गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २१

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २० गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २१
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २२ →

कृष्ण्कृतं गोपीगणानां दावग्नि-मोक्षं तथा विप्रपत्‍नीभ्यः अन्नभिक्षा

श्रीनारद उवाच -
अथ क्रीडाप्रसक्तेषु गोपेषु सबलेषु च ।
तृणलोभेन विविशुर्गावः सर्वा महद्वनम् ॥ १ ॥
ता आनेतुं गोपबालाः प्राप्ता मुंजाटवीं पराम् ।
संभूतस्तत्र दावाग्निः प्रलयाग्निसमो महान् ॥ २ ॥
गोभिर्गोपाः समेतास्ते श्रीकृष्णं सबलं हरिम् ।
वदन्तः पाहि पाहीति भयार्ताः शरणं गताः ॥ ३ ॥
वीक्ष्य वह्निभयं स्वानां कृष्णो योगेश्वरेश्वरः ।
न्यमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ४ ॥
तथाभूतेषु गोपेषु तमग्निं भयकारकम् ।
अपिबद्‍भगवान्देवो देवानां पश्यतां नृप ॥ ५ ॥
एवं पीत्वा महावह्निं नीत्वा गोपालगोगणम् ।
प्राप्तोऽभूत् यमुनापारे शुभाशोकवने हरिः ॥ ६ ॥
तत्र क्षुत्पीडिता गोपाः श्रीकृष्णं सबलं हरिम् ।
कृतांजलिपुटा ऊचुः क्षुधार्ताः स्मो वयं प्रभो ॥ ७ ॥
तदा तान्प्रेषयामास यज्ञ आंगिरसे हरिः ।
ते गत्वा तं यज्ञवरं नत्वोचुर्विमलं वच ॥ ८ ॥
गोपा ऊचुः -
गोपालबालैः सबलः समागतो
     गाश्चारयन् श्रीव्रजराजनन्दनः ।
क्षुत्संयुतोऽस्मै सगणाय भूसुराः
     प्रयच्छताश्वन्नमनंगमोहिने ॥ ९ ॥
श्रीनारद उवाच -
न किंचिदूचुस्ते सर्वे वचः श्रुत्वा द्विजा नृप ।
गोपा निराशा आगत्य इत्यूचुः सबलं हरिम् ॥ १० ॥
गोपा ऊचु -
त्वमस्यधीशो व्रजमंडले बली
     श्रीगोकुले नन्दपुरोऽग्रदण्डधृक् ।
न वर्तते दण्डमलं मधोः पुरि
     प्रचंडचंडांशुमहस्तव स्फुरत् ॥ ११ ॥
श्रीनारद उवाच -
पुनस्तान् प्रेषयामास तत्पत्‍नीभ्यो हरिः स्वयम् ।
यज्ञवाटं पुनर्गत्वा नत्वा विप्रप्रियास्तदा ।
कृतांजलिपुटा ऊचुर्गोपाः कृष्णप्रणोदिताः ॥ १२ ॥
गोपा ऊचुः -
गोपालबालैः सबलः समागतो
     गाश्चारयन् श्रीव्रजराजनन्दनः ।
क्षुत्संयुतोऽस्मै सगणाय चांगनाः
     प्रयच्छताश्वन्नमनंगमोहिने ॥ १३ ॥
श्रीनारद उवाच -
कृष्णं समागतं श्रुत्वा कृष्णदर्शनलालसाः ।
चक्रुस्तथाऽन्नं पात्रेषु नीत्वा सर्वा द्विजांगनाः ॥ १४ ॥
त्यक्त्वा सद्यो लोकलज्जां कृष्णपार्श्वं समाययुः ।
अशोकानां वने रम्ये कृष्णातीरे मनोहरे ॥ १५ ॥
यथा श्रुतं तथा दृष्टं श्रीहरेर्रूपमद्‌भुतम् ।
प्राप्यानंदं गताः सर्वास्तुरीयं योगिनो यथा ॥ १६ ॥
श्रीभनवानुवाच -
धन्या यूयं दशनार्थमागता हे द्विजांगनाः ।
प्रतियात गृहाञ्छीघ्रं निःशंका भूमिदेवताः ॥ १७ ॥
युष्माकं तु प्रभावेण पतयो वो द्विजातयः ।
सद्यो यज्ञफलं प्राप्य युष्माभिः सह निर्मलाः ॥ १८ ॥
गमिष्यंति परं धाम गोलोकं प्रकृतेः परम् ।
अथ नत्वा हरिं सर्वा आजग्मुर्यज्ञमण्डले ॥ १९ ॥
श्रीनारद उवाच -
ता दृष्ट्वा ब्राह्मणाः सर्वे स्वात्मानं धिक् प्रचक्रिरे ।
दिदृक्षवस्ते श्रीकृष्णं कंसाद्‌भीता न चागताः ॥ २० ॥
भुक्त्वाऽन्नं सबलः कृष्णो गोपालैः सह मैथिल ।
गाः पालयन्नाजगाम वृन्दारण्यं मनोहरम् ॥ २१ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
दावाग्निमोक्ष विप्रपत्‍नीदर्शनं नामैकविंशोऽध्यायः ॥ २१ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥