गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०३

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०२ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०३
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०४ →



 अश्वमेधखण्डः - तृतीयोऽध्यायः

कृष्णकथाकीर्तनम् -

गर्ग उवाच -
जामातृवधसंतप्तजरासंधचमूवधः ॥
बहुशः सेनयोर्युद्धे द्वारकादुर्गकारणम् ॥१॥
यवनस्य वधं दृष्ट्वा मुचकुंदस्य संस्तुतिः ॥
वरं दत्वा ततो म्लेच्छवधं कृत्वा धने ततः ॥२॥
नीयमाने वने दृप्तजरासंधात्पलायनम् ॥
रैवतो रेवतीं कन्यां बलदेवसमर्पणम् ॥३॥
रुक्मिणीप्रियसंदेशश्रवणादखिलान्नृपान् ॥
निर्जित्य निर्गमो गेहात् हृतवानंबिकागृहात् ॥४॥
नृपैः सांत्वनं चैद्यस्य ततो रुक्मीसमागमः ॥
युद्धापेक्षापराधाद्वै मुंडनं तस्य कृष्णतः ॥५॥
रुक्मिणीदुःखशमनं रामवाक्याच्च मोक्षणम् ॥
ततो विवाहो रुक्मिण्या विधिवत्स्वपुरे मुदा ॥६॥
प्रद्युम्नोत्पत्तिकथनं हरणं सूतिकागृहात् ॥
मायावत्योक्तवृत्तांतं शंबरस्य वधस्ततः ॥७॥
पुनरागमनं गेहे संतोषो द्वारकौकसाम् ॥
सूर्यात्स्यमंतकप्राप्तिर्याचनं तस्य वै हरेः ॥८॥
तत्संबन्धात्प्रसेनस्य वधोऽकीर्तिर्हरेस्तथा ॥
तन्मार्जनाय ऋक्षस्य गृहेशु गमनं हरेः ॥९॥
युद्धे ज्ञात्वा लोकनाथं जांबवत्याः समर्पणम् ॥
सत्राजिताय च मणिः प्राप्ता श्रीहरिणा बिलात् ॥१०॥
विवाहः सत्यभामायाः पारिबर्हे तथा मणिः ॥
रामेण सह कृष्णस्य गमनं हस्तिनापुरे ॥११॥
अक्रूरकृतवर्मभ्यां शतधन्वा तु प्रेरितः ॥
सत्राजितं जघानाशु सोऽपि कृष्णेन मारितः ॥१२॥
रामस्तु मिथिलायां च गदाशिक्षा सुयोधने ॥
अक्रूरे मणिदानं च शक्रप्रस्थे हरिर्गतः ॥१३॥
कालिन्द्या संगतिः शौरेर्विवाहः स्वपुरे ततः ॥
विवाहो मित्रविन्दायाः सत्यायाश्च तथैव च ॥१४॥
भद्राया लक्ष्मणायाश्च विवाहो हरिणा ततः ॥
पारिजातं तु सत्यायै शक्रं जित्वा ददौ हरिः ॥१५॥
वज्रनाभिरुवाच -
प्रियायै दत्तवान्कस्माच्छक्रं जित्वा सुरद्रुमम् ॥
श्रीकृष्णस्तत्कथां सर्वां मुने मे ब्रूहि विस्तरात् ॥१६॥
श्रीगर्ग उवाच -
पारिजातैककुसुमे चानीते नारदात्कदा ॥
दत्ते सति श्रीरुक्मिण्यै सत्या तु दुःखिताभवत् ॥१७॥
तां दृष्ट्वा कुपितां प्राह क्रोधागारगतां हरिः ॥
मा शोच कुरु दास्यामि पारिजातद्रुमं च ते ॥१८॥
तदैव कथितं सर्वे कृष्णाग्रे भौमचेष्टितम् ॥
शक्रेण श्रुत्वा भगवान्प्राह पश्यन्कृतांजलिम् ॥१९॥
श्रीकृष्ण उवाच -
मत्प्रियां दुःखितां पश्य रुदन्तीं वृत्रसूदन ॥१९॥
पारिजातस्य वृक्षार्थे किं करिष्याम्यहं वद ॥
यदास्यै पारिजातस्य वृक्षं दास्यसि त्वं हरे ॥२०॥
तदा भौमं ससैन्यं च हनिष्यामि न संशयः ॥
कृष्णभाषितमाकर्ण्य प्रहसन्प्राह वासवः ॥२१॥
इन्द्र उवाच -
पारिजातद्रुमाः सर्वे वर्तंते नन्दने च ये ॥
गृहाण तान्स्वतः कृष्ण त्वं हत्वा नरकासुरम् ॥२२॥
तथास्तु चोक्त्वा भगवान्सत्यभामासमन्वितः ॥
गरुडस्कंधमारूढः प्राग्जोतिषपुरं ययौ ॥२३॥
सत्यभामा हरिं प्राह स्वर्गमिंद्रे गते सति ॥
सत्योवाच
पूर्वं गृहाण शक्रात्त्वं द्रुमराजं जगत्पते ॥२४॥
कार्ये भूते सति हरे न करिष्यति त्वत्प्रियम् ॥
प्रियावाक्यं समाकर्ण्य प्रियः प्राह प्रियां वचः ॥२५॥
श्रीकृष्ण उवाच -
स पारिजातं यदि न प्रदास्यति
     प्रयाच्यमानस्तु मयामरेश्वरः ॥
ततः शचीव्यामुदितानुलेपने
     गदां विमोक्ष्यामि पुरंदरोरसि ॥२६॥
इत्युक्त्वा भगवान्कृष्णो भौमासुरपुरं गतः ॥
नानादुर्गैः सप्तभिश्च वेष्टितं च महासुरैः ॥२७॥
सर्वान्बिभेद दुर्गान् वै गदाचक्रशरादिभिः ॥
जघान मुरुदैत्यं च तत्पुत्राञ्शस्त्रसंयुतान् ॥२८॥
शस्त्रास्त्रवर्षं मुंचंतं ससैन्यं नरकं हरिः ॥
क्षिप्त्वा चक्रं द्विधा चक्रे गरुडेन जघान च ॥२९॥
हत्वा भौमं जगन्नाथो वररत्‍नानि यादवः ॥
जग्राह तत्र कन्यानां समूहं वै ददर्श ह ॥३०॥
दैत्यसिद्धनृपाणां च सहस्राणि च षोडश ॥
शताधिकानि कन्याश्च प्रेषयामास स्वां पुरीम् ॥३१॥
गृहीत्वाथ मणिं छत्रं देवमातुश्च कुण्डले ॥
पारिजातद्रुमार्थे वै ययाविंद्रपुरीं हरिः ॥३२॥

इति श्रीगर्गसंहितायामश्वमेधचरित्रे
सुमेरौ कृष्णकथावर्णनं नाम तृतीयोऽध्यायः ॥३॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



वर्गःगर्ग संहिता