सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः १८
[[लेखकः :|]]

।।अथ अष्टादशोऽध्यायः।।18।।

1. कर्तव्यविशोधनप्रधाने अन्तिमेऽध्यायत्र्तिकेऽस्याध्यास्य पश्चाद्भावित्वज्ञापनाय षोडशसप्तदशयोर्देवासुरविभागोक्त्यादिमुखेन हेयोपादेयविभजनपरताया प्रघट्टकैक्यमभिप्रेत्याह अतीतेनेति। वैदिकस्य कर्मणस्सामान्यलक्षणं प्रणवान्वयः, .तत्र मोक्षाभ्युदयसाधनयोर्मेदस्तत्सच्छब्दनिर्देश्यत्वेनेति विभजमानस्यायमभिप्रायः --- विशेषणादिसामथ्र्यलब्धोऽयं विभागः। 'बहृणः पारोक्ष्यात् त दिति निर्देशः।

तज्ज्ञाने तु सन्मार्गत्व(सन्मात्र)विवक्षया स च्छब्दः। क्रमादेते सात्विकराजसतामसाः"इति विभागस्तु कस्यचिदुत्प्रेक्षाकल्पितः इति।। एवमुक्तेष्वप्यर्थेषु मोक्षसाधनभूतांशस्वरूपशोधनमुत्तराध्यायेन क्रियत इति सङ्गत्यभिप्रायेणाह अनन्तर मिति। "ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयताऽन्तिभे। स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते" (22)इति संग्रह श्लोके त्यागसंन्यासैक्यतत्स्वरूपानुक्तिरीश्वरे कर्तृताबुद्धेश्शेषतया तदुपन्यासादितिमन्तव्यम्।सत्वोपादेयत्वमत्र तात्पर्यवृत्याऽभाधीयत इत्यभिप्रायेणाह सत्त्वरजस्तमसां कार्यवर्णनेने ति। 'स्वधर्मज्ञानवैराग्यासाध्यभक्त्येकगोचरः' इति संग्रहारम्भोक्तप्रधानकर्तव्यपरोऽत्र्त शारुासारार्थशब्द इत्यभिप्रायेणाह सारार्थो भक्तियोग इति।स्वर्गादिसाधनानां यज्ञदानादीनां स्वरुपाविशेषेऽपि

यध्योगान्मोक्षसाधनत्वं,तद्विशेषमिदानीं शोधयितुमर्जुनः पृच्छतीत्यभिप्रायेन प्रकृते प्रश्नं सङ्गमयति तत्रतावदिति। सत्वविवृध्दितदुपायादिकथनं त्यागादिविशिष्टमोक्षसाधनकर्मार्थतया।संन्यासशब्दस्याश्रमविशेषादिरूडढेः त्यागमात्रेऽपि शक्तेश्च पृथक्त्वैकत्वशङ्का।वादिविप्रतिपत्यादिभिस्स्वरूपविशेषानिश्चयः। त्यागसंन्यासयोर्विशेषतस्तत्त्वबुभुत्साहेतुमाह त्यागसंन्यासौ हीति। कर्मस्वरूपे स्वर्गापवर्गादि साधारणे त्यागादिसंज्ञकविशेषणयोगादेव ह्रपवर्गसाधनत्वम्। अतः प्राप्ताप्राप्तविवेकेन विशेषणे तत्साधनत्वव्यपदेशः। संशयविपर्ययोपमदीं विशेष इह तत्त्वशब्देन विवक्षित इत्याह याथात्म्यमिति। पृथक्त्वं वेदितुमिच्छामीत्युक्ते निश्चितपृथक्त्वस्य तत्तत्स्वरूपजिज्ञासा प्रतीयो ; न च तत् युक्तम् पूर्वत्र पृथक्त्वनिश्चयहेत्वभावात् उत्तरत्र्त

चैकत्वस्यैव वक्ष्यमाणत्वात्। अतोऽयं प्रश्नोऽनुपपन्नः प्रतिवचनासङ्गतिश्चेत्यात्र्ताह अयमभिप्राय इति। तत्त्वं वेदितुमिच्छमीत्येतदेव विवक्षितम् पृथक्त्वनिर्देशस्तु संशयकोट¬न्यतरोपक्षेपमात्र्तपरः। पृथक्त्वमस्ति चेत् तद्वेदितुमिच्छामीति वा वाक्यावृतिरित्यभिप्रायेणाह किमिति।।1।।

पृथक्त्वैकत्वतत्स्वरूपजिज्ञासया प्रश्नश्चेत्, तत्र्त कस्मिन्नंशे काम्यानामित्यादिमतभेदोपन्यासस्य सङ्गतिरित्याह अथेति। अयमभिप्रायः --- न्यायतो ह्रत्र्त निर्णयः प्रतिपाद्यते ; संदिग्धे च न्यायावतारः सन्देहश्चात्र्त वादिविप्रतिपत्तिनिबन्ध इति न्यायविषयविशोधनाय विप्रतिपतत्त्युपन्यासः इति। एतेन कथितार्थयोरपि संन्यासत्यागशब्दयोर्विप्रतिपत्तिशमनाय अस्मिन्नध्याये पुनः प्रश्न इत्यपि सूचितम्। एकत्वस्वीकारेण प्रतिवचनात् पृथक्त्वप्रतिक्षेपोऽर्थसिद्ध इत्यभिप्रायेणाह एकमेव स्वरूपमिति। स्वमतस्य 'निश्चयं शृणु' इति (4) वक्ष्यमाणत्वात् कवयः, विचक्षणाः इति पदद्वयं नार्थप्राशस्त्यार्थ (र्थं)

वक्तूगौरवपरम् अपि तु विप्रतिपत्त्युपयुक्तवेदनमात्र्तपरमित्यभिप्रायेणाह केचनेत्युक्तम्। काम्यानां कर्मणां न्यास मिति विशेषणादितरेषामपरित्यागः प्रतीयते उत्तरत्र्त च सर्वकर्मफलत्याग मिति विशेषणादत्र्त काम्यस्वरूपत्यागश्चेत्यभिप्रायेणाह स्वरूपत्याग मिति। काम्यस्वरूपत्यागं वदतामयमभिप्रायः -- न तावत् नित्यनैमित्तिकवत् अकरणे प्रत्यवायात् कर्मान्तरानर्हतापत्तिभयाद्वा काम्यमनुष्ठीयते। न च त्र्तिवर्गसाधनाय तस्यापवर्गप्रत्यनीकत्वात्। न च तदेव कर्म अपवर्गस्यापि स्वयं साधनम् ; उपासनादिनैरर्थक्य प्रसङ्गात्। न च विनियोगपृथक्त्वेन विद्याङ्गतया तत्परिग्रहः यज्ञादिश्रुतेर्नित्यनैमितिकमात्र्तविषयत्वेऽपि विरोधाभावात्। अत एव हि,"सर्वापेक्षा च यज्ञागिश्रुतेरश्ववत्"(ब्रा.3.4.26) इत्यधिकरणमाश्रमधर्मसापेक्षतापरं भाष्यते। तस्मात् स्वर्गादिसंज्ञनरकहेतवः काम्याः क्रिया मुमुक्षुभिर्नानुष्ठेयाः इति। सर्वकर्मफलकत्याग मिति वदतां त्वयमाशयः- फलविरोधाद्विः त्यागः शङ्क्यते। अतः फलमेव त्यज्यताम्। न च निष्फलानुष्ठानप्रसङ्गः, नित्यनैमित्तिकवदेव

भगवत्प्रीतिमात्ना सर्वकर्मफलकत्याग मिति वदतां त्वयमाशयः- फलविरोधाद्वि काम्यानां त्यागः शङ्क्यते। अतः फलमेव त्यज्यताम्। न च निष्फलानुष्ठानप्रसङ्गः; नित्यनैमित्तिकवदेव भगवत्प्रीतिमात्नार्थतया तदनुषठानोपपत्तेः। न चैवं न विधिः; "यो वा एतदक्षरं गाम्र्यविदित्वाऽÏस्मल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्त्राव्यन्तवदेवास्य तद्भवति"(बृ. 5. 8. 9.) इत्यादिनाऽक्षरशब्दनिर्दिष्टपरमपुरुषवेदनाभ्यामेव तस्यैव कर्मणो नित्यानित्यफलसाधनत्वश्रुतेः। अतो नित्यनैमित्तिकानामिव काम्यानामपि न स्वरूपत्यागः इति। विवादस्य भिन्नविषयत्वायोगादत्र्त त्यागसंन्यासशब्दयोरेकार्थत्वावश्यम्भावात् पृथगर्थत्वशङ्कापरिहारोऽर्थलब्ध इत्याह तत्रेति। एतेन, संन्यासत्यागश ब्दयोः पृथगर्थत्वमङ्गीकृत्य कस्यचित् काम्यस्वरूप प्रहाणविषयतया (तां?) कस्यचितु नित्यनैमित्तिकफलोपेक्षार्थतां च वदन्तः प्रत्युक्ताः। न हृत्र्त काम्येतरकर्मंफलत्यागमित्युच्यते। ततश्च संकोचकाभावात् त्र्तिविधमपि कर्म संगृह्रति सर्वकर्मेति। तदिदमुक्तम् नित्यानां नैमित्तिकानां काम्यानां च सर्वेषां कर्मणा मिति। नित्यानामपि , 'प्राजापत्यं गृहस्थानाम्' (वि.1.6.37) इत्यादिना फलसंयोगोऽवगतः।। अत्र्त श्लोके त्यागसंन्यासशब्दयोरर्थभेदव्यत्पादनपरतां निरसितुमैकाथ्र्ये प्रस्पष्टं हेतुद्वमाह तथेति। न ह्रर्थद्वयविवयेऽत्र्त विमर्शे अन्यतरस्यैव निश्चय उपपन्न इत्यभिप्रायेणोक्तम् त्यागशब्देनै वेति। परस्परपर्यायतादर्शनाञ्चेति । अयमभिप्रायः -- 'नियतस्य तु संन्यासः कर्मणो नोपपद्यते' इति निषिद्ध एव हि संन्यासः कर्मणा 'मोहात् तस्य परित्यागः' इति त्यागशब्देनानूद्य तामसत्वेन निन्द्यते ; अन्था जरद्गवादिवाक्यात् परस्परान्वयप्रसङ्गात्। एवं 'भवत्यगिनां प्रेत्य इत्युक्ते' एवार्थः 'न तु संन्यासिनां कवचित्' इति व्यतिरेकेनण द्दढीक्रियते। न च तदन्याविधिरन्याभावस्य व्यतिरेकः। अत इमौ शब्दावत्र्ताप्येकार्थाविति। अङ्गीकृतमिति। प्रतिवक्तत्र्ता भगवतेति शेषः।।2।।

काम्याना मिति श्लोकेन फलविरोधतदभावद्वारा विरोधो दर्शितः। अथ त्याज्यं दोषवत् इति श्लोकेन स्वरूपतो दोषयोगतदभावाम्यां प्रत्यवायकर त्वादिंमुखेन विवादः प्रदश्र्यते। वैधहिंसऽपि कापिलैर्निषिद्धत्वेन दोषतयाङ्गीक्रियते। यथोक्तर्माश्वरकृष्णेन, "द्दष्टवदानुश्रविकः स ह्रविशुद्धिक्षयातिशययुक्तः"(सा.का.2) इति। उक्तं च पञ्चशिखाचार्यैः, "स्यात् स्वफल्स्संकरस्सुपरिहरस्सप्रत्यवमर्षः (र्शः)"इति। अतः 'वैधहिंसा पुरुषस्य दोषमावक्ष्यति, क्रतोश्चोपकरिष्यति' इति तन्मतम्। अतः एके इति शब्देन सामान्यतो

निर्दिष्टा वादिनः दोषवदिति हेत्वन्वयादिसामथ्र्यात् दोषाख्यद्दष्टान्तोक्तिबलाद्वा विशेषतो व्यञ्न्त इत्याह कापिला वैदिकाश्च तन्मतानुसारिण इति। एतेन सर्वकर्मस्वरूपसंन्यासवादिनां मतमपि वेदबाह्रत्वेन दर्शितम्। रागादिदोषव दिति। रगादयोदोषा बन्धाका इति सर्वसैद्वान्तिकसंमतत्वात् तदुदाहरणम् ; यद्वा कर्मैव रागादिदोषवत्; अत एव बन्धकमित्यभिप्रायः। अस्यां योजनायामादिशब्दो हिंसादिकमपि संगृह्णति। सर्वं यज्ञादिकं कर्मे ति कर्मशब्दोऽत्र्त सामान्यविषयोऽपि यज्ञदानतपः कर्म न त्याज्यमिति पक्षान्तरे विशेषमात् शारुाचोदितविषयः तत्र्त च विशेषाकाभावात् काम्यविषयत्वे पौनरुक्त्याञ्च सर्वविषय इति भावः। सर्वैस्त्याज्यत्वे तद्विधायकस्य शारुास्याप्रामाण्यप्रसङ्गात् मुमुक्षुणे ति विशेषितम्। अपरश ब्दोऽत्र्त स्वमतानुसारिविषयः। यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तदिति हि स्वमतं वक्ष्यत इत्यभिप्रायेणाह पण्डिता इति। त्याज्योपादेयविभागतत्त्वविद इत्यर्थः।।3।।

तत्र्तेतिशब्दः प्रकृते विप्रतिपत्तिविषयतानुवादमुखेन न्यायप्रवृत्तिषयसंदिग्धताद्योतक इत्यभिप्रायेणाह एवं वादिविप्रतिपन्न इति। मे निश्च मितयनेन मतान्तरेत्थानशङ्काव्युदासायाह त्यागविषयं निश्चयं मत्तश्शृण्विति। मत्तः

भ्रमादिदोषरहितादित्यर्थः। त्यागो हीत्या दिकं न वक्ष्यणाण सात्त्विकादित्यागत्र्तैविध्यविषयम् ; किं तु सात्तविकत्यागावान्तरभेदविषयम्, संप्रकीर्तितः इत्यस्य प्रागुक्ततत्परत्वस्वारस्यात्, हिशब्देन श्रोतृसंप्रतिपत्त्यादिप्रतीतेश्चेत्यभिप्रायेणाह त्यागः क्रियमाणेष्वेवेत्या दि। मयी सर्वाणी त्येत एव श्लोकरिुाविधत्यागपर इति अत्र्त निष्फानुष्ठानस्वरूपत्यागं, साङ्ख्यतशङ्कां च प्रतिक्षेप्तुम्, त्र्तयाणां स्वरूपं विविनक्ति कर्मजन्य मित्यादिना। मदीयफलसाधनतये त्यादि। स्वकीयप्रीतिसाधनतया स्वार्थमेव भगवान् प्रवर्तयतीति हि मुमुक्षोरनुसंधानमिति भावः। स्वकर्तृत्वस्य तादधीन्यतदनुमतिसापेक्षत्वादिभिस्सर्वेश्वरे कर्तृत्वानुसंधानम्। कर्तृत्वत्यागस्तु अनेककर्तृके परप्रयुक्तस्वात्मकर्तृक्तवानुसन्धानमित्युत्तरसत्र्त

विशोधयिष्यते।।4।।

एवं त्र्तिविधत्यागानुवादस्य स्वरूपत्यागव्यवच्छेदार्थतोच्यते यज्ञदाने त्यादिना। विविदिषाद्युत्पत्तेः प्राक्यज्ञादिकमनुष्ठेयम्, पश्चातु परित्याज्यमित्याख्यातीति केचित् ; तन्मतव्युदासायाह न कदाचिदपीति। 'स खल्वेवं वर्तयम् यावदायुषम्' (छा. 8.25.10) इति श्रुत्यभिप्रायेणाह अपि त्वाप्रयाणादिति। तथाच सूत्र्तम् 'आप्रयाणात् तत्र्तापि हि द्दष्टम्' (ब्रा.4.1.12) इति। अहरहरिति चोदितकालोपलक्षणम्। ननु विद्यानिष्ठस्य किमर्थं कर्म ? न तावदारादुपकारित्वेन ; समुञ्चयादिपक्षानभ्युपगमात्। नापि तत्त्वज्ञानार्थम् सपरिकरात् प्रमाणादेव तत्सिद्धेः। न च तदनुस्मरणरूपोपासानार्थम् तस्यापि संस्कारपाटवादिसाध्यत्वात् न चान्यत् किञ्चित् कर्मंसाध्यं मुमुक्ष्वपेक्षितं प्रयोजनं पश्यामः न च प्रयोजनमनुद्दिश्य मन्दस्यापि प्रवृत्तिरित्यभिप्रायेण कुत इत्याकाङ्क्षाप्रदर्शनम्। चकारोऽनुक्तसमुञ्चयार्थ इत्यभिप्रायेण प्रभृति शब्दः। वर्णाश्रमसंबन्धी नीति। नित्यनैमित्तिकानामपि स्वरूपत्याग इति यः पक्षः, स इह प्रतिक्षिप्यत इति भावः। यज्ञादीनां सन्निपत्योपकारद्योतनायोपकर्तव्यज्ञानस्वरूपपरोऽत्र मनीषिशब्द इत्यभिप्रायेणाह मननशीलाना मिति। मनस ईषिणो मनीषिण इति व्युत्पतौ फलितोक्तिरियम्। श्रवणानन्तरभावियौक्तिकभननव्यवच्छेदायाह मननमुपासनमिति। पावनानि मनीषिण मिति समभिव्याहारसिद्धमुपकारप्रकारं व्यनक्ति मुमुक्षूणामित्यादिना। 'प्रायणान्तमोकारमभिध्यायीत' इति पक्रम्य 'यः पुनरेतं त्र्तिमात्र्तेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत' (प्र.5.5) इत्यपासनं यावञ्चीवमनुष्ठेयमिति निगम्यते। अतस्तदङ्गमपि यावज्जीवमनुष्ठेयम्। तञ्च, 'स खल्वेवं वर्तयन् यावदायुषम्' (छा.8.15. 10) इत्यादिभिर्वण्र्यत इति भावः। उपासनवदुत्तराधनिवर्तकत्वाभावात् प्रजीनशब्दः।।5।।

एवं पावनत्वोक्त्या त्याज्यं दोषवदिति पक्षः प्रतिक्षिप्तः। निश्चयं शृण्वित्यादिनोक्त एवार्थः एतान्यपीति श्लोकेन निर्दोषत्वाध्यबसायार्थं निगमनात्मना द्दढीक्रिया इत्यपुनरुक्तिः। हेतुसाध्यभावेन पूर्वोत्तरग्रन्थौ संगमयति यस्मादिति। मनीषिशब्दसूचितोपासनसमानयोगक्षेमताद्योतनाय अपि शब्द इत्याह उपासनवदेतान्यपी ति। परमात्मप्रीतिद्वारा कर्मणां पावनत्वादिसिद्धयर्थमाह मदाराधनरूपाणीति। सङ्गशब्दस्य फलत्यागोक्त्या पुनरुक्ति परिहरति कर्मणि ममता मिति। निश्चित मिति। नात्र्त पुनस्त्वया संशयितव्यमिति

भावः। उत्तममिति असर्वज्ञानामप्येषामेतद्विरुद्धं स्वरूपत्यागादिमतं सर्वमधमत्वादनादरणीयमिति भावः।।6।।

अथ नियतस्येत्यादिना मतान्तराणामधमत्वं स्वमतस्योत्तमत्वं च प्रपञ्चयते। वर्णाश्रमप्रयुक्ततया दुस्त्यजत्वं नियतशब्देनाभिप्रेतमित्याह नित्यनैमित्तिकस्येति। तु शब्दसहितः संन्यासशब्दोऽत्र्त त्याज्यं दोषवदित्यत्र्त (त्युक्त) स्वरूपत्यागानुवादी स एव हि मोहात्तस्य परित्यागः इत्युतरार्धेन निन्द्यत इत्यभिप्रायेण संन्यासस्तया इत्युक्तः। पावनत्वेनावश्यकर्तव्यत्वे शिष्टे, पुनः त्यागोनपपद्यत इति शासनं प्राक्प्रपच्चितद्दष्टाद्दष्टानुपपत्तिस्मारणपरमित्याभिप्रायेणानुपपर्ति विवृणोति शरीरयात्र्ताऽपीति। केवलाशनादिनाऽपि लोकिकदेहयात्र्ता सिध्येदित्यात्र्ताह शरीरयात्र्ता हीति। "पञ्च भूतात्मकैर्भोगैः आप्यायनमित्यात्र्ताह अन्नमयं हीति। सात्त्विकाहंकारकार्यस्यान्नविकारत्वासंभावादाप्यायनोक्तिः।""स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः"भिद्यते ह्रदयग्रन्थिः (मु.2.2.8) इत्यादिकया समानार्थया श्रुत्या दर्शनशब्देन विशेष्यत इत्यभिप्रायेण ब्राह्रसाक्षात्काररूपमित्युक्तम्। विशदतमत्वात् साक्षात्कारेक्तिरिह भाव्या। सकृदनुष्ठितस्य विद्योपकारित्वशङ्कां परिहारम् निगमयति तस्मादिति। नोपपद्यते इत्यस्य कारणाभावे कथं कार्य स्यादिति भावः। उक्तप्रकारेणापरित्याज्यत्वनियमवत्त्वं तस्ये त्यनूद्यत इत्यभिप्रायेणाह एवं ज्ञानोत्पादिन इति। 'त्याज्यं दोषवदि'त्यनूदितस्य मतस्यैतद्दूषणमित्याभिप्रायेणाह बन्धकत्वमोहादि ति। "तत्र्त भवः"(अष्टा.4.3.53) इत्यण्प्रत्ययेन तामसशब्दं निर्वक्ति तमोमूल इति। संबन्धमात्र्तेऽपि तद्धितार्थे फलितविशेषोऽम्।

तामसबुद्धिमूलत्वेन सद्वारकं तमोमूलं विवृणोति तमः कार्येति। नन्वत्र्त समभिव्याह्रतमोहमूलत्वेनैव तमोमूलत्वे दर्शयितव्ये तमः कार्याज्ञानमूलत्वोक्तिः किमर्था? तदर्थैव न ह्रुक्तस्यैव पुनश्शब्दान्तरव्यञ्चने प्रयोजनम् थ्;अधिकबोधनं तु युक्तमविरुद्धं चेति।। ननु "प्रमादमोहौ तमसो भवतोऽज्ञानमेव च"(14.17) इति श्लोके मोहशब्देन विपरीतज्ञानस्य पृथगुक्तत्वादज्ञानभाव उच्यत इति व्याख्यात् इह पुनः, अज्ञानं तु ज्ञानविरोधि

विपरीतज्ञानम् इति कथमुच्यते इत्थम्। ज्ञानाभावस्यापि प्रवृत्तिहेतुत्वं विपरीतज्ञानद्वारेति प्रदर्शनार्थं श्लोकस्थमोहशब्दस्य प्रयोजनान्तरविवक्षयावा, श्लोकस्थस्याज्ञानशब्दस्य मोहविषयत्वज्ञापनार्थं वेति। तामसबुद्धेः कर्मत्यागहेतुतां वक्ष्यमाणेन व्यनक्ति तथाचेति। तत्वविदो न परित्यजन्मतीत्यभिप्रायेण तामसनिर्देशफलितं निगमयति अत इति। नित्यनैमितिकादेरिति आदि शब्देन फलाभिसंधिरहितकाम्यानामपि वक्ष्यमाणानां ग्रहणम्। विपरीत ज्ञाने त्यनेनायथाज्ञानमूलात् राजसत्यागात् विशेषप्रदर्शनम्। अयथावदि ति (29)हि राजसबुद्धिर्वक्ष्यते।।

तदेवमन्तरङ्गतया स्वरूपशब्दव्यपदेश्यस्वरूपनिरूपकधर्मप्राणप्रदधर्मवैपरीत्याभावेऽपि निरूपितस्वरूपविशेषकधर्मवैपरीत्येन राजसीं बुदिं्ध वक्ष्यमाणामनुस्मरन् राजसत्यागं विवृणोति- यध्यपि त्यादिना।

दुःखमित्येवे त्यवधारणात् कायक्लेशभया दिति चोक्तेरधर्मत्वमोहोऽत्र नास्तीति फलितम्।'अर्थानामार्जने दुःखम्'

(भा ,व,2.44) इत्याध्यनुसारेणाह- दुःखात्मके ति । मनसोऽवसादकर मिति।अनवसादो हि विवेकातिसाधनसप्तकेगणित इति भावः।अन्तरङ्गबहिरङ्गविरोधे बहिरङ्गत्यागो युक्तइत्यभिप्रायेणाह

ज्ञानभ्यास एवे ति ।"यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः।आत्मज्ञाने शमे च स्यात् वेदाभ्यासे च यत्नवान्"(मनु. व.12. 92) इत्यनुवादवाक्यानि अस्यमूलम्। स कुत्वा राजसं त्यागमित्यनुबादविवक्षितमाह अयथावस्थितेति। वक्ष्यमाणसात्त्विकत्यगफलमिह त्यागफलशब्देन विवक्षितम्, मुमुक्षुप्रकरणत्वात् कर्मत्यागे तत्साध्यस्वर्गादिफलस्य प्रसङ्गाभावाञ्चेत्यभिप्रायेणाह ज्ञानोत्पत्तिरूप मिति। दुः खात्मकत्वादिप्रयुक्तमनोवसादशङ्कां परिहरति नही ति। "फलसंबिभन्त्सया हि"(द्र.भा.) इत्याद्युक्तक्रमेण कर्मभिः प्रसादितो भगवान् मनसोऽनवसादमेव करोतीत्यर्थः।।8।।

अथ त्यागो हीत्यादिना स्मारितमेवोद्धृत्य सत्त्वकार्ययथावस्थितज्ञानमूलतया तस्यैव शारुाीयत्वं द्रढयति कार्यमित्येवेति श्लोकेन। 'नियतस्य तु संन्यासः कर्मणो नोपपद्यते' (8) इति प्रक्रमादिहापि नियतशब्दः कर्मविशेषणमिति तदर्थमाह नित्येति। आहत्य कार्यत्वं हि प्रयोजनस्यैव तदर्थतयैव हि साधनस्य कार्यता तस्मादफलस्य कथं कर्तव्यत्वमित्यत्र्ताह मदाराधनरूपतया कार्य मिति तदभिप्रेतमाह खयंप्रयोजन मति। कर्तृत्वत्यागोऽप्यत्र्तानुसंधेनः। अत एव ह्रनन्तश्लोके त्यागीति शब्दः सङ्गफलकर्तृत्वत्यागीति व्याख्यायते।।9।।

सत्त्वादिमूलशारुाीयत्यागयुक्तस्य, 'वर्तते सात्त्विको भावः' (मो.ध.291.21), "इत्युपेक्षेततत्

तदा"(मो.ध.292.29), उदासीनवदासीनः (गी.14.23) इत्यादिप्रसिद्धं विकाराभावरूपं लक्षणमुच्यते न द्वेष्टीति श्लोकेन। तेनोक्तलक्षणत्यागस्य सत्त्वमूलत्वमप्युपपादितं भवति। तत्र्त हेतुकार्यक्रमौचित्येन भिन्नक्रमतया व्याख्याति सत्त्वसमाविष्ट इत्यादिना। 'धीर्धारणावतीभेधा' (नाम.1.धी.) इति नैधण्टुकाः। श्रुतिश्च, 'मेधामनीषे मा विशतां समीची भूतस्य भव्यस्यावरुध्यै' (य आ.5.52) इति। अत्र्त आचार्योपदिष्टेष्वर्थेषु अप्रच्युतेरन्यासङ्कराञ्च फलितमाह यथावस्थिततत्त्वज्ञान इति। अत्र्त शुभाशुभपर्यायकुशलशब्दाभ्यां प्रतिषिध्यमानद्धेषसङ्गहेत्वनुवाद इत्यभिप्रायेणानिष्टफलत्वाद्युक्तिः। त्यागी त्युक्तस्य त्यागस्य हेतुतां विवृणोति सर्वस्मिन्नित्यादिना। यथाऽन्दीयेऽन्यकर्तृके कर्मणि स्वसंबन्धविरहात् बाधकाद्यभावनिश्चयेन द्वेषाद्यभावः, तथाऽत्र्तपीत्याभिप्रायः। अननुष्ठानदशायां (हि) हर्षद्वेषप्रसङ्गाभावात् क्रियमाणयोरि त्युक्तम्। ननु कुशले नानुषञ्जते इत्येतत् युक्तम् ; स्वर्गादिषु निस्सङ्गातामात्र्तेण काम्यानुष्ठानेऽपि तत्फलानन्वयशारुाात् ; न द्वेष्ट¬कुशलं कर्मेति तु विरुद्धम् ; फलसङ्गाभावप्रसङ्गात्। न हि नरकादिकं कस्यचिदिष्टं स्यात्। एवं द्दष्टप्रत्यवायहेतुष्वप्यद्वेषो न युक्त इत्यत्रा प्रामादिकविषयत्वेन परिहार उक्तः। नन्वधिकारिविशेषे बुद्धिपूर्वैरपि पापकर्मभिरलेपः किं न स्यादित्यत्राह नाविरत इति। एतच्छ्लोकार्थं प्रकृतहेतुतया घटयम् परमप्रकृतं निगमयति अत इति।। 10।।

नियतस्ये त्यादिप्रतिपादितयुक्तिविवरणपूर्वेकं फलत्यागेनोपलक्षणेन प्रागुक्तरिुाविधोऽपि सात्त्विकत्यागः नही ति श्लोकेन निगम्यत इत्याह तदाहेति। अत्रा देहमृते ति न प्राणिमात्रानिर्देशः, अनुपयोगात्। अतः कर्मस्वरूपत्यागाशक्याताहेतुरवयवार्थो विवक्षित इत्यभिप्रायेणाह ध्रियमाणशरीरेणे ति। शक्यमिति

त्यजनपरत्वान्नपुंसकत्वैकत्वे, सामान्यरूपविवक्षणाद्वा। देहभृत्त्वहेतुकमशक्यत्वं विवृणोति देहधारणार्थाना मिति। तदनुबन्धिनः अर्थार्जनादयः भवन्तु लौकिकानि ; किं शारुाीयैरित्यात्राह तदर्थें चेति। श्रुतिस्वारस्यहेतुकां

स्वरूपत्यागशङ्कां परिहर्तुं यस्मित्व त्यादिकमुच्यत इत्यभिप्रायेणाह यस्त्बिति। 'अभिधीयते' इत्यस्य कैरित्याकाङ्क्षाशमनाय 'त्यागेनैके' इत्यादिश्रुत्युपादानम्। प्रक्रान्तनिगमनपरत्वेन प्रदर्शनार्थतां द्रढयति त्राविध इति।।11।।

लौकिकफलसाधनकर्मप्रकिययैव हि वैदिकानामपि फलसाधनत्बव्यवस्थापनम्। लौकिकानि च कर्माणि फलेच्छाभावेऽपि स्वशक्त्यनुरूपं फलन्ति। एवं वैदिकेष्वपीत्यभिप्रायेण शङ्कते नन्बिति। नन्वग्निहोत्रादीनां महायज्ञादीनां च विनियोगपृथक्त्वेन आश्रमाङ्गत्वस्वर्गाद्यर्थत्वादिविरोधात् स्वर्गाद्यर्थतयाऽनुष्ठानं मा भूत्, आश्रमार्थतयाऽनुष्ठाने तु को विरोध इत्यत्राह नित्यनैमित्तिकानामपी ति। बीजावापादिद्दष्टान्तेन अकुशल मित्युक्त्स्य प्रामादिकस्यापि बन्धकत्वं सूचितम्। न हि भूमौ प्रमादनिपतितं बीजं न फलति। तस्माति आम्र (अमृत)रसार्थिनो विषतरुबीजावापतुल्योऽयं कर्मकलाप इत्यभिप्रायेण फलितं स्वरूपत्यागमाह अत इति। अमुमुक्षूणामिदमनिष्टत्वादित्रौविध्यम्, मुमुक्ष्वपेक्षया स्वर्गादेरप्यनिष्टत्वात् -- इत्यभिप्रायेण नरकस्वर्गादिकथनम्। कारीर्यादिसाध्यवृष्ट¬ादिफलानां जीवद्दशाभावित्वस्थितेः प्रेत्येति प्रदर्शनार्थम् ; अन्यथा तस्मिन्नेव शरीरे त्यागिनामपि बाधाच्ञेत्यभिप्रायेणाह कर्मानुष्ठानोत्तरकाल मिति। अत्राप्यनष्टफलानन्वयः पूर्वोक्तरीत्या प्रामादिककर्मविषयो मन्तव्यः। उक्तस्य चोद्यस्य प्रतिज्ञामात्रोणोत्तरमिदमुच्यते ; न तु कयाचित् युक्त्येत्यत्रा आह एतदुक्त मिति। विनियोगपृथक्त्वं विनियोजकवाक्यपृथक्त्वेन ग्राह्रम्। विनियोगपृथक्त्वेन ज्योतिष्टोमादिषु पापक्षयादिनानाफलत्वं सिद्धम्। परिह्रियते। विरुद्धफलत्वचोद्यमिति शेषः। ननु 'तमेवं विद्धानमृत इह भवति। नान्यः पन्थाः' (पु) इति नियमनाद्वेदनमेव मोक्षसाधनतया विधीयते। कर्म तु व्यवच्छिद्यते। अतः कथं मोक्षाधिकारे विनियोगोक्तिः? तत्राह मोक्षविनियोगश्चे ति। असिना जिधांसति, अश्वेन जिगमिषतीत्यादिष्विवार्थस्वभावादिहापीष्यमाणधात्वर्थ --- करणतयाऽन्वयः। अतो वेदनोत्पत्तिद्वारेण परम्परया साधनत्वान्मोक्षविनियोगः। अव्यवहितसाधनविवक्षया तु "नान्यः पन्थाः"इत्यादिभिर्निषेध इति भावः।।

एवं परिपश्नाभिप्रेतमन्यथाऽपि प्रतिवक्तुमुपक्रमत इत्यभिप्रायेण संगत्यर्थमुक्तमंशं निगमनच्छाययाऽनुवदति तदेव मिति। तत् स्वरूपत्यागादेस्तामसत्वादित्यर्थः। एवं वर्णाश्रमादिनियतस्य

दुस्त्यजत्वप्रकारेणेत्यर्थः। अस्मिन्नेव श्लोके, 'भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां कचित्' इति त्यागाभावविपर्ययस्य संन्यासशब्दे नानुकथनात् त्यागसंन्यासपृथक्त्वाशङ्का च परिह्रतेत्याह स एव च त्याग इति।।12।।

अनिष्टमिष्टम् इत्यादेरनन्तरं कारणपञ्चकोक्तेः का संगातिरित्यत्राह इदानी मिति। साक्षात्पश्नविषये प्रत्युक्ते सतीत्यर्थः। भगवति, पुरुषोत्तमे इत्युभाभ्यां प्रागुक्तप्रकारेण सर्वान्तर्यामिणः तद्गत्वतत्प्रयुक्तदोषाभावख्यापनम्। प्रकारमाहे त्यनेन आमतृतीयाध्यायादनुक्रान्तस्याकर्तृत्वानुसंधानस्यात्रौव सहेतु कयथावस्थितस्वरूपशोधनमिति दर्शितम्। त्रिषु त्यागेषु प्रक्रान्तेषु अन्तमस्य प्रकारशोधनमिति संगातिः। त्रिविधेऽपि त्यागे सात्त्विकतया प्रकान्ते किमिति कर्तृत्वत्यागप्रकारमात्रोपपादनमित्यत्राह तत एवे ति। इति शब्दोऽत्रा हेत्वर्थः। ऋत्विगादिषु कर्तृत्वेऽपि यजमानादेः कर्मणि फले च ममता द्दश्यते ; तद्वदस्यापि किं न स्यात्; अतः कर्तृत्वत्यागमात्रात् कथं कर्मणि फले च ममताबुद्धिनिवृत्तिरित्यत्राह परमपुरुषोही ति। ही ति प्रमाणप्रसिद्धिसूचनम्। "त्वं न्यञ्चद्भिरुदञ्चद्भिः कर्मसूत्रोपपदितैः। हरे विहरसि क्रीडाकन्तुकैरिव जन्तुरिव जन्तुभिः"।। (शेषधर्मे), "बालः क्रीडनकैरव"(भा.स.61.31), "कृष्णस्य हि कृतेभूतमिदं विश्वं चराचरम्"(भा.स.41.23) इत्यादिप्रसिद्धमाह स्वकीयेनेत्यादिना। करणाधिपाधिणे हि परमपुरुषः श्रूयते। अतः करणानां जीवशेषत्वदशायामपि गजतुरगाद्यलङ्कारेषु राज्ञ इव परमपुरुषस्य शेषित्वं न निवर्तत इत्यभिप्रायेणाह स्वकीयैश्च करणकलेवरप्राणै रिति। सङ्कोचकाभावाद्द्दष्टाद्दष्टफलप्रदानादिकमपि तस्य लीलेत्याह स्वलीलाप्रयोजनायेति। "लोकवतु लीलाकैवल्यम्"(ब्रा.2.1.33) इत्यादिभिरिदं मीमांसितमिति भावः। लीलादिप्रयोजनाये ति पाठे तु आदिशब्देन कारुण्यादिमूलभक्तरक्षणादिग्रहणम्। ननु शारुाीयस्य कर्मणः परमपुरुषसमाराधनतयैव विधानात् फलपर्यन्तस्य तस्य तदीयता युक्ता लौकिकं तु कर्म तथा शिष्टम् नापि तथाऽध्यक्षम् ; क्षुन्निवृत्त्यादेः फलस्य जीवगामित्वेनैवोपलम्भात्। अतो लौकिकानां फलानां जीवशेषत्वे

तत्साधनस्यापि कर्मणस्तदर्थता युक्ता तस्मातम् सिद्धये सर्वकर्मणामि त्यादिभिः सर्वविषयसङ्गत्यागाद्युपपादनमशक्यमिति; तत्राह अत इति। परमपुरुषस्यैवे ति षष्ठी स्वस्वामिभावख्यसंबन्धविशेषविश्रान्ता। यथा पञ्चरशकुन्तपोषणादिकं

तत्सुखादिकं च सार्वभौमस्य शेषभूतम्, तथाऽत्रापीति भावः।।(12)

सांख्ये कृतान्ते इति सांख्यसिद्धान्तो विवक्षितः, तत्रोश्वरानभ्युपगमात्, करणातिरिक्तस्य कर्तृत्वानभ्युपगमेन, 'कर्ता करणं च पृथग्विधम्' (24) इति कर्तृकरणविभागोक्त्यसंभवात्। तस्य वेदविरुद्धत्वे तत्त्वोपदेशाय तदुपन्यासायोगात्। अविरुद्धत्वेऽपि वेदमूलत्वस्यैवाङ्गीकर्तृव्यत्वे वेद एव विश्रमात्। अर्थौचित्याय च रूढिपरित्यागेन यौगिकार्थावलम्बनस्य सर्वसंमतेः। अतो वेदेष्वेव यथावस्थिततत्त्वनिर्णयाय प्रवृतो भागः सांख्कृतान्तशब्देन विवक्षित इत्यभिप्रायेण निर्वक्ति संख्या बुद्धि रिति। प्रकरणानुरोधेन बुदिं्ध विशिनष्टि यथावस्थिते ति। यदिह शङ्करेणोक्तम्, "पदार्थाः संख्यायन्ते यस्मिन् शारुो तत् साख्यं वेदान्तः, स एव कृतान्तः कृतस्य कर्मणोऽस्मिन्नन्तः इति तदसत्, वेदन्तेष्वपि कर्मान्वयस्य स्थापितत्वात्। रूढिपरित्यादे चावश्यंभाविन्युचिततमयोगस्यैव ग्रहीतुं युक्तत्वात्। अन्तशब्दो निश्चयपरतया नैधण्टुकैः पठितः स एव बुद्धिपूर्वसंषादिततया कृतशब्देन विशेष्यत इत्यभिप्रायेण अनुसंहिते निर्णय इत्यक्तम्। यद्वा निर्णयशब्दोऽत्रा निणीतवस्तुपरः कृतान्तशब्दस्य सिद्धान्तपर्यायस्य तत्तदभ्युपगतार्थरूढत्वात्। अत एव हि अनुसंहित इति विशेषितम्। न हि निर्णय एवानुसन्धातव्यः। अथवा प्राचां निर्णयः परैरनुसंहित इति विशेषितम्। न हि निर्णयशब्दः। तदानीं प्रोक्तानीत्य नेन समन्वयः। सिद्धि शब्देन फलपर्यन्तत्वादिकमिहाविवक्षितम् ; 'यत्कर्मप्रारभते, पञ्चैते तस्य हेतवः' इति कर्मस्वरूपोपसंपत्तेरेवानन्तरोक्तेरित्यभिप्रायेणाह उत्पत्तय इति। ममकारणानी त्यसंभवात् मदीयानि कारणनीत्युक्तेरिह दैव शब्दनिर्दिष्टस्य स्वस्य स्वकीयत्वाभावेनानन्वयादुचितमन्वयमाह मम सकाशादनुसन्धत्स्वे ति। वक्ष्यमाणानां पञ्चानां यथादर्शनं विविक्ते हेतुभावे मनस्समाधानविधानार्थमिदमिति भावः। षङ्विशकमनभ्युपगच्छता पञ्चविशकं च कर्तृत्वारोपमात्राधिकरणं प्रतिपादयतां प्रकरणमिदं विरुद्धमित्यभिप्रायेण यौगिकार्थपरत्वमुपपादयति वैदिकी

ही ति। शरीरेन्द्रियप्राणजीवात्मोपकरण मिति बहुव्रीहिः। उपकरणं विवक्षितकार्यार्थतयोपात्तः परिकरः।।23।।

उक्तविवरणतया श्लोकद्वयस्यापुनरुक्ति परमते विरिधं चाभिप्रेत्याह तदिदमाहे ति। तत् श्रुतिसिद्धम्, इदं विवक्षितमित्यर्थः। न्याय्यं न्यायादनपेतम्; "धर्मपथ्र्यन्यायादनपेते"(अष्टा.4.4.92) इत्यनुशासनात्। न्याय शब्दश्चात्रा अर्थान्तरानौचित्यात् व्युत्पत्त्यनुरोधाञ्च शारुामेवानुसन्धत्त इत्यभिप्रायेणाह शारुासिद्ध
इति। शारुासिद्धेन सह लौकिकविवक्षायां तदन्यद्वेति वक्तव्यम् विहिते निर्दिष्टे विपरीत शब्दश्च निषिद्धे स्वसः, कैमुत्येन च लौकिकं लभ्यमित्यभिप्रायेणाह प्रतिषिद्धे वे ति। सर्वस्मिन् कर्मणी ति फलितोक्तिः। यथा शारीमानसवाचिकेषु कर्मसु शरीरादीनां प्राधान्येन प्रतिनियतता न तथाऽमी पञ्च हेतवः अपितु प्रतिकर्म पञ्चाप्यपेक्षिता इत्यभिप्रायेणाशारीरत्वाद्युक्तिः। पञ्चहेतुकेषु सर्वेषु प्राधान्यादेव हि शारीत्वादिविभागः। यद्यपि जगत्सृष्ट¬ादिषु परमात्मना स्वेच्छयैवमुकरणीकृतान्येतानीत्याभिप्रायेण हेत्वन्तरोक्तिः।

"अधिष्ठानं क्षेत्रामाहुः"(भा.मो.319.14) इति करालायाह वसिष्ठः, तदनुसारेणाह अधिष्ठानं शरीर मिति। श्रुतिश्च, "मधवत् मत्र्थं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानाम"(छा.8.12.1) इति शरीरेऽधिष्ठानशब्दं व्युत्पादयति अधिष्ठीयत इति। अधिष्ठातुजींयस्यापि करणादेः पृथङ्निर्देशात् तत्संकोचायाह महाभूतसंधातरूप मिति। विश्वकर्तृरिह दैवशब्देन पृथग्ग्रहणात्, कर्तृशब्दस्य चात्रा "शारुाफलं प्रयोक्तरि"(पू.मा.3.7.17)इति न्यायसूचनार्थत्वाञ्च कर्ता जीवात्मे त्युक्तम्। ननु कर्तृत्वं हि ज्ञानचिकीर्षापूर्वककर्मार्थप्रयत्रायोगित्वम् ; ज्ञानमात्रास्यात्मनो ज्ञातृत्वासंभवात् तन्मूलं कर्तृत्वमपि नं स्यादेवेत्यत आह अस्य जीवात्मनोज्ञातृत्वं कर्तृत्वे चेति। 'ज्ञोऽत एव' इत्यादिसूत्राग्रहणं श्रुत्यादेरपि तत एवाऽऽकर्षणात्। कर्मोत्पतिहेतूपन्यासात् करणशब्दोऽत्रा कर्मेन्द्रियमात्रापर इत्यभिप्रायेणाह वागिति। यद्यपि ज्ञानेन्द्रियाणां तत्तद्विषयज्ञानोत्पादनद्वारा परम्परया कर्मणि हेतुत्वमस्ति, तथाऽपि वस्तुमात्रेष्वावलोचितेषु मनसा संकल्पयैव कर्मकरणात् मनश्चान्यव्यापाख्यवधानाभावात् समनस्क मित्युक्तम्। ज्ञानेन्द्रेश्यापि मनसः कर्मेन्द्रियप्रवत्तिष्वपि

साधारण्यात् कर्मेन्द्रियत्वोक्तिः। शरीर

वाङ्मनोभिरि ति अत्रैवोक्तेः मनसः संकल्पादिकर्मापेक्षया वा कर्मेण्द्रियत्ववादः । साख्यैरप् येवमोवोक्तम्,

"बुद्धीन्द्रियाणि चक्षुश्श्रोत्रघ्राणरसनस्त्वगाख्यानि । वाक्यपाणिपादपायूस्थान् कर्मेन्द्रियाण्याहुः ।। उभयात्

मकमत्र मनः संकल्पकमिन्द्रियं च साधम्र्यात् (सां.का.26.27)इति । कर्महेतुषूपादीयमानेषु पृथग्विध

मिति विशेषणं तदुपयुक्तव्यापाराख्यविधापरिमित्याह कर्मनिष्पत्तौ पृथग्व्यापार मिति । वागादिष्वेकैकस्य

वचनादान विहरणोत्सर्गानन्दसंकल्पादिक्रियाव्यापारो हि मिथो विलक्षणः ।

प्रयत्नमूला शरीरादिक्रियैव हि चेष्टादशब्देन पञ्चात्मा वायुरि ति । अभिधीयत इति शब्देन प्रितपादन

मात्रं विवक्षितम् । अत्र (ढददृ1)तद्धेतावन्यस्मिन् लक्षयितव्ये वागादीनां करणादिशब्दैरुपात्तत्वात् प्राण

संवादादिषु करणानां शरीरस्य च स्थितिप्रवृत्तेः(त्त्योः?) प्राणायत्तत्वश्रुतेः, "(2 ढददृ) प्राणप्रवृत्तिनिमित्त

चेष्टावाचिना शब्देन प्राणलक्षणाऽत्र युक्तेत्यभिप्रायेणाह तद्वत्तिवाचिने ति । चेष्टाशब्देने ति पूर्वेणान्वयः ।

प्राणसंवादादिस्मारेणेन प्राणलक्षणाया औचित्यं वृत्तेर्वैविध्यं त विवृणोति शरीरेन्द्रिये ति । पृथक्छब्दविवि

ध शब्दयोः पौनरुक्त्यपरिहारायाह शरीरेन्द्रियधारकस्य प्राणपानादिभेभिन्नस्ये ति । अधिष्ठानकर्तृकरण

व्यापारापेक्षया शरीरेन्द्रियवर्गरूपविषयभेदेन च पृथक्त्वं प्राणादिवृत्तिभेदप्रतिनियतोच्छ्वास निमेषोन्मेषादि

व्यापारैर्वैविध्यं चेति भावः । पञ्चात्म शब्दोऽत्र (ढददृ3) पञ्चवृत्तित्वपरः ; तथा च सूत्रम्, ""पञ्चवृत्तिर्मनो

बद्वयपदिश्यते (ब्रा.2.4.11) इति । पञ्चवृत्तित्वोक्तिश्च नागकूर्मकृकरदेवदत्तधनंजयरूपवृत्त्यन्तरपञ्

चकस्यापि प्रदर्शिका । दैवं चैवात्र पञ्च ममित्यत्र दैवाख्यप्रधाननिर्धारणार्थ मत्रे त्युनुवाद इत्याह अत्र कर्म

हेतुकलाप इति । परमात्मनः पञ्चमतया परिगणने (ढददृ4) श्रुत्यर्थपाठादिक्रमासंभवात् वाचः क्रमवर्ति

त्वेन यथासंभवं परिगणनेऽपि पञ्चममिति (ढददृ5)पूरणनिर्देशे प्रयोजनाभावात्, यथा कठवल्ल्याम्,

इन्द्रियेभ्यः परा ह्रर्थाः' इत्युपक्रम्य, "महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित् सा परा गतिः ।। ' (3.11) इतीन्द्रियादिसमस्तप्रवृत्तौ प्रधानहेतुः परमपुरुषो वशीकरणीयकाष्ठात्वेन निर्दिष्टः,

(ढददृ1)तद्वदिहापीत्यभिप्रायेणाह परमात्मा अन्तर्या मीति ।

ननु, "दैवं पुराकृतं कर्म', "दैवं दिष्टं भागधेयम् ' (नाम.1.का) इत्यादिषु प्राचीनकर्मरूपभाग्यपर्यायतया

दैवशब्दं पठन्ति । तस्य च हेतुत्वमुपपन्नम् । अतः कथमत्र परमात्मेत्युच्यते? इत्थम् । न हि प्रागेव

विनष्टानां कर्मणां स्वरूपेण हेतुत्वं संभवति । अतः कर्मजन्यादृष्टरूपपरमपुरुष संकल्पस्यैव हेतुत्वं

वक्तव्यम् । ततो वरं तस्यैव दैवशब्देन प्रतिपादनम् । अस्ति च दैवशब्दस्य दैवतपर्यायतयाऽपि लोक

वेदयोः प्रसिद्धिः ; यथा, ""सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात् परं नास्ति न दैवं

केशवात् परम् ।। (ना पु 18.33) इति । न ह्रत्रार्थान्तरं संभवति । एवं श्रीमद्रामायणे ऽपि, "स्वा

धीनं समतिक्रम्य मातरं पितरं गुरुम् । अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।। (अ.30.33) इति ।

तथा सभापर्वणि, "" श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपि च । नारायस्तु पुरुषो विश्वरूपो महाद्युतिः ।।

(46.40) इति । तथा याज्ञवल्क्यप्रणीते योगशास्त्रे, " आर्षं छन्दश्च मन्त्राणां दैवतं ब्रााहृणं तथा

इत्युक्त एवार्थः पुनः, "आर्षं छन्दश्च दैवं च इत्यादिनाऽपि निर्दिश्यते । तत्रैव दैत्यमोहनार्थे प्रजापत्

"अधिदैवं किमुच्यते ' (8.1) इति पृष्टमर्थं "पुरुषश्चाधिदैवतम् (7.8) इति प्रतिवक्ति । (?) छान्दोग्ये

2.च आदित्याख्यदैवतवर्तिनः पुरुषस्याधिदैवतमिति झ्र्निदेशेन अहरिति(?)नामोच्यते, तस्योपनिषदहरित्य

धिदैवतं तस्योपनिषदहमित्यध्यात्ममिति । (?) एवमन्यत्रापि द्रष्टव्यम् । अन्यैरपि चात्र दैवशब्दश्चक्षुरा

द्यनुग्राहकादित्यादिविषयताया व्याख्यातः । वयं तु आदित्यादीनामप्यनुग्राहकं परमात्मानमिह दैवं ब्राूम

इति विशेषः । प्रयुक्तं च स्तोत्रे, "" प्रख्यातदैवपरमार्थविदां मतैश्च (15)इति । लक्ष्मीकल्याणे ऽपि च,

""धर्मे प्रमाणं समयस्तदीयो वेदाश्च तत्त्वं च तदिष्टदैवतम् इति । तस्माद्दैवशब्दोऽत्र देवतापर्यायः । स

चात्र सर्वप्रवर्तकहेतुपरत्वात् विशेषकाभावाच्च परदेवताविषय उचित इति परमात्माऽन्तर्यामी कर्मन्तर्या

मी कर्मनिष्पत्तौ प्रधानहेतु रित्युक्तम्।

यथाऽसौ सर्वेषामात्मा, न तथाऽस्य कश्चिदित्यतः परमात्मा । यथा शरीररादेः प्रवृत्तौ जीवः प्रधानहेतुः, तथा तस्याप्सावित्यभिप्रायेणान्तर्यामित्वोक्तिः । तद्विवक्षामात्र पूर्वापराभ्यां स्थापयति उक्तं

ही त्यादिना । ननु "स्वतन्त्रः कर्ता (अष्टा.1.4.54) इति कर्तृलक्षणमनुशिष्टम्; इह च कर्तेति क्षेत्रज्ञ

ऐव निर्दिष्टः । अतः कारकान्तरप्रयोक्तृत्वं कारकान्तराप्रयोज्यत्वं च तस्याङ्गीकर्तव्यम् । तस्मात् दैव

मप्यत्राधिष्ठानादिवत् तदपेक्षया गुणीभूतम् वक्तव्यमित्यत्राह परमात्मायत्तं चे ति । उत्पन्नज्ञानचिकार्षा प्रयत्नस्य हि पुरुषस्य

कारकान्तरप्रयोक्तृत्वादिकम् ; ज्ञानाद्युत्पत्तिरेव तु परमात्ममायत्तेति श्रुतिसिद्धत्वात् जीवस्य परायत्तकर्तृत्वं स्वातन्त्र्यं चाविरुद्धमिति शारीरके स्थापितमिति भावः । इममभिप्रायमजानन् वायूदकादिवत् परमात्मनः प्रेरकत्वमिति झ्र्मत्वा?ट चोदयति नन्वेव मिति । ज्योतिष्टोमादिषु यदि परमात्मा प्रेरयति, तदा न जीवस्य किंचिद्विधेयम्; न हि प्रबलेन ह्यियमाणस्य गमनविधः। अथ निरुन्धे, तथापि न विधेयम्; न हि दुर्बलस्य प्रबलेन निरुद्धस्य गमनविधिः। अथ निरुन्धे, तथापि न विधेयम्; न हि दुर्बलस्य प्रबलेन निरुद्धस्य गमनविधिः

एवं यत्र परमात्मा प्रवर्तयति, तत्र निवृत्तेरशक्यत्वान्निषेधो निष्फलः । यत्र तु न प्रवर्तयेत्, तत्र तु प्रवृत्तेरेवाशक्य

त्वान्न निषेधापेक्षेति भावः । इयमत्र चार्वाकेतरसमस्तसिद्धान्तावलम्बिनी तत्र तु प्रवृत्तेरेवाशक्यत्वान्न निषेधापेक्षेति

भावः । इयमत्र चार्वाकेतरसमस्तसिद्धान्तावलम्बिनी चोद्यकाष्ठा--- निग्रहानुग्रहाम्नातपूर्वादृष्टप्रचोदितः । निग्र

हानुह्याद्यर्हं इतीदं घटते कथम् इति ।

जीवस्य ज्ञातृत्वकर्तृत्वपारतन्त्रयाभावचोद्यवत् पारतन्त्र्येऽपि विधिनिषेधवैयथ्र्यप्रसङ्गचोद्यमपि पञ्चमवेदतुपनिष

दोद्र्रष्टा भगवान् बादरायणः स्वयमेव परिजहारेत्याह इदमपी ति । विहितप्रतिषिद्धा वैयथ्र्यादिहेतुभ्य एव चेतनेन

कृतं प्रयत्नमपेक्ष्य परमात्मा उत्तरोत्तरेषु प्रवर्तयतीति सूत्रार्थः। तत्रा सर्वप्रवृत्तिषु परमात्माधीनासु कथं

कृतप्रयत्नापेक्षत्वमुच्यते? वैयथ्र्यचोद्यस्य चावैयथ्र्यसिद्धयर्थतया परिहारे साध्याविशेषश्च स्यादिति शङ्कायां सूत्रास्याभिप्रायिकमर्थमाह एतदुक्त मिति। अयमभिप्रायः -- यत् तावत् ईश्वरस्य यन्त्रादिवत् स्वसंकल्पकलिपतप्रवृत्तिशक्तीनां समर्पणम्, यञ्च भूतलादिवत् सर्वपर्वप्रवृत्तित्त्यानुगुण्येन स्वरूपतस्संकल्पश्च सर्वधारतयाऽवस्थानम्, यदपि करणकलेबराद्यधिष्ठानशक्तिप्रदानम्, यञ्च प्रवृत्त्यालम्बनबाह्रविषयपुरस्करणम्, तत् सर्वं जीवस्य कर्तृत्वानुगुणं सर्वप्रवृत्तिनिवृत्तिसाधारणं चेति न तत्रा चोद्यावकाशः। एताचैव सर्वप्रवृत्तिनिवृत्तिसाधारणमुदासीनत्वं भगवत उच्यते। एवं लब्धशक्तेः पुरुषस्य प्रवृत्तिकाले यत् कार्यनिष्पत्त्यर्थमीश्वरस्यानुमन्तृत्वम्, तदपि न जीवस्य कर्तृतां वारयति; अपितूत्तभ्नातीति न ततोऽपि विधिनिषेघवैयथ्र्यवम्। न चैकस्मिन्नेव कर्मणि परमात्माख्यकत्र्रन्तरसाहचर्ये जीवस्यानियोज्यताकारणम्; प्रत्येकमशक्येषु बहुभिरनुष्ठीयमनेष्वपि लोके विधिनिषेधतत्फलदिदर्शनात् प्रवृत्तिशक्तस्येच्छायामन्यैरनिवार्यत्वेन स्वातन्ञ्यादिसिद्धेः। एवम्, "कार्यते ह्रवशः कर्म सर्वः प्रकृतिजैर्गुणैः"(गी.3.5) इत्यादिष्वपि ज्ञानेच्छापुरस्कारेण प्रवर्तनात् इच्छाविशेषादेश्च स्ववासनादिविशेषमूलत्वात् जीवस्य कर्तृत्वं सुस्थितम्। अत एव ह्रत्रा हेतुपञ्चके कर्तेति समाख्यासमाधिना कर्तृत्वेनैव जीवो निरूप्यते।

यतु करणकलेबरशक्तिज्ञानवाञ्छादिषु विषमप्रदानम् अहितप्रवतौ अनिवारणम् अनुमननं प्रत्यवायजननं च, तदप्यनादिपूर्वकर्मवैषम्येपाधिकतया नेश्वरस्य वैषम्यनैर्धृण्यापादकम्। प्रवृत्तिबैषम्यस्याद्दष्टवैषम्यमूलत्वेऽपि तदेवाद्दष्टं शारुापुरस्कारेणास्य द्दष्टादिकमारभते, तदप्येवमिति विधिनिषेधावकाशलाभः। न हि पूर्वं यज्ञादिकारणमद्दष्टं स्वबुद्धयैवु निवृत्तियोग्यतया शासनानर्हदशामपाद्य पापेप्रवर्तयति; तदपि तथेति। अन्यथा, अद्दष्टमूलत्वात् हिताहितप्रवृत्त्योर्न शारुाापेक्षेतिव वादिनः पूर्वाद्दष्टेऽपि तथा प्रसङ्गत् स्ववचनविरोधः। अथ अंद्दष्टमूलत्वे शारुावैयथ्र्यप्रसङ्गः सार्थकं च शारुां परैसभ्युपगम्यत इत्यद्तगद्दष्टमूलत्वमेव नोपपद्येतेति मन्यसे -- तदपि न लौकिकविधिनिषेधयोरपि तथा प्रसङ्गत्। तत्रापि हि

सामग्री वैचिञ्यमूलत्वे प्रवृत्तिवृत्त्यादिवैचिञ्यस्य, किं गामानयेत्यादिनियोगेन? अथ सोऽपि नियोगः स्वसामग्रयोपनीतः प्रवृत्तिनिवृत्तिसामग्रीमध्यमध्यास्त इति पश्यसि, एवं वैदिकनियोगोऽपीति संपश्येथाः। तर्हि लौकिकमपि नियोगं परित्यजाम इति चेत्; हन्त परस्परसंव्यवहारव्युत्पत्याद्यसंभावत् विलीनं लोकायतेनापीति मूकीभव। एवं सामान्यतः सर्वेषु अद्दष्टवैषम्यमूलेष्वपि कर्मसु शारुो सावकाशे तदेव शारुामीश्वरबुद्धिविशेषं चेत् अद्दष्टमुपदिशाति, तथाविधोऽयमीश्वरः प्रमाणबलादवगत इति न तत्रा परिचोदनाकाशः। न चैष दोषः। यथोक्त माचार्यैर्वादिहंसाम्बुवार्हैः

"वैषम्ये सति कर्मणामविषम किं नाम कुर्यात् कृती

किं वोदारतया ददीत वरदो वाञ्छन्ति चेत् दुर्गतिम्"इति।

तदयं चार्वाकेतरसमस्तसिद्धान्तनिष्ठानां साधारणपरिहारसारः ---

तत्तदिष्टाद्दष्टमूलशारुावश्यदशान्वयात्। पुनस्तथातथाऽद्दष्टाद्युत्प(ष्टसंप)त्तिरुपपद्यते।। पुमर्थसाधनत्वे

प्रतीतेः स्वेच्छया पुमान्। प्रवर्तेति तादथ्र्यात् सावकाशाऽत्रा चोदना।। इति।।अत्रा करणकलेबरप्रदानादिसाधारणोपकारसापेक्षतया जीवकर्तृत्वस्य परापेक्षत्व सन्नित्यन्तेनोक्तम्। कर्मनिष्पत्त्ये इत्यादिना तु प्रवृत्तिविशेषे जीवस्य स्वातन्त्रयं दर्शितम्। तत्रापि परस्य किंचित्कारः तदन्तरबस्थित इत्यादिनोक्तः । तं कृतप्रयत्रामित्यर्थः।।24।।25।।

यद्येवं पञ्चानां हेतुत्वेऽप्यात्मैव कर्ता, तह्र्रकर्तृत्वानुसंधानं भ्रान्तिरूपमेव स्यात्। विधिनिषेधादिसंरक्षणाय कर्तृत्वं तावत् दुस्त्यजम्। न च सहकारिनिरपेक्षकर्तृत्वं प्रतिषिध्त इति वाच्यम्; तस्य प्रसङ्गभावेन प्रतिषेधायोगात्। न च कश्चित् देहेन्द्रियदण्डचक्रादिनिरपेक्षः करोमीति मन्यते --इति शङ्कायां नियन्त्रान्तरनिरपेक्षस्वभाविककर्तृत्वभ्रमस्य, देहाद्यात्मभ्रमवतां चानेकाधीने कर्मण्यनन्ययाधीनत्वाभिमानस्य निवारणमकर्तृत्वानुसंधानमित्युच्यते तत्रैव मिति श्लोकेन। परमात्मानुमतिपूर्वक इति सर्वनिर्वाहकप्रधानहेतुग्रहः। आत्मान मिति। स्वात्मानमित्यर्थः। अत एव च कर्तृशब्दोऽत्रा न पूर्ववत् धर्मिसमर्पकः ; इतरथा कर्मप्रारम्भहेतुमित्यध्याहारप्रसङ्गाञ्चेत्यभिप्रायेणाह केवलमात्मामनमेव कर्तार मिति। तुशब्दोऽत्रावधारणार्थो

व्याख्यातः। शङ्कानिवर्तकत्वेऽपि वा केवलशब्दोक्तव्यक्त्यर्थ एवकारः। नन्वत्रा केवलशब्देन स्वाभाविककर्तृत्वानुवादमात्रां स्यादिति चेन्नः, चतुर्भिस्संभूयकरणे प्रस्तुते तदनभिज्ञनिन्दायां तद्व्यवच्छेदार्थत्वास्वारस्यात्; तस्यापेक्षित्त्वाञ्चा। तत्र यत् परैरुक्तम्, --आत्मनोऽविक्रियस्वभावत्वेनाधिष्ठाना

दिभिस्संहतत्वानुपपत्तेः विक्रियावतो ह्रन्वैस्संहननं, संहत्य वा कर्तृत्वं स्यात्; नत्वविक्रियस्यात्मनः केनचित्संहननमस्तीति न संभूयकारित्वमुपपद्यते ' इति; तदसत्, स्वरूपोत्पत्तयादिभविकाररहितस्यात्मनः

दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि। प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः' इत्यादिभिश्शास्त्रैद्र्रव्यान्तरेण संहननस्य ज्ञानचिकीर्षाद्याधारतया सहकारिभिस्संभूयकर्तृत्वस्य च स्थापनात्;

अन्यथात्रापि "पञ्चैते तस्य हेतवः ' इति कर्तुरपि हेतुत्वेन परिगणनस्य भङ्गप्रसङ्गादिति । स दुर्मति रिति एतदुक्तस्यैवानुवादः, अन्यथा पौनरुक्त्यादित्यभिप्रायेणाह विपरीतमति रिति। अकृतबुद्धि रिहाध्यात्मशास्रुौरनिष्पादितबुद्धिः, तदाह अनिष्पन्नेति । 'यः पश्यति, न पश्यति, न स पश्यती'ति व्याधातात्, सदपि दर्शनमयथाभावेनासत्कल्पतया निन्द्यत इत्यभिप्रायेणाह न यथावस्थित मिति। बाह्रेषु यथावस्थितदर्शनसंभवात् प्रकृतविषये नियच्छति कर्तार मिति। स्वभाव-- अर्थ- शारुाप्राप्तव्यतिरिक्तेषु न प्रवर्तेत; अवश्यतर्तव्येषु स्वभावादिप्राप्तेष्वपि स्वस्मिन्नधिष्ठानादिषु च यथांशं कर्मबन्धं न्यस्य प्रवर्तेतेति हुदयम्।।26।।

दुर्मतिप्रसङ्गे कस्तर्हि सुमतिरिति बुभुत्सायामेवंविधाकर्तृत्वानुसंधानस्य प्रयोजनमुच्यते यस्ये ति श्लोकेन। भावो ऽत्राभिप्रायः, अर्थान्तरानन्वयात्। स च प्रकरणात् समभिव्याहाराञ्च विशेष्यते कर्तृत्वविषयो मनोवृत्तिविशेष इति। अहंकृतः इत्यत्रा कत्र्रार्थत्वेऽपि मनोवृत्तिविशेषस्याहमभिमानविषयत्वायोगात् तन्मूलत्वामात्रामिह विवक्षितमित्याह अहमभिमानकृत इति। अत्राहंशब्देनाहमभिमानलक्ष्णा वा। यद्वा 'अहंकृतः' इति 'भुक्ता ब्राहृणाः' इतिवत् कर्तरि क्तः। अहमभिमानकृत इति फलितोक्तिः। ननु आत्मनोऽहमर्थत्वात् कथमहमभिमानवर्जनम्? तत्राह अहं करोमी ति। सावधारणामिदं योज्यम्, अन्यथा साक्षात्कर्तृत्वविरोधात्। एवं

कर्तृत्वत्यगो कण्ठोक्ते परिशेषात् तेनार्थसिद्धः फलसङ्गत्यागः
बुद्धिर्यस्य न लिप्यते इत्यनूद्यत इत्याह अस्मिन्नि ति। "नाविरतो दुश्चरितात्"(क.2.24) इत्यादिप्रतिषिवैधेतरहननव्युदासाय शास्त्रोपक्रमादिसिद्वमुकृष्याह युद्वे हत्वाऽपी ति। न हन्ति हननाभिमानजन्यद्दष्टवत्तया तत्फलसंबन्धयोग्यहन्त्रन्तरविलक्षण इत्यर्थः; अन्यथा 'हत्वापि न हन्तीति व्याधातात्। यत्तु परैर त्रोक्तम् 'आत्मनो हननकर्तृत्वाभावात् तत्कार्येणाधर्मफलेन न संबध्यत इत्युच्यते' इति; तदसत्, 'यस्य नाहंकृतो भावः' इति विशेषणवैथ्र्यात्। अविदुषोऽन्यस्यापि तन्मते कर्तृत्वाभावात्। तस्मिन्नपि च कर्मफललेपस्य मिथ्यात्वाभ्युपगमात्। 'कथं भीष्मम्' (2.4) इत्यादेः प्रश्नस्य कैमुत्येन प्रतिक्षेपार्थम् इमाल्लोकानि ति सामान्येनोच्यते इत्यभिप्रायेणाह न केवल मिति। अत्र न हन्ती त्यस्य न निबध्यते इति व्याख्यानमिति योजना समीचिने गत्य-तरे संभवति न युक्ता। अतो 'यस्य नाहंकृतो भावः', 'बुद्विः यस्य न लिप्यते' इत्यनयोर्हेतुसाध्यभावेनावस्थितयोः फलमपि हेतुसाध्यभावेन न हन्ति न निबध्यते इत्यनूद्यत इत्याह तत इति न निबध्यते इत्यनेन कर्मसाध्यमोक्षविरोधिफलानन्वयो विवक्षित इत्यभिप्रायोणाह तत्फलं नानुभवती ति। एतेन, 'क्रियाकाले नाहंकारः, क्रियात्तरकाले मया कृतमिति प्रतिसंधानालेपः, न हन्ति, न निबध्यते इत्युभाभ्यामैहिकामुष्मिकप्रत्यवायप्रतिषेधः' इति योजनान्तरं निरस्तम्।।17।।

एवं सात्त्विकत्यागो विशोधितः। अथ तदर्थं 'नित्यसत्त्वस्थः' (2. 45) इत्यादिभिर्बहुधा प्रागर्वाक् च प्रसक्ता सत्त्वोपादेयता निरवशेषं विशोध्या; तत्र मध्ये कर्मचोदनप्रकारादिकथनं कथं संगच्छत इत्यत्राह सर्व मिति। कर्मचोदनप्रकारोक्तिस्तदनुबन्धुषु ज्ञानादिषु गुणतस्त्रैविध्यं प्रपञ्चयितुमित्यर्थः। कर्तव्यकर्मविषय मित्यादि। ज्ञानज्ञेयज्ञातृ शब्दाः सामान्यविषया अपि कर्मचोदनात्रैविध्यार्थत्वात् विशेषपरा इति भावः। एतेन ज्ञानशब्दस्यात्र शात्रपरत्वव्यख्या निरस्ता। प्रवर्तकवचनरूपचैदनास्वरूपविलक्षणानां ज्ञानादीनां कथं चोदनाभेदत्वोक्तिरित्यत्राह बोधबोध्यबीद्धृयुक्त इति। ज्ञानादीनां चोदनानुबन्धित्वमात्रेण विधा शब्दोक्तं प्रकारत्वमित्यर्थः। एवं त्रिविधः कर्मसंग्रहः इत्यत्र हेतुद्वयसहितस्वरूपेण त्रैवध्यम्। अनुक्तविषयत्रैविध्यान्तरोक्तिशङ्काव्युदासाय त्रिष्वन्यतमं विविच्यत इत्याह तत्रे ति। संग्रह शब्दस्य कर्मणि

व्युत्पत्तिमाह संगृह्रत इति। कर्मैव संग्रह इति कर्मधारयः। कर्मणो वा संग्रहः। 'व्रीहिभिर्यजेत' (आप.श्रौ 6.31.25) 'दध्ना जुहोति' (,,6.25.10) इत्यादिप्रतिपादितं क्रियाकरणमिह करणशब्देनोच्यते। फलापेक्षया तु कर्मण एव करणत्वादित्यभिप्रायेणाह साधनभूतं द्रव्यादिक मिति। आदिशब्देन जात्यादिग्रहणम्। नन्वत्र ज्ञायतेऽनेनेति ज्ञानं, तदेव करणमित्युच्यते; ज्ञानादित्रयमेव हि करणकर्मकर्तृशब्दैर्विवृतमिति युक्तम्; अत एव हि ज्ञानं कर्म च कर्ता चेत्यनन्तरानुवादसंगतिरिति चेत्-- मैवम्; शब्दस्वारस्याभावात्, उक्तमात्रस्य च शब्दान्तरेण पुनरभिधाने प्रयोजनाभावात्; उक्तावान्तरविभजनस्य तु विवेकोपयुक्तत्वादिति भावः। कर्तृकरणसमभिव्याहारात् कर्मशब्दोऽपि कारकविशेषविषय इति शङ्कामपाकरोति कर्म यागादिक मिति। क्रियास्वरूपं हि गुणतस्त्रिविधं विभक्ष्यते (विभजिष्यते) इति भावः। नियोज्यावस्थतया परिज्ञातेति निर्दिष्ट एव अनुष्ठात्रवस्थतया पुनः कर्मशेषतया तत्प्रकारत्वेन कर्ते ति व्यपदिश्यत इत्याह कर्ता अनुष्ठाते ति।।18।।

'ज्ञानं ज्ञेयं परिज्ञाता' इत्युक्ता एव पदार्थाः ज्ञानं कर्म च कर्ता चेत्यनूद्यन्ते। ज्ञातृत्वकर्तृत्वयोरवस्थाभेदमात्रत्वात् ज्ञानोक्त्यैव (कत्र्रुक्त्यैव) ज्ञातुरपि सिद्वेरिहानुक्तिः; ज्ञेशब्दस्य च कर्मविषयत्वात्। करणं तु कर्मानुप्रविष्टत्वान्न पृथग्विभक्ष्य(जिष्य)ते। गुणसंख्यान शब्देन सांख्यराद्वान्तविवक्षायां प्रमाणाभावात् प्रकृते चा नुपयोगात् गुणस्वरूपगणने च ज्ञानादेरनुप्रवेशाभावात् गुणकार्यगणन इत्युक्तम्। यथावच्छृणु -- यथावच्छ्रवणयोग्यमवधानं कुर्वित्यर्थः। यथावदिति विवक्षितं प्रकारमाह गुणतो भिन्नानी ति।।19।।

सात्त्विकज्ञानादिकथनं कर्तृत्वे गुणपारतन्त्र्यज्ञापनार्थं। सर्वभूत शब्दाभिप्रेतमनात्मविद्भिरनुसंहितं बाह्रवैचित्र्यमाह ब्रााहृणे त्यादिना। ज्ञानशब्दस्यात्र प्रकृतकर्मचोदनानुबन्धिकर्मानुष्ठानदशाभावि ज्ञापन(ज्ञान?)परत्वात् कर्माधिकारिष्वि ति भूतानि विशेषितानि। भाव शब्दोऽत्र पदार्थपर्यायः। एक मिति जात्यैक्यविवक्षयोच्यते; आत्मबहुत्वस्य प्रागेव समर्थितत्वात्, अद्वैतदर्शनं सात्त्विकज्ञानमिति परोक्तस्य निर्मूलत्वात्; नानाभावा निति चानन्तरं बहुत्वोक्तेः, साम्यानुसन्धानप्रपञ्चनस्यात्र प्रत्यभिज्ञानात्, कर्तेति

प्रकृतप्रत्यगामविषयत्वौचित्येन परमात्मपरत्वायोगाच्चेत्यभिप्रायेणाह आत्माख्यवमिति। सितदीर्घे त्यादिना, "गवामनेकवर्णानां क्षीरस्य त्वेकवर्णा" (अ.बि.उ) इत्यादिश्रूतिसूचनम्। अत्र सर्वभूत शब्देन ब्रााहृणत्वादिजातिग्रहणात् गुणाद्यवान्तरविभागपरो विभक्त शब्द इति च भावः। केनाकारेणैकत्वमित्यत्राह ज्ञानाकारव इति। प्रतिषिध्यमानस्य व्ययस्य प्रसञ्जकमाह व्ययखभावेष्वपी ति। प्रागुक्तं फलादिसङ्गरूपविकृतिराहित्यमप्यविकृतत्वपरेणा व्यय शब्देन संगृहीतमित्याह फलादिसङ्गानर्हं चे ति। सङ्गो ऽत्र संबन्धः; अनुभव इत्यर्थः। इच्छापरत्वेऽपि भोगोऽर्थसिद्वः। कर्मचोदनानुबन्धिज्ञानफलकत्वात् कर्माधिकारवेलाया मित्युक्त्। मयेदं कर्तव्यमित्यनुसंधानदशायामित्यर्थः। येन ज्ञानेन ईक्षते विषयीकरोतीत्यर्थः।।20।।

पृथक्त्वादिशब्दानां पुनरुक्तिपरिहारायाह ब्रााहृणाद्याकारपृथक्त्वेने ति। सर्वेषु भूते ष्विति विशिष्टानुवादः; तत्र भावा निति विशेष्यनिष्कर्ष इत्यभिप्रायेणाह आत्माख्यानपि भावा निति। पृथक्त्वेन च पृथग्विधान् पृथक्त्वेन विशेषितानित्यर्थः। जातिभेदविशेष्यभेदगुणादिभेदपरतया
पृथक्त्वनानापृथग्विध शब्दानामपुनरुक्तिः। उक्तव्यतिरेकपरतया फलादिसंयोगयोग्य त्वोक्तिः. ज्ञानं वेत्ती ति कर्तृत्वोपचारः।।21।।

कार्य शब्दोऽत्र नोत्पत्तिपात्रपरः; तस्यापि हेतुः प्रागुक्तपरिमितशक्तीनामाराधनत्वमित्यभिप्रायेणाह एकस्मिन् कर्तव्ये कर्मणि प्रेतभृतगणाद्याराधनरूपेऽत्यल्पफल इति। कर्मस्वरूपकार्यमात्रस्यापि सङ्गयोग्यत्वाभावः (वाय?) तत्रापि फलविवक्षायामाह (वक्षामाह?) (वक्षया आह?) कृत्स्त्रफलवदि ति। कृत्स्त्रफलहेतुभूतकर्मणीवेत्यर्थः। कार्यभूतस्य ज्ञानस्य सङ्गस्य वा कारणमात्रनिषेधायोगात् प्रेक्षावत्सङ्गहेतुरिह प्रतिषिध्य इत्याह वस्तुत इति। अहैतुक मिति पाठेऽपि

हैतुकादन्यत्वविवक्षयाऽयमेवार्थो ग्राह्रः। पूर्ववदेवे ति। राजसवदित्यर्थः। एकस्मिन् कार्ये सक्तमहेतुकमित्यनेनैवाल्पफलत्वसिद्वेः खद्योतप्रकाशवत् स्वरूपता एवाल्पत्वं स्वारसिकमल्पशब्देन विवक्षितमित्यपुनरुक्तिरित्यभिप्रायोण अत्यल्पफलं च प्रेतुभूताद्याराधन विषयत्वादल्पं चे त्युक्तम्। "सत्त्वात् संजायते ज्ञानम्"(14.17) इति पूर्वोक्तं तु राजसतामसज्ञानयोरज्ञानत्वविवक्षया। उक्तं हि "एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा" (13. 11) इति।।

अधिकार्येशेने ति। अविभक्तत्वविभक्तत्वादिविशेषितकर्माधिकारिस्वरूपानुसंधानेनेत्यर्थः। विशिष्टे कर्मणि विशेषणतयाऽधिकारिणः अशंत्वोक्तिः। यद्यपि सङ्ग शब्दो विभज्य फलसङ्गकर्तृत्वत्यागप्रतिपादने विशेषविषयः, तथाऽपि सङ्गरहितमित्यत्र संकोचकाभावादपेक्षितत्वाच्च कण्ठोक्तफलप्रेप्सातिरिक्तसामान्यविषय इत्याह कर्तृत्वादिसङ्गरहित मिति। आदि शब्देन ममता गृह्रते। 'मुक्तसङ्गोऽनहंबादी' (23) इत्यादिकथितः कर्तृधर्म इह तद्द्वारा कर्मविशेषणत्वेन योजितः। ब्राहृणि रागात् संसारद्वेषाच्च क्रियमाणस्य कर्मणः कथमरागद्वेषतः कृतत्वमित्यत्राह कीर्तिरागादकीर्तिद्वेषाच्चे ति। सङ्ग शब्दपुनरुक्तिश्चानेन परिह्मता। अकारस्यासमस्तत्वविवक्षाया वा फलितोक्तिविवक्षया वा न कृत मित्युक्तम्। 'तपो दम्भेन चैव यत्' (17.18) इत्याद्युक्तप्रतिषेधार्थमिदमित्यभिप्रायेणाह अदम्भेन् ति। कार्यमित्येवे ति सात्त्विकत्यागस्मारणम्।।23।।

कामेप्सुनेत्य नेन अफलप्रेप्सुनेत्युक्तविपरीतोकिं्त व्यनक्ति फलप्रेप्सुने ति। संबन्धसामान्यषष्ठयाऽत्र समासः। अत्र विकल्पाद्यसंभवात् वाशब्दश्चार्थ इत्युक्तम्। प्रवृत्तिप्रधानरजोभूलतया अनुपयुक्तप्रयासमिश्रणात् बहुलायास त्वम्। तत्र च सर्वत्र स्वयमेव हेतुरित्यभिमानः साहंकार शब्देन विवक्षितः। तत एव बहुलायास पदं च सप्रयोजनमित्यभिप्रायेणाह बहुलायासमिदं कर्म मयैवे ति।।24।।

क्षय शब्देन तादात्विकार्थव्ययदोषविवक्षणादुपसर्गशक्त्या च अनुबन्ध शब्द एतत्संबन्धितया पश्चाद्भाविदुः खपर इत्याह कृते कर्मणी ति। हिंसा स्वविषया परविषया चेत्यभिप्रायेण तत्र प्राणीपीडे ति सामान्योक्तिः। दैवप्रतिसंबन्धिनः पौरुषस्य पुरुषसंबन्धिद्दष्टसामग्रीसमवधानरूपतामाह आत्मनः कर्मसमापनसामथ्र्य मिति। भविष्यतोऽनुबन्धादेः साक्षात्कारासंभवात् युक्तिभिरागमैश्च अपरामर्शोऽ त्रानवेक्षण मित्याह अविमृश्यते ति। अनुबन्धाद्यज्ञानस्य पृथ(प्रा) गुक्तत्वात् प्रकान्ताकर्तृत्वज्ञानप्रत्यनीकोऽत्र मोह शब्दार्थे इत्याह परमपुरुषे ति।।25।।

अनहंवादी त्यनेन कर्तृत्वाभिमानरूपसंगस्य पृथङ्निषेधात् मुक्तसङ्ग इत्यत्र सङ्गशब्दः संकुचितविषय इत्याह फलसङ्गरहित इति। तत एव कर्मणि स्वकीयतानुसन्धानरूपसङ्गोऽपि प्रतिषिद्धः। अहंवदनशीलः

अहंवादी; तदन्योऽनहंवादी; तत्रा मनः पूर्वा हि वागित्यभिप्रायेणाह कर्तृत्बाभिमानरहित इति। कर्तृत्वस्य विविच्यमानत्वात् तदुपयुक्ता धृतिरिह विवक्षितेत्याह आरब्ध इति। प्रयत्नरूपस्योत्साहतस्य कर्तृशब्देनैव सिद्धवात् राजसादिकर्तृसाधारण्याञ्च विशेषविवक्षामाह उद्युक्तचेतस्त्त्व मिति। मुक्तसङ्ग इत्यनेन स्वर्गादिफलसङ्गनिवृतेरुक्तत्वात् सिद्धयसिद्धयोर्निर्वि कार इत्यस्यद्दष्टफलविषयतामाह युदुदाविति। मुक्तसङ्गत्वफलं वा निर्विकारत्वम्।।26।।

कर्मफलप्रेप्सु रित्यनेनानुश्रविकस्वर्गादिफलर्थित्वस्याभिधानात् रागी ति आनुषङ्गिकद्दष्टउफलसङ्गविवक्षामाह यशोर्थीति। अपात्राव्ययादिराहितस्य गुणत्वात् कर्मापेक्षिते ति विशेषितम्। "काममात्मनं भार्यां पुत्रां वोपरुन्ध्यात् न त्वेव दासकर्मकरम्"(आप.2.4.9.11) इत्याद्युक्तविपरीतस्वभावताऽत्रा हिसात्मकशब्देन विवक्षितेत्याह परान्तीडयित्वेति। कर्तृत्वोपयोगाय तै कर्म कुर्वाण इति फलितोक्तिः। एवं कर्मापेक्षितशुद्धिरहित इत्यपि। न हि दर्शनस्पर्शनादियोग्शुचित्वमात्रेण कर्मण्यतानिष्पतिरिति भावः।।

अवधानाभावादेः प्राकृत इत्यादिना सिद्वेः अयुक्त शब्देन अनर्हत्वं विवक्षितमित्याह
शास्त्रीये ति। अशुचि शब्दनिर्दिष्टात् राजसस्यायग्यत्वादधिकमयोग्यत्वमिह विवक्षितमित्याह विकमर्मस्थ इति। एवं हि तस्यायोग्यतातिशयः; यथा "शैवान् पाशुपतान् स्पृष्टा लोकयतिकनास्तिकान्। विकर्मस्थान् द्विजान् शूद्रान् सचेलो जलमाविशेत्।।" (....) इति। शात्राध्ययनतदर्थोपदेशादिजनितसात्त्विककर्मानुष्ठानानुगुणविशेषराहित्यं प्राकृत शब्देन विवक्षितमित्याह अनधिगतविद्य इति। पूज्येष्वपि त्वरितावश्यकर्तव्ययथोचितप्रणाद्यारम्भविपरीतं स्तिमितस्वभावत्वमिह स्तब्धशब्दार्थ इत्याह अनारम्भशील इति। गूढविप्रियकृत्त्वं शट त्वम्। तच्च प्रकरणात् शास्त्रोदिततामसकर्मद्वारेत्याह अभिचारादिकर्मरुचि रिति। पुनरुक्तिपरिहाराय मायाप्रतारणादिलौकिकर्मद्वारा नैकृतिकत्वमाह वञ्चनपर इति। 'श्वः

कार्यमद्य कुर्वीत' इति न्यायात् शास्त्रीयषु त्वरितेन भवितव्यम्। तद्वैपरित्यमिहाऽऽलस्यम्। तत्रानारम्भस्य स्तब्ध शब्देनोक्तत्वात् आरब्दधेष्वि ति। विषादी त्यत्र धातोरेवावसादार्थत्वात् उपसर्गेण तत्प्रकर्षः, प्रत्ययेन ताच्छील्यं च विवक्षितमित्याह अतिमात्रावसादशील इति।

अवसादश्च लक्षितो वाक्यकारेण, "देशकालवैगुण्यच्छोकवस्त्वाद्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवादः"इति। प्रारब्दकर्मणां शीघ्रमसमापनरूपमन्दप्रवृत्तित्वा देरलसा दिशब्देन निर्दिष्ठत्वात् अवयवशक्तेः शठा (शाठाया)दिसमभिव्याहारस्य चानुगुण(णं?) (णतया?) दीर्घसीत्रत्वं विशिनष्टि अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवत्र्यनर्थपर्यालोचनशील इति। 'सूत्र सूत्रणे' इति धातुः। सूत्रणं चिन्तनम्; ताच्छील्यार्थप्रत्ययः; दीर्घसूत्रणात् दीर्घूसूत्री। निरपराधशकुन्तादिग्रहणार्थदीर्घसूत्रकर्तृसमानतया दीर्घसूत्रीत्यौपचाररिकग्रहणं तु मन्दमिति भावः।।28।।

ज्ञानत्रैविध्यमुक्तम्; पुनर्बुद्वित्रैविध्यं वक्ष्यते; तत्र पर्यायतया पुनरुक्तिशङ्कां परिहर्तुमुक्तस्य विशेषविषयतामनुवदति एवं कर्तव्यकर्मविषयज्ञान इति। प्रकृतोपयुक्तमनन्तरं प्रस्तूयत इति संगत्यभिप्रायेणाह इदानी मिति। ज्ञानत्रैविध्यं पूर्वोक्तम् पुनरिह त्रैविध्यकथनं किमर्थमिति शङ्कायामनुष्ठा दशाभाव्यनुसंधानाद्विलक्षणस्तद्वेततया ततः पूर्वभाविशास्त्रादिजन्योऽध्यवसाय इह बुद्वि शब्दार्थ इत्याह सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया इति। एतेन 'ज्ञानं बुद्वर्वृत्तिः, बुद्विस्तु वृत्तिमति' इति परोक्तं निरस्तम्। तदेव व्यनक्ति बुद्विर्बिवेकपूर्वकं निश्चयरूपं ज्ञानमिति। विवेकपूर्वे -- पक्षान्तरप्रतिक्षेपपर्यन्तविचारपूर्वमित्यर्थः। प्रस्तुतत्रिविधानुष्ठानोपयुक्तप्रकारेण त्रिविधाया धृतेस्साधारणं रूपमाह आराब्धाया इति। अयमपि संफल्पदाढर्यादिरूपो बुद्विस्वभावविशेष एव। गुणतो विभक्ते वाच्ये वचने चासंकीर्णस्वरूपेऽन्वयात् त्रिविधपृथक्त्व शब्दयोरपुरुक्तिमाह त्रिविधं भेदं पृथक्त्वेन प्रोच्यमान मिति। एवं बुद्वयादिकार्यकात्न्र्यपरस्य अशेषेणे त्यस्य श्रवणेऽन्वयादपुनरुक्तिः यथावच्छृण्विति दर्शिता। सावधानं संश्यविपर्ययरहितं श्वृण्वित्यर्थः। दिग्विजये मानुषदैवधनवत् शमादिधनं च जेतव्यमिति संबुद्धेर्भावः।।29।।

कार्याकार्य शब्दाभ्यां पुनरुक्तिशङ्कापरिहाराय "(भा.मो.219.4.2)इत्याद्यनुसारेण प्रवृत्तिनिवृत्तिशब्दयोः प्रधानकर्मविषयत्वमाह अभ्युदयसाधनभूत इत्यादिना। राजसतामसबुद्वयोः अयथवदि त्यादिविशेषणात्

इहार्थतस्तन्निवृत्तेर्विवक्षितत्वज्ञापनाय यथावस्थित त्वोक्तिः। कार्याकार्य शब्दयोरिह प्रकृतप्रधानकर्मेतिकर्तव्यताभूतद्दष्टाद्दष्टव्यापारपरत्वमाह सर्ववर्णानामि त्यादिना। तत्र सूक्ष्मधीवेद्यत्वाय देशकालावस्थाविशेषेष्वित ति विशेषितम्। स्मर्यते हि, "शरीरं बलमायुश्च वयः कालं च कर्म च। समीक्ष्य धर्मवित् बुद्वया प्रायश्चित्तानि निर्दिशेत्।।" (बो सू. 1. 1. 16) इति ; "देशं कालं तथाऽऽत्मानम्"(....) इत्यादि च। अत्र शक्याशक्ययोरपि कार्याकार्यशब्दाभ्यामेव ग्रहणम्। भयाभययोस्स्वरूपज्ञानस्य सर्वसाधारणत्वादिह तन्निमित्तज्ञानं विवक्षितम् ; तच्च प्राकरणकविशेषविषयममाह शास्त्रातिवृत्तिर्भयस्थान मिति। बिभेत्यस्मादिति भयम्; सर्वप्रशासितुरीश्वरादेनव हि तत्त्वविदां भयमभयं च। न हि तत्प्रेरणमन्तरेण केनचिद्वाधितुमबाधितुं वा शक्यम्। ततस्तदाज्ञानुवृत्त्यतिवृत्ती एव भयाभयनिमित्तमिति भावः। बन्धमोक्षसद्भावज्ञानस्यापि साधारण्यात् याथात्म्य मिति विशेषितम्। बन्धस्य मिथ्यात्वादिवादः मोक्षस्य पाषाणवद्भावादिमतं च यथात्म्य शब्देन व्युदस्तम्। वेत्ती ति कर्तृत्वोपचारः ; स्वाच्छन्द्येन विषयीकरोतीत्यर्थः।।30।।

धृतिसाधनं धर्म इति व्युत्पत्त्या धर्मशब्दस्य प्रवृत्तिनिवृत्तिधर्मसाधारण्यादुभयप्रसङ्गाच्च पूर्वोक्तं द्विविधमि त्युक्तम्।।31।।

तामसी त्यनेनैव तमोमूलत्वसिद्वेः तमसाऽऽवृत्ते त्यनेन तादात्विकतमोनिरुद्वप्रसरत्वं विवक्षितमित्याह तमसाऽऽवृत्ता सती ति। सवार्था नित्यनेन सिद्वसाध्यरूपसमस्तानुक्तसंग्रहमाह सन्तं चार्थमसन्त मित्यादिना। एतेन बाह्रानां कुद्दष्टीनां च मतं तामसमिति दर्शितम्। उक्तं च मनुना, "या वेदबाह्राः स्मृतयो याश्च काश्च कुद्दष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः"(12.95) इति। अत्र राजसतामसबुद्वयोरियान् विशेषः - असमग्रवेदनमन्यथावेदनं च राजस्याम्; यथावन्न जानाति इति व्याख्यानात्; तामस्यां तु सर्वं विपरीतं मन्यते, सर्वार्थान् इत्युक्तेरि
त्येके। अन्ये त्वाहुः प्रकारान्यथात्वं प्रकार्थन्यथात्वं च विशेषः। यद्यपि उभयत्राधिष्टानभूते धर्मिण्यतद्वर्मे एवाध्यस्यते ; तथाऽपि स्वनिरूपकधर्मवैपरीत्ये तामसता; यथा शुक्तिरजतमभ्रमे; निरूपितस्वरूपविशेषकधर्मवैपरीत्ये तु राजसता; यथा पीतशंखभ्रम इति।।32।।

राजसधृतो त्रिवर्गोक्तेरपवर्गसाधनभूतो योग इह विवक्षितः ; चानन्योपासनमेव प्रागनुश्टिष्टमित्याह योगो

मोक्षसाधनभूतं भगवदुपासन मिति। फलान्तरसङ्गोऽत्र व्यभिचारः ; योगस्य तन्निरोधकरणं स्वरूपतः फलतश्च महानन्दरूपत्वेनेत्याह योगोद्देशेन प्रवृत्ताः तत्साधनभूता इत्युक्तम्। मानसी क्रिया तावत् साक्षात् करणम्। प्राणक्रियाऽपि; "यत्र मनस्तत्र वायुर्यत्र वायुस्तत्र मनः"इत्यन्योन्यपरिष्वङ्गात्। यथोच्यते, "पुनर्वायुपथं प्राप्य मनो भ्रमति वायुवत्"(....) इति। तथा प्राणायामप्रक्रियया च योगविरोधिक्लेशपापादिजयहेतुत्वात्। बाह्रेन्द्रियाक्रिया तु "स्वाध्यात् योगमासीत योगात् स्वाध्यायमामनेत्। स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते।।"(वि.6.6.2) इत्यादिभिरुत्थानकालभावियोगाङ्गनिषेवणरूपेण, प्रत्याहारे निरुध्यमानरूपेण वा।।33।।

प्रसङ्ग शब्दोऽत्र न प्रासङ्गिकत्वार्थः, तदनुपयोगात्। धृतेः स्वव्यापारविषयत्वाय प्रकृतप्रक्रियानुसाराय च धर्मादिशब्दैस्तत्तत्साधनलक्षणोक्ता। सामान्यस्यापि फल शब्दस्यास्त्र सात्त्विकत्यागफलादपवर्गात् सङ्कोचायाह फलाकाङ्क्षीत्यत्रापी ति। लाक्षणिकप्रयोगाभिप्रेतं विवृण्वन् शब्दोऽर्थतस्च फलितमाह अत इति।।34।।

स्वप्न शब्दोऽत्र सुषुप्तेरप्युपलक्षक इत्यभिप्रायेणाह निद्रा मिति। दैवगतोन्मादादिव्यवच्छेदाय दुर्नितुमूलत्वं मदस्यात्र दर्शयति विषयानुभवजनित मिति। अस्वाधीनानां स्वप्नादीनां कथं पुरुषेण धारणमिति शङ्कयामत्रापि हेतुलक्षणा पूर्ववदित्याह स्वप्नमदावुद्देश्ये ति स्वप्नमदयोस्सुवाभिमाना स्पदतया भयादेः पृथक्कृत्य व्याख्यानम्। दुर्मेधाः। दुर्मेधस्त्वादित्यर्थः। धारणमेवात्र मोक्तव्यत्व (दुर्मेधस्त्वादित्यर्थः। दुर्मेधस्त्वं मेधातो मोक्तव्यत्वहेतुरिति) (दुर्मेधस्त्वादित्यर्थः ; दुर्मेधस्त्वं हेतुरिति। धारणमोव मेधातो मोक्तव्यत्व?) सूचनाय न विमुञ्चतीत्युच्यत इत्यभिप्रायेणाह न विमुञ्चति घारयती ति। न चात्र भीरोर्धृतिर्विरुद्वेति वाच्यम्, आगाम्यनवेक्षणेन दुर्मतेस्तद्वेत्वनुवर्तनपरत्वात्। भयदायी विषयो दुर्मानमलप्रबलविरोधाजुः; शोकदायी तु क्रोधादिमूलबन्धवधादिः; विषाददायी तु वृथावित्तव्ययादिः।।35।।

अनन्तरग्रन्थसंगत्यर्थं तु शब्दद्योतितं व्यनक्ति पूर्वोक्ता इति। भरतर्षभ शब्दोऽत्र

प्रकृष्टसात्त्विकसुखसङ्कयोगयताज्ञापनार्थः। इदानी मिति। साधन भेदस्योक्तस्य साध्यभेदाकाङ्क्षावसर इत्यर्थः।।

आपतमधुरत्वाभावात् सात्त्विकसुखस्याभ्याससापेक्षत्वम्। लोकेऽप्याभ्यासिकी क्षुद्रा प्रीतिरस्ति; तद्वुयादासाय क्रमेण निरतिशयामि त्युक्तम्। रतिम् अत्यन्तादरमित्यर्थः। दुः ख शब्दस्यात्र संकोचकाभावात् कृत्स्त्रविषयत्वोक्तिः।।36।।

अभ्याससापेक्षत्वदुः खान्तहेतुत्वयोः प्रयोजकरूपेमनन्तरमुच्यत इत्यभिप्रायेणाह तदेव विशिनष्टी ति। यत्तदि ति।तच्छब्दशिरस्केण यच्छब्देनानुवादः श्रुत्यादिप्रसिद्धतरत्वद्योतनाय। तत्सुखमिति प्रीत्यतिदेशः। विषयमिवेत्यनेन आपातप्रातिकूल्यामात्रं विवक्षितमित्याह दुःखमिवे ति। अनेनमन्दतीनां जिहासास्पदत्वं दर्शितम्। न हि सुखं नाम किंचिदुस्तु विषवत् अमृतवञ्च परिणमते ; अतस्तदुपचरितमाह अभ्यासबलेन विविक्तात्मस्वरूपाविर्मावल इति। बुद्धेरात्मीयत्वादिमात्रोक्तेः अफलत्वात् आत्मविषयेत्युक्तम्। बुद्धेरयोग्यविषयसंर्गरूपकालुष्यनिवृत्तिर्हि प्रसाद इत्यभिप्रायेणाह निवृत्तसकलेतरविषयत्व मिति। जरामरणादिनिवर्तकत्वात् भोग्यतमत्वेन हातुमशक्यत्वाञ्चमृतोपमत्वम्। परशेषतैकरस्सस्य स्वरूपस्य यथावदाविर्भावे परमात्मानुभवसुखायान्तर्नीतत्वादिह पृथगनुक्तिः।।37।।

विषयाणां तत्तदिन्द्रियार्थानामन्नपनादीनामित्यर्थः। सुखतानिमित्तक्षूदादौ निवृत्ते इति राजसमुखस्य द्दष्टससुखस्य द्दष्टप्रातिकूल्यनिदानोक्तिः। यदुक्तं भागवता पराशेण, "अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा। क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः।।"वि.1.2764)इति। "क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं सुखम्। मन्यते बालबुद्धित्वाद्दुः#्खमेव हि तत् पुनः।।"(.,,60) इति च। दृष्टसुखतानिमित्तनिवृत्तावुपेक्षणीयतामात्रव्यावृत्त्यर्थं दुःखोदर्कत्वं परिणामे विषमिवे त्यनेन व्यज्यते। पारदारिकरसादीनि हि भयादिभूयिष्ठक्षणिकुद्रतरसुखानि अनन्तरकालभाव्यतिघोरनिरतिशयदुःखाय भवन्तीत्यागामिकं विषत्वमाह निरयादिनिमित्तत्वादिति।।38।।

अनबुध्यत इत्य नुबन्धो विपाकः। मोहन शबदस्यात्र भावार्थानन्वयात् करणार्थत्वमाह मोहहेतु रिति। निद्रादिजन्यसुखस्य विपरीतज्ञानहेतुत्वाभावात् मोहोऽत्र यथावस्थितवस्त्वप्रकाश इत्युक्तम्। राजससुखस्य विपाके मोहहेतुत्वम्, तामससुखस्य तु तदानीमपीति लोकसिद्धमित्यभिप्रायेणोक्तं विवृणोति निद्रादयो हीति। स्पष्ट मिति न युक्त्यागसापेक्षमित्यर्थः। अलसस्य प्रवृत्त्यभावमात्रं दृश्यते, न ज्ञानाभाव इत्यत्राह आलस्यमिन्द्रियव्यापरामान्द्य मिति। ततः किमित्त्यत्राह इन्द्रियो ति। करणव्यापारतारतम्यानुगुणं हि कार्यतारतम्यम्। ज्ञानस्य मान्द्यं चाल्पविषयत्वम्। तच्च विषयान्तप्रकाशाभावगर्भमिति भावः। प्रमादस्य स्वरूपेंणैवापेक्षिताज्ञानरूपतामाह कृत्यानवधानरूप इति। एवमाल्यस्य प्रमादयोरज्ञानानुविद्वत्वं दर्शितम्; तद्वेतुत्वं तु कथमित्यत्राह ततश्चे ति। ज्ञानस्यापटुत्वं हि क्रमादत्यन्ताज्ञाने विश्राम्यतीति

भावः। निद्रायाः सुखहेतुत्वमायासविश्रमहेतुत्वादिभिः, विच्छेदकेषु रोषाच्च लोकस्द्वम् ; इन्द्रियव्यापारान्द्यस्याप्यङ्गसंक्षोभादिनिवृत्तिद्वारा ; अनवधानस्य तु बुद्वेरेकाग्रताकल्पनरूपप्रयासनिवृत्त्येति। सुखाभासप्रसङ्गेनाकालनिद्रादिकं नोपादेयमित्युक्तं भवति। स्मरन्ति च, "यामद्वयं शयानस्तु ब्राहृभूयाय कल्पते"(द.स्मृ) इत्यादि। आहु श्चायुर्वेदविदः, "
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता। सुखायुषी पराकुर्यात् कालरात्रिरिवापरा"(.....) इति। गुणकृतविभागप्रकरणतात्पर्यमनुष्ठानपर्यवसानरूपप्रयोजनेनोपसंहरति अत इति।।39।।

प्राकृतगुणातीतशुद्वसत्त्वमयभगवत्प्राप्तिलक्षणमोक्षात् प्राक् नियतदेशकालफलभोगैरुच्चावचैस्सर्वैरपि क्षेत्रज्ञैः उक्तस्य त्रिगुणस्य निश्शेषदुस्त्यजत्वमुखेन गुणकार्यप्रकरणं निगम्यते न तदस्ती ति श्लोकेन। गुणत्रयप्रकरणं तु नात्रोपसंह्मतम्, अनन्तरमपि 'स्वभावप्रभवैर्गुणैः' इत्युक्तेः। दिवि देवष्वि ति सत्त्वोत्तरदेशाधिकारिणामुपलक्षणम्। तत्तुल्यतया पृथिव्या मित्यादि मनुष्यादिष्वि ति राजसतामसाधिकारिविवक्षाख्यानम्। "हिरण्यर्गर्भो भगवान्"(वि.6.7.56) "आब्राहृस्तम्बपर्यन्ताः"(वि.ध.104.22) इत्याद्यनुसारेण बहुवचनाभिप्रेतमाह ब्राहृादिष्वि ति। गुणप्रकरणात् खत्व शब्दस्य गुणविशेषार्थताभ्रमव्युदासाय प्राणि शब्दः। समुदायरूपेणापि निर्धार्यमामणेषु तत्रापि गुणनिर्मुक्त न किंचित् सत्त्वमिस्यभिप्रायेण जात शब्दः। जात मिति वा व्यस्तम् आसंसारं जन्मप्रभृति

गुणबद्वताद्योतनार्थम्।।

एवं सर्वेषां संसारिणां गुणत्रयवश्यत्वमुक्तम् अथ तत्तद्गुतारतम्यवद्देहयोगिनामधिकारिणां यथाधिकारं शास्त्रैर्विभक्तानि कर्मादीनि विविच्यन्ते। तस्य परमप्रस्तुतेन संगत्यर्थमध्यायारम्भप्रकान्तं प्रदर्शयति त्यागेने त्यादिना। संन्यासशब्दार्थादनन्य इति। श्रुतावपि हि, 'त्यागेनैके' (ना) 'संन्यासंयोगात्' (ना) इत्युभावेकविषयाविति भावः। एवंभूतस्ये ति। त्रिविधत्यागयुक्तस्येत्यर्थः। वृत्त्या सहे ति। कृषिगोरक्ष्यादीनि हि वक्ष्यमाणानि जीविकाविशेषा इति भावः। अत्र ब्रााहृणक्षत्रियविशा मिति समासो द्विजत्वे सति वेदाधिकारात्। प्राचीनकर्मानुरूपं सत्त्वादिगुणवृद्विः प्रागेव प्रपञ्चिता। अतः तद्वेतुकं कर्मात्र तत्तद्गुणप्रचुरपुरुषासाधारणधर्मतया स्वभाव इति दर्शितम। एतेन "कर्मवश्या गुणा ह्रेत् सत्त्वाद्याः पृथिवीपते"(वि.2.13.70) इति वचनादौपाधिकानां गुणानां चात्र स्वभाविकतो प्क्त्ययु?फ्क्तिशङ्काऽपि निरस्ता। गुणविभागप्रकारो ब्रााहृपुराणादिषु प्रपञ्चितः। तस्यायं संक्षेपः, "तमश्शूदे रजः क्षत्रे ब्रााहृणे सत्त्वमुत्तमम्"(भा,आश्च.39.11) इति। अस्तार्थे वदन् प्रकृतं विवृणोति रजस्तमोभिभवेनोद्बूतः सत्त्वगुण इति। उत्तम शब्दस्य, रजः क्षत्रे इत्यादि

ष्वप्यन्वयमाह क्षत्रियस्ये त्यादिना । अल्पोद्रिक्त इति शूद्रात् व्यवच्छेदाय। अतीन्द्रियाणां गुणानामपि शास्त्राधीन

विभागत्वात् कर्मप्रविभागे गुणानां कर्तृत्वाद्यसंभवाच्च गुणैस्सहे त्युक्तम् । गुणापेक्षया शास्त्रेण विभक्ततया गुण

स्वरूपविभागस्य शास्त्राधीनत्वाभावादसंकीर्णबोधनं विविक्षितमित्याह प्रतिपादितानी ति । विभज्य प्रतिपादनं विवृणोति ब्रााहृणादय इति । कर्मशब्द एव सामान्यतो वृत्तिमपि संगृह्णाति; तादथ्र्याद्वा तदाक्षेप इत्यभिप्रायेणाह

वृत्तयश्चे ति । जीवनोपाया इत्यर्थः ।।

18.42. शमो (ढददृ2) दमः' इत्यादौ पूर्वं व्याख्यातानामपि गुणानां पुनव्र्याख्यानं (ढददृ3) वर्णानुबन्धेन विधाने

अवान्तरविशेषशङ्कापाकरणार्थम्, ब्रााहृं कर्मे त्युक्तकर्मत्वसिद्धये नियमनादिरूपेण पुरुषव्यापारसाध्यत्व ज्ञापनार्थं

च अतश्शौचादावपि तदापादनं (2) ग्राह्रम् । अस्ति मतिरस्येत्यास्तिकः; तद्भाव आस्तिक्यम् । तच्चाप्रामाणि

केषु भवत् दोषाय । प्रत्यक्षादिसिद्धे तु नासावतिशयः । शास्त्रीयष्वपि क्वाचित्संशयादौ कुदृष्टित्वप्रसङ्गः । अतो वैदिक झ्र् #ार्थ ट स्य कृत्स्नये त्युक्तम् । सहपठितविज्ञानादेर्भेदज्ञापनाय सत्यतानिश्चयस्य प्रकृष्टत्वोक्तिः । तत्

विवृणोति केनापी ति । वैदिकस्य कृत्स्नस्ये त्युक्तं कुदृष्ट¬ाद्यभिमतवैदिकार्थसंग्रहव्युदासाय प्राधान्येन संकलय्य

व्यनक्ति भगवानि त्यादिना । अत्र विशेषणानां प्रागेव व्याख्यातत्वादिह...झ्र्न तत्र व्याप्रियते(?)....ट सर्ववेदवेदान्त

वेद्य इत्युक्तार्थक्रमानुसारेण विप्रकीर्णवाक्योद्धारक्रमः । श्लोकार्थं निगमयति तदेतदि ति । ब्रााहृणः (ढददृ) कर्म

ब्रााहृम् ब्राहृ शब्दोऽत्र ब्रााहृणजातिपर इत्यभिप्रायेणाह ब्रााहृणस्ये ति ।।42।।

18.43 "शूरं भीरं कविं जडम्"
(भा.मो.174.32) इति भीरुप्रतियोगिनि शूरशब्द इत्यभिप्रायेणाह निर्भयप्रवेशसामथ्र्य मिति। मानसशारीरसंवलनमिदम्। प्रविष्टस्य परैः परिभवे प्रवेशोऽपि दोषस्स्यात्; अतस्तत्परिहाराय तेज

इहोक्तमित्याह परैरनभिभवनीयते ति। दाक्ष्यात् धृतेर्विशेषो विघ्नोपनिपातेऽपी ति। दर्शितः। प्रवृत्तिसामथ्र्यात् प्रवृत्तापरित्यागो ह्रन्य एव। युद्वे चापी त्यत्र अपि शब्दद्योतितं तीवं फलायननिमित्तमाह आत्ममरणनिश्चयेऽपीति। अत्रे श्वरभाव शब्देन दुष्टनिग्रह-शिष्टानुग्रहशक्तिर्विवक्षितेत्यभिप्रायेणाह स्वव्यतिरिक्ते ति। सफलजने ति स्वाराष्ट्राद्यवच्छिन्नविषयम् ।।

18.44. रूढिं व्युत्पतिं्त चानुसृत्य फलतः स्वरूपतश्च कृषिं दर्शयति सस्योत्पादानं कर्षण मिति। एवं वाणिज्यव्याख्यानेऽपि ग्राह्रम्। गौः रक्ष्या यत्र, तत् कर्म गोक्ष्यमित्यभिप्रायेणाह पशुपालन मिति। रक्ष्यमिति भावार्थं वा ; रक्षणमित्यर्थः। गौरक्ष्य मिति वा पाठः। गां रक्षतीति गोरक्षुः; तस्य कर्म गौरक्ष्यं पशुपालनम्। वणिजः कर्म वाणिज्य मितिवत्। एवं विशः कर्म वैश्यम्; "गुणवचन ब्रााहृणादिभ्यः कर्मणि च "(अष्टा.5.1.124) इति व्यञ्प्रत्ययः।

18.5. शास्त्रान्तरानुसारेण परिचर्यायाः प्रकृतत्रितयानुबन्धित्वमाह पूर्ववर्णत्रये ति। ननु षट्कर्मा ब्रााहृणः। त्रिकर्माणौ क्षत्रियवैश्यौ। शूद्रास्यापि, "भार्यारतिः शुचिर्मृत्यभर्ता श्राद्वक्रियारतः। नमस्कारेण मन्त्रेण पञ्चयज्ञान्न

हापयेत्।।"(याज्ञ.1.5.121) इत्यादयौ धर्मो विधीयन्ते ; तत् कथमिह तत्कर्मणामियतानिर्देश इत्यत्राह तदेत दिति। प्रदर्शनीयान् उदाहरति यज्ञादयो ही ति। प्रदर्शनार्थत्वे हेत्वन्तरमाह शमादयोऽपी ति। शमादीनां मोक्षार्थिवर्णत्रयसाधारण्येन कथं ब्रााहृणस्यैव तदुक्तमित्यत्राह ब्रााहृणस्य त्वि ति। स्वभावप्रभवै रिति पूर्वोक्तानुविधानात् सहजत्वविवक्षायाऽत्र स्वभावज शब्द इत्यभिप्रायेणाह सत्त्वोद्रेकस्य स्वाभावाविकत्वेन शमदमादयस्सुखोपादाना इति। तत्कर्मेति नोनक्तमित्यन्वः। उक्तानां वृत्तीनां प्रदर्शनार्थत्वाय चतुर्णां वृत्त्यंशं विविच्य विविनक्ति ब्रााहृणस्य वृत्तिरित्या दिना। भूद्रधर्मो वृत्तिश्च याज्ञवल्क्येन स्मर्यते, "शूद्रस्य द्विजशुश्रूषा तया जीवन् वणिग् भवेत्। शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितमाचरन्"(1.5.120) इति; मनुस्तत्र विशेषमाह, "विप्रसेवैव शूद्रस्य विश्ष्टं कर्म कीत्र्यते" (10.123) इति; तदिदमभिप्रेत्याह शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैवे ति।

नन्विदयमुक्तम् ; भार्यारतिरित्यादेरुक्तत्वात् ; "मां हि पार्थ व्यापाश्रित्य"इत्यारभ्य, "स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्"(9.3) इति च स्वयमेवाह; "वसन्ते दीक्षयेद्विप्रम्"इत्यारभ्य "हेमन्ते शूद्रमेव च। स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः"इति भगवत्समाराधनार्थे दीक्षा च विहिता। तथा, "ब्रााहृणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च कृतलक्षणैः। अर्चनीयश्च सेव्यश्च नित्ययुक्तैस्स्वकर्मसु। सात्त्वतं विधिमास्थाय गीतस्संकर्षणेन यः"(भा.भी.66.39) इति दीक्षातशूद्रादेर्भगवदर्चनादिकं स्पष्टमुक्तम्। तथा युगधर्मान् प्रक्रम्योच्यते, "कृतं नाम युगं पूर्वे यत्र धर्मः सनातनः "। कृतमेव न(च) कर्तव्यम् यस्मिन् काले नरोत्तम ।

ब्रााहृणाः क्षत्रिया वैश्याश्शूद्राश्च कृतलक्षणाः । कृते युगे समभवन् स्वकर्मनिरतास्सदा । एकवेदसमायुक्ता एकम(त)न्त्रविधिक्रियाः । पृथग्धर्मास्त्वेकवेदा(द्या) धर्ममेकमनुव्रताः । चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।

अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम् (वि.ध.108.19) इति ।

श्रीसात्त्वते (2-7,8,9,10.11) च, ""अष्टाङ्गयोगयुक्तानां ह्मदयागनिलतात्मनाम् । योगिनामधिकारः स्यादेकस्

मिन् ह्मदयेशये । व्यामिश्रयागमुक्तानां ह्मद्यागनिरतात्मनाम् । योगिनामधिकारः स्यादेकस्मिन् ह्मदयाकाशये ।

व्यमिश्रयागमुक्तानां विप्राणां वेदवादिनाम् । समन्त्रे तु चतुव्र्यूहे ह्रधिकारो न चान्यथा । त्रयाणां क्षत्रियादीनां

प्रपन्नानां च तत्त्वतः । अमन्त्रमधिकारस्तु चतुव्र्यूहक्रियाक्रमे । सक्रिये मन्त्रचक्रे तु वैभवीये विवे(लो)किनाम् ।

ममतासंनिरस्तानां स्वकर्मनिरतात्मनाम् । कर्मवाङ्मानसैः सम्यग्भक्तानां परमेश्वरे । चतुर्णामधिकारो वै वृते

(प्राप्ते) दीक्षाक्रमे सति ।। (2.7.-11) इत्यधिकारविशेषनियमः कृतः । सप्तमे च व्रतविधानपरिच्छेदे, "दाने

(ना)र्चने तु शूद्राणां व्रतकर्मणि सर्वदा । असिद्धान्नं तु विहितं वा ब्रााहृणोच्छया । स्वकर्मणा यथोत्कर्षमभ्येति च

(न) तथाऽर्चनात् । तस्मात् स्वेनाधिकारेण कुर्यादाराधनं सदा ।। सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने । यथा

तथा न क्षत्राद्यास्तस्माच्छास्त्रोक्त(स्त्रार्थ)माचरेत् ।। नयेन्नक्ताशनैर्भक्त्या दिनान्येतानि मौद्गल । व्रताद्यन्ते तु

विहितं परिपीडं हि तस्य वा ।। (53-56)इति व्रतविशेषक्रमो ""वौषट् स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया ।

नमस्कारेण विहिता इति ।

तथा नारदीये श्रीमदष्टाक्षरकल्पे, ""न स्वरः प्रणवोऽङानि नाप्यन्यविधयस्तथा । स्त्रीणां तु शूद्रजातीनां

मन्त्रमात्रोक्तिरिष्यते ।। (1.102) इति । एवमेकादशीव्रातदयोऽपि सर्वसाधारणाः पुराणादिषु पठ¬न्ते । तथा

अन्येऽपि वज्र्यावज्र्यनियमाः कतिकति धर्मशास्त्रादिषु कथ्यन्ते । यथा, ""कपिलाक्षीरपानेन ब्रााहृणीगमनेन च ।

शूद्रे वेदाक्षरेणैव निष्कृतिर्न विधीयते ।। (ल.पा.1.74), ""ह्मत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन्

स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः (याज्ञ.आ.21), ""तेषां स एवाऽऽचमनकल्पः ।अधिकमहरहः केशश्मश्रु

लोमनखवापनम् (आप.2.1.35,6) इत्यादि ।

तस्मात्,
"जपस्तपस्तीर्थयात्रा प्रवज्या मन्त्रसाधनम्। देवताराधनं चैव स्त्रीशूद्रपतनानि षट्।।"(अत्रि.133) इत्यादिकं विहितव्यतिरिक्त-वर्णत्रयशूश्रूषाविरुद्वविषयमिति योज्यम्। अपि च, "न शूद्राभगवद्भक्ता विप्रा भागवताः स्मृताः"(विह.24.10) इत्यादिवचनात्, जयाख्य संहितादिषु भागवतानां चतुर्णां समत्ववचनाच्च भगवत्परिचर्यावशात् वर्णत्रयपरिचर्यानिवृत्तिरपि संभवेत्। अतः कथं शूद्रस्य तु कर्तव्यं

वृत्तिश्चपूर्ववर्णत्रपरिचर्यैवेति भाषितम्?--

अत्र ब्राूमः- यद्यपि विहतव्यतिरिक्तविषयाः सर्वनिषेधाः; विशिष्टसंस्कारगुणविशेषादिमतां च शूद्राणामपि धर्मविशेषा विहिताः, तथाऽपि ते सर्वे वर्णत्रयपरिर्याख्यप्रधानधर्माविरोधेन तन्नियुक्तैः शूद्रेः तत्परिचर्याभावनयैवानुष्ठेयाः। अत एव ह्रत्रोच्यते परिचर्यात्मकं कर्मे ति। अन्यथा परिचर्येत्येव वक्तव्यम्। न च निष्प्रयोजनाधिकग्रहण युक्तम्। आमनन्ति च रहस्याम्नायविदः , "ज्ञानज्ञापनसंप्रेषणकर्मा ब्रााहृणः, ज्ञानपरित्राणकर्मा क्षत्रियः, ज्ञानबीजवर्धनकर्मा वैश्यः, जानपर्युत्थानकर्मा शूद्रः। कृतयुगस्यान्ते त्रेतायुगस्यादौ ब्रााहृणक्षत्रियवैश्यशूद्रा भिद्यन्ते। तेषां भिन्नानां द्दष्ठिः न तथा भवति, पथ्या रसना न तथा भवन्ति; पुष्पफलमोषधिवनस्पतयो न तथा दधते ; तां द्दष्ठ्वा ब्रााहृणक्षत्रियवैश्यशूद्राणामसूया प्रादुर्बभूव; शूद्रः प्रथमजातिः, न वः पर्युत्थास्यामीति, वैश्यो द्वितीयजातिः न वो बीजानि वर्धयिष्यामीति, क्षत्रिययस्तृतियजातिः, न वः परित्रास्य इति ; तान् ब्रााहृण इत्याह, आस्थिता यूयम्; न वो वक्ष्यामीति। अत्र पर्युत्थानं -- परिचर्या। एवं "शूद्रा भगवद्भक्ता"(विह.24.10) इत्यादिस्तुतिवाक्येन वर्णत्रयपरिचर्यादिनिवृत्तिप्रसङ्गोऽपि प्रत्युक्तः, भगवदेकान्तशूद्रस्यैव पर्युत्थानविधेः। बगवद्भक्तिस्तुतिपरत्वादेव हि, "सर्ववर्णेषु ते शूद्रा ये हृमक्ता जनार्दने"इति व्यतिरेकनिन्दा। किं तह्र्रत्र स्तुतिनिन्दालम्भनम्? आन्तरः सत्त्वादिगुणोमेषः; यदपेक्षया ब्रााहृणादेरेव ब्रााहृण्यादिकं श्रुत्यादिषु कीत्र्यते, "अमौनं च मौनं च निर्विद्याथ ब्राहृणः"(बृ.5.5.1) इति। "विष्णुं क्रान्तं" वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते तत्त्वदर्शी (भा.आनु.16 2), ""चण्डालमपि वृत्तस्थं तं देवा ब्रााहृणं विदुः इत्यादि । यत्तु शरीरसत्त्वादिगुणतारतस्यनिबन्धिनश्च धर्मास्तत

एवावतिष्ठन्ते । अत एव हि विदित (2ढददृ)ब्राहृविद्योऽपि विदुरः स्वस्य तद्वचनेऽनधिकारमाह, ""शूद्रयोनावहं

जातोनातोऽन्यद्वक्तुमुत्सहे (भा.उ.41.5) इति। शमादिगुणपौष्कलयोगिनि तु शूद्रादौ, रुाीधर्मिण्यां(ढददृ3) जनन्

यमिवावज्ञानादिनिवृत्तिमात्रविशेषापेक्षया जातिसामान्यवीक्षणप्रतिषेध इति । यथा स्मरन्ति, ""एतैः समेतश्शूद्रोऽपि

वार्धके मानमर्हति (याज्ञ.आ.115) इति । अत एव, ""भक्तिरष्टविधा ह्रेषा यस्मिन् म्लेच्छेऽपि वर्तते । तस्मै

देयं ततो ग्राह्रं स च पूज्यो यथा ह्रहम् ।। (गा.पू.219.8) इत्यादिकमनुप्लपर्यन्ततयाऽपि निव्र्यूढम् ।साम्यो

क्तिरपि स र्वोत्कर्षफलादिसाम्यविषया; अपशुद्रनयाद्यविरोधश्च । उक्तं (ढददृ4) आचार्यैः, भागवतत्वेन शूद्रस्योत्

कर्षे ब्रााहृणस्यापि तेवैवात्कर्ष इति पुनर्वैषम्यम्' इति सर्वं समञ्जातम् । अतः सुष्ठूकं शूद्रस्य वृत्तिकर्तव्ययोरैक्

यमिति ।।

वर्णधर्मविभागे मोक्षशास्त्रे किमर्थ इत्यत्राह स्वेस्वे कर्मणी ति । संसिद्धि शब्दस्यात्र परमपदप्राप्तिविषयत्वं प्रकर

णात् सिद्धम् । ""शास्वतम् पदमव्ययम् (53) इति हि वक्ष्यति । यद्वा सिद्धि शब्दः "नैष्कम्र्यसिद्धम्' इति वक्ष्याण

विषयः । तत्पर्यवसानज्ञापनायत्र परमप्राप्यग्रहणम् । ननु स्वकर्म निरतस्यापि शूद्रस्य कथं परमपदप्राप्तिः? तस्य हि मोक्षसाधनविद्यायामनधिकारः शीरीरके अपशूद्राधिकरणे शिक्षितः ।। सत्यम्; भववान्तराधिकारद्वारा

परम्परया परमपदप्राप्तेर्विवक्षितत्वान्न विरोधः । विदुरादिवत् जातिस्मरेषु जन्मान्तरप्रारब्धपरविद्याप्रतिसंधायिषु

स्वकर्मणामकरणनिमित्तप्रत्यवायपिरहारार्थं साक्षात्संसिद्धियोग्यत्वं द्रष्टव्यम् । यथोक्तं भगवता शोनकेन, "" धर्म

व्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते । वर्णावरत्वे संप्राप्ताः संसिदिं्ध श्रमणी यथा (वि.ध.102.30) इति ।ननु

परिमितफलप्रदानसमर्थेन्द्राद्याराधनरूपाणां तत्तद्वर्णाश्रमकर्मणां कथं परमपदप्राप्तिहेतुत्मित्यत्रोत्तरं स्वकर्मनिरत

इति । यथे त्यत्य प्रतिनिर्देशत्वात् त च्छब्दः प्रकारपरामर्शीत्याह तथा शृण्वि ति ।

18.46. सर्वकारणभूतः सर्वान्तर्यामी परमात्मा स्वसृज्यस्वशरीरभूतेन्द्रादिवाचकैः शब्दैराम्नायत इति तत्समाराध

नत्वात् संसद्धिसाधनत्वं वर्णाश्रमधर्माणामुपपन्नमित्युच्यते यतः प्रवृत्ति रिति श्लोकेन । प्रवृत्ति शब्दस्यात्र चेष्टामात्र

परत्वव्युदासायाह उत्पत्त्यादिके ति । चेतनाचेतनवाचि भूत शब्दसमन्वितः प्रवृत्ति शब्दोऽत्र विशेषकाभावात् सर्वविध

व्यापारसंग्राहक इति भावः । सर्वविधकारणत्वोपयुक्त आकार उच्यते येन सर्वमिदं तत मिति । ततम्; नियन्तृ

त्वेनेति ह्मदयम् । त मिति परोक्षतया निर्दिष्टः कथं मा मिति व्याख्यायत इति शङ्कायां यत इत्यनुवादस्य प्राप्त्य

र्थं पुरोवादं स्मारयति मत्त एवे ति । कारणत्वसर्वाधिकत्वसर्वव्यापित्वसर्वनियन्तृत्वादिषु यथासंभवं वचनानि

योजनानि ।।

एवं वर्णाश्रमधर्माणां स्वरूपेणापरित्याज्यत्वं परप्राप्तिसाधनत्वप्रकारश्च दर्शितः। अथ तेषामेव 'दैवमोवापरे यज्ञम्' (4.25) इत्याद्युक्तप्रधानधर्मयोगेन नियमविशेषादियोगेन च कर्मयोगान्तर्भूतानां ज्ञानयोगाधिकारिणामप्यपरित्याज्यत्वं (3.25) प्रागुक्तं प्रत्यभिज्ञाप्यते-- श्रेयान् स्वधर्मः इत्यादिभिः। अत्र स्वधर्म शब्दो न वर्णाश्रमनियतधर्मपरः, तथा सति परधर्म शब्देन वर्णान्तरादिधर्मोपादानप्रसङ्गात्। न च तत् युक्तम्, तस्य निषिद्वत्वेनाधर्मतया स्वधर्मस्य तत्र प्रशस्यतरत्वलक्षणश्रेयस्त्ववचनायोगात् ; न हि पापात्पुण्यं श्रेय इति कथ्येत। अत एव "श्रेयो भोक्तुं भैक्षम्"(2.5.) इत्युक्तब्राहृणधर्मभूतप्रव्रज्याप्रतिषेधोऽयमिति चेन्न; तत्प्राप्तौ निषेधायौगात्; अप्राप्तौ पापात्वदेव दत्तोत्तरत्वात्। आपत्स्वनन्तरा च वृत्तिर्दुस्त्यजा। अतोऽत्र स्वधर्मपरधर्म शब्दौ

(3ट्ठ35) प्राग्वत् कर्मयोगज्ञानयोगविषयो व्याख्यातौ। एव मित्यारभ्य स्वधर्मः इत्यन्तमेकं वाक्यम्। अन्यथोत्तरग्रन्थानन्वप्रसङ्गात्। स्व शब्दस्य जातिविवक्षाव्युदासायाह स्वेनैवे ति। स्वैनैवोपादातुं योग्य इत्युक्तं

विवृणोति प्रकृती ति । विगुण शब्दस्य त्याज्यत्वशङ्कापरत्वमाह विगुणोऽपी ति । गत्यन्तराभाक्तादमुख्यकल्पत्वे

नानुमतोऽपीत्यर्थः । स्व शब्दनिर्दिष्टात्कर्मयोगार्हादन्योऽत्र परः; स च ज्ञानयोगार्ह इत्यभिप्रायेणाह इन्द्रियज्ये ति। सप्रमादस्य स्वनुष्ठित्वं कथं स्यादित्यत्राह कदाचि दिति ।

15.47. स्वभावनियत मित्यत्र जातिनियतत्वशङ्काव्युदासायाह तदेवे ति । यथाविषतरुनिम्बतिन्त्रिण्यादिजातानां जन्तूनां स्वभावनियत आहारा इति भावः । किल्बिष शब्दोऽत्रानिष्टतमत्वद्योतनाय संसारशब्देन तत्फलर्यन्ततया

व्याख्या तः । ज्ञानयोगनिष्ठासंभावितनिषेधाय वा, विशेषनिषेधः शेषाभ्यनुज्ञापर इत्यभिप्रायेण वाऽऽह ज्ञानयोगस्

ये ति ।।

अर्थान्तरपरत्वशङ्काव्युदासायाऽऽदरातिशयविवक्षया, पुनरुक्तिपरिहाराय च तृतीयाध्यायोक्तं स्मारयती त्युक्त

म् । सहजत्वेन । वासनानियतत्वादित्यर्थः । ततः कथं त्याज्यत्वाभाव इत्यत्राह सुकर मिति । दोष शब्देन पाप

विवक्षा न युक्ता; विहिते तदयोगात् । तथा(तदा?)च न त्यजे दिति न युक्तम्, पापांशस्य सर्वैः परित्याज्यत्वात्;

अतः कायक्लेशादिमात्रगर्भत्वमिह सदोषत्वमित्युच्यते, तावन्मात्रेऽप्यलसानां त्याज्यताबुद्घि स्यादित्यभिप्रायेणाह सःदुखमपी

ति । (ढददृ1)एतेन कापिलमतान्वारोहेण सदोषमपीत्यनुवाद इति व्याख्यान्तरं निरस्तम् । मुमुक्षोः कथं शास्त्रीये श्रेयस्वेन

चोक्त क्षुद्रक्लेशासहत्वेन त्याज्यताबुद् ? अतः प्रसङ्गाभावात् प्रतिषेधो न युक्त इत्यत्राह ज्ञानयोगयोग्योऽपी ति । अपि

शब्दोऽन्यस्य कैमुत्यज्ञापनार्थः । अक्लेशोपायदर्शने स्वाधिकारमप्रतिसंधाय तत्र प्रवृत्तिः स्यादिति ततो नियम्यत

इत्यर्थः । सदुःखत्वनर्दुःखत्वलक्षणवैषम्यमन्वारुह्राप्रमादत्ववादिर्नियम उक्तः; अथ सदुःखत्वमपि द्वयोस्समानमित्ये

तयुच्यते सर्वारम्भा ही त्यर्धैन । कर्मारम्भाः 2.ज्ञानारम्भाश्चे त्यनेन सर्व शब्दस्यात्र प्रकृतशास्त्रीयकात्स्नर्यपरत्वमाह । दुःख

सांम्ये सति किमन्यतरनियमेन,कथं च झ्र्नटतत्तस्य हेतुरित्यत्राह इया निति । कर्मारम्भेषु कायक्लेशमात्रम्; ज्ञानारम्भेषु तु

अत्यासन्नत्वेऽपि (ढददृ) कफोणिगुडायमानप्रत्यग्विषयान्वेषणेन इन्द्रियमनोनियमनप्रयासो दुःखत्मक इति भावः ।।

18.49सर्वात्रासकबुद्धिः इत्युक्तेऽपि पुनः विगतस्पृहः इत्येतत् फलसङ्गनिवृत्तिरूपत्यागसहपठितकर्तृत्व त्यागविषयत्वौचित्यात् स्प्नादिष्वपि स्वात्मनि कर्तृत्वानुसन्धानपसङ्गनिवृत्तिरूपत्यागकाष्ठाविवक्षयेत्याह आत्मकर्तृत्वे

विगतस्पृह इति । संन्यासेनाधिगच्छती ति न ज्ञानयोगादिपरम्; कर्म न त्यजे दिति प्रकृतानन्वयात्,

अध्यायरम्भोक्तसंन्यासविषयत्वौचित्याच्चेत्यभिप्रायेणाह एवं त्यागादनन्यत्वेन निर्णीतेने ति । अत्र नैष्कम्र्यसिद्धि शब्दो न मोक्षविषयः, सिदिं्ध प्राप्त इत्यादिना पुनः कव्र्यविधानात्; नापि ज्ञानयोगमात्रविषयः, परमा मिति विशेषणात्; नैष्कम्र्य श ब्दमात्रेण च तद्विवक्षोपपत्तेः । अतोऽत्र ज्ञाननिष्ठाफलप्रारम्भो विवक्षित इत्यभिप्रायेणाह
परमां ध्याननिष्ठा मिति। नैष् कम्र्यस्य सिद्धमिति समासवशात् परमत्वविशेषणशक्त्या वा सिद्धं विवृणोति ज्ञानयोगस्यापि फलभूता मिति।

उक्तार्थपरत्वमुत्तरग्रन्थानुगुण्येनाह वक्ष्यमाणध्यानयोगावाप्तिमि त्यादिना । निर्गतकर्मा निष्कर्मा, तस्य भावो नैष्कम्र्य मिति व्युत्पतिं्त व्यनक्ति सर्वेन्द्रियकर्मोपरतिरूपा मिति ।।

18.50. सिदिं्ध प्राप्तः इत्यस्योक्तानुवादतां सप्रकारहेतुनिर्देशेनाह आप्रयाणादि ति । सिदिं्ध प्राप्तस्य ब्राहृप्राप्त्य

भिधानात् तद्व्यतिरिक्तविषयत्वज्ञापनाय ध्यानसिद्धि मित्युक्तम् । यथे त्यस्यानन्तरग्रन्थानुसारेण पुरुषव्यपारोपादेय

प्रापकप्रकारपरतामाह येन प्रकारेण वर्तमान इति । मे निबोध । मत्तो निश्चयेनावधारयेत्यर्थः । परमे फले ह्रु

पायो नितिष्ठति; अतस्तदेवोपायपर्यवसानाभूमितया निष्ठेत्युच्यत इत्यभिप्रायेणाह तदेव ब्राहृ विशेष्यत इति ।

ज्ञानशब्दस्यात्रानन्तरोच्यमानध्यानविश्रान्तिमाह ध्यानात्मकस्ये ति ।।

18.51. बुद्धि शब्दोऽत्र प्रस्तुतब्राहृशब्दाभिप्रेतविषयबुद्धिगोचरः, तस्याश्शुद्धिश्चासमग्रविषयत्वसंशयविपर्ययरूप

दोषराहित्यमित्याह यथावस्थितात्मत्त्वविषये ति । धृत्ये ति पूर्वोक्तसप्रकारसात्त्विकधृतिपरामर्शमाह विषयविमुखी

करणेने ति । अत्र धृत्या मनोनियमनं कर्मोक्तम्; अपि च पूर्वमेव त्यक्तविषयस्य(त्यक्तविषः;तदस्य?) रागद्वेषौ

व्युदस्ये ति वैषयिकरागद्वेषयोव्र्युदासस्यापि तादात्विकविषयत्वाय, वैराग्यं समुपाश्रितः इत्यनेन पुनरुक्तिपरिहारा

य चाह तन्निमित्ता विति । एतेन विषयासन्निधानफलं प्रदर्शितम् । यद्वा विप्रकृष्टेष्वपि सूक्ष्मसङ्गो निरोद्धव्य इति

भावः । विविक्त त्वं रहितत्वम्;तत् प्रकृतोपयोगेन विशिनष्टि सर्वैध्र्यानविरोधिभिर्विविक्ते देश इति । लघ्वाशी

इत्यनेन पूर्वोक्तं "नात्यश्नतः' (6. 16) इत्यादिकं स्मार्यत इत्याह अत्यशनाशनरहित इति । धृत्याऽऽत्मानं

नियम्य चे त्यादिना यतवाक्कायमानसः इत्यस्य पुनरुक्तिपरिहारायाह ध्यानाभिमुखीकृतकायवाङ्मनोवृत्ति रिति ।

कायस्याभिमुखीकरणं स्थिरासनादिपरिग्रहः ; वाचस्तु प्रणवादिव्यतिरिक्तवर्जनम्; मनसस्तु शुभाश्रयालम्बनम् ।

उक्तानां ध्यानयोगशेष्त्वमाह एवंभृतस्सन्नि ति । नित्य शब्दविवक्षितमाह आप्रयाणादहरहरि ति । रागद्वेषौ व्युदस्

येति वैषयिकरागद्वेषयोव्र्युदासोक्तेः, वैराग्यं समुपाश्रित इत्येतत् आभिमानिकविषयम् । तत्र सम्यगुपाश्रयणं

पूर्वसिद्धस्यापि झ्र्तस्यटसम्यगवस्थापनमित्यभिप्रायेण विरागतां वर्धयन्नि त्युक्तम् । एवमहंकारादिविमोचनेऽपि द्रष्ट

व्यम् । शरीरमनःप्राणादिबलानां योगविरोधित्वाभावात् वासनाबल मिति विशेषितम् । दर्पोऽत्राहंकारबलहेतुकोऽङ्

कीकारः । योगित्वशान्तात्वादिनिमित्तोऽपि दर्पस्त्याज्यःस, ""दृप्तो धर्ममतिक्रामति', (आप.1.134) इति स्मरणात्

। मनोवाक्कायव्यपारनिवृत्त्यादेरुक्तत्वात् । शान्त शब्दोऽत्र शमहेतुविशेषपर इत्याह आत्मनुभवैकसुख इति । इन्द्रियव्यपारोपरतिः कोधादिनिवृत्तिश्च बाह्रसुखनिस्स्पृहत्वात्; तच्च प्रभूतात्मसुखलाभादिति भावः । उक्तेषु

सर्वेषु (3ढददृ)ध्यानयोगस्याङ्गित्वमाह एवंभूतो ध्यानयोग कुर्वन्नि ति । ध्यानमेवात्र योगः, ध्यानेन वा योगः ।

अन्तरश्लोकार्थपरामर्शेन ब्राहृशब्दस्यात्र शुद्धात्म विषयमाह सर्वबन्धे ति ।

18.54. एवं कर्मयोगादिसाध्यप्रत्यगात्मानुभवस्य परभक्त्यधिकारपादकत्वमुच्यते ब्राहृभूतः इति श्लोकेन । तद

भिप्रायेण परशेषतैकस्भावत्वस्याप्याविर्भाव उक्तः । योगसाध्ये ब्राहृाख्य(ब्राहृाख्यजीवानुभवरूप?)मिह ब्राहृत्वमित्

यभिप्रायेणाच्छिन्नज्ञानाविर्भावोक्तिः । शेषत्वस्य स्वरूपानुबन्धित्वं प्रागेवोक्तमित्याह
इतस्त्वन्या मिति। "रागादिदूषि

ते चित्ते नास्पदी मधुसूदनः (वि.ध.9.10) इत्याद्युक्तपरभक्त्यनर्हतानिवृत्तिः प्रसन्नात्मे त्युच्यत इत्याह क्लेशकर्

मादिभिरकल्मषस्वरूप इति । आदि शब्देन विपाकाशयोग्र्रहणम्; तयोरपि कालुष्यरूपत्वात्; ""क्लेशकर्मविपाखयैः

(यो.सू.1.24) इति सन्नियोगशिष्टत्वाच्च । (ढददृ1) अविद्याऽस्मितादयः पञ्च क्लेशाः ; कर्म पुण्यपापरूपम्;

जात्यायुर्भोगाः विपाकाः ; आशयाः संस्काराः । "यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते' (6.22) इति

प्रागुक्तं न शोचती ति परामृष्टम् । तथा, "यं लब्ध्वा चापरं लाभं मनयते नाधिकं ततः'(6.22) इत्युक्तं न काङ्

क्षती ति । स्मारितम् । अत्र न ह्मष्यती ति पाठान्तरमप्रसिद्धत्वादनङ्गीकृतम् । तत्रात्मानुभवसुखेन बाह्रवैतृष्ण्यं

तावज्जायते; परमात्मनस्तु प्रत्यागात्मनोऽप्यधिकसुखतया श्रुतत्वात् तदनुबुभूषा सिथायिनीत्यभ्रायेण मद्व्यतिरि

क्त प् मिति?ट शब्दः । शोककाङ्क्षानुदयहेतुः सम इत्युच्यत इत्यभिप्रायेण अनादरणीयतायां सम इत्युक्तम् ।

तुल्

योनादर इत्यर्थः । परावरतत्त्वविवेकफलम् अन्यानादरसाध्यं व्यनक्ति निखिल मिति । वस्तुजात मित्यनेन ब्राहृादि

स्तम्बपर्यन्तानामेव मेर्वपेक्षया माषसर्षपादीनामिवावान्तरोतकर्षस्यानादरयोग्यत्वं सूचितम् । तृण वदिति । न हि

रत्नपर्वतमारुरुक्षोः पलालकूटे सङ्गः स्यादिति भावः । अत्र मच् छब्देन परभक्त्युत्पत्तिविवृद्धयर्थतया पूर्वत्र,

शास्त्रान्तरेषु च प्रपञ्चितानामुपासनदशायामनुसंधेयानां च आकाराणामभिप्रेतत्वमाह म य सर्वेश्वर इत्यादिभिः ।

सर्वेश्वर इति । ईशितव्यस्य बद्धस्य किं तताभूतैः ईशितव्यान्तरैरिति भावः । निखिलजगदुदयविभवलयलील

इति । 'कारणं तु ध्येयः' (अथर्व.3) इति हि श्रुतिरिति भावः। यद्वा करणकलेबप्रदानादिभिर्महोरकारके चतुर्विधभूतहेतुभूते तस्मिन् तिष्टति सृष्टिसंहारकर्मतयैवावस्थितः कोऽन्यः समाश्रयणीय इति भावः। निरस्तममस्तहेयगन्ध इति। न ह्रस्मिन् यथावत्प्रतीते वस्त्वन्तरेष्विवावज्ञावैमुख्यादिकारणमस्तीति भावः। अनवधिके त्यादि। एकैकगुणप्रकर्षोऽपि चिताकर्षरकः; किमुतैवं संभूत इति भावः। यद्वि परं सुलभं च, तदेव ह्राश्रयणीयमिति सौलभ्योपयुक्तगुणानामप्यत्र संग्रहः। लावण्यामृतसागर इति शुभाश्रयविग्रहगुणोपलक्षणम्। श्रीमती ति। श्रीहिं सर्वेषावाश्रयणीया; साऽप्येनं नित्यमाश्रितेति ह्मदयम्। श्रीयते श्रयते चेति श्रीशब्दो निरुक्तः। मतुप्नित्ययोगे। श्रुतिश्च, "ह्नीश्च ते लक्ष्मीश्च पत्न्यौ"(ना) इत्यादिका। स्मर्यते च "नित्यैवैषा जगन्माता विष्णोश्श्रीरनपायिनी" (वि.1.8.17) इति। एतेनोपास्यत्वप्राप्यत्वादिकं सर्वं सपत्रीकस्येति ज्ञापितम्। आमनन्ति च रहस्यम्नाय विद इममेवार्थम्, "नित्यसन्निहितशक्तिः"इति। पुण्डरीकनयन इत्यवयवसौन्दर्योपलक्षणम्। "तस्य यथा कप्यासं पुणडरीकमेवमक्षिणी। तस्योदिति नाम। स एषः सर्वेभ्यः पाप्मभ्य उदितः। उदेति ह वैसर्वेभ्यः पाप्मभ्यः, य एवं वेदः"(छा.1.6.7) इति सर्वपापविमोक्ष कामस्योपासनार्थतया पुमडरीकाक्षत्वमप्युपदिष्टम्। चक्षुषा तव सौम्येन पूताऽस्मि (रा.आ.74.13), 'यं पश्येन्मधुसूदनः' (भा.मो.349.73) इत्यादिषउ च तद्विक्षणस्य पावनतमत्वमुच्यत इति भावः। भुक्त्युत्पत्त्यादौ सर्वमिदमेकतः; स्वामित्वं चैकतः; न चासावेकोनसर्वस्वामीत्यभिप्रायेणाह स्वस्वामिनी ति।।54।।

तत्फलमाहे ति। अव्यवहितं व्यवहितं चेति शेषः। पूर्वग्रन्थोक्तदगत्कारणत्वलिक्षितसर्वेश्वराख्यघम्र्यभिप्रायेण य इत्यस्यार्थमाह स्वरूपत इति। विधिनिषेधरूपशोधकवाक्यवसितसर्वविद्यानुसंधेयस्वरूपनिरूपकधर्मयोघः स्वभावत इति निर्दिष्टः। स्वनिरूपकधर्माभावे अनिरूपितस्वरूपतया निः स्वभावमेव वस्तु स्यात्। 'स्वरूपशब्दः स्वरूपनिरूपकधर्मपरः, स्वभावशब्दस्तु सौलभ्यपरः' इति केचित्। याव च्छब्दो हि प्रकर्षमनिकर्ष(निष्कर्ष) परामर्शयोग्याकारविषयो युक्त

इत्यभिप्रायेणाह गुणतो विभृतितोऽपि यावाश्चाह मिति। गुण शब्दोऽत्र निरूपितस्वरूपविशेषकज्ञानशक्यादिसमस्तधर्मविषयः। यावान् यश्चे त्यनयोव्र्युत्क्रमेण व्याख्यानं बुद्वयारोहक्रमप्रदर्शनार्थम्। तत्त्वत इत्यस्य यावान् यश्चे त्यत्रानपेक्षणात् अभिजानाती त्यत्र संशयादिव्युदासाय तदपेक्षणाच्च तत्त्वतोऽभिजानाती ति योजितम्। मां तत्त्वतोऽभिजानातीत्यु क्तस्यैव मां तत्त्वतोज्ञात्वे नुभाषाणमुपायभूतस्यापि स्वादुतमतया सुदुर्लभत्वेनदरातिशयार्थम्। तत्त्वतो ज्ञात्वे त्यनेनैव आनन्तर्यसिद्वयर्थहेतुपौष्कल्यज्ञापकानुवादस्य सिद्वत्वात्, तदनन्तर मित्यनेनैव प्रवेशस्यानन्तर्यकण्ठोक्तेः,
भक्त्या त्वनन्यये त्यादौ प्रवेशेऽपि हेतुतया भक्तेरेव प्रागुक्तत्वाच्च ततो भक्तितो मां विशते इत्येवान्वयो दर्शितः। प्रवेष्टुमिति प्रागुक्तैकाथ्र्यज्ञापनाय परस्मैपदसिद्वये च प्रविशती त्युक्तम्। यथावज्ज्ञानमपि काष्ठाप्राप्तभक्तेः। अन्योन्याश्रयणं च भक्तेः पर्वभेदात् परिह्मतम्। सैव तु तथाविधावस्था साक्षात् मोक्षसाधनमित्याह तत्त्वत इत्यादिना। दर्शन शब्देनानुभाषणात् तत्त्वतोऽभिजानाती त्यस्य साक्षात्कारपरत्वं व्यञ्जितम्। 'परभक्त्याऽपि तत्त्वज्ञानमेव साध्यम्; तदेव तु साक्षान्मोक्षसाधनम्' इति कुद्दष्टिमतमपाकरोति अत्रे ति। एव कारेण दर्शनव्यवच्छेदः। यद्यप्यत्र भक्तिशब्दो व्यवहितः, तत्त्वज्ञानं त्वव्यहितम्-- तथाऽपि व्यवहितपरामर्श एव युक्तः; अन्यथा तत्त्वतो ज्ञात्वे त्यादिना पुनरुक्तिप्रसङ्गात्। अत्र दर्शनजनकभक्त्यनुवादे प्रयोजनाभावात् सैव तदुत्तरावस्था परामृश्यत इति भावः। प्रागुक्तं हेतुमाह भक्त्या त्वनन्यये ति। अयमभिप्रायः-- उपक्रमन्यायत् पूर्वं

प्रबलम् ; स्पष्टास्पष्टयोश्च स्पष्यानुसारेणान्यत् गमयितव्यमिति।।55।।

पूर्वत्र ज्ञाननिष्टोक्ता, अनन्तर कर्मनिष्टोच्यत इति शङ्काव्युदसाय पूर्वत्रापि कर्मनिष्टाया-- मेवावान्तरविशेषविपक्तिमनुवदन् संगतिमाह एव मिति। विपाकोऽत्र पूर्वश्लोकद्वयोक्तपरभक्तिपरज्ञानपरमभक्तिपर्यन्तः। विहितकर्मणां पूर्वमुक्तत्वात् सर्वकर्माण्यपी ति निषिद्वानुष्ठानं भगवदनन्यतातस्तुत्यर्थमुपक्षिप्यत इति स्वैराभिलषिशङ्करादिमत (द्याशङ्का) मपाकरोति इदानीं काम्यानामपि कर्मणा मिति। सर्वशब्दोऽत्र शास्त्रीयेष्वेवानुक्तसंग्रहमार्थ इति भावः। तदेव विवृणोति न केवल मित्यादिना। पूर्वश्लोकस्थ प्राप्यमेवात्रापि सविशेषण पद शब्देन निर्दिष्टमित्यभिप्रायेण निर्वक्ति पद्यत इति।।56।।

उक्तं परमपुरुषार्थसाधनत्वमनन्तरोपायानुशासनहेतुरित्याह यस्मादेव मिति। चेतश्शब्दसाफल्याय तदभिप्रतं चेतसो भगवति कर्मसंन्यासकरणत्वं येन प्रकारेण, तमाह आत्मनो मदीयत्वमन्नियाभ्यत्वबुद्व येति। अत्र चेतश्शब्दस्यैवं तात्पर्यं प्राचीनसविशेषणनिर्देशेन स्थापयति उक्तं ही ति। अध्यत्मचेतसा। परशेषत्वादिविशेषितयथात्मगोचरबुद्धयेत्यर्थः। सर्वशब्देन स्वरूपकात्स्न्यवत् अनुबन्धिकात्स्न्यमपि प्रागुक्तप्रकारेणाभिप्रेतमित्याह सकर्तृकाणि साराध्यानी ति। बुद्धियोगशब्देन मुमुक्षोरसाधारणमकर्तृत्वानुसंधानादिकं सर्वं प्रत्यभिज्ञाप्यत प्रत्यभिज्ञाप्यत इत्याह इममेव बुद्धियोग मिति।।

मञ्चित्तस्सर्वदुर्गाणी त्यत्रा मञ्चित्तशब्देन पूर्वश्लोकोक्तस्यैवानुवादात् तत्रा च बुद्धिविशेषविशिष्टकर्मविधिपरत्वात् उत्तरेष्वपि ग्रन्थेषु युद्धाख्यस्वधर्मप्रोत्साहनस्यैव स्फुटत्वादिहापि तद्विवक्षामाह एवं मञ्चित्तस्सर्बकर्माणि कुर्वन्निति। मञ्चित्तत्वमात्रास्य विधेयत्वे अनन्तरं युद्धनिवृत्त्यध्वसायप्रतिक्षेपो न संगच्छत इति भावः। दुर्गशब्दस्य गिरिवनजलादिदुर्गेषु प्रसिद्धिप्रकर्षात् क्षत्रियस्य चार्जुनस्ययुयुत्सोस्तन्निस्तारापेक्षासंभवात् तद्विषयत्वाशङ्कामप्यपाकर्तुं पूर्वापरानुरोधेन सांसारिकाणी ति विशेषितम्। मत्प्रसादादि त्यनेन व्युत्पत्त्यनुशासनश्रुतिस्मृत्यादिरुद्धापूर्वादिकल्पनाव्युदासः, स्वस्य फलप्रदाने प्रतिबन्धनिवृत्त्यादिमात्रासाकाङ्क्षत्वं च सूच्यत इत्यभिप्रायेणाह मत्प्रसादादेवे ति। एवं नित्यनैमित्तिककाम्यरूपाणां कर्मणां बुद्धिविशेषेनियमादियोगेन कर्मयोगशब्दितानां परम्परया परिपूर्णभगवत्प्राप्तिपर्यन्तं विपाकमुपपाद्य सर्वथा कर्मयोग एव ते कर्तव्य इति निगमितम्। अथ तदकरणे प्रत्यवायमाह अथ चेदित्यर्धेन। हितवचनानादरस्य निमित्तभूतमहङ्कारविशेषमाह अहमेव कृत्याकृत्यविषयं सर्वं जानामीति भावादिति। न श्रोष्यसीति श्रूयमाणेऽपि श्रुतफलनिवृत्त्यभिप्रायम्। विनङ्क्ष्यसीत्नेनादिकालमनुवृत्तस्यात्मनाशस्योत्तरफेऽप्यनुवृत्तिर्विवक्षितेत्यभिप्रायेणाह-- विनष्टो भविष्यसी ति। 'बुद्विनाशात्प्रणश्यति' (2.63) इति प्रागुक्तप्रत्यभिज्ञानपनमिति भावः।

अश्रवणादिनिदानमाप्तान्तरादिसंभवमपाकुर्वन् विनङ्क्षयसीत्यस्य शापवचनतुल्यताव्यावृत्त्यर्थे स्वस्यैवाप्ततमत्वकथनेन स्वोपदिष्टस्यार्थस्थितिरूपातायामभिप्रायमाह न हि कश्चिदि ति। अन्ये हि वक्तारो मया वाचिताः परिमितविषयं किंचिद्वदन्ति; अहं तु सर्वस्याधिकारिणस्सर्वविधहिताहितवेदी; यानि च परोक्तानि शास्त्राणि, अनुक्तानि च च्छन्दांसि, तान्यपि मदाज्ञारूपतयैव प्रमाणभूतानीति भावः।।58।।