गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →


अश्वमेधखण्डः - षड्‌विंशोऽध्यायः

अश्वान्वेषणे यादवसैन्यस्य उपद्वीपगमनम् -


गर्ग उवाच -
अथ सर्वे यदुगणा गते क्रतुपशौ नृप ॥
 शोकं चक्रुः क्व गच्छामः करिष्यामश्च किं भुवि ॥१॥
 न तत्प्रतिविधिं सर्वेऽनिरुद्धाद्या विदुस्ततः ॥
 तदा नारदरूपी वै भगवानागमन्नृप ॥२॥
 तमागतं मुनिं दृष्ट्वाऽनिरुद्धो यादवैर्वृतः ॥
 पूजयित्वासने स्थाप्य प्रीतः प्राह मुनीश्वरम् ॥३॥
 अनिरुद्ध उवाच -
भगवन् यज्ञतुरगो बल्वलेन दुरत्मना ॥
 नीतः कुत्र गतः सर्वं वद मे वदतां वर ॥४॥
 त्वं पर्यटन्नर्क इव त्रिलोकीं दिव्यदर्शनः ॥
 अन्तश्चरो वायुरिव ह्यात्मसाक्षी च सर्ववित् ॥
 तस्मात्कथय सर्वं मे श्रुत्वा सोऽप्याह माधवम् ॥५॥
 नारद उवाच -
राजंस्तव तुरंगो वै बल्वलेन निवेशितः ॥६॥
 उपद्वीपे पांचजन्ये सिंधुमध्ये नृपेश्वर ॥
 मृते मित्रे च शकुनौ यादवानां वधाय च ॥७॥
 सुतलाच्च समाहूय दैत्यवृन्दान्महासुरः ॥
 राज्यं करोति तत्रापि शिवस्य वरदर्पितः ॥८॥
 इति श्रुत्वानिरुद्धस्तु वचः प्रोवाच शंकितः ॥
 अनिरुद्ध उवाच -
तस्मै चन्द्रललामेन किं दत्तं प्रवरं वरम् ॥९॥
 तन्ममाख्याहि देवर्षे कस्मात्संतोषितोऽभवत् ॥
 ततो बभाषे स मुनिः शृणु राजन् वचो मम ॥१०॥
 कैलासे चैकदा दैत्यो ह्येकपादेन संस्थितः ॥
 वर्षद्वादशपर्यंतं तपश्चक्रे सुदारुणम् ॥११॥
 ततश्च तोषितो देवो वरं ब्रूहीत्युवाच ह ॥
 तच्छ्रुत्वा स उवाचाथ सदाशिव नमोऽस्तु ते ॥१२॥
 महामृधे च मां देव पालयस्व कृपानिधे ॥
 तथास्तु चोक्त्वा देवस्तु तत्रैवांतर्दधे नृप ॥१३॥
 स दैत्यो पांचजन्यो वै राज्यं चक्रे बलात्ततः ॥
 स्वतस्तुभ्यं न तुरगं विना युद्धेन दास्यति ॥१४॥
 अनिरुद्धस्तु प्रोवाच हत्वा दुष्टं च बल्वलम् ॥
 ससैन्यं च मुनिश्रेष्ठ मोचयिष्ये तुरंगमम् ॥१५॥
 स शिवस्य वरेणापि यदि युद्धं करिष्यति ॥
 न पालयिष्यति मृधे शिवः कृष्णद्विषं खलम् ॥१६॥
 इत्युक्त्वा चानिरुद्धो वै प्रयाणार्थे जयाय च ॥
 यादवेभ्यश्च सर्वेभ्यः सहसाऽऽज्ञां चकार ह ॥१७॥
 ततोऽनुज्ञाप्य देवर्षिः युद्धकौतुकसंयुतः ॥
 ययौ चाकाशमार्गेण तत्र स्थानं नृपेश्वर ॥१८॥
 तदैव यादवाः सर्वे सज्जीभूता रुषान्विताः ॥
 स्नात्वा कृत्वा च दानानि तीर्थराजे विधानतः ॥१९॥
 उपद्वीपं ययू राजन्‌ रथिभिश्च गजैर्हयैः ॥
 द्विलक्षा मार्गकाराश्च मार्गं चक्रुर्दिने दिने ॥२०॥
 भिंदिपालैश्च सर्वत्र सेनायाः पूर्वमेव हि ॥
 सुखेन यत्र गच्छंति गजवाजितुरंगमाः ॥२१॥
 पदातयश्च राजेंद्र मार्गे निष्कण्टके त्वरम् ॥
 इत्थं तु यदुसेनायाः शेषो भारेण पीडितः ॥
 इति होवाच मनसि किं बभूव धरातले ॥२२॥
 अनिरुद्धोऽग्रतो भूत्वालक्षितः प्रययौ नृप ॥२३॥
 हयरक्षापदेशाद्वै नाशयन्निव पापिनः ॥
 यत्र यत्र गतो राजन्हयस्यार्थे च कार्ष्णिजः ॥२४॥
 तत्र तत्रोपशृण्वानः श्रीकृष्णस्य यशोऽखिलम् ॥
 श्लाघां ये वै करिष्यंति गोविंदबलदेवयोः ॥२५॥
 ददौ तेभ्यश्च रत्‍नानि वस्त्राण्याभरणानि च ॥
 यत्किंचित्तस्य सैन्येषु वसुमात्रमनुत्तमम् ॥२६॥
 तत्सर्वमददात्प्रीतः कृष्णगाथाहृताशयः ॥
 इत्थं शृण्वन्हरेर्गाथां काशीं पश्यन्गयां तथा ॥२७॥
 कुर्वन्दानानि राजेन्द्र काष्ठां प्राचीं जगाम सः ॥
 इत्थं भयंकरीं सेनां यादवानां विलोक्य च ॥२८॥
 गिरिव्रजपुराधीशः सहदेवस्तु शंकितः ॥
 भूत्वा कृतांजलिर्नीत्वा रत्‍नानि विविधानि च ॥२९॥
 अनिरुद्धस्य पदयोः पपात भयविह्वलः ॥
 अनिरुद्धस्ततस्तस्मै रत्‍नमालां ददौ मुदा ॥३०॥
 राज्ये कृत्वा च तं शीघ्रं शरणागतवत्सलः ॥
 समन्वितो वृष्णिवरैर्जगाम कपिलाश्रमम् ॥३१॥
 स्नात्वा च तत्रैव यदुप्रवीरो
     भागीरथीसागरसंगमे च ॥
 विलोक्य सिद्धं कपिलं मुनीद्रं
     ससेनया सोऽपि नमश्चकार ॥३२॥
 तत्रस्थानाद्दक्षिणस्यां सिंधुतीरे च तस्य वै ॥
 बभूवुः शिबिरा राजन्नुच्चाः प्रासादसन्निभाः ॥३३॥
 शिबिरेष्वनिरुद्धाद्या यादवास्तत्र सानुगाः ॥
 चक्रुर्निवासं राजेन्द्र शूराः सर्वे जयैषिणः ॥३४॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
तुरगार्थमुपद्वीपगमनं नाम षड्‌विशोऽध्यायः ॥२६॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता