गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १५
गर्गमुनि
अध्यायः १६ →

माधुर्यखण्डः - पञ्चदशोऽध्यायः

नागेन्द्रकण्ठा-सखीगणोपाख्यानम् -

श्रीनारद उवाच -
व्रजे शोणपुराधीशो गोपो नन्दो धनी महान् ।
 भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ॥ १ ॥
 जाता मत्स्यवरात्तास्तु समुद्रे गोपकन्यकाः ।
 तथाऽन्याश्च त्रिवाचापि पृथिव्या दोहनान्नृप ॥ २ ॥
 बर्हिष्मतीपुरंध्र्यो या जाता जातिस्मराः पराः ।
 तथाऽन्याप्सरसोऽभूवन् वरान्नारायणस्य च ॥ ३ ॥
 तथा सुतलवासिन्यो वामनस्य वरात्स्त्रियः ।
 तथा नागेन्द्रकन्याश्च जाताः शेषवरात्परात् ॥ ४ ॥
 ताभ्यो दुर्वाससा दत्तं कृष्णापञ्चांगमद्‌भुतम् ।
 तेन संपूज्य यमुनां वव्रिरे श्रीपतिं वरम् ॥ ५ ॥
 एकदा श्रीहरिस्ताभिर्वृन्दारण्ये मनोहरे ।
 यमुनानिकटे दिव्ये पुंस्कोकिलतरुव्रजे ॥ ६ ॥
 मधुपध्वनिसंयुक्ते कूजत्कोकिलसारसे ।
 मधुमासे मन्दवायौ वसन्तलतिकावृते ॥ ७ ॥
 दोलोत्सवं समारेभे हरिर्मदनमोहनः ।
 कदम्बवृक्षे रहसि कल्पवृक्षे मनोहरे ॥ ८ ॥
 कालिन्दीजलकल्लोलकोलाहलसमाकुले ।
 तद्दोलाखेलनं चक्रुः ता गोप्यः प्रेमविह्वलाः ॥ ९ ॥
 राधया कीर्तिसुतया चन्द्रकोटिप्रकाशया ।
 रेजे वृन्दावने कृष्णो यथा रत्या रतीश्वरः ॥ १० ॥
 एवं प्राप्ताश्च याः सर्वाः श्रीकृष्णं नंदनंदनम् ।
 परिपूर्णतमं साक्षात्तासां किं वर्ण्यते तपः ॥ ११ ॥
 नागेन्द्रकन्या याः सर्वाः चैत्रमासे मनोहरे ।
 बलभद्रं हरिं प्राप्ताः कृष्णातीरे तु ताः शुभा ॥ १२ ॥
 इदं मया ते कथितं गोपीनां चरितं शुभम् ।
 सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ १३ ॥
 श्रीबहुलाश्व उवाच -
यमुनायाश्च पंचांगं दत्तं दुर्वाससा मुने ।
 गोपीभ्यो येन गोविन्दः प्राप्तस्तद्‍ब्रूहि मां प्रभो ॥ १४ ॥
 श्रीनारद उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
 यस्य श्रवणमात्रेण पापहानिः परा भवेत् ॥ १५ ॥
 अयोध्याधिपतिः श्रीमान् मांधाता राजसत्तमः ।
 मृगयां विचरन् प्राप्तः सौभरेराश्रमं शुभम् ॥ १६ ॥
 वृन्दावने स्थितं साक्षात्कृष्णातीरे मनोहरे ।
 नत्वा जामातरं राजा सौभरिं प्राह मानदः ॥ १७ ॥
 मांधातोवाच -
भगवन् सर्ववित्साक्षात्त्वं परावरवित्तमः ।
 लोकानां तमसोऽन्धानां दिव्यसूर्य इवापरः ॥ १८ ॥
 इह लोके भवेद्‌राज्यं सर्वसिद्धिसमन्वितम् ।
 अमुत्र कृष्णसारूप्यं येन स्यात्तद्वदाशु मे ॥ १९ ॥
 सौभरिरुवाच -
यमुनायाश्च पञ्चागं वदिष्यामि तवाग्रतः ।
 सर्वसिद्धिकरं शश्वत्कृष्णसारूप्यकारकम् ॥ २० ॥
 यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
 तावद्‌राज्यप्रदं चात्र श्रीकृष्णवशकारकम् ॥ २१ ॥
 कवचं च स्तवं नाम्नां सहस्रं पटलं तथा ।
 पद्धतिं सूर्यवंशेन्द्र पञ्चांगानि विदुर्बुधाः ॥ २२ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे बर्हिष्मतीपुरंध्र्यप्सरः सुतलवासिनी
 नागेन्द्रकन्योपाख्यानं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥