गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १२

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ११ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १२
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १३ →



अश्वमेधखण्डः - द्वादशोऽध्यायः

अनिरुद्धस्य विजयाभिषेकम् -


गर्ग उवाच -
अथ राजा कुशस्थल्यां पूजयित्वा तुरंगमम् ॥
 मुमोच ब्रह्मघोषेण विधिना बद्धचामरम् ॥१॥
 सुधाकुण्डलिकाः सोऽपि भुक्त्वा तुरगराट् ततः ॥
 निर्ययौ स्वर्णमालाभिः शोभितः कुंकुमेन च ॥२॥
 रक्षणार्थं हयस्यार्थे चादरेण नृपेश्वरः ॥
 अनिरुद्धं वृकहणमूचे रक्षार्थमुद्यतम् ॥३॥
 उग्रसेन उवाच -
श्रीकृष्णपौत्र प्राद्युम्ने त्वया यत्कथितं वचः ॥
 पालनार्थे तुरंगस्य स्वेच्छया तत्कुरु त्वरम् ॥४॥
 मद्‌राजसूये पूर्वं वै प्रद्युम्नेन जिता मही ॥
 त्वं तु शूरोऽसि बलवान्धन्वी तस्यात्मजो महान् ॥५॥
 वृकस्तु शकुनेर्भ्राता महादैत्यो हतस्त्वया ॥
 राजानश्च जिताः सर्वे भीष्मो युद्धे हि तोषितः ॥६॥
 अहो मृगांकलोकेशौ यस्मिन्संलीनतां गतौ ॥
 तस्मात्वामृषयः सर्वे परिपूर्णं वदंति हि ॥७॥
 तस्मात्पालय त्वं वीर सेनाया च परीवृतः ॥
 राजन्येभ्यश्च सर्वेभ्यो हयमेधतुरंगमम् ॥८॥
 अर्भकान्विरथान्भीतान्-प्रपन्नान्दीनमानसान् ॥
 सुप्तान्प्रमत्तानुन्मत्तान्-रणे तान्मा निपातय ॥९॥
 श्रीकृष्णस्य प्रतापेन निर्विघ्नं तेऽस्तु कार्ष्णिज ॥
 साश्वस्त्वं पुनरागच्छ कुशली सेनयान्वितः ॥१०॥
 गर्ग उवाच -
ततः श्रुत्वानिरुद्धस्तु नृपस्य वचनं शुभम् ॥
 तथेत्युक्त्वा हयस्यापि पालनार्थं मनो दधे ॥११॥
 अथानिरुद्धं ते विप्राः कृष्णचन्द्राज्ञया त्वरम् ॥
 तं मंत्रैः स्नापयित्वा च पूजां चक्रुर्मुदान्विताः ॥१२॥
 अनिरुद्धस्य तिलकं कृत्वा राजा विधानतः ॥
 बलिं दत्वा च युद्धाय करवालं ददौ ततः ॥१३॥
 शूरो ददौ रत्‍नमालां तस्मै शौरिश्च कुंडले ॥
 बलदेवश्च कवचं स्वचक्रं हरिरेव च ॥१४॥
 प्रद्युम्नश्चानिरुद्धाय कृष्णदत्तं धनुर्ददौ ॥
 तथा स्वतूणौ राजेंद्र तस्मै चाक्षयसायकौ ॥१५॥
 स्वत्रिशूलात्समुत्पाट्य त्रिशूलं प्रमथाधिपः ॥
 उद्धवश्च किरीटं वै पीतवस्त्रं च देवकः ॥१६॥
 प्रचेता नागपाशं च शक्तिं शक्तिधरः किल ॥
 श्वसनो व्यजने दिव्ये स्वदंडं यमराट् पुनः ॥१७॥
 हीरहारं राजराजो परिघं तु धनंजय: ॥
भद्रकाली गदां गुर्वीं ददौ कुन्तं दिवाकरः ॥१८॥
 भूः पादुके योगमय्यौ पद्मं दिव्यं गणाधिपः ॥
 शंखं च दक्षिणावर्तमक्रूरो विजयप्रदम् ॥१९॥
 सहस्रवाजिसंयुक्तं विश्वकर्मविनिर्मितम् ॥
 सहस्रचक्रं स्वर्णाढ्यं ब्रह्मांडांतर्बहिर्गतिम् ॥२०॥
 छत्रेण शतकुंभैश्च पताकाभिः शतैरपि ॥
 शोभितं मेघनिर्घोषं घंटामंजीरनादितम् ॥२१॥
 मनोवेगं महादिव्यं जैत्रं रत्‍नमयं रथम् ॥
 अनिरुद्धाय प्रददौ द्वारकायां पुरंदरः ॥२२॥
 कंबुदुन्दुभयो नेदुः कांस्यवीणादयस्तदा ॥
 मृदंगवेणवो रागैर्जयध्वनिसमाकुलैः ॥२३॥
 ब्रह्मघोषैर्लाजपुष्पैर्मुक्तावर्षसमन्वितैः ॥
 अनिरुद्धोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२४॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
अनिरुद्धविजयाभिषेको नाम द्वादशोऽध्यायः ॥१२॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता