गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३१

विकिस्रोतः तः
← अध्यायः ३० गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →

अश्वमेधखण्डः - एकत्रिंशोऽध्यायः

सिंह-कुशाश्ववधम् -

गर्ग उवाच -
स्वस्याः पराजयं दृष्ट्वा सिंहो दैत्यो रुषान्वितः ॥
 निजघान वृकं बाणै रथस्थं खरवाहनः ॥१॥
 दृष्ट्वा समागतान्बाणन्वृको वै कृष्णनन्दनः ॥
 चिच्छेद तान्स्वबाणैश्च लीलया प्रधने नृप ॥२॥
 पुनश्चिक्षेप बाणान्वै तांश्च चिच्छेद कृष्णजः ॥
 ततः क्रुद्धो रणे राजन्सिंहनामासुरेश्वरः ॥३॥
 शरासने समाधत्त वसुसंख्याञ्छिलीमुखान् ॥
 चतुर्भिस्तुरगान्वीरो वृकस्य ह्यनयत्क्षयम् ॥४॥
 एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥
 एकेन सारथेः कायाच्छिरो भूमावपातयत् ॥५॥
 एकेन सगुणं चापमच्छिनत्प्रधने रुषा ॥
 एकेन हृदि विव्याध वृकस्य वेगवान्नृप ॥६॥
 तस्य कर्माद्‌भुतं दृष्ट्वा वीरा विस्मयमागताः ॥
 वृकस्तदैव सहसा दैत्यं शक्त्या जघान ह ॥७॥
 सा शक्तिस्तत्तनुं भित्त्वा खरं भित्त्वा विनिर्गता ॥
 विवेश भूतले राजन्विवरं पन्नगो यथा ॥८॥
 खरो मृत्युं गतस्तत्र दैत्यः शीघ्रं पपात ह ॥
 जगर्ज पुनरुत्थाय सिंहः सिंह इव स्फुटम् ॥९॥
 गृहीत्वा विशिखं शूलं चिक्षेप स वृकोपरि ॥
 तमापतंतं जग्राह वृको वामकरेण वै ॥१०॥
 तेनैव शत्रुं निजघान राज-
     न्कृष्णस्य पुत्रो बहुरोषयुक्तः ॥
 निर्भिन्नदेहो निपपात भूमौ
     हाहा प्रकुर्वन्स जगाम मृत्युम् ॥११॥
 हाहाकारस्तदैवासीद्दानवानां रणांगणे ॥
 पुष्पवर्षं सुराश्चक्रुः जयारावं यदूत्तमाः ॥१२॥
 तदा कुशांबः संक्रुद्धो सांबादीन् यादवान्मृधे ॥
 रथस्थः शीघ्रमागत्य सर्वान्विव्याध सायकैः ॥१३॥
 तस्य बाणैश्च बहवः पेतुश्छिन्ना महागजाः ॥
 तिर्यग्भूता रथा युद्धे तुरगाश्छिन्नकंधराः ॥१४॥
 तथा पदातयस्तत्र शिरोहीना विबाहवः ॥
 इत्थं स मारयन्‌राजन्ननेकान्विचचार ह ॥१५॥
 एवं पराक्रमं दृष्ट्वा सांबो जांबवतीसुतः ॥
 कुशांबं चाह्वयामास युद्धार्थे युद्धकोविदः ॥१६॥
 सांब उवाच -
आगच्छ वीर सहसा मया सह रणं कुरु ॥
 किमन्यैस्त्रासितैर्दीनैर्निहतैः कोटिभिर्नरैः ॥१७॥
 इत्युक्तवन्तमालोक्य कुशांबः प्रहसन्बली ॥
 जघान हृदये तस्य वसुसंख्याञ्छिलीमुखान् ॥१८॥
 तदमृष्यन्हरेः पुत्रः स्वकोदंडे दधञ्छरान् ॥
 तताड सप्तभिः शत्रुं दानवं वक्षसोऽन्तरे ॥१९॥
 उभौ समरसंरब्धावुभावपि जयैषिणौ ॥
 रेजाते तौ हि संग्रामे यथा षण्मुखतारकौ ॥२०॥
 सांबः कुशांबं प्रधने कुशांबः सांबमेव च ॥
 अन्योन्यं सर्पसदृशैर्बाणैरपि ववर्षतुः ॥२१॥
 बाणान्धनुषि संधाय शतसंख्यान्स्फुरत्प्रभान् ॥
 अकरोद्विरथं तैश्च सांबं छिन्नशरासनम् ॥२२॥
 स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
 आरुरोह रथं चान्यं कुपितश्चापसंयुतः ॥२३॥
 सांब उवाच -
कुत्र यास्यसि त्वं दैत्य कृत्वा दीर्घं पराक्रमम् ॥
 क्षणमात्रं रणे स्थित्वा पश्य मे विक्रमं परम् ॥२४॥
 इत्युक्त्वा सायकं चोग्रं स्वकोदंडे निधाय च ॥
 मंत्रयित्वा च मंत्रेण तद्‌रथे निचखान ह ॥२५॥
 अलातचक्रवद्‍भूमौ तेन बाणेन तद्‌रथः ॥
 बभ्राम योजने शीघ्रं ससूतः सतुरंगमः ॥२६॥
 भ्रमंतं सरथं दैत्यं दृष्ट्वा प्राह हसन्मुखः ॥
 सांबो जांबवतीपुत्रो बाणं कृत्वा शरासने ॥२७॥
 सांब उवाच -
त्वादृशाश्च महावीराः स्वर्गयोग्या भवंति हि ॥
 न राजंते महीमध्ये शक्रतुल्यपराक्रमाः ॥२८॥
 तस्माच्च मम बाणेन द्वितीयेन दिवं व्रज ॥
 सरथस्त्वं सदेहश्च मत्कृपातोऽसुरेश्वर ॥२९॥
 गगनप्रापकं चास्त्रमित्युक्त्वा विमुमोच सः ॥
 शरेण तेन सरथो विभ्रमन्भूतलान्नृप ॥३०॥
 लोकान्बहूनतिक्रम्य जगाम रविमंडलम् ॥
 सहयः सूतसहितस्तत्र सूर्यस्य ज्वालया ॥३१॥
 दग्धोऽभूत्तद्‌रथः सद्यो दैत्यो दग्धकलेवरः ॥
 पपात भूतले पुर्यां बल्वलस्य च सन्निधौ ॥३२॥
 तस्मिन्निपतिते पापे गते मृत्युं च दानवे ॥
 हाहाकारं ततश्चक्रुर्दैत्याः सर्वे भयान्विताः ॥३३॥
 यादवानां ततः सैन्ये नेदुर्दुंदुभयो मुहुः ॥
 पुष्पवर्षं मुदा चक्रुः सांबस्योपरि निर्जराः ॥३४॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
सिंहकुशांबोवधो नामैकत्रिंशोऽध्यायः ॥३१॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



वर्गःगर्ग संहिता