गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १९ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २०
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः २१ →

प्रलम्बवधम्

 श्रीनारद उवाच -
इति कृष्णस्तवं श्रुत्वा मान्धाता नृपसत्तमः ।
अयोध्यां प्रययौ वीरो नत्वा श्रीसौभरिं मुनिम् ॥ १ ॥
इदं मया ते कथितं गोपीनां चरितं शुभम् ।
महापापहररं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ २ ॥
बहुलाश्व उवाच -
श्रुतं तव मुखाद्ब्रह्मन् गोपीनां वर्णनं परम् ।
यमुनायाश्च पंचांगं महापातकनाशनम् ॥ ३ ॥
श्रीकृष्णः सबलः साक्षाद्‌‍गोलोकाधिपतिः प्रभुः ।
अग्रे चकार कं लीलां ललितां व्रजमंडले ॥ ४ ॥
श्रीनारद उवाच -
एकदा चारयन्गाः स्वाः सबलो गोपबालकैः ।
भांडीरे यमुनातीरे बाललीलां चकार ह ॥ ५ ॥
विहारं कारयन् बालैः वाह्यवाहकलक्षणम् ।
विजहार वने कृष्णो दर्शयन्गा मनोहराः ॥ ६ ॥
तत्रागतो गोपरूपी प्रलंबः कंसनोदितः ।
न ज्ञातो बालकैः सोपि हरिणा विदितोऽभवत् ॥ ७ ॥
विहारे विजयं रामं नेतुं कोऽपि न मन्यते ।
ऊवाह तं प्रलंबोऽसौ भांडीराद्यमुनातटम् ॥ ८ ॥
अवरोहरणतो दैत्यो मथुरां गंतुमुद्यतः ।
दधार घनवद्‍रूपं गिरीन्द्र इव दुर्गमः ॥ ९ ॥
बभौ बलो दैत्यपृष्ठे सुन्दरो लोलकुण्डलः ।
आकाशस्थः पूर्णचन्द्रः सतडिज्जलदो यथा ॥ १० ॥
दैत्यं भयंकरं वीक्ष्य बलदेवो महाबलः ।
रुषाऽहनन्मुष्टिना तं शिरस्यद्रिं यथाऽद्रिभित् ॥ ११ ॥
विशीर्णमस्तको दैत्यो यथा वज्रहतो गिरिः ।
पपात भूमौ सहसा चालयन् वसुधातलम् ॥ १२ ॥
तज्ज्योतिर्निर्गतं दीर्घं बले लीनं बभूव ह ।
तदैव ववृषुर्देवाः पुष्पैर्नन्दनसंभवैः ॥ १३ ॥
अभूज्जय जयारावो दिवी भूमौ नृपेश्वर ।
एवं श्रीबलदेवस्य चरितं परमाद्‌भुतम् ।
मया ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥ १४ ॥
बहुलाश्व उवाच -
कोऽयं दैत्यः पूर्वकाले प्रलंबो रणदुर्मदः ।
बलदेवस्य हस्तेन मुक्तिं प्राप कथं मुने ॥ १५ ॥
श्रीनारद उवाच -
शिवस्य पूजनार्थं हि यक्षराट् स्ववने शुभे ।
कारयामास पुष्पाणां रक्षां यक्षैरितस्ततः ॥ १६ ॥
तदप्यस्यापि जगृहुः पुष्पाणि प्रस्फुरंति च ।
ततः क्रुद्धो ददौ शापं यक्षराड् धनदो बली ॥ १७ ॥
ये गृह्णंत्यस्य पुष्पाणि स्वे चान्ये सुरमानवाः ।
भवितारोऽसुराः सर्वे मच्छापात् सहसा भुवि ॥ १८ ॥
हूहूसुतोऽथ विजयो विचरन् तीर्थभूमिषु ।
वनं चैत्ररथं प्राप्तो गायन् विष्णुगुणान्पथि ॥ १९ ॥
वीणापाणिरजानन्वै गन्धर्वः सुमनांसि च ।
गृहीत्वा सोऽसुरो जातो गन्धर्वत्वं विहाय तत् ॥ २० ॥
तदैव शरणं प्राप्तः कुबेरस्य महात्मनः ।
नत्वा तत्प्रार्थनां चक्रे कृतांजलिपुटः शनैः ॥ २१ ॥
तस्मै प्रसन्नो राजेन्द्र कुबेरोऽपि वरं ददौ ।
त्वं विष्णुभक्तः शांतात्मा मा शोकं कुरु मानद ॥ २२ ॥
द्वापरांते च ते मुक्तिः बलदेवस्य हस्ततः ।
भविष्यति न सन्देहो भांडीरे यमुनातटे ॥ २३ ॥
श्रीनारद उवाच -
हूहूसुतः स गन्धर्वः प्रलंबोऽभून्महासुरः ।
कुबेरस्य वराद्‍राजन् परं मोक्षं जगाम ह ॥ २४ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
प्रलम्बवधो नाम विंशोऽध्यायः ॥ २० ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥