सामग्री पर जाएँ

गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →

।। अथ सप्तदशोऽध्यायः ।।




17.1. उक्तदोषतया सप्तदशमवतारयितुमुक्तमुद्गृह्णाति देवासुरे ति । प्रकृतस्य मुखभेदेन प्रपञ्चनपरतया सङ्गतिमाह इदानी मिति । हेयोपादेयव्यवस्थायाः शास्त्रेक

मूलत्वोक्तिसमनन्तरमित्यर्थः । ""अशारुामासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् । लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ।। (21) इति संग्रह श्लोकं विवृणोति

अशास्त्रविहितस्ये त्यादिना । अत्र सामान्यतो विशेषतश्च शास्त्रीयार्थविभजनमध्यायानुवृत्तार्थः । सप्तदशोदित मित्येतत् संग्रहश्लोकवाक्यत्रयेऽ

पि प्रत्येकंमन्वेतव्यम् ।एतत् सर्वं सप्तदशोदितमितिसर्वोपसंहारेण वाऽन्वयः

ज्ञात्वाशारुाविधानोक्तम्(16.24) इत्यस्यानन्तरं येशारुाविधिमुत्सृज्ये तिप्रश्नःकथं

सङ्गच्छत इत्यत्राह तत्रेति अशारुाविहितस्य निष्फलत्वमजानन्निति। अयमभिप्रय प्रेक्षावतां स्वतः प्रयोजनो तदुपाये वा बुभुत्सा । अतः सत्त्वादिनिष्ठाभेदबुभुत्सा

तन्मूलफलविशेषपर्यन्ता । न च निष्फलत्वज्ञाने फलविशेषजिज्ञासा । ततश्च लोक

सिद्धाः कृषिचिकित्सादयोऽपि प्रेक्षवत्प्रवृत्तिविषयः सफला एव दृश्यन्ते । अन्यथ शारुास्यापि निर्मूलत्वप्रसङ्गात्अलोकिकेष्वप्याचार सिद्धाः कतिकति धर्माः। न च ते यत्किञ्चित् फलमान्तरेण स्युः; प्रेक्षावतामप्रवृत्तिःप्रसङ्गात्। न च श्रद्धापूर्वकानुष्ठानेङ्गमवैकल्यात् फलाभावः संभवति; न च प्रेक्षावद्भिरनेन्तैर्जनैर्बहुविताव्ययायासादिनाऽनुष्ठीयमानेषु दृष्ठप्रयोजनरहितेषु कर्मसु अदृष्टपर्यवसानमन्तरेण गतिः अतः शारुाविहितादस्य यदि किञ्चिद्वैषम्यमुच्यते तदा सत्त्वादिगुणभेदप्रयुक्तफलतारतम्यमात्रमेव स्यात्। अतः, 'यतः शारुाविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाम्नोति न सुखं न परां गतिम्' (16.23) इति पूर्वोक्तमपि प्रायशः प्रकृष्टसुखाभावविवक्षया; 1. कामकारतः इति विशेषणं वाऽश्र(चाश्र?)

द्धायुक्तव्यवच्छेदार्थमिति 2.दुरुपदेश-बाह्रागम-स्वोत्प्रेक्षा-वृद्धव्यवहारमात्रकल्पिते ह्रत्र धर्माभि

सन्धिश्रद्धादियोगान्नैष्फल्यनिवृत्तिर्युक्तत्यर्जुनस्याशयः इति । विशिष्टस्याफलशङ्कास्पदत्वाय

कर्तृविशेषणं क्रियाविशेषणतया व्याचष्टे श्रद्धासंयुक्ते यागादावि ति । यागोऽत्र दानाद्युपलक्षणा

र्थः । देवपूजात्वाविशेषात् तत्संग्रहो वा ।

अत्र कृष्ण शब्देन ""कृषिर्भूवाचकश्शब्दो णश्च निर्वृत्तिवाचकः (भा.उ.69.5) इति सर्वापेक्षित

सिद्धयौपयिकीं निरुक्तिमभिप्रैति । तु शब्देन शास्त्रीयनिष्ठातः कामकारतश्च व्यावृत्तिर्विवक्षिता । विपरिणतस्य किंशब्दस्य आहो इति पदस्य वा अत्राऽऽवृत्तिमभिप्रेत्याह किं सत्त्वमि ति । विनाशाद्यर्थव्यवच्छेदार्थं सत्त्वादिसामानाधिकरण्याय चाधिकर्णव्युत्पत्तिमवतारयितुं पर्यायेण स्वरूपं व्यनक्ति निष्ठा स्थिति रिति । तेषां निष्ठा तु के ति पृष्ट एवार्थः सत्व मित्यादिना

विशेष्यत इत्यभिप्रायेण फलितमाह तेषा मिति ।।

17.2 श्रद्धा कतिविधेति प्रश्नभावेऽपि प्रश्नभावेऽपि तदुक्तिवैधट¬(यथ्र्य)शङ्कां परिहरन् श्रद्धात्रैविध्यकथनस्य प्रयोजनं चाह एवं पृष्ट इत्यादिना । पूर्वोपदिष्टविरुद्धं पृष्ट इत्यर्थः ।

ह्मदि निधाये ति । क्रमेण साक्षादुत्तरमवतारययितुमित्यर्थः । प्रश्नस्यात्यन्तानादरपरत्वज्ञापनाय

वा सहसा साक्षादुत्तरानुक्तिरिति भावः । गुणतस्त्रैविध्य मिति । गुणभेदनिमित्तफलभेदयोगित्वमिति भावः । अत्र हि श्रद्धोयोगात् सात्त्विकत्वं

17.4. प्रकान्तश्रद्धायाः सात्त्विकत्वादिविभागोऽनन्तरं सात्त्विकराजसतामसश्रद्धेयै (3ढददृ 518) प्रदर्शयत इत्यभिप्रायेणाह तदेव विवृणोती ति । तत् फलविशेषाणां श्रद्धाविशेषविबन्धनत्वमित्यर्थः । पुरुषस्य सत्त्वादयो

ह्रुपचीयमानाः स्वानुरूपे विषये श्रद्धां जनयन्तीत्यभिप्रायेणाह सत्त्वगुणप्रचुरा इति । सर्वेषु त्रैगुण्य संश्रितेषु

केनचिद्विशेषेण निर्देशस्तत्प्राचुर्यात् । तत्र सात्त्विक्या श्रद्धये ति पुरुषस्य सात्त्विकत्वकथनेन अर्थसिद्धहेतुकथन म् । श्रद्धाया एव स्वरूपेण विर्दिष्टत्वात् । तां शृण्वि ति श्रद्धास्वभावो हि ज्ञापयितुं विवक्षित इत्यभिप्रायेणाह

दुःखासंभिन्ने ति । आराध्यसायुज्यादिर्हि आराधनानां फलमित्यभिप्रायेण दुःखासंभिन्नत्वादिकथनम् । एवमुत्तरयोरपि भाव्यम् । तामसानामिरेभ्योऽत्यन्तवैधम्र्यज्ञापनाय अन्य शब्दः । भूतगणाः रुद्रपार्षदादयः ।।

17.5. एवमर्थात् प्रश्नस्य (ढददृ2)निषेधः कृतः ; अथ कण्ठोक्त्येत्यभिप्रायेणाह एव मिति । ""न स सिद्धम्

(16.23) इत्यादिप्रागुक्तस्मारणाय न कश्चिदपि सुखलव इत्युक्तम् । अपि त्वनर्थ एवे त्यनेन पूर्वोक्तनरकपतनस्मारणम् । प्रश्नवाक्यगतश्रद्धान्वितत्वानुभाषणविवक्षया तत्कार्यातिप्रयासज्ञापनापरो घोर शब्द

इत्यभिप्रायेणाह अतिघोरमपी ति । ननु "यजन्ते श्रद्धयाऽन्विताः ' इति यागविषये प्रश्ने तप्यन्त इति तपसोत्तरं

कथं संगच्छत इत्यत्राह प्रदर्शनार्थमिद मिति । संग्राहकाकारं दर्शयन् फलितमाह अशास्त्रविहित मिति । वेदबाह्रागमोक्तं, वैदिकमप्यनधिकारिभिर्देशकालद्रव्यक्रियादिनियमानादरेण अयथानुष्ठितं चाशास्त्रविहितम् ।

दारुणपर्याय घोर शब्दाभिप्रेतमाह बह्वायास मिति । .यागादिक मित्यनेन प्रश्नऽपि यागाग्रहणं प्रदर्शनार्थमिति ज्ञापितम् । अत एव हि प्रश्नोत्तरयोरेकविषयत्वम् । शास्त्रैरचोदितानां चोदकान्तरमुच्यते दम्भाहङ्कारसंयुक्ता

इत्यादिना । बलमत्र कामरागयुक्तत्वादसात्त्विकम् । ""बलं बलवतां चाहं कामरागविवर्जितम् (7.11) इति हि प्रागुक्तम् । न केवलं परत्र नरकम् ; अपित्विहापि कायकर्शनमित्यभिप्रायेण शरीरस्थभूतसमूहकर्शनो क्तिः । "अन्तर्याम्यमृतः ' (बृ.5.7.14), "अनश्नन्नन्योऽभिचाकशीति' (मु.3.1.1) "न स्थानतोऽपि परस्योभयलिङ्गं

सर्वत्र हि ' (ब्रा.3.2.11) इत्यादिभिः परमात्मनः स्वरूपतो धर्मतो वा कर्शनासंभवात्, संभवे च शास्त्रविहितोपवासादिभिरपि प्रसङ्गात्, शरीरिणां क्षेत्रज्ञानां ज्ञानसुखादिसङ्कोचरूपस्य कर्शनस्य श्रुतिस्मृति

लोकसिद्धत्वात्, (क़ददृ1) अन्तश्शरीरस्थ मित्यनेन शरीरावच्छिन्नक्षेत्रज्ञत्वसूचनात्, "क्षेत्रज्ञं चापि मां विद्धि'

(13.2), "ममैवांशः ' (15.7) इति प्रागुक्तप्रक्रियया सर्वशरीरकपरमात्मविशेषणांशभूतजीवविवक्षयाऽत्र मा मितिवि

निर्देश इत्याह मदंशभूतं जीव मिति ।मच्छरीरभूतजीवपीडनंमत्पीडनतुल्यमित दोषादिशयसूचनार्थोऽयमुपचारः।

845. द्मण्दृद्वथ्ड्ड डड्ढ द्यन्र्द्रड्ढड्ड.

शास्त्रोल्लङ्घनात् तामसत्वं तदुभयसमुच्चयात् राजसत्वमाशङ्कितम् ।तत्र तावत् श्रद्धापूर्वकत्वं

फलसाधनत्वयोपयुक्तम् । तत् शास्त्रीयेष्वेव । तत्रापि श्रद्धया नत्वै(न स त्त्वै?)कान्तिकत्वमित्यभिप्रायेण शास्त्रीय श्रद्धायास्त्रैविध्यग्रहणम् । एतेन (ढददृ3.516)परिसंख्यान्यायेनाशास्त्रीयेषु फलभेदनिमित्तं त्रैविध्यम्

प्रत्युक्तम् । अत्र श्रद्धाभेदात् सत्त्वादिनिष्ठाभेदनिर्णय इत्युक्तं भवति । देहिना मित्यनेन तत्तद्देहानुरूपमधिकारि

वैचित्र्यं विवक्षितमित्यभिप्रायेणाह सर्वेषा मिति । ब्राहृादीनामपीत्यर्थः । देहिना मिति । सत्त्वादिगुणप्रचुरदेहविशे

षानुरूपमिति भावः । साधारणेषु शात्रेषु तत्प्ररोचकेष्वर्थवादादिषु च, कथं पुरुषभेदनियतश्रद्धाभेद इति शङ्कायां सा स्वभावजे त् वाक्यान्तरमित्यभिप्रायेणाह सा चे ति । कार्यासाधारणत्वाय कारणासाधारणत्वविवक्षामाह स्भावः स्वासाधारणो भाव इति । कोऽसौ भावः, कश्च तस्याष्यसाधारण्यहेतुरित्

यत्राह प्राचीने ति । रुचिश्रद्धयोः कार्यकारणभावोऽन्वयव्यतिरेकसिद्ध इत्यर्थः । रुचिव्यतिरिक्ता तत्कार्यभूता का

श्रद्धेत्यत्राह श्रद्धा ही ति । "श्रद्धा विश्वासकाङ्क्षयोः' इति त्वरापर्यन्तविश्वासेऽपि हि श्रद्धाशब्दं नैघण्टुकाः पठन्ति । ननु "कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिह्र्नीर्धीर्भीरित्येतत् सर्वं मन एव बृ.3.5.3) इति श्रवणात् अन्तःकरणधर्मेष्वात्मानमलिम्पत्सु श्रद्धादिषु, 1.गुणकृतत्वाच्च गुणध्मत्संभवेऽपि, कथमत्र स्व शब्देन देहि शब्देन च निर्दिष्टप्रत्यगात्मनि तदन्वयोक्तिः, तत्राह वासने ति । शुद्धस्वभावस्यैवात्मनः कर्ममूल

गुणमयप्रकृतिसंसर्गोपाधिकधर्मभूतज्ञानपरिणितिविशेषा इत्यर्थः । श्रद्धाभेदेषु सात्विकादिसंज्ञानिवेशाय, निर्गणस्

यात्मनः कथं सत्त्वादिमूलवासनादियोग इथि शङ्काव्युदासाय च देहिशब्दसूचितप्रक्रियया गुणसंसर्गजत्वं विवृणोति तेषा मिति

। यथौषधादिविशिष्टदह ना दिसंबन्धात् पार्थिवादिषु पाकजगुणारम्भः, तथाऽत्रेति भावः । तत्तत्कार्यहेतुतया शास्त्रसिद्धानामनुलब्ध्या निराकरणमयुक्तमित्यभिप्रायेणाह कार्यकनिरूपणीया इति । अतीन्द्रि

याणामनुभूतानां कथं वासनाहेतुत्वमित्यत्राह सत्त्वादिगुणयुक्ते ति । मूलकारणापेक्षया श्रद्धायास्सात्त्विकत्वादिसंज्ञ

  1. ाभेद इत्याह ततश्चे ति । सात्त्विकत्वादित्रैविध्येन श्रावतायां पुनः शृण्विति किमुच्यत इत्यत्राह सा श्रद्धा


यत्स्वभावे ति । स्वरूपस्य सामान्यतस्त्रैविध्यस्य च विदितत्वात् अविदितप्रकारविशेषाभिप्रायेण शृण्वि त्युक्तम् ।।

17.3. सत्वानुरूपे त्यत्र न सत्त्वगुण उच्यते; सर्वस्य पुरुषस्य श्रद्धायास्तदधींनत्वे राजसतामसश्रद्धाविभागा

योगात् । सहकारित्वेन सत्त्वं सर्वत्रापेक्षितमिति चेत्-न; रजस्तमसोरपि तथात्वात् । त्रैगुण्यं हि परस्पराङ्ग

भावेन स्थित्वैव हि(?) 2.वातपित्तकफादिवत् सर्वं कार्यमारभते । अतोऽत्र सर्वश्रद्धासाधारणकारणत्वेन निर्दिष्टं

सत्त्वं गुणत्रयोपष्टब्धमन्तःकरणमेवेत्याह सत्त्वमन्तःकरण मिति । आनुरूप्यं विवृणोति अन्तःकरणं यादृशगुणयुक्त मिति । यद्विषयरुचिजनकवासनोत्तम्भकसत्त्वादियुक्तमित्यर्थः । पूर्वं देहिनां सा स्वभावजे त्युक्तम् ; इह त्वन्तःकरणहेतुकत्वमुच्यते ; तदेतन्न वैकल्पिकम्; सिद्धे तदयोगात् । नापि पुरुषभेदेन विकल्पः ; सर्वस्येत्युक्तेः । नापि समुच्चयः; नैरपेक्ष्यप्रतीतेरित्यत्राह सत्त्वशब्द इति । सामग्रीमध्यपातिषु तत्रतत्रान्यतमनिर्देशो नानुपन्न इति भावः । श्रद्धामय इत्यत्र मयटः स्वार्थिकत्वे निष्प्रयोजनत्वात् प्राचुर्यद्यर्थत्वेऽ

पि प्रकृतानुपयोगात् श्रद्धाफान्वयविवक्षया विकारार्थत्वमाह श्रद्धापरिणाम इति । एवं सामान्येन श्रद्धाजन्यफल

संबन्धित्वमुक्तम् ; तत्र यो य च्छ्रद्ध इत्यादिना श्रद्धाविशेषवतः फलविशेष उच्यत इत्याह यः पुरुष इति । श्रद्धान्तरवैधम्र्यद्योतनाय यत्तच् छब्दयोः यादृश्येत्यादिना प्रकापरामर्शित्वोक्तिः । "आयुर्घृतम्' (यजु.2.3.2.2)इत्या

दिवत् कार्यकारणभावातिशयविवक्षया स एव सः इति निरूढोऽयमारोप इत्याह स तादृशश्रद्धापिरणाम इति ।

एतेन "स एव सः' इत्यत्र विधेयभेदाभावात्पुनरुक्तिशङ्काऽपि परिह्मता । पुरुषस्य नित्यत्वात् धर्मभूतज्ञानविकासादेश्चेन्द्रियद्वारा व्यवस्थितत्वात् देहादेश्चाचित्परिणामविशेषत्वात् किमपेक्ष्य श्रद्धापिरणामत्वो

क्तिरित्यत्राह पुण्यकर्मे ति । फलभेदबुभुत्सया ह्रत्र प्रश्नोदय इति च भावः ।।

17.4. प्रकान्तश्रद्धायाः सात्त्विकत्वादिविभागोऽनन्तरं सात्त्विकराजसतामसश्रद्धेयै (3ढददृ 518) प्रदर्शयत इत्यभिप्रायेणाह तदेव विवृणोती ति । तत् फलविशेषाणां श्रद्धाविशेषविबन्धनत्वमित्यर्थः । पुरुषस्य सत्त्वादयो