गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० गर्गसंहिता- अश्वमेधखण्डः
[[लेखकः :|]]
अध्यायः १२ →

अश्वमेधखण्डः - एकादशोऽध्यायः

अश्वमेधस्य अश्वपूजा -

श्रीगर्ग उवाच -
अथ राजा सुधर्मायां वासुदेवेन नोदितः ॥
 संस्थितानृत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥१॥
 पराशरश्च व्यासश्च देवलश्च्यवनोऽसितः ॥
 शतानन्दो गालवश्च याज्ञवल्क्यो बृहस्पतिः ॥२॥
 अगस्त्यो वामदेवश्च मैत्रेयो लोमशः कविः ॥
 अहं क्रतुर्जैमिनिश्च वैशम्पायन एव च ॥३॥
 पैलः सुमंतुः कण्वश्च भृगू रामोऽकृतव्रणः ॥
 मधुच्छंदा वीतहोत्रो कवषो धौम्य आसुरिः ॥४॥
 जाबालिर्वीरसेनश्च पुलस्त्यः पुलहस्तथा ॥
 दुर्वासाश्च मरीचिश्च ह्येकतश्च द्वितस्त्रितः ॥५॥
 अंगिरा नारदश्चैव पर्वतः कपिलो मुनिः ॥
 जातूकर्ण्यो ह्युतथ्यश्च संवर्तश्च मृगीसुतः ॥६॥
 शांडिल्यः प्राड्‌‍विपाकाश्च कहोडः सुरतो मनुः ॥
 कचः स्थूलशिराश्चैव स्थूलाक्षः प्रतिमर्दनः ॥७॥
 बकदाल्भ्यश्च कौंडिन्यो रैभ्यो द्रोणः कृपस्तथा ॥
 प्रकटाक्षो यवक्रीतो वसुधन्वा च मित्रभूः ॥८॥
 अपांतरतमो दत्तो मार्कंडेयो महानुनिः ॥
 जमदग्निः कश्यपश्च भरद्वाजश्च गौतमः ॥९॥
 अत्रिर्मुनिर्वसिष्ठश्च विश्वामित्रः पतंजलिः ॥
 कात्यायनिः पाणिनिश्च वाल्मीक्याद्याश्च ऋत्विजः ॥१०॥
 पूजिता यादवेंद्रेण प्रसन्नास्तेऽभवन्नृप ॥
 ततः सर्वे ऋत्विजश्च नृपमूचूर्निमंत्रिताः ॥११॥
 मुनय ऊचुः -
उग्रसेन महाराज सुरासुरनमस्कृत ॥
 यज्ञं कृष्णस्य कृपया कुरु सोऽपि भविष्यति ॥१२॥
 इति तेषां वचः श्रुत्वा परितुष्टाखिलेंद्रियः ॥
 सर्वान्वै क्रतुसंभारानाजहारांधकेश्वरः ॥१३॥
 ततः कृष्ट्वा यज्ञभूमिं विप्राः कनकलांगलैः ॥
 पिंडारके यथान्यायं दीक्षायां चक्रिरे नृपम् ॥१४॥
 चतुर्योजनपर्यंतं विलिख्य बहुशो महीम् ॥
 यज्ञस्यार्थे नृपस्तत्र रचयामास मंडपान् ॥१५॥
 योनिमेखलया युक्तं मध्यकुंडं विधाय च ॥
 तस्मिन्वै स्थापयामस विधिना जातवेदसम् ॥१६॥
 रत्‍नानेकैर्विरचितां पताकाभिर्युतां सभाम् ॥
 मम वाक्याद्वज्रनाभे रचयामास चाहुकः ॥१७॥
 अथ दृष्ट्वा सभां कृष्णो निजगौ स्वसुतं प्रति ॥
 श्रीकृष्ण उवाच -
प्रद्युम्न शृणु मद्वाक्यं तन्निशम्य कुरु त्वरम् ॥१८॥
 गत्वा शस्त्रधरैः शूरैर्यत्‍नेन हयमानय ॥
 श्रीगर्ग उवाच -
इति श्रुत्वा हरेर्वाक्यं प्रद्युम्नो धन्विनां वरः ॥१९॥
 तथेत्युक्त्वा हयं नेतुं वाजिशालां जगाम ह ॥
 ततः कृष्णेन रक्षार्थं स्वपुत्राश्च हयस्य वै ॥२०॥
 प्रेषिता वाजिशालायां भानुसांबादयो नृप ॥
 स गत्वा वाजिशालायां रुक्मिणीनन्दनो बली ॥२१॥
 स्वर्णशृंखलया बद्धाञ्छ्यामकर्णान्सहस्रशः ॥
 विलोक्यैकं स्वहस्तेन यज्ञयोग्यं तुरंगमम् ॥२२॥
 प्रहसन्मोचयामास बंधनान्नृप लीलया ॥
 सहयो निर्ययौ मुक्तो शालायाश्च शनैः शनै ॥२३॥
 रक्ताननो पीतपुच्छ: श्यामकर्णो मनोहरः ॥
 स्रग्भिर्मुक्ताफलानाञ्च शोभितो दिव्यदर्शनः ॥२४॥
 श्वेतातपत्रेण युतो चामरैः समलंकृतः ॥
 अग्रतो मध्यतश्चैव पृष्ठतश्च हरेः सुताः ॥२५॥
 सेवंते हरिराजं वै सुराः सर्वे हरिं यथा ॥
 तथान्यै रक्षमाणस्तु मण्डलेशैस्तुरंगमः ॥२६॥
 प्राप्तोऽथ मंडपं कुर्वन्खुरक्षततलां महीम् ॥
 नृपो वीक्ष्यागतं तत्र श्यामकर्णं मुदान्वितः ॥२७॥
 प्रेषयामास मां राजन्क्रियाकर्तव्यतां प्रति ॥
 सोऽहं नृपं च संस्थाप्य रुचिमत्या समन्वितम् ॥२८॥
 पिंडारके प्रयोगं वै कारयामास धर्मतः ॥
 नृपश्चैत्रे पूर्णिमायां दीक्षितोऽजिनसंवृतः ॥२९॥
 असिपत्रव्रतं राजन्स चकार मदाज्ञया ॥
 अहं तु यादवेन्द्रस्य कुलपूर्वगुरुर्मुनिः ॥३०॥
 सर्वेषां चैव विप्राणामाचार्यो ह्यभवं नृप ॥
 अथ विप्र ब्रह्मघोषैः श्रीकृष्णस्याज्ञया स्थिताः ॥३१॥
 सर्वे प्रपूजयामासुर्हेरंबादीन्सुरान्पृथक् ॥
 ततः सर्वे मुनिगणाः संस्थाप्य तुरगं नृप ॥
 काश्मीरचन्दनेनापि पुष्पस्रग्भिश्च तंदुलैः ॥३२॥
 नीराजनादिभिर्धूपैः सुधाकुण्डलकादिभिः ॥
 पूजयित्वा हयं भूपं दानार्थे तु ह्यनोदयन् ॥३३॥
 ततः श्रुत्वाऽऽहुकः शीघ्रं पूर्वं मह्यं ददौ धनम् ॥
 एकलक्षं तुरङ्गाणा सहस्रं हस्तिना तथा ॥३४॥
 द्विसहस्रं रथानां च धेनूनां लक्षमेव च ॥
 शतभारं सुवर्णानामीदृशीं दक्षिणां नृपः ॥३५॥
 निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो नृपस्ततः ॥
 यथोक्तां दक्षिणां राजन्प्रददौ तां च त्वं शृणु ॥३६॥
 घोटकानां सहस्रं च द्विपानां शतमेवच ॥
 रथानां द्विशतं चैव सहस्रं च गवां तथा ॥३७॥
 विंशद्‌भारं च हेमानामीदृशीं दक्षिणां पुनः ॥
 अथागतेभ्यो विप्रेभ्यो नत्वा राजा विधानतः ॥३८॥
 गजमेकं रथं गां च स्वर्णभारं च घोटकम् ॥
 एकैकस्मै च विप्राय दक्षिणां प्रददौ नृपः ॥३९॥
 एवं कृत्वा तु दानं वै ललाटे तुरगस्य च ॥
 कमनीयं कुंकुमाद्यैः स्वर्णपत्रं बबंध ह ॥४०॥
 तत्राहमुग्रसेनस्य प्रतापं वीर्यमूर्जितम् ॥
 ततोऽलिखं सभायां वै यादवानां च पश्यताम् ॥४१॥
 चन्द्रवंशे यदुकुले उग्रसेनो विराजते ॥
 इन्द्रादयः सुरगणा यस्यादेशानुवर्तिनः ॥४२॥
 सहायो यस्य भगवाञ्श्रीकृष्णो भक्तपालकः ॥
 अस्ति वै द्वारकापुर्यां तद्‌भक्त्या निवसन्हरिः ॥४३॥
 तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः ॥
 चक्रवर्ती हठाद्यज्ञं स्वयशोऽर्थे करोति हि ॥४४॥
 मोचितस्तेन तुरगो हयानां प्रवरः शुभः ॥
 तद्‌रक्षकः कृष्णपौत्रोऽनिरुद्धो वृकदैत्यहा ॥४५॥
 गजाश्वरथवीराणां सेनासंघसमन्वितः ॥
 राजानो ये करिष्यंति राज्यं कौ शूरमानिनः ॥४६॥
 ते गृह्णंतु यज्ञहयं स्वबलात्पत्रशोभितम् ॥
 तं मोचयति धर्मात्मा गृहीतं च हयं नृपैः ॥४७॥
 स्वबाहुबलवीर्येणानिरुद्धो लीलया हठात् ॥
 तस्यान्यथा च पदयोः पतित्व यांतु धन्विनः ॥४८॥
 इति पत्रे च लिखिते दघ्मुः शंखान्यदूत्तमाः ॥
 कांस्यतालमृदंगाद्या नेदुर्भेर्यश्च गोमुखाः ॥४९॥
 मंगलानि चरित्राणि श्रीकृष्णबलदेवयोः ॥
 गंधर्वास्तत्र गायंति ननृतुरप्सरसो मुदा ॥५०॥
 अथानिरुद्धं तुरगस्य पालने
     भूत्वा प्रसन्नः किल कार्ष्णिनन्दनम् ॥
 समादिदेशाच्युतमेव संस्थितं
     यदूत्तमानामधिपस्य पश्यतः ॥५१॥


इति श्रीगर्गसंहितायां हयमेधचरित्रे
सुमेरौ हयपूजनं नामैकादशोऽध्यायः ॥११॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता