्द्रादिरेवेत्यभिप #्रायेण

ऊक्तम् इन्द्रादाविति । "यां यां तनुम्' (7.21) इति प्रागुक्तं स्मारयति मम देहभूत इति प्रयोगः देह

भूतकेवलेन्द्रादिदिव्यवच्छेदार्थम् अहमेवेत्वधारणम् । पूर्वनिर्दिष्टब्राहृाध्यात्मकर्माधिभूताधिदैववन्न तत्वान्तरमिति

ज्ञापनार्थं वा । 'विष्णुस्सर्वा देवताः' (ऐ.ब्राा.) इति च श्रुतिः । एतेन कथमिति प्रश्नस्याप्युत्तरं दत्तम् ।

तत्तद्विशिष्टस्याराध्यत्वात् । देहभृतां वरेत्यनेनाध्यात्मचिन्तानुगुणसत्त्वोत्तरदेहेन्द्रियादिमत्त्वम्, स्वस्यालौकिके

न्द्रादिदेहवत्त्वे निदर्शनं ,चाभिप्रेतम् । एवंविधाधियज्ञविज्ञानमनुष्ठानानुप्रविष्टम्; न तु तदुपकारक मात्रम्,

न चैश्वर्यार्थिमात्रविषयमिति दर्शयति इति महायज्ञेति । अकरणनिमित्तानर्हतादिपरिहाराय त्रयाणामवश्यकर्

तव्यताद्योतनाय नित्यनैमित्तिकोक्तिः ।। 4 ।।

08.05.05

प्रयाणकाले इत्यस्य प्रश्नस्य संग्रहेणोत्तरम् अन्तकाले इति श्लोकः । अतो न ज्ञानिमात्रविषय इत्यभिप्राय #े

णाह इदमपीति । अधियज्ञपदार्थझ्र्वत् अर्थ? स्वभाव्यात् वक्ष्यमाणप्रकारच्चेति भावः। अन्वयं

दर्शयति अन्त

काले चेति । मद्भावं यातीत्यत्र श्रुत्यादिविरुद्धतादात्म्यावाप्तिभ्रमव्युदासायाह मम यो भाव इति ।

नन्वीश्वरस्वभावप्राप्तयविशेषे अधिकारिभेदश्च न स्यादित्यत आह तदानीमिति । तत्तदनुसन्धेयाकारविशेष

साम्यप्राप्तिर्विवक्षिता । साम्यं च स्वरूपभेदके(क)वैधम्र्यै स्थिते सत्येवेति न कश्चिद्दोष इति भावः । एवं

प्रश्वनाः प्रत्युक्ताः नास्त्यत्र संशयः इत्यनेन अभिप्रेतां प्रयोजकप्रसिद्धं दर्शयति यथाऽऽदिभरतादय इति ।

एतेनोदाहरणेनापि तादात्म्यभ्रमो निरस्तः; न ह्रादिभरतस्य स्मर्यमाणमृगेण तादात्म्यम् ; अपि तु तत्समानाक #ा

रमृगशरीरपरिग्रह एंवेति तत्रैव प्रसिद्धम् । तदानीं देहवियोग काल इत्यर्थः ।। 5 ।।

08.06.06

न केवलमीश्वरविषयान्तिमप्रत्ययस्वभावोऽयमिति मन्तव्यम् , कितु सर्वसाधारणमिदंमत्राप्युक्तमिति प्रयोजक

कारो यंयंमिति श्लोकेनोच्यत इत्याह स्मर्तुंरिति । अन्ते अन्तकाले इति । वीप्सया, वाऽपीत्यनेन च

स्मर्तव्यविषयनियमो नीचोत्तमविषयवैषम्याभावश्च दर्शितः । तंतमिति वीप्सया त्वसङकीर्णतत्तत्प्राप्तिः ।

अवधारणेन प्रबलपुण्यान्तरेणापि तस्या दुर्वारत्वं च विवक्षितम् । भावशब्दोऽत्र स्वभावपरः । धर्मिप्रत्य यस्तु

नान्तरीयकः । भावशब्दस्यात्र पदार्थपरत्वे प्रस्तुतभावशब्दवैरूप्यम्, तंतंमेतीति साजात्यलक्षणा च ।

तंतमेवैतीत्यत्र यत्र क्वचन जनमनि सर्वसाधारणतज्जातियोगमात्रव्युदासायोक्तम् । मरणानन्तरमिति ।

न ह्रादिभरतमृगत्वे जन्मान्तरव्यवधानम् । " सदा तद्भावभावितः' इत्यनेनान्तिमस्मृतिहेतुर्विवक्षित इत्याह

अन्तिमप्रत्ययचेति । तद्भावभावितः तद्भावनावासित इत्यर्थः । तस्मिन् भावो भावितो येनेति वा तद्भाव भावितः ।। 6 ।।

08.07.07

एवमन्तिमप्रत्ययाधीने फले, अन्तिमप्रत्यये चानवरतभावनाधीने, भवताऽपि तथाविधाभावना तदनुग्राहकं

कर्म च कर्तव्यमित्युच्यते तस्मादिति श्वलोकेन । सर्वेषु कालेष्वित्यनेन, 'स खल्वेवं वर्तयन्

यावदायुषं

ब्राहृलोकमभिसंपद्यते' (छा.8.15.1), ""प्रायणान्तमोङ्कारमभिध्यायीत(प्र.5.1) इत्यादिश्रुतिश्चानुस्मृत #ेत्यभि

प्रायेण आप्रयाणादित्युक्तम् । सूत्रं च ""आप्रयाणात् तत्रापि हि दृष्टम् (4.1.12) इति । प्रतिमासं प्रति

पक्षमनुस्मनुस्मरणेऽपि आप्रयाणादिति वक्तुं शक्यमिति तद्वयुदासाभिप्रायेण बहुवचनमित्याह अहरहरिति ।

तं पूर्वापररात्रेषु युञ्जानः ( ) इत्यादिविहितैकाग्रतानरूपसात्त्विककालेष्वित्युक्तं भवति । तथा च

सूत्रं, ""यत्रैकाग्रता तत्राविशेषात् (4.1.13) युध्य च इति विहितस्य युद्धस्य अत्र 'फलत्वत्वसन्निधा वफलं

तदङ्गम्' इत्यादिन्यायादनुस्मृत्यङ्गत्वम् सिद्धम् । तच्च युद्धमत्र प्रस्तुतत्वादुपलक्षणतयोक्तम्';

ततश्च प्रमाणसिद्धं यथास्वं(स्व?)वर्णाश्रम(मं?) कर्मावश्यं कर्तव्यमित्युक्तं भवतीत्यभिप्रायेणाह अहरहर नुस्मृति

करं युद्धादिकमिति । वर्णाश्रमानुबन्धीत्युपलक्ष्यसंग्राहकाकारः । चोदितमित्यनेन शमादिविधेश्चोदित

व्यतिरिक्तविषयत्वं सूचितम् । नित्यनैमित्तिक शब्देन फलाभिसन्धिपूर्वकर्मव्युदासः । मध्यर्पितमनोबुद्धि

रित्यस्य उक्तार्थानुवादरूपत्वं दर्शयति एवमिति । उपायेन । कर्मादिरुपेणेत्यर्थः। अनुस्मरणमेवात्र

मनसोऽर्पणम्; वुद्धेर्पणं तु फलप्रदात्वाध्यवसायः । प्रकरणसिध्दावान्तरव्यपारकथनम् अन्तकाले च मामेवस्मरन्निति।

यद्वा अत्र,उपायेनेति कर्मानुगृहीतानुस्मृतिरेवोच्यते। तत्फलं मय्यर्पितमनोबुध्दिरिति।।

तस्यैवार्थः अन्तकाले च मामेवस्मरन्निति।। पूर्वोत्तरानुवृत्ताधिकारित्रयसाधारण्यायाहा यथाभिलषितप्रकारं

मामिति।। निस्संशयेषु सर्वेषु नित्यं वसति वै हरिः । ससंशयान् हेतुबलान् नाध्यावसति माधवः(भा.मो.359.71)

इत्यादिवत् असंशय इत्यस्यार्जुनविशेषणत्वेऽपि फलितमाह नात्र संशय इति । 'अ.मानोनाः

प्रतिषेधे (काव्यानु) इति वचनादकारो वाऽत्र पृथगनुसन्धेयः । "एतमितः प्रेत्याभिसंभवितास्मिति यस्य

स्यादद्धा न विचिकात्साऽति' (छा 3.14.4) इत्यादिकमत्रानुसन्धेयम् ।। 7 ।।

08.08.08

अन्तिमप्रत्ययप्रसङगात् तद्धेतुतया अनुस्मरेत्युपासनं प्रस्तुतम्; थ् तत्प्रकारभेदोऽनन्तरघट्टकार्थ

इत्य भिप्राये

णाह एवमिति । गतिभेदोऽपि वक्ष्यमाणोऽनेनोपलक्षणीयः । अभ्यासेत्यादिश्लोकत्रयार्थमाह तत्रेति ।

योगशब्दस्य संबन्धमात्रपरत्वे नैरर्थक्यवादत्र ध्यानपरत्वं वक्तुं युक्तम्, तत्पुरुषाच्च द्वन्द्वस्योभय पदार्थप्रधान

त्वात् परिग्राह्रत्वमस्ति इति तदाह अभ्यासयोगाभ्यामिति । नान्यगामिनेत्येतत् नैकादिशब्दवत् ।

अनन्यगामिनेत्यर्थः । अन्यत्र विषयान्तरे गन्तुं शीलं नास्येति नान्यगामि । अभ्यासयोग शब्देन

प्राचीनचिन्तनस्योक्तत्वात्, अनुचिन्तयन्नित्येतत् अन्तिमस्मृतिपरमिति प्रदर्शनाय अन्तकाल इत्युक्तम् ।

चिन्तनस्य ध्यानस्य च पुरुष एवात्र कर्म;स च परमशब्देन विशेषितत्वादीश्वर एवेत्यभिप्रायेण मामिति

पदद्वयम् । दिव्यमित्यस्य सूर्यमण्डले स्थितमिति शङकरोक्तं निर्मूलम्, आदित्यवर्ण तमसः परस्तादिति । 1.

वक.वकमाणविरुद्धं चेत्यभिप्रायेणाह वक्ष्यमाणप्रकारमिति । अनन्तरश्लोकद्वयेनेति शेषः । कथमैश्वर्यार #्थिनो

ऽनपेक्षितपरमपुरुषप्राप्तिः फलतयाच्यत इत्यत्राह आदिभरत्वेति । अन्तकाले स्मर्यमाणभोगप्रदानोपयुक्ता

कारविशिष्टपरमपुरुषसमानैश्वर्यप्राप्तिरिह परमपुरुषप्राप्तिरिह परमपुरुषप्राप्तिः ।तत्साम्यापत्तिरेव हि तत्

प्राप्तितया यंयमिति श्लोकेनोदार्थमाह अभ्यास इति । पुनः पुनरिति वचनान्मध्येऽवश्यम्भाविभिःकैश्चित्

व्यवधानं सूचितमित्यभिप्रायेणोक्तम् नित्यनैमित्तकाविरुद्धेष्? सर्वेषु कालेष्विति न केवलंयोगकाले,

तदातनस्य शीलनस्य योगशब्देनोपात्तत्वादिति भावः। -----(म्बणम्) आलम्बनम्; तच्चात्रोपास्यशब्देन व्याख्

यातम् । योगशब्देनात्राङ्गिस्वरूपमुच्यत --इत्येणाह योगस्विति । यथोक्तेति । अत्यर्थप्रियविशदतम प्रत्यतक्षतापन्नेत्यर्थः ।। 8 ।।

08.09.09

क्रान्तादर्शी हि कविरित्युज्यते; अत्र तु कविशब्दः ईश्वरविषयत्वात् सर्वदर्शित्वपर इत्यभिप्रायेणाह सर् वज्ञ

मिति । पुराणशब्देनानादित्वं विवक्षितमित्यभिप्रायेणोक्तं पुराणमिति । अनुपूर्वः शासिर्विविच्य ज्ञापनार #्थं

इत्येतावन्मात्रपरत्वव्युदासाय विश्वस्य प्रशासितारमित्युक्तम् । ईश्वरस्य सतोऽनुशासनमाज्ञापनार्थं

इत् येताव

न्मात्रपरत्वव्युदासाय विश्वस्य प्रशासितारमित्युक्तम् । ईश्वरस्य सतोऽनुशासनमाज्ञापनमेवेति भावः । अनु शा

सनझ्र्स्यटकर्मकाङ्क्षायां(सनं कस्येत्याकाङक्षायां) सर्वस्य धातारमित्यत्र(तः?) सर्वस्येति पदमाकर्षणीयम् ;

विशेषनिर्देशाभावाद्वा सर्वविषयत्वमित्यभिप्रायेण विश्वस्येत्युक्तम् । एतस्य वा अक्षरस्य प्रशासने गा र्गि

द्यावापृथिविव्यौ विधृते तिष्ठतः (बृय5.8.9) इत्यादिकमत्र भाव्यम् । अन्तः प्रविष्टशास्ता जनानाम्' '

(य.आ.3.3) इत्यादिषु प्रशासनसहपठितान्तःप्रवेशौपयिकसूक्ष्मतरत्वमत्र अणोरणीयांसमित्युच्यत इत्यभिप्राये

णोक्तम् सूक्ष्मतरमिति । 'धाता पुरस्तात् यमुदाजहार' (पु), "सूर्याचन्द्रसौ धाता यथापूर्वकल्पयत्' (ना.)

इत्यादिषु धातृशब्दस्य रुाष्टरि प्रयोगात् धातूनां चानेकार्थगर्भत्वात् सर्वस्य रुाष्टारमित्युक्तम् । " विष्णुना

विधृते भूमी' (.यजु.आ.1.27), " सर्वाधारं धाम विष्णुसंज्ञम्' (मै.उ.) इत्युक्तं सर्वाधारत्वं सर्वरुाटुरेवेति फलि

तोक्तिर्वा । उक्तप्रकारस्येश्वरूपस्य सामान्यतो दृष्टैस्तर्कैरसंभवावनीयतां केचिदभिमन्येरन्निति तन्निरासपरम्

अचिन्त्यरूपमिति पदमित्यभिप्रायेणाह सकलेतरविसजातीयस्वरूपमिति । वर्णयोगस्य स्वरूपेणाधाटनात्

प्रमाणसिद्धविलक्षणविग्रहद्वारा तद्योगमाह आप्राकृतेति । ""येन सूर्यस्तपति तेजसेद्धः (काठके.3.9.7),

"यस्याऽऽदित्यो मामुपयुज्यत भाति', (...), 'तस्य भासा सर्वमिदं विभाति' (मु.2.2.11)

'तं देवा ज्योतिः' (बृ.6.4.16) इत्यादिषु निरतिशयदीप्तियोगः सिद्धः । "आदित्यवर्णं तमसः परस्तात्'(ना)

इति श्रुतिखण्डस्यात्र निवन्धः, "तमसस्तन्महिनाजायतैकम्' (अष्ट.2.4.9), यदा तमः'(श्वे.4.18)इत्यादि

श्रुत्यन्तरोपलक्षणार्थः । तेन तमसः इति सर्वकारणभूततमोद्रव्यविवक्षा । तमसः परस्तादित्यनेन फलितमप्रा

कृतत्वम्:; तत एव चाकर्मधनत्वं नित्यत्वं निरवद्यत्वमित्यादि सूचितम् । एतच्छ्लोकच्छायश्च मा श्लोकः,

प्रशासितारं सर्वेषामणीयांसमणीयसाम् । रुक्माभं ,स्वप्नधीगम्यं विद्यात्तु पुरुषं परम् (12.122) इति ।

अनुकूलानां हितरमणीयत्वाद्यकारेण हिरण्यवर्णत्वरूक्माभत्वादिव्यपदे-? प्रतिकूलदुष्प्रेक्षत्वप्रकाशातिरे कादि

विवक्षया आदित्यशब्दस्य नित्यचैतन्यप्रकाशपरत्वं, तमश्शब्दस्य चाज्ञानविषयत्वं परोक्तं निरस्तम् ।

श्लोकद्वयस्यान्वयं दर्शयति तमेवंभूतमित्यादिना । भक्त्या युक्तो योगबलेनेति---निर्देशात् परोक्तप्राण 1 (?)

जयबलादिपृथगर्थताप्रतीतिः स्यादिति तदपाकरणाय विशिष्टैकार्थतां दर्शयितुं भक्त्यायुक्तो योगबलेनत्युक्तम्।

मनसोऽचलत्वे हेतुरिदम्; तस्य चावान्तर व्यापारः योगपर्याययुक्तशब्देन विवक्षित इत्याह

आरुढसंस्कारतयेति । आवेश्येत्यनेन योगप्रकरणेषूक्तं निश्चलावस्थापनं विवक्षितमित्याह संथाप्येति। अत्र

पुरुषध्यानस्यापि भ्रूमध्यमेव देशः, देशान्तरानभिधानात् योगप्रकरणान्तरेषूपदेशाच्च तत्सिद्धेरिति विभाव्योक्तं

तत्र भ्रूधम्य इति।तमेवंभूत दिव्यं पुरषम् इत्यन्वयः।तं तमेवैति इत्यवधारणदर्शनात् स तं परं पुरुषमित्यत्रापि

तमितीतरव्यवच्छेदपरमित्यभिप्रायेणाह स तमेवोपैतीति। ' यः प्रयति स मद्भावं याति' इति

प्राकान्तप्रकार एवात्र विवक्षित इति दर्शयति तद्भावं यातीति।भावप्रधानोऽत्र निर्देश इति भावः।तत्र तादात्म्यदिभ्रमं

व्युदस्यति तत्समानैश्वर्यो भवतीत्यर्थ इति।परसाम्यपतिव्यवच्छेदाय समानैश्वर्य इत्युक्तम्। एतेन कविमित्यादिभिः

सर्वज्ञत्वादयो गुणाः ' ऐश्वर्यप्रदत्वार्थमनुसन्धेयतयोक्ताः, न तु प्राप्यत्वार्थमिति फलितम्।एवमन्तिमकालस्मर्तव्यतया

निर्दिष्ट एवाऽऽकारः प्रागपि ध्येयतयोक्त इति मन्तव्यम्। एवमुत्तरत्रापि।।9-10।।

08.11.11

अथ मन्दप्रयोजनो(क्त)परव्याख्याप्रतिक्षेपाय यदक्षरमित्यादिश्लोकत्रयस्यार्थमाह अथेति।स्मरणशब्दोऽत्रोपासननस्यान्तिमप्रत्ययस्य

च संग्राहकः, उभयोरपि स्मृतिविशेषात्।' नावेदविन्नुते तं बृहन्तम्' (काठ. 3.9.7.) इत्युक्तप्रमाणान्तरागोचरत्वपरेण

वेदविदो वदन्ति इत्यनेन सूचितवेदोक्तप्राकरकथनम् अस्थूलत्वादिगुणकमिति।' अस्थूलमनण्वह्नस्वम्' (बृ.5.8.7.)

इत्यादिश्रुतिरिह विवक्षिता।ब्राहृचर्यम् ऊध्र्वरेतस्त्वादिकम्।यद्वना ' अथ तत् यज्ञ इत्याचक्षते, ब्राहृचर्यमेव तते......अथ

यदरण्यायनमित्याचक्षते, ब्राहृचर्यमेव तत् (छाय 8.5.1) इति श्रुतेः ब्राहृप्राप्त्यर्था या काचिदपि चर्या ब्राहृच

र्यम् वीतरागा यतय एव यदिच्छन्तो ब्राहृचर्यं चरनतीत्यत्रापि कर्तारः । एतेन फलोपाययोः प्रदर्शनम् ।

पदशब्दस्यात्र रूढार्थानुपपत्तेरुपपन्नं योगमाह पद्यत इति । अत्र पदशब्देन ज्ञानविषयत्वमुखेन उपास्यत्वादिकमभिप्रेतमित्याह

गम्यते चेतसेति । यत्तच्छब्दाभिप्रेतां प्रसिद्धिमाह निखिलेति । अक्षरशब्द

स्यात्र विकारादिदोषरहितपरमात्मविषयत्वात् मत्वस्वरूपमित्युक्तम् । स्वसाधारणं रूपमित्यर्थः । अक्षरूप

परमात्मोपासनमत्राक्षरस्वरूपजीवात्मप्राप्यर्थम् ।।

08.12-13

सर्वद्वाराणि संयम्येत्येत्यत्र नवद्वारप्रतीतिनिरासाय प्रत्याहारविषयताद्योतनाय चाऽऽह सर्वाणि श्रोत् रादीनीति

द्वारानुबन्धरहितस्पर्शनादीन्द्रियाणां कथं द्वारशब्दार्थतत्यत्रोक्तं ज्ञानद्वारभूतानीति । संयमनमत्र श ब्दादि

विषयौन्मुख्यवनिवर्तनमित्यभिप्रायेणाऽऽह स्वव्यापारेभ्यो विनिवत्र्येति । मनो ह्मदि निरुध्य चेत्यत्र ह्मन्मात्रस्

य ध्येयता अनुपपन्नेत्यत्रोक्तं ह्मदयकमलनिविष्टे मय्यक्षर इति । ह्मच्छब्दोऽऽत्र तत्रत्यपुरुषलक्षकः ;

अन्यथा "मामनुस्मरन्' इत्यनन्तरोक्तिर्न घटतेति भावः । अर्थक्रमेण बलवता दुर्बलस्य पाठक्रमस्य बाधमभि

प्रेत्य मनो ह्मदि निरुध्येत्यस्यानन्तरम् आस्थितोयोगधारणामित्यादिकं व्याख्यातम् । प्रत्याहारनन्तरपठित

धारणव्यवच्छेदायाह योगाख्यां धारणामिति । षष्ठीसमासात् समानाधिकरणसमास्य ग्राह्रत्वं निषादस्थ

पतिन्यायसिद्धम् । धारणाशब्दभिप्रेतमाह मय्येव निश्चलां स्थितमिति । प्रणवस्य ब्राहृप्रतिपादकत्वात्

ब्राहृेति व्यपदेश इत्यभिप्रायेण मद्वाचकमित्युक्तम् । मन्त्रास्यार्थविशेषप्रकाशनमुखेनोपकारकत्वमप्यत्र ब्राहृ

शब्देन प्रतिपादनात् विवक्षितमित्यभिप्रयेण वाच्यं मामनुस्मरन्नित्युक्तम् । प्रणवस्यभगवद्वाचकत्वं योगाङ्गत्वादिकं

च श्रुतिस्मृत्यादिसिद्धम् ।यथा कठवल्ल्याम् , सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणिच यद्वदन्ति। यदिच्छन्तोब्राम्हचर्यं

चरन्ति तत् ते पदं संग्रहेण ब्रावीम्योमित्येतत्।। (2.15) इति अत्र नाम्ना नामिनो निर्देशः । तथा, प्रणवो

धनुः शरोह्रात्मा ब्राहृ तल्लक्ष्यमुच्यते।अप्रमतेनवेद्धव्यं शारवत्तन्मयो भवेत्।। (मु 2.4) इति तथा आत्मानमरणिं

कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासात् पश्येत्

ब्राहृाग्निगूठवत् (ध्यानो) इति । तथा ओमित्येवं ध्यायथाऽऽत्मानम् ( मु2.2.6) इति तथा पुनरेतं

त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरूषमभिध्यायीता , स तेजसि सूर्ये संपन्नः यथा पादोदरस्त्वचा विनिर्मुक्त

एवं ह वै स पाप्मना विनिर्मुक्तस्स सामभिरूमन्नीयते ब्राहृलोकम् , स एतस्मममाज्जीवघनात्परामत्परं पुरिशयं

पुरुषमीक्षते(प्र5.5 )इति तथा वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः । स

भूय एवेन्धनयोनिगृह्रस्तद्वोभयं वै प्रणवेन देहे ।।', स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननि र्मथनाभ्

यासात् देवं पश्येन्निगूढवत् (श्वे 1.13.14) इति । अत्रैव श्लोके, ""विष्णुं पश्येद्धृदि स्थितम् इति योग

याज्ञवल्क्यपाठः । तथा, ""कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । ओङकारस्तु तथा योज्यः शान्तये

शान्तिमिच्छता । यस्मिन् स लीयते शब्दस्तत्परं ब्राहृ गीयते इति । तथा ""ओं खं ब्राहृ ओं खं पुराणम्

(बृ.7.1.2) इति । ""ओमित्येतदक्षरं ब्राहृ । अस्य पादाश्चत्वारो वेदाः । चतुष्पादिदमक्षरं परं ब्राहृ ।

पूर्वाऽस्य मात्रा पृथिव्यकारः इत्यारभ्य ""प्रथमा रक्तपीता मपद्ब्राहृदेवत्या; द्वितीया विद्युमती कृष्णा

विष्णुदेवत्या; तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या; याऽवसानेऽस्य चतुथ्र्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुष

देवत्या (अथर्व) इति च । अत्र अर्धमात्राधिदैवतभूतः पुरुष एवावतीर्णावस्थो द्वितीयमात्रदैवतत्वेन विष्णुरिति

चोक्तः । तथा ""ओमिति ब्राहृ; ओमितीतं सर्वम् (शी.8.1) इति, ""ओङ्कार एवेदं सर्वम्

(छा.2.23.3) इति । तथा ""ह्मदिस्तस्था देवतास्सर्वा ह्मदि प्राणाः प्रतिष्ठिताः । ह्मदि त्वमसि यो नित्यं त #िरुाो

मात्राः परस्तु सः । तस्योत्तरतदिश्शिरो दक्षिणतः पादो य उत्तरतस्स ओङ्कारो य ओङ्कारस्य प्रणवो

यः प्रणवस्य सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूश्क्ष्मं .यत्सूक्षमं तच्छुक्लं यच्छुक्लं तद्वैद्युतं

तत्परं ब्राहृ (अथ.शि.2) इति । अत्र प्रकरणादिवशात् प्रतर्दन विद्यावदन्तरितं 1. शासनमनुसन्धेयम् ।

मुमुक्षोरुत्क्रमणप्रकरणे च प्रणवः श्रूयते, ""अथ यत्रैतदस्माच्छरीरादुत्क्रामतयथैतैरेव रश्मिभिरूध्र्वमाक्रमते ।

स ओमिति वाऽऽ2,.होद्वा मीयते स यावत् क्षिप्येन्मनस्तावदिदित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं

निरोधोऽविदुषाम् । तदेष श्लोकः--शतं चैका च ह्मदयस्य नाड¬स्तासां मूर्धानमभिनिस्सृतैका । तयोध्र्व

मायान् अमृतत्वमेवेति विष्वङ्ङन्या उत्क्रमणे भवन्ति (छा.86.6) इति । महाभारते च महेश्वरवचनातम्,

""ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् (ह.वि 133.10) इति । आह च भगवान् याज्ञवल्क्यः,

""देवतायाः परायाश्च ह्रालम्बः प्रणवस्स्मृतः । कश्चिदाराधनाकामो विष्णोर्भक्त्या करोति वै । तदाराधनसान #्

निध्ये प्रतिमां व्यञ्जिकां यथा । धातुद्रव्यादिपाषाणैः कृत्वा भावं निवेशयेत् । श्रद्धाभक्त्यादराद्यैश्च तस्य देवः

प्रसीदति । ओङकारेण तथा चाऽऽत्मा ह्रुपास्ते स प्रसीदति । सर्वद्वाराणि संयम्य मनो ह्मदि निरुध्य च ।

मूध्न्र्याधायात्मनः प्राणमास्थितो योगधारणाम् । ओमित्येकाक्षरं ब्राहृ व्याहरन् मामुनुस्मरन् । यः प्रयाति

त्यजन् देहं स याति परमां गतिम् । य एतं प्रणवेनाद्यमक्षरं प्रतिपद्यते । ततोऽक्षरेण वेदेन वेद्यं ब्राह #्माधि

गच्छति । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्राहृभूयाय कलपते । अदृष्टविग्रहो

देवो भावग्राह्रो निरामयः । तस्योङकारः स्मृतं नाम तेनाऽऽहूतः प्रसीदति । तस्मादोमिति पूर्वं तु कृत्व #ा

युञ्जीत तत्परः । ब्राहृोङ्कारविधानेन तत्त्वेन प्रतिपद्यते ।। इति । 3. अत्र सर्वद्वाराणि इत्यादिश् वलोक

योर्भगवद्वाक्यतया प्रसिद्धयोरुदारणात् मामिति निर्देशस्तद्विषयः । पुनश्चात्र हैरण्यगर्भादिसिद्धान्तेषु प्रणवार्थं

प्रपञ्च्यान्तेऽप्याह, ""त्रिरात्मा त्रिस्भावश्च तथा त्रिव्यूह एव च । पञ्चरात्रे तथा ह्रेष भगवद्वाचकः स्मृतः ।

बलं वीर्यं तथा तेजरिुारात्मेति म संज्ञितः । ज्ञानैश्वर्ये तथा शक्तिरिुास्वभाव इति स्मृतः । सङ्कर्षणो ऽथ

प्रद्युम्नो ह्रनिरुद्धस्तथैव च । त्रिव्यूह इति निर्दिष्ट ओङकारो विष्णुरव्ययः । भगवद्वाचकः प्रोक्तः प #्रकृते

र्वाचकस्तधा । व्यक्ताव्यक्तो वासुदेवः प्रभवः प्रलयस्तथा इति । यच्चात्र हैरण्यगर्भकापिलापान्तरतपस्स नत्

कुमारब्राहिृष्ठपाशुपताख्योषु सिद्धान्तेष्वर्थभेदवर्णनम्, तदपि तत्तर्थविशेषान्तरित परमपुरुषपर्यवसानमभ #िप्रेत्येति

मन्तव्यम् । ओत एव हि विष्णुप्रतिपादकतयाऽन्तकाले स्मर्तयत्वेनोप संह्यियते, ओङ्कारं विपुलमचिन्त्वमप्रमेयं

सूक्ष्माख्यं ध्रुवमचरं च यत् पुराणम् । तद्विष्णोः पदमपि पद्मजप्रसूतं देहान्ते मम

मनसि स्थितं करोतु इति । प्रणवेणैवात्र भगवदर्चनमुच्यते, तल्लिङगैर्चयन्त्रैः सर्वान् देवान् समाहितः ।

नमस्कारेण पुष्णाणि विन्यसे(स्ये?) त्तु यथाक्रमम् । आवाहनादिकं कर्म यन्न सूक्तं मया त्विह । तत् सर्वं

चराचरम् । विष्णुब्र्राहृा च रुद्रश्च विष्णुरेव दिवाकरः । तस्मात् पूज्यतमं नान्यमहं मन्ये जनार्दनात्' '

(भा.स) इति । तथा परमपुरुषसाक्षात्कारकारणतया चात्र प्रणवापासनप्रकार उच्यते, ""ओंभूर्भुवस्सुवर्महर्जनस #्

तपस्सत्यमिति वैदिकम् । एतदुच्चार्य वै ब्राहृ परे व्योम्नि नियोजयेत् । ह्मदयेऽग्निश्च वायुश्च जीवो यस #्समु

दायह्मतः । ओंङकारपद्मनाले तु उदधृत्योपरि योजयेत् । अप्राणाच्छून्यभूतात्तु चेत्तोङगम् जीवसंज्ञितम् ।

जायते तु यतस्तस्मात्पुनस्तत्र निवेशयेत् । धण्डाशब्दवदोङ्कारमुपासीत समाहितः । पुरुषं निर्मलं शुभ्रं

पश्येद्वै नात्र संशयः इति । योगानुशासनसूत्रं च, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः,

तस्य वाचकः प्रणवः(1.24,25) इति । अतः प्रणवस्य भगवद्वाचकत्वं समाध्युत्क्रमणाद्यवस्थासु

तेनैव भगवदुनुस्मरणं

च सिद्धम् । ""शतं चैका च ह्मदयस्य नाड¬स्तासां मूर्धामभिनिस्सृतैका । तयोध्र्वमायन् अमृत

त्वमेति विष्वङङन्या उत्क्रमणे भवन्ति (छा.8.6.6), ""ऊध्र्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ।

ब्राहृलोकमतिक्रम्य तेन याति परां गतिम् (या.स्मृ.3.167) इत्यादिश्रुतिस्मृत्यनुसारान्मुमुक्षोरुत्क् रमणौपयिक

मिदं मूÐध्न प्राणाधानम् । त्यजन् यः प्रयातीति । त्यक्त्वा यः प्रयातीत्यर्थः । आत्मार्थिनो ह्रात्मा गन्तव्यः

तत्रापुनरावृत्तित्वमात्रात् परगतित्वोक्तिरित्यभिप्रायेणाह प्रकृतीति । ईदृशस्यात्मनः परमगतिशब्देन व् यपदेशो


न केवलं प्रकरणवशात् ;किंत्वस्मिन्नेवाध्याये तद्विषय एवायं प्रयोगोऽप्यस्तीत्याह यस्य सर्वेष्विति ।।1 2।।13

।।

08.14.14

सङ्गत्यर्थमनुवदति एवमिति । अध्यायारम्भगतप्रश्नोत्तरयोस्तत्प्रसञ्जके पूर्वाध्यायन्ते चायं क्रमो न विव

क्षितः, अधियज्ञान्तिमप्रत्यययोस्साधारण्येन प्रतिपादने तात्पर्यात् । इह तु प्रतिनियतार्थोपदेशरूपत्वाद #ुत्तरोत्तर

मुत्कृष्टताप्रदर्शनायैश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनः क्रमेणोक्ता इति भावः ।अत्र च एवमिति निर्देशाच्च

प्रकरणस्याधिकारित्रयविषयत्वव्यवस्थापकहेतवः प्रदर्शिताः । तथाहि---(प्रकरणस्याधिकारित्रयपरत्वविचारः)

एवमत्र कैश्चिच्छङकयेत---नन्वत्र, ते ब्राहृ तद्विदुः (7.29) किं तद्ब्राहृ(8.1) अक्षरं ब्राहृ परमम् (3 )

इति ब्राहृशब्दस्य साक्षाद्ब्राहृविषयत्वे को बाधः? तस्यैव च सर्वात्मत्वादध्यात्मशब्देनापि तद्गतं सर्वं ग्रहीतुमु

चितम् ; "भूतभावोद्भवकरो विसर्गः' (8.3) इत्यपि जगत्सृष्टिग्रहणं युक्तम्; देवतोद्देशेन द्रव्यत्यागे वा ।

स चात्र निवृत्तिलक्षणो यज्ञः । "अधिभूतं क्षरो भावः' (4) इति च अधिभवतीति व्युत्पत्तेः प्राणिजातम् । प #ुरुष

श्चाधिदैवतमिति परब्राहृावस्थाविशेषः, समष्टिपुरुषादिर्वा । अधियज्ञः सर्वज्ञाभिमानिनी विष्ण्वाख्या देव ता,

" यज्ञो वै विष्णुः' (यजु.1.4.4) इति श्रुतेः । "अन्तकाले च' (5) इत्यादिश्लोकत्रयमपि मुमुक्षोरेवान्तिम प्रत्ययम

धिकृत्योक्तम् ; प्रश्नप्रतिवचनश्लोकानां पूर्वाध्याये प्रस्तुताधिकारित्रयज्ञातव्योपादेयपरत्वेऽप्युपरितनाः श्लोकाः

प्रधानताया सुदुर्लभत्वेन निर्दिष्टज्ञानिपरायुक्ताः; अन्यथा मामेव स्मरन् (5) मामेवैष्यसि (7) इत्यादेर #्बाधात्।

अत एव, "प्रयाणकाले च कथम्' (2) "अन्तकाले च माम्'(5) इति श्वलोकयोरधिकारित्रयपरत्वेऽपि तद्विवरणे

ऽत्र तदैकाथ्र्यं ग्राह्रमित्यपि निरस्तम् । तत्रापि चाधिकारित्रयपरत्वं न प्रतीयते । न चैश्वर्यार्थिनः परमपुरुष

विषयान्तिम प्रत्ययसापेक्षतायां प्रमाणं पश्यामः । एवमुत्तरेष्वपि श्लोकेष्वेव एवाधिकारी, तद्वेद्यं चैकमेव पुनः

पुनरनूद्य विशेषतो विशदीक्रियते । न च पुनरुक्तिदोषः, अभ्यासस्य ज्ञानिप्रधान्यलिङ्गत्वात्; " संसिदिं्ध परमां

गताः' (15), "स याति परमां गतिम्' (13), "तमाहुः परमां गतिम्' (21) इत्यमीषामैकाथ्र्यं च प्रतितमपरित्या

ज्यम्। न च परमगन्तव्यातिरिक्ता परमसंसिद्धिः । " तमाहुः परमां गतिम्' इति परोक्षनिर्देशश्च, "पुरुषस्य

परः पार्थ ' (22) इति स्यात्। 'परमं पुरुषं दिव्यम्' (8), "स तं परं पुरुषमुपैति दिव्यम् । (10), "पुरुष स्य

परः पार्थ भक्त्या लभ्यस्त्वनन्यया' (22) इत्यमीषां भिन्नार्थत्वकल्पनं चायुक्तम्; परैरपि च सर्वेः प्रायश एवमैक

कण्ठ¬ेन व्याख्यातम् इति--

अत्रैवं परिहारक्रमः--अधियज्ञोऽहमेव (4) इतिवत् अहमेव ब्राहृेत्यनुक्तेः अध्यात्मादिवदत्र ब्राहृशब्दार #्थस्या

प्यर्थान्तरत्वं तावत् प्रतीतम् । न च ब्राहृशब्दादक्षरशब्दस्य परमात्मनि रूढ¬तिशयः, येन ततस्तद्याख्यानं

स्यात् । "एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ""द्वे रुपे ब्राहृणस्तस्य मूर्तं चामूर्तमेव च । क्षरीशक्षस्वरूपे

ते सर्वभूतेषु च स्थिते । अक्षरं तत्परं ब्राहृ क्षरं सर्वमिदं जगत् (वि.1.22.55,56) इत्यादिषु च अक् षरपर

ब्राहृशब्दौ परिशुद्धात्मविषयौ शारीरकभाष्ये समर्थितौ । अतोऽत्र "किं तद्ब्राहृ' इत्युक्ते अहमेव ब्राह्

मेत्याव्या

ख्यानात् स्वेतरविषयब्राहृशब्दः परमशब्दविशेषिताक्षरशब्दानुगुण्याच्च प्रकृतेरीश्वराच्चान्यस्मिन् परिशु द्धात्मन्यु

पचाराद्वर्तते । पश्चाच्चायमेव "अव्यक्तोऽक्षर इत्युक्तः' (21) इति वक्ष्यते। न चासौ श्लोकः परमात्मपर इति

शङकनीयम्, "ये चाप्यक्षरमव्यक्तम् ', "ये त्वक्षरमनिर्देश्यम्' (12,3), "क्षरश्चाक्षर एव च' (15.16) इत्यादिष्विवात्रापि

अक्षरशब्दस्य भगवद्व्यतिकरिक्तविषयत्व प्रतीतेः। संसिद्धिशब्दश्च परमगतिशब्दनिर्दिष्ट

प्राप्यविलशक्षणां समीचीनां सिदिं्ध स्वरसत उपसर्गशक्त्या व्यनक्ति । अत एव स्वभावादिशब्दा अधिकारि

त्रयज्ञातव्योपादेयवस्तुविशेषपरा उक्ताः । एवं स्ववाक्यपर्यालोचनया पूर्वाध्यायप्रकृतपरामर्शेन च प्रश्न प्रतिवचन

वाक्यानामधिकारित्रयविषयत्वे सिद्धे तदनन्तराणामपि ग्रन्थानां यथासंभवं सर्वविषयत्वं युक्तम् । प्रक्रान्ते

चाधिकरित्रये यद्वृत्तत्रयेणानूद्यमाने कैवल्यभागवत्प्राप्तिकामयोरनन्तरं स्पष्टमभिधानात् अभ्यास (8) इत्यादिकं

परिशेषादैश्वर्यार्थिविषयम् । यच्चैश्वर्यार्थिनां परमपुरुषविषयान्तिमप्रत्ययसापेक्षतायां प्रमाणं नास्त #ीति

--तदपि न, श्रीमद्भागवते पुराणे ध्रुवचरिते तद्दष्टेः, ""भकिं्त हरौ भगवति प्रवाहन् (4 9.11) इत्यादिना ।

अतो यथोक्त एवार्थः । यद्यपि ब्राहृ-पुरुष- परगत्यादिशब्दैरिह सर्वत्र परमात्मभजनतत्प्राप्तयादिरेव प्रत #ीयते;

तथाऽपिझ्र्तावताट एवाधिकारिविषयत्वं वक्तुं न युज्यते,पूर्वत्र प्रयाणकाले भ्रूमध्ये प्राणावेशस्य तत्रैव परमात्मध्यानस्य

च विहितत्वात्; अनन्तरं च ह्मदि ध्यानस्य मूÐध्न प्राणावेशस्य च तत्काल एव विधानात् ।

तदिदं द्वयं परस्परविरुद्धं किं कालभेदात् व्यवस्थाप्येत, अधिकारिभेदाद्वा? तत्र न तावत् कालभेदः श्रुतः ;

प्रत्युत कालैक्यमेव श्रूयते । अतः परिशेषात् सिद्धोऽधिकारिभेदः । किंच "शतं चैका च' (छा 8.6.6) इत्या

दिभिर्मूर्धन्यनाड¬ा निष्क्रमणं मोक्षहेतुः, अन्याभिर्निष्क्रमणं फलान्तरहेतुरित्यवगते, प्रयाणकाले भ्रूमध्ये मूÐध्न

च प्राणावेशस्योत्क्रमणशेषतया तत्तद्देशगतानाड¬क्रमणे प्रतीते सिद्धयेदधिकारिभेदः । पूर्वत्र

चाध्याये,

"चतुर्विधा भजन्ते माम्' (7.30) इति श्लोकयोर्यच्छब्दाबृत्याधिकारिभेदप्रतीतिर्भाष्ये प्रतिपादिता; सा च #ात्रापि

स्फुटा; ""अणोरणीयांसमनुस्मरेत् यः' (9) "यः प्रयाति त्यजन् देहं' (13), " यो मां स्मरति नित्यशः' (14)इ ति

। एतदखिलमभिप्रेत्योक्तम् एवमैश्वर्यार्थिन इत्यादि ।

उक्तश्चाधिकारी अनन्यचेताः इत्युच्यत इति परोक्तं निराकुर्वन् अनन्यचेताः इति श्लोकस्यार्थमाह

अथेति । नित्यशः इत्यनेनात्मानुभावादिफलान्तरव्यवधाननैरपेक्ष्यं विवक्षितमित्याह उद्योगप्रभृतीति । अन्यथा

सततमित्यनेन पुनिरुक्ति संकोचक्लेशो वा स्यादित्यभिप्रायेणाह सततं सर्वकालमिति । अनन्यचेत

श्शब्देनाभिप्रेतं स्मृतेर्भक्तिरूपापन्नत्वं दर्शयति अत्यर्थेति । अनन्यचेतस्त्वादेव स्मरणस्याच्छिद्रवत्वम् । उत्

कण्ठनेऽपि च स्मारितः प्रयुज्यते - ""भ्रातरौ स्मरतां वीरौ (रा.अ.1.3) इत्यादिषु । नित्ययुक्तस्य यो गिनः

इत्युक्तानुवाजदः फलस्याव्यवहितत्वद्योतनाय । अत्र अहंशब्देनेश्वरस्य प्रत्यगर्थोऽभिप्रेतः । तेन तद्वि शेषणभूत

  1. ाक्षरीदिफलप्राप्तिव्यवच्छेदो विवशक्षित इत्यभिप्रायेणाह अहमेवेति । तदेव विवृणोति न मद्भाव इति ।


भगवत्प्राप्तेः फलान्तरेभ्योऽतिशयितफलत्वात् तत्प्राप्तौ प्रयासातिरेकसंभावनाव्यवच्छेदाय सुलभपदमित्यभि प्राये

णाह सुप्रापश्चेति । अकृच्छ्रे प्राप्य इत्यर्थः । "ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' (अष्टा 3.3.126) इत्यनुशि

ष्यते । आश्रितवत्सलस्येश्वरस्य सौलभ्यं रागप्राप्तमित्याह तद्वियोगमिति । उक्तस्यातिवादमात्रत्वशङ्काव्युदासाय

श्रुतिमूलतामाह यमेवेति । अत्र वरणशब्देन किमुच्यते? न तावत्

शेषत्वशरीरत्वाद्याकारेण स्वीकारः; तस्य नित्यसिद्धत्वात् । न च तद्विपरीतः ; विरुद्धतत्वादेव । न च

प्राप्तिप्रदानम् ; तेन लभ्य इत्यनेन पौनरुक्त्यप्रसंगात् । न चान्योऽत्र प्रकारः; असंभावादित्यत्राह म त्प्राप्तय

नुगुणेति । 1. विपाकोऽत्र ध्रुवानुस्मृतिरुपत्वदर्शनसमानाकारत्वादिरूपः । तद्विरोधिनो दुष्कृतरजस्तमोरागद्वेषमोहादयः

। अत्यर्थमत्प्रियत्वं निरतिशयभक्तित्वम् । आदिशब्देन, परमपदपर्यङ्कासत्तिपर्यन्तं

यन्मध्योऽपेक्षितम्,

तत् सर्वं विवक्षितम् । अहमेवेति । परमकारुणिकस्य ममैवायं

भर इत्यभिप्रायः । 'तस्याहं सुलभः' इत्यादेरुक्तार्थपरत्वस्थिरीकरणायास्यैवार्थस्य वक्ष्यमाणं विस्तरमुद #ाह्मदश्रुत्

युपबृंहणरूपं दर्शयति वक्ष्यते चेति ।। 14 ।।

08.15.15

इतः पूर्वं त्रयाणामधिकारिणां केचन वेद्योपादेयभेदाः प्रतिपादिताः; अतः परमधिकारौपयिकतयाऽवश्यवेद्यस्य

फलस्य स्थिरास्थिरत्वलक्षणविशेषं दर्शयतीत्याह अतः परमिति । अत्र ज्ञानिनस्तावत् अपुनरावृत्तिरुच्यते

मामुपेत्येति श्लोकेन । दुःखानन्त्यस्य सर्वप्रमाणसिद्धत्वाद्दुःखशब्दस्य निर्विशेषणस्य सङ्कोचायोगात् न #िखि

लेत्युक्तम् । जन्मनश्चाशाश्वतशब्दनिर्दिष्टमस्थिरत्वं जन्माविनाभूतदेहमोगाद्यस्थिरत्वरूपमिह विवक्षितम् ।

जन्मशब्दो वाऽत्र जनिमच्छरीरपरः । महात्मनः इति स्तुतिमात्रादपि माहात्म्यस्यात्र संसिद्धिहेतुत्वमुचित मित्

यभिप्रायेणाह यत इति । महामनस्त्वं ज्ञानिनां प्राक्प्रपञ्चितमिहानूदितं दर्शयति यथावस्थितेत्यादिना ।

आभिलषितस्य फलस्य सिद्धिव्यपदेशौचित्यात् परंमशब्दस्वारस्याच्च परमसंसिद्धिरुपं मामित्युक्तम् ।

परमसंसिद्धिरूपं परमपुरुषार्थरूपमित्यर्थः । समीचीनसिद्धिः संसिद्धिः ।। 15 ।।

08.16.16

अप्रसक्तस्य प्रतिषेधायोगात् प्रतिषेध्यस्य प्रसङ्गिनश्च आसन्नवर्तिन उपादातुमुचितत्वात् नश्वरफलभूत #ैश्व

र्यार्थिनां जन्ममात्रं तन्निषेधमुखेन सूचितम् ; अतस्तत्रापि हेतुरेव केवलं वक्तव्य इत्यभिप्रायेणाह ऐश् वर्यगत

मिति । मामुपेत्य तु इति भगवतः प्रतियोगीकरणात् आङोऽत्राभिविधिपरत्वाभिप्रायेणाह ब्राहृलोकेति । प्रकृ

त्याख्यूभगवन्मायामहोदधौ ब्राहृाण्डैरपि यदा बुद्बुदायितम् , तदा कैव कथा तदन्तवर्तिनां लोकानामित्यभिप्

रायेण ब्राहृाण्डदोरवर्तिन इत्युक्तम् । तेन परमाकाशव्यवच्छेदसिद्धिश्च । ऐश्वर्यानित्यताप्रतिपादनपरत्वायोक्तम्

भोगैश्वर्यालया इति । भुवनशब्दसमभिव्याह्मतस्य लोकशब्दस्य जन

विषयत्वायोगात् लोकस्य गमनाभावेन पुनरावृत्तेरप्यभावात् पुनरावर्ति(वृत्ति)शब्देन प्रवाहतो विनाशमात्रं लक्ष्

यत इत्याह विनाशिन इति । पुनरावर्ति(वृत्ति)शब्दस्याजहल्लक्षणावृत्तेस्तल्लोकगतपुरुषपुनरावृत्तिरेव वा

द्वारम् । फलितमाह अत इति । मामित्यत्र तुशब्देन द्योतितान् अपुनावृत्तिहेतुविशेषान् दर्शयति मां सर्वज् ञ

मित्यादिना । असर्वज्ञमसत्यसङ्कल्पं कार्यकोटिधटितं निर्घृणं रजस्तमोमूलरागद्वेषादिनानाविकारशालिनं

कञ्चन क्षुद्रदैवतं प्राप्तानां हि तदन्येन तेनैव वा पुनरावृत्तिः स्यादिति विशेषणानां तात्पर्यम् ।। 16 ।।

08.17.17

सहरुोत्यादिश्लोकत्रयस्य पिण्डितार्थमाह ब्राहृलोकपर्यन्तानामिति । हिरण्यगर्भादिस्वातन्त्र्य

सिद्धसत्यलोकादिस्थैर्यशङ्काव्युदासायाह परमपुरुषसङ्कल्पकृतामिति । ईश्वरस्वातन्त्र्यमेव ह्रन्यूनानिति

रिक्तदिनीरात्र्यादिविचित्रव्यवस्थायां कारणम् । तथा चोच्यते, ""कालस्य हि च (च हि) मृत्योश्च (भा.उ.6 7

मानवे, ""तद्ये युगसहरुां तु ब्रााहृं पुण्यमहर्विदुः । रातिं्र च तावतीमेव तेऽहोरात्रविदो जनाः ।। (मनु.1.13)

इति, तत्र य इत्येव पाठात् यथाक्रममन्वयः । 2. इह तु सहरुोति श्लोके यत् इत्यस्याहश्शब्दे

नैव ह्रन्वयो घटते । ततश्च ते इत्यस्य ये इति पदमपेक्षितम्; तत्रापि ये विदुस्तेऽहोरात्रविदो जनाः, त एवं

विदुरित्यन्वयः एवं कालव्यवस्थायां प्रामाणिकत्वप्रतिपादनापरोऽत्र स्वीकार्य इत्यभिप्रायेणाह ये मनुष्यादीति

। अनूद्यमानमहोरात्रवेदित्वं यथाप्रसिद्धि सर्वविषयमेव भवितुमर्हति; तेन चतुर्मुखस्यापि मनुष्यादि

तुल्यता द्योतिता स्यादित्यभिप्रायेण मनुष्यादीत्यादिकमुक्तम् । ब्राहृशब्दस्यात्र परमात्मविषयत्वभ्रमव् युदासाय

चतुर्मुखशब्दः । तस्यैव हि सहरुायुगप्रतिनियताहोरजनीविभागः प्रसिद्ध इति भावः । ""सविशेषणौ विधिनिषेधौ विशेषणमुपसंक्रामतः

इति न्यायात्, "येऽहोरात्रविदो जनाः' इत्यहोरात्रवेदितांशस्यानूदितत्वाच्च

सहरुायुगपर्यन्तावेदनमेवात्र विधेयमित्यभिप्रायेण तत् चतुर्युगसहरुाावसानं विदुरित्युक्तम् । सहरुायुगान #िपर्य

न्तं यस्य तत् सहरुायुगपर्यन्तम् । युगशब्दश्चात्र प्रमाणान्तरानुसाराच्चतुर्युगपरः ।।

08.18.18

अस्त्वेवं चतुर्मुखस्याहो

रात्रव्यवस्था; ततः किं प्रस्तुतस्येत्यत्रोत्तरम् अव्यक्तादिति श्लोकः । तस्यार्थमाह तत्रेति ।

अयमभिप्रायः---अत्र व्यक्तिशब्दस्तावन्न महदादिविषयः, चतुर्मुखात्प्रागेव तदुत्पत्तेः । अतश्चतुर्मुखसृज्यमात्रविषय

एवासौ । व्यज्यन्त इति व्यक्तयः । तत्रापि सत्यलोकादेः प्रतिकल्पं प्रलयाभावात् त्रैलोक्यान्तवर्तिदेहेन्द्रियादिवस्तुमात्रविषयत्वमेव

रवीकार्यम् । तेषां चोत्पत्तिः ब्राहृशरीरादेव ।

ततश्चात्र अव्यक्तशब्दोऽपि न मूलाव्यक्तविषयः; अपि तु तदुपादानकब्राहृशरीरपरः । शरीरे चाव्यक्तशब्द

प्रयोगः सूत्रेऽप्युपपादितः, "" सूक्ष्मं तु तदर्हत्वात् (ब्रा.1.4.2) इति ।

08.19.19

एवंविधसृष्टिप्रलयकारणविशेषं तदनुच्

छेदाच्च सृष्टिप्रलयसन्तानानुच्छेदम् अकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहाराम् उक्तस्यार्थस्य सर्वेष्पि

कल्पेषु अभिव्याÏप्त यथापूर्वकल्पनं च भूतग्रामः इति श्लोकः प्रतिपादयतीत्यभिप्रायेणाह स एवयमिति ।

भूतशब्दो त्राचिद्विशिष्टक्षेत्रज्ञपरः । सृज्यत्वसंहार्यत्वहेतुभूतमवशत्वं कर्मनिबन्धनमेव हीत्यभिप्रयेण कर्मवश्य

इत्युक्तम् । अहरागमे इति पदं भूत्वेत्यत्राप्यनुवर्यनीयमित्यभिप्रायेण अहरागमे भूत्वेत्वन्य उक्तः । इदं च

नैनितिकप्रलयप्रतिपादनं श्रुत्यादिसिद्धप्राकृतप्रलयाप्युपलक्षणम्; तेन सत्यलोकविनाशसिद्धिः; आब्राहृभुव नल्लो

काः (16) इति ह्रुपक्रान्तमित्यभिप्रायेणाह तथेति । यद्वा 1.रात्र्यागमशब्द एव ब्राहृणोऽन्तिमरात्र्या गममपि

शक्त्या संगृह्णाति । पृथिव्यादितत्त्वानामेव विलये तदारब्धानां ब्राहृलोकब्राहृशरीरब्राहृाण्डादीनां का कथेत्य

भिप्रायेण पृथिवीत्यादिक्श्रुतिरुदाह्मता । तमोवस्थाचिद्द्रव्यस्यैकीभावो हि परस्मिन्नेव देवे श्रूयते । अत्रापि

'अहं कृत्स्नस्य जगतः प्रभवः प्रलयः' (7.6) इत्यादिकं ह्रुच्यत इत्यभिप्रायेण मय्येवेत्युक्तम् । एवं "यो ब्राहृा

णं विदधाति पूर्वम् ' (श्वे.6.18) "एको ह वै नारायण आसीन्न ब्राहृा नेशानः' (महो.1.1) इति क्रमेण पुनर्ब #्रहृा

दिसृष्टिः, पुनश्च तत्प्रलय इत्यादिकमपि भाव्यम् । ईदृशसृष्टिप्रलयप्रतिपादनस्य प्रकृतोपायोगं दर्शयति

एवमिति । सर्वेषु सृष्टिप्रलयप्रकरणेष्विदमेव तात्पर्यं भाव्यम् । मद्व्यतिक्तस्य कृत्स्नस्येत्यनेन "अहं

कृत्स्नस्य 'इति प्रागुक्तं स्मारितम् । उक्तं च मोक्षधर्मेऽपि, "नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्

। ऋते तमेकं पुरुषं वासुदेवं सनातनम्' परइत्यातिश्लोकद्वयस्यार्थमाह अथेति। अयमभिप्रायः---भगवन्तं

प्राप्तानाम् अपुनरावृत्तिः प्रागेवोक्ता; अव्यक्तात्परत्वेन निर्दिष्टोऽक्षरश्च जीव एव भवितुर्मर्हति, अपरेयमितस्त्व

न्याम्' (7.5) इत्यादिप्रत्यभिज्ञानात् । वक्तव्या च कैवल्यार्थिनामवरोहाभावदपुनरावृत्तिः । अत एव तत्परमेवेदं श्लोकद्वयम् इति ।।

08.20-21

अव्यक्तस्यैव पूर्वप्रकृतत्वात्, अत्रापि अव्यक्तादित्येव पदच्छेंदः (भेदः) ।

तस्य चापेक्षया परशब्दान्यशब्दाभ्यामप्यन्वयः । तत्र च पौनरुक्त्यव्युदासायोत्कृष्टत्वाभिधानमुखेन पुरुष #ार्थ

रूपत्वपरः परशब्दः । तत एव च स्वरूपभेदस्य सिद्धत्वात् अन्यशब्दः प्रकारान्यत्वपरः । स च प्रकारभेद

श्चेतनत्वरुप एव प्रमाणसिद्धि इत्यभिप्रायेणाह तस्मादिति । भावशब्दोऽत्र पदार्थमात्रवाची । व्यक्तः इति

पदच्छेदो न युक्तः ; अव्यक्तोऽशक्षरः इति अत्रैवाभिधानात् ; दुग्र्रहे च जीवे व्यक्तशब्दप्रयोगानुपपत्त #ेरित्यभिप्

प्रायेणाह केनचिदिति । ननु जीवस्याव्यक्तत्वमयुक्तम् ; प्रत्यक्षानुमानागमैश्वर्यंथासंभवं तद्व्यक्तेः, अन्यथा

खपुपत्वप्रसङ्गादित्यत्राह स्वसंवेद्यति । प्रमाणान्तराणि हि साधारण्येन तत्प्रतिपादकानीति भावः । नित्य त्

वे द्वतीयाध्यायोक्तहेतुस्मारणम् उत्पत्तिविनाशानर्हतयेति । भूतशब्दोऽत्र महाभूतपरः, तद्विनाशेऽप्यात् मस्थिति

वचनेन नित्यत्वस्यानायासलाभात् । तत्र सर्वशब्दाभिप्रायवशादेव सकारणत्वं सकार्यत्वं च सिद्धमित्यभिप्राय #े

णाह वियदादीति । प्रसक्तो हि नाशो जीवे निषेध्यः ; प्रसङ्गश्चात्र नश्यत्पदार्थानुप्रवेशवशात् ; यथा तिल #ेषु

दह्रमानेषु तदनुप्रविष्टं तैलमपि दह्रते । ततश्च सर्वेषु भूतेषु नश्यत्स्विवत्स्यैव सामथ्र्यलब्धमुक्तं तत्र तत्र

स्थितोऽपीति । यस्स सर्वेष्वित्यत्र स इत्यस्य प्रयोजनमान्द्यादुत्तरत्रापेक्षितत्वाच्च ,सोऽव्यक्तोऽक्षर इत्यन्व

य उक्तः ; यद्वाऽयमध्याहारः । उक्त इत्यस्य कुत्रेत्याकाङ्क्षायामाह ये त्विति । अनयोः प्रकरणयोरक्षर शब्

दस्य जीवविषयत्वं तत्रैव व्यक्तम् " उत्तमः पुरुषस्त्वन्यः' (15.17) इत्यादिभेदव्यपदेशात् । अतोऽत्राप #्यध्याये

"अक्षरं ब्राहृ परमम् ' (3) "अव्यक्तोऽक्षरः' इत्यक्षरशब्दाभ्यां परिशुद्धजीव एव व्यपदिश्यते । ये त्वि त्यत्राक्षरा

व्यक्तशब्दयोद्र्वयोरपि " अव्यक्तोऽक्षर इत्युक्तः ' इति तदुभयनिर्देशाच्च तत्तत्प्रकरणोपबृंहणीयश्रुत्यभिप्रायेण

तदुपादानात् " निहताः पूर्वमेव' (गी.11.33) इतिवत् स्वसङ्कल्पारोहाद्वेति । आहुरित्यत्र कत्र्रपेक्षायां "यदक्ष

रं वेदविदो वदन्ति ' (11) इति प्रसक्तमुचितं च कर्तृविशेषमाकृष्याह तं वेदविद इति । "स याति परमां गतिम्' (13)

इति सामान्यनिर्देश एतेन विशेषित इति दर्शयति अयमेव यः प्रयातीत्यादिना । यद्वा अत्र

"तमाहुः परमां गतिम्' इति निर्देशः "स याति परमां गतिम्' (13) इति पूर्वोक्तप्रत्यभिज्ञापनार्थ इति भावः ।

तत्र आक्षरपरमगतिशब्दयोः प्रयोगयोग्यतां दर्शयति प्रकृतीति । अनिवृत्तिहेतुत्वेनायमर्थ उक्त इत्यभिप्राय #ेण

एवंभूतं स्वरुपेणावस्थितमित्युक्तम् । तद्धाम परमं मम इति, संबन्धमात्रविधानस्य प्रागेव सिद्धेः स्थानस् य

च स्थानिसापेक्षत्वनियमात् "य आत्मनि तिष्ठन् ' (शत. मध्य. 14.6.5.30) इत्याद्युक्तमधिष्ठेयं 1. स्थानपर्यायं(र्य?)

धामशब्देन विवक्षितमित्याह नियमनस्थानमिति । अत्र किमपरं नियमनस्थानम्, यद्व्यव

च्छेदाय परमशब्दः इत्तयाह--- अचेतनेति । अत्र परमधामत्वव्यपदेशात् परिशुद्धात्मविषयत्वं सिद्धम् । तत

श्चाशुद्धो जीवोऽप्यपर एव विवक्षित इत्याह---तत्संसृष्टेति । यदि मुक्तोऽपि परमात्मापरतन्त्र,तर्हि स्वतन्त्रेण

परमात्मना पुनरपि संसारगर्ते प्रक्षिप्येतेत्यत्राह तच्चेति । 3. अयं भावः---अविद्यादिर्हि संसारकारणम्,

न तु पारतन्त्रयम्; अविद्यादेश्च प्रक्षयात् ईश्वरकारुण्यादीनां च स्वाभाविकत्वान्न मुक्तस्य संसारगन्ध इति

। यद्वा न केवलं भगवत्प्राप्तिरेव अपुनरावृत्तिरूपा, किंतु परिशुद्धजीवप्राप्तिरपि अवरोहणाभा

वात् तथेति भावः । नियमनस्थानमित्याश्रित(तायश्रुत?)विशेषणोपादानाझ्र्नुपपत्तयटरुचेराह अथेवेति । अस्तु

धामशब्दस्तेजःपर्यायः प्रकाशपक्षे तत् परमं धाम मम मच्छेषभूतमिति वाक्यार्थः । यद्यपि अपरेयम् (7.5)

इत्यादिना प्रागेव स्वशेषत्वमुक्तम्, तथाऽपि समष्टिचेतनमात्रविषयत्वं तत्र प्रतीयते; इह तु मुक्तस्याप #ि

स्वशेषत्वमुच्यत इत्पौनरुक्त्यम् . ।। 20 ।। 21 ।।

08.22.22

पुरुषस्य इति श्लोके तुशब्देनार्थान्तरद्योतनात्, अनन्यया भक्त्त्येत्यस्य सामथ्र्यात्, पुरुषशब्दस्य परमात्मनि

पुरिशयत्व-पूर्णत्व-पूर्वसद्भाव पुरुदानादिभिर्निमित्तैः, "सहरुाशीर्षा पुरुषः' (पु.) इत्यादिप्रयोगप्रा चुर्

यात् परशब्देन विशेषणाच्च पूर्वोक्तातफलादधिकफलोपदेशार्थोऽयं श्लोक इत्यभिप्रायेणाह ज्ञानिन इति । बिभक्तम्

। विवेचकैरिति शेषः । विलक्षणमिति वाऽर्थः । गगनाद्यन्तस्स्थितावपि गगनादेः परत्वाभावात् तत्

सिद्धयर्थं यस्येत्यादिप्रसिद्धवन्निर्देशोऽत्र पूर्वोक्तपरत्वपर इति दर्शयति मत्त इति । अनुवादपुरोवाद योरैकाथ्र्य

मिति भावः । "यस्मात्परं नापरम्' (श्वे.3.9) इत्यारभ्य "तेनेदं पूर्णं पुरुषेण सर्वम्' इति श्रुतिस्मारणाय येन च

परेण पुरुषेणेत्युक्तम् । भक्तेरनन्वयत्वं कीदृशमित्यात्राह अनन्यचेता इति ।। 22 ।।

08.23-24

यत्र काले त्वित्यादेः योगयुक्तो भवार्जुनेत्यन्तस्य तातपर्यमाह अथेति । अत्र धूमादिमार्गकथनं

हेयत्वार्थम् ; अर्चिरादिमार्गोपदेशस्तु तदनुसन्धानार्थ एवेति तत्रैव तात्पर्यमिति भावः । ननु परमपुरुषा र्थनिष्ठ

स्यैव ह्रर्चिरादिगतिः, तत् कथमत्र साधारण्यमुच्यत इत्यत्राह द्वयोरपीति । आत्मनिष्ठस्याप्यपुनरावृत्तेः (प्यना

वृत्तेः) पूर्वोक्तत्वात् तस्याप्यर्चिरादिकैव गतिरिति दर्शयितुमाह सा चेति । साधारण्यापुनरावृत्त्योः श्रुतिमेव

दर्शयति यथेति । अङ्गिफलमेवाङ्गेऽपि निर्दिष्टुं युक्तम्, तथाऽप्यङ्गिना सहाङ्गस्य तुल्यत्वेन (तुल्य वत्)

पृथङ्निर्दिष्टस्य तत्फलनिर्देशो न युक्त इति भावः । एतेन प्रथमषड्कोदित्प्रत्यगात्मवेदनादत्रत्याक्षरया थात्म्य

  1. ानुसन्धानस्य भेदोऽपि दर्शितः । "तद्य इत्थं विदुः' इत्यस्य प्रत्यगात्मनिष्ठविषयत्वं कथमित्यत्राह पञ् चाग्नि


विद्यायां चेति । " आप पुरुषवचसो भवन्ति ' इति त्रिवृत्कृतानामभिधीयमानत्वाद्भूतान्तरसंसर्गसिद्धिः । अप #ा

मेवात्त्यात्मस्वरूपपरिणामव्युदासायोक्तम् । एवंविधशरीरसंबन्धमात्रस्याप्यौपाधिकत्वप्रदर्शनायाह पुण्यपापहेतुक

इति । 'रमणीयचरणा रमीयां योनिं ... ... कपूयचरणाः कपूयां योनिम्' इत्यादिवचनान्न केवलाचिद्विषयमिदं प्रकरणम्

। 'तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते' इत्युक्तयद्वृत्तद्वयस्य तेऽर्चिषमित्येकेन

तद्वृत्तेन प्रतिनिक्देशादुभयोर्गतिरविशिष्टेति ज्ञापनाय, 'तद्य इत्थं विदुः', 'तेऽर्चिषम्' इतिव्यवहितमुपात्तम्

।इत्दंशब्दानूदितं प्रस्तुताकारविशेषं दर्शयति विविक्ते इति । ननु 'तत्पुरुषोऽमानवः स एनान् ब्राहृ गमयति'

इत्र्चिरादिना गतस्य ब्राहृप्राप्तिः श्रूयते ; तत् कथं केवलात्मोपासकस्य ब्राहृप्रापकार्चिरा-

दिप्राप्तिरित्यत्राह आत्म याथात्म्येति । अयं पज्चारग्निविद्यानिष्ठो न केवलात्मोपासकः, अपितु ब्राहृात #्मक-

स्वात्मानुसन्धायीति भावः । अन्यथा तत्क्रतुन्यायविरोध इत्यभिप्रायेणाह तत्क्रतुन्यायाच्चेति । चकार इतर #े-

तरयोगे । यथावस्थितात्मानुसम्धानस्य परशेषतोकरसत्वानुसन्धानरूपत्वे प्रमाणमाह य आत्मनीति । आदि-

शब्देन 'पतिं विश्वस्य' (ना. 6.11.3.), 'करणाधिपाधिपः' (श्वे.5.9) इत्यादिवाक्यशतं गृह्रते ।

(पज्चाग्निविदि कैवल्यमुख्यमोख्यमोक्षोभयर्थापनम्)

अत्र शारीरकभाष्यादिविरोधो मन्देराशाङ्कितः । इह तावत् श्रुतुसूत्रभाष्यादिष्वन्यत्र च परमात्मात्मक-

स्वात्मानुसन्धातृत्वमर्चिरादिगतिश्चाविशेषेणोच्यते । तस्याश्च ब्राहृगमयितृत्वस्य श्रुत्यादिषु इह च 'तत्र प्रयाता

गच्छन्ति ब्राहृ ब्राहृविदो जनाः' इति सिद्धत्वात् पज्चाग्निविदोऽपि परमात्मात्मप्राप्तिरस्येवेति स्वीकर्तव्यम् ।

तत्र प्राप्तौ ज्ञानिनां परमात्मा स्वविशिष्टो भोग्यः; अक्षरयाथात्म्यनिष्ठानां तु स्वस्वरूपमेव पूर्वं भोग्यम् ; वस्

वादिपदप्राप्तिपूर्वकब्राहृप्राप्तिसाधनमधुवनद्यादिन्यायादन्ततो ब्राहृप्राप्तिः ईदृशपर्वक्रमप्रतिनियमश्च प्राचीनापेक्ष

  1. ाभेदात्, स च प्राचीनकर्मविशेषादिति "चतुर्विधा भजन्ते माम् ' (7.16) इति प्रागेव दर्शितः । न चात्र जिज्ञासोरन्य


एवात्मयाथात्म्यविदिति भाष्यते, जिज्ञासुवेद्यतयोक्तस्वभावविसर्गयोः अत्र च पञ्चाग्निविद्योदाहर

णात् । मध्ये च कैवल्यार्थिन एव मूर्धन्यनाड¬ा निष्करणम्; अनावृत्तिश्चोक्ता । आत्मयाथात्म्याक्षरयाथात #्म्य

शब्दयोश्चात्र न भिन्नार्थतत्वम् ; तस्योपासने किञ्चिदस्ति विशेषः---अक्षरयाथात्म्यविदः परमात्मशरीरभूतस #्वा

त्मोपासकाः , ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इति । अयमेव विशेषः, "तत् यय इत्थं विदुर्ये चेमेऽ

रण्ये (छाय 5.10.1) इति विभागनिर्देशाभिप्रेत इति भाष्यादिषूक्तः । सारे तु, ""उभेऽपि हि परिपुर्णं ब्रा हृोपा

सते मुखभेदेन; स्वात्मशरीरकं ब्राहृ केचन, ब्राहृात्मकस्वात्मानमितरे (4.#ि3.14) इति । अत एव, "सप्तमे

प्रकान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतिरिक्तत्वादब्राहृात्मकस्वात्मनुसन्धायी ' इति न भ्रमितव्यम्

। तस्य चोदरकोटिमात्रे निवेशः स्वात्मनुभवविलम्बविमुखज्ञानिव्यतिरेकात् । अर्चिरादिगतिनिषेधस्तु ब्राहृात्मकत्वानुसन्धानरहितस्वात्मोपासनविषयः

। इदमपि भाष्यादिषु व्यक्तमेवोक्तम्, ""तस्मादचिन्मिश्रं केवलं

वा चिद्वस्तु ब्राहृदृष्टया तद्वियोगेन च य उपासते, न तान्नयतिस ; अपि तु परं ब्राहृोपासीनान्, आत्मानं च

प्रकृतिवियुक्तं ब्राहृात्मकमुपासीनान् आतिवाहिको गणो नयति (ब्रा.4.3.15) इत्यादिभिः । यत्पुनरुच्यते,

""ये तु शिष्टारुायो भक्ताः फलकामा हि ते मताः । सर्वे च्यवनधर्माणः (भा.मो.350) इति ; तत्रापि आत्म

मात्रानुभवसुखस्य अस्थिरत्वादेव च्यवनधर्मत्वमुच्यते । 2. न तावता पुनस्संसारप्रसङ्गः, इन्द्रलोकात्परिभ #्रष्

टो मम गेय (लोक)परायणः । प्रसक्तस्सर्वसंसारैर्मम लोकं च गच्छचति ' (व.पु.39.98) "प्रच्युतो वा एषोऽ

स्माल्लोकादगतो देवलोकम् ' (यजु.6.1.1.5) इत्यादिष्विवोतेरोत्तरातिशयितचपदप्राप्तावपि पूर्वपदभ्रंशमात्र #ात्

च्यवनधर्मत्वाचोयुक्तेरविरोधात् । 1. परिमितसुखानुभवविलम्बेन तदानीं निरतिशयसुखानुभवाद्भ्रष्टत्वेनापि

निन्दोपपत्तेश्च । उपासनदशानुभूते परमात्मनि फलदशायां किञ्चित्कालमनुभवविच्छेदाद्वा प्राप्तभ्रंशलक्षणं

च्यवनधर्मत्वात्वम् । " प्रतिबुद्धस्तु मोक्षभाक् ' (भा,मो. 350) इति चाव्यहित 2. मोक्षभाक्त्वं प्रतिबु द्धस्योच्यते;

न तावताऽन्यस्य मोक्षभावः ; भुक्त्वा च भोगान् विपुलांस्त्वमन्ते मत्प्रसादतः । मामानुस्मरणं प्राप्य मम

लोकमवाप्स्यसि ।। ' (वि.5.19.16) 3. इतिवत् अविरोधात् । यथा च मुमुक्षोरेव कस्यचिन्मध्ये ब्राहृकाय

निषेवणम् । उत्क्रामति च मार्गस्थः शान्ती(श्शीतीभूतो) निरामयः (नैव क्वचन जायते) इत्यादिना ब्राहृकाय

निषेवणसङ्गान्मुक्तस्य देवयानेन मार्गेण परमाकाशगमनमुच्यते--तद्वदिहापि स्वात्मनुभवस्थानात्प्रच्युतस्य परम

व्योमाधिरोहः स्यात् । अर्चिरादिगतिश्चास्यावान्तरफलानुभवात् पश्चाद्वा, गतिमध्ये वा, दक्षिणायनसमृतस्य

चन्द्रमसत्सायुज्यत्वत् विश्रममात्ररूपोऽयमावान्तरफलानुभव इत्युभयथाऽपि न विरोधः ।एतेन पश्चादेवास्याप #्र

तीकालम्बनत्वमित्यपि निरस्तम् ; मधुविद्यावदेव प्रथममपि 4. तदुपपत्तेः । स्मरन्ति च स्वात्मानुभवस्थानं

मुक्तिस्थावादर्वाचीनम् ""योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् 5.। एकान्तिनस्सदा ब्राहृध्यायिनो योगिनो

हि ये । तेषां तत् परमं स्थानं यद्वै पश्यन्ति सूरयः ।। (वि.1.6.38) इति । अमृतस्थानवर्तिनां च

मुक्तत्वव्यपदेशो जरामरणादिविरहात् पुनर्जन्महेतुभूतपुण्यपापविगमाच्च ।

अस्ति च परित्यक्तस्थूलदेहानामपि तत्तुदुपसनाविशेषाधीनमपवर्गदर्वाचीनं फलम् । तच्च प्रकृतिलयाचदिशब्देन

साङ्खयाः पठन्ति, ""धर्मेण गमनमूध्र्वं गमनमधस्ताचद्भवत्यधर्मेण । ज्ञानेन चापवर्गो

विपर्ययादिष्यते बन्धः ।। वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्रागात् । ऐश्वर्यादचविधातो

विपर्यात #्

तद्विपर्यासः (सां.का.44,45) इति । "विपर्ययादिष्यते बन्धः'; स च त्रिविधः प्राक़ृतिको वैकृतिको दाक #्षिणि

कश्चेति । तथा प्रकृतावात्मज्ञानात् ये प्रकृतिमुपासते ; तेषां प्राकृतिको बन्धः । यः पुराणे प्रकृतिलयान् प्रकृ

त्योच्यते, ""पूर्णे शतसहरुां तु तिष्ठन्त्यक्तचिन्तकाः इति । वैकारिको बन्धः तेषाम् ; ये विकारानेव भूतेन्द्रियाहङकारबुद्धीरुपासते

पुरुषबुद्धया; तान् प्रतीदमुच्यते; यशा ""दश मन्वन्तराणीह तिष्ठन्द्रियचिन्तकाः।

भौतिकास्तु शतं पूर्णं सहरुां त्वाभिमानिकाः । बौद्धा दशसहरुााणि तिष्ठन्ति विगतज्वराः ते खलवमी विदेहा

येषां 1.वैकृतिको वन्धः इति । एवमव्यक्तादितत्वचिन्ताकानामिव प्रत्यगात्मतत्त्वचिन्चकानामपि

तदुचिदेशकालं ततोऽतिशयत्वं फलमुपपद्यते । 2. अत एव भूमविद्यायां प्रत्यगात्ममात्रोपासकस्याप्यतिवादि

त्वमुक्तम् । ब्रााहृात्कस्वात्मानुसन्धाने तु ब्राहृप्राप्तौ विश्रमादपुनरावृत्तिरिति विशेषः । अत एवाक #्षरानुभवस्यान्

तत्त्वे तदर्थिनः 3.कथमैश्वर्यर्थिवत् अपवर्गाधिकार्यन्तरत्वमित्यपि निरस्तम्, बाह्रान्तरभोक्तव्यविभागात्

आवृत्त्यनावृत्तियोग्य 4.ताभेदाच्च तद्भेदोपपत्तेः । विलम्बाक्षमाणां पुनरियं,निष्ठा, "सर्वधर्मांश्च संत्यज्य

सर्वकामांश्च साक्षारान् । लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो' (विह.सं) इति । "कैवल्यं भगवन्तं च मन #्

त्रोऽयं साधयिष्यिति ' (वृ.हा.3.40) इत्यादिष्वपि कैवल्यशब्देन आत्ममात्रानुभवसुखं तदपेक्षिभिः प्राप्यमुच्ते ।

एतच्चान्तरायकोटिनिविष्टत्वादादितः सावधाना 5. ज्ञानिनः परिहरन्ति ।

केचित्तु ब्राहृानुभववैमुख्येन नित्यमात्मानुभवसुखमिच्छन्ति ; न तत्र भाष्यताकारादिसंप्रदायं प्रमाणं

युकिं्त वा पश्यामः । निश्शेषकर्मक्षये स्वाभाविकरूपाबिर्भावेन ब्राहृानुवावश्यम्भावात्, कर्मशेषयोगे तु संसार

प्रसङ्गाच्च । 6. जरामरणादिहेतुभूतसर्वकर्मविनाशासंसारः, तावन्मात्रेण च मुक्तत्वव्यपदेशः । ब्राहृानुभव प्रति

बन्धनककर्मणस्त्वविनाशात् तदनुभवाभाव इति चेत्--अस्त्वेवम् 7. ; एतत्कर्म परस्तादपि न नङ्क्षयतीत्यत्र

न नियामकत्मस्ति इत्येषा दिक् ।

परप्राप्त्यादिरहितनित्यकैवल्यकल्पना । 1. सूत्रभाष्यश्रुतिस्मृत्याद्यबाधने न सिध्यति ।।

अतोऽधिकारिभेदेन ह्रवस्थाभेदमाश्रिताः। अन्यामपि गतिं प्रतीचीं प्रत्यपादयतन् ।।

तत्रावृत्तिपरप्राप्तिवैरूप्यादेरयोगतः । अस्मदुक्तं श्रुतिस्मृत्योरनपायं रसायनम् ।।

अर्चिरादिगतिमाहेगति कथमुच्यते? यत्र काले इति कालविशेषो ह्रुपक्रम्यत इत्यत्राह

अत्र कालशब्द इति । शारीरके दक्षिणायनादिमृतस्यापि मोक्ष उक्तः, ""अतश्चायनेऽपि दक्षिणे (बृ.4. 2.19)

इति । अत्र च, ""शुक्लकृष्णे गती ह्रेते (26) इति अनन्तरसावोच्यते ; अन्यथा अग्निज्र्योतिरिच्या

तिना च विरुध्येत । "नेते सृती पार्थ जानन्' (27) इति च मार्गवाचिना शब्देनोपसंह्यियत इति भावः । यत्र

काले प्रयाता इति व्यवहितेन संबन्धं दर्शयन्, योगिनामावृत्तिः कथमिति च शङ्कां परिहरन्, यत्र काले

इति श्लोकस्य वाक्यार्थमाह यस्मिन्निति । अत्र योगिनः ज्ञानिनः, पुण्यकर्मसंबन्धिनश्च । ""ससरूपाणामेकशेष

एकविभक्तौ (अष्टा.1.2.64) 3. इत्यनुशासनात् । यद्वा पुण्यकर्माण इत्यध्वाह्मतम् ।

"तेऽर्चिषभिसंभवन्तयर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षात् यान् षडुदङ्ङेति मासांस्तान्, मासेभ #्यस्संवत्

सरम्' (छा.5.10.1) इत्यादिश्रुत्यनुसारेणोक्तं संवत्सरीदीनां प्रदर्शनमिति । एतद्वैशद्यमर्चिरादिपादे । तत्रैव

(तदेव?) संगृहीतं वरदगुरुभिः, "" अर्चिरहस्सितपक्षान् उदगयनाब्दमरुदर्केन्दून् । अपि वैद्युदवरुणेन्द्रप्रजापतीन्

आतिवाहिकान् आहुः ।। (तत्त्व) इति । अग्निज्र्योतिरिति । अग्निरूपज्योतिरि

त्यर्थः । तेन देवयानप्रथमपर्वस्थार्चिविवक्षा । अत एवाग्निज्योतिषोर्भिन्नदेवतात्वं कालाभिमानिविशेषत्वं च

वदन्तः2. प्रत्युक्ताः ।। 23-24 ।।

08.25-25

पितृलोकादेरिति आदिशब्देन आकाशचन्द्रग्रहणम् । योगिनो धूमादिमार्गः पुनरावृत्तिश्च कथमुच्यत इत्यत्राह

अत्र योगशब्द इति । अत्र योगिशब्द उपायमात्रवाची; यद्वा संबन्धमात्रवाची ; धूमादिसामथ्र्यात्तु

पुण्यकर् मस्व

रूपसंबन्धिविशेषसिद्धिरिति भावः । ""अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति

(छा.5.10.3) इत्यादिका श्रुतिरत्रोपबृंहिता ।। 25 ।।

08.26-27

उक्तमार्गद्वये श्रुतिप्रसिद्धिः प्रदश्र्यते शुक्लकृष्णे इति श्लोकेन । अत्र शुक्लपक्षकृष्णपक्षान्वयाद्वा, शुद्धयशु

द्धिविवक्षया वा, अभिगन्तृस्वरूपस्याभिगन्तव्ये आरोपादेर्वा, गत्योः शुक्लकृष्णशब्दोपचारः । अत्राधिकृतवर्गद्वयविषयजगच्छब्दाभिप्रेतप्रदर्शनं

ज्ञानिनां विविधानां पुण्यकर्मणां चेति । ""इष्टापूर्ते दत्तमित्

युपासते (छा.5.13) इत्युक्ततत्ततकर्मनिष्ठभेदाभिप्रायेण विविधशब्दः । हिशब्देन श्रुतिप्रसिद्धिद्र्योतितेति

श्रुतावित्युक्तम् । शाश्वतत्वं प्रवाहरूपेणानाद्यन्तत्वम् ।। 3. व्यवस्थितत्वम्.....(?) नैते सृती इति श्लोकेन

। यद्यपि मार्गचिन्तनमप्युपासनवत् परमपुरुषप्राप्त्य(प्रीत्य)र्थमेव; तथाऽपि मार्गज्ञानं हि अभिगन्तुरव्याकुलगमनार्थमिति

लोके सिद्धम् । अत्रापि तथोपकारः संभवन्न परितायाजः; तत्प्रसादादावेव हि

तत्सिद्धिरपीत्यभिप्रायेणाह एताविति । कश्चनेति । कश्चिदपीत्यर्थः । न मुह्रति "तत्प्रकाशितद्वारः '

(व्र.4.2.13) इत्यादिप्रकारेण स्पष्टमार्गो भवतीत्यर्थः । मार्गद्वयज्ञानं हेयमार्गप्रवाहणार्थमित्यभिप्रायेणाह

अपि त्विति । गतिज्ञानस्य फलमुपदिश्य तस्मादिति हेतुतया परामृश्य साक्षाद्योगविधानस्यासङ्गतत्वात् योग

शब्दोऽत्र ध्यानमात्रविषयः ; तच्च ध्यानं प्रस्तुतगतिचिन्तनरुपमेव भवितुमर्हतीत्यभिप्रायेणाह तस्मादिति ।।27।।

08.28-28

इदं विदित्वेति सामान्यतो निर्देशादविशेषच्चैकप्रकरणभूताधयायद्वयार्थो गृह्रत

इत्यभिप्रायेणाह अथेति । वेदेष्वित्यपि यज्ञादिवत् फलकारणतयोपादान्म् ; न तु प्रतिपादकतया ; तदा

यज्ञादिफलव्यतिरिक्तविषयतया सङ्कोचनीयत्वापातात् । वेदाभ्यासस्य च दुरितक्षयादिफलप्रदत्वं श्रुत्यादि

सिद्धम् । यज्ञादिफलानां प्रतिपादकतयोपादाने प्रस्तुताध्यायद्वयार्थस्यापि वेदार्थस्वात् ततोऽपि

सङ्कोचः

स्यात् । तदेतत्सर्वमभिप्रेत्य वेदाभ्यासेत्युक्तम् । दाने चेति चकारस्यानुक्तसमुच्चायकत्वप्रदर्शनाय प् रभृति

शब्दः । पुण्यफलमित्यत्र पुण्यशब्देन फलविशेषणतया यज्ञादीनामेव सामान्यतो निर्देशः फलस्य श्लाघ्यता

प्रदर्शनार्थं इत्यभिप्रायेण यज्ञादिविशेष्यतया पुण्योष्वित्युक्तम् । अध्यायद्वयोदितं भगवन्माहात्म्यमिति ।सप्त

मारमभे पि भगवन्माहात्म्यं प्रक्रान्तम् ; तदनुबन्धादन्यत्सर्वमुक्तमिति भावः । परं स्थासपैतीति योगानुष #्ठान

साध्यस्य साक्षात्फलस्य पृथगुच्यमानत्वात् तद्विषत्वे पौनरुक्त्यात्, अधिकपुण्यफलप्राप्तिविवक्षायां लक्षितलक्षणापातात्,

संसारनिवृत्तिमात्रपरत्वेऽपि पुण्यफलशब्देन पापफलस्यापि लक्षियितव्यत्वात् तत्सर्वमत्ये

तीत्येतत् तद्विवेकमूलविरक्तभिप्रायम् । अतिशयितफलवेदनं हि ""मनः प्रीतिरनायसात् इत्यादिन्यायेन

फलान्तरवैतृष्ण्यहेतुरित्यहेतुभिप्रायेणाह एतद्वेदनेति । भगवन्माहात्म्य ज्ञानस्य परस्थानप्राप्तिहेतुत्वे प्रागुक्त

ज्ञानविशेषरूपद्वारप्रदर्शनं योगी इत्यनेन क्रियत इत्यभिप्रायेण ज्ञानी च भूत्वेत्युक्तम् । परत्वं दे शकाल

योगादिभिः, "आदित्यवर्णं तमसः परस्तात् ' (श्वे.3.8), "तदक्षरे परमे व्योमन् ' (ना.), "दिव्यं स्थानमजरं चा

प्रमेयम् ' (भा.मौ.5.32), "एते वै निरयास्तात स्थानस्य परमात्मनः ' (भा.मो.198.6) इत्यादेः । आद्यम्

अनादिमित्यर्थः । ""आदौ भवं कारणं ब्राहृ' इति परोक्तं तु स्थानशब्दवैघट¬ादपयुक्तम् ।। 28 ।।

।। इति श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायाम् अष्टमोऽध्यायः ।। 8 ।।