गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ६ गरुडपुराणम्
अध्यायः ७
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ८ →

श्रीगरुडमहापुराणम् ७
गरुड उवाच ।
श्रुतं मे महादाख्यानं वृषोत्सर्गफलं हरे ।
पुनरन्यां कथां ब्रूहि यत्र ते महिमाद्भुतः ॥ २,७.१ ॥

श्रीकृष्ण उवाच ।
अहं ते कथयाम्यद्य संवादं परमाद्भुतम् ।
सन्तप्तकस्य च प्रेतैस्तद्रूपज्ञापनाय वै ॥ २,७.२ ॥

विप्रः सन्तप्तकः कश्चित्तपसादग्धकिल्बिषः ।
संसारासारतां ज्ञात्वारण्यष्वेव चचार ह ॥ २,७.३ ॥

वैखानसमुनिव्रातैः प्राणिपातकृतेक्षणः ।
स कदाचित्तीर्थयात्रामुद्दिश्य स्माटतिद्विजः ॥ २,७.४ ॥

प्रत्याकृष्टेन्द्रियत्वाच्च बहिर्वृत्तिनिरोधकः ।
संस्कारमात्रगमनो मार्गभ्रष्टो बभूव ह ॥ २,७.५ ॥

चलन्नेवं स्नानकाले मध्याह्नेऽथाभिलाषुकः ।
जलस्योन्मील्य नयने दिशः सर्वा न्यभीलयत् ॥ २,७.६ ॥

स ददर्श तदा गुल्मैर्वोरुद्वृक्षशतैश्चितम् ।
त्वक्सारैः शाखिशाखाभिः संकुलं गहनंवनम् ॥ २,७.७ ॥

तत्र तालास्तमालाश्च प्रियालाः पनसास्तथा ।
श्रीपर्णो शालशाखोटस्यन्दनास्तिन्दुकास्तथा ॥ २,७.८ ॥

सर्जार्जुनाम्रातकाश्च श्लेष्मा तकभिभीतकौ ।
पिचुमर्दश्चिञ्चिणी च कर्कन्धूकर्णिकारकाः ॥ २,७.९ ॥

एते चान्ये च बहवो वृक्षास्तेषु न दृश्यते ।
पक्षिणामपि वै पन्था मनुष्यस्य कुतः पुनः ॥ २,७.१० ॥

तस्मिन् वने महाघोरे सिंहव्याघ्रसमाकुले ।
तरक्षुगवयैरृक्षैर्महिषैश्च निषेविते ॥ २,७.११ ॥

कुञ्ज रैरुरुभिर्नागैर्मर्कटैश्च तथामृगैः ।
श्वापदैश्च तथा चान्यैः पिशाचै राक्षसैर्वृते ॥ २,७.१२ ॥

सन्तप्तको द्विजः किञ्चिद्भयसन्त्रस्तमानसः ।
कान्दिशीकः समभवढ्यद्भविष्यो ययौ पुनः ॥ २,७.१३ ॥

झङ्कारेषु च झिल्लीनां घूकानां घूत्कृतेष्वपि ।
दत्तकर्णः कुनीलाङ्गश्चचाल पदपञ्चकम् ॥ २,७.१४ ॥

स तत्र वटवृक्षाग्रे स्नायुबद्धं शवं तथा ।
ददर्श तद्भुजश्चैव पञ्च प्रेतान् सुदारुणान् ॥ २,७.१५ ॥

शिरास्थिचर्मशेषाङ्गान् पृष्ठलग्नोदरान् खग ।
त्यक्तान्नासिकया नेत्रकूपपातभयादिव ॥ २,७.१६ ॥

सूचीक्रककचकव्रातघातपातितकीकसान् ।
वसाक्तनवमस्तिष्कस्वादनित्यमहोत्सवान् ॥ २,७.१७ ॥

रणत्कोटिमहादंष्ट्रानस्थिग्रन्थ्यवघट्टितान् ।
तान्दृष्ट्वा त्रस्तहृदयो गतिमाकुञ्च्य संस्थितः ॥ २,७.१८ ॥

ते विलोक्यागतं विप्रमटवीं जनवर्जिताम् ।
अहं पूर्वमहं पूर्वं यामीत्याक्त्वा प्रदुद्रुवुः ॥ २,७.१९ ॥

तेषु द्वौद्वावगृह्णीतामस्य हस्तावथापरे ।
द्वौद्वौ पादावगृह्णीतां मूर्धानं पञ्चमोऽग्रहीत् ॥ २,७.२० ॥

स्वजात्युचितवाक्येन स्फुटवर्णवताब्रुवन् ।
अहं जक्षाम्यहं भक्षामीति कर्षणतत्पराः ॥ २,७.२१ ॥

सहसैव सहैवामुं गृहीत्वा व्यगमन्वियत् ।
कियत्स्थितं वटौ मांसं क्रियन्नेति न्यभालयन् ॥ २,७.२२ ॥

तेऽपश्यन्निजदंष्ट्रायः पाटितान्त्रमिमं शवम् ।
अवतीर्य ततो व्योम्नो गृहीत्वा चरणैः शवम् ॥ २,७.२३ ॥

स्वखण्डितशरीरन्तु पुनर्व्योमैव चक्रमुः ।
स नीयमानमात्मानं विलोक्य वियति द्विजः ॥ २,७.२४ ॥

जगाम मनसा मां स शरणं भयविह्वलः ।
नमश्चक्रे चक्रधरं चेतसा चिन्मयं समम् ॥ २,७.२५ ॥

वक्रं नक्रं चक्रपातेन दूरे कृत्वा हृत्वा तस्य दुःखं मुकुन्दः ।
मातङ्गं योऽमूमुचन्नक्रवक्त्रात्पाशं सोऽसौ कर्मणां मे लुनातु ॥ २,७.२६ ॥

रुद्धाञ्शुद्धान् भूपतीन्मागधेन भीमेनैनं घातयित्वा मुरारिः ।
निर्बद्धान्यो भर्गयज्ञाय मुक्तश्चक्रो मेऽसौ कर्मपाशं लुनातु ॥ २,७.२७ ॥

मनसैवैह मामस्तौत्स्तूयमानोऽहमुत्थितः ।
अगच्छं सहसा तत्र यत्र प्रेतैः स नीयते ॥ २,७.२८ ॥

दृष्ट्वा तैर्नीयमानन्तु कौतुकं मेऽभवत्खग ।
पप्रच्छ न कियन्तं वै कालं तान्पृष्ठतोऽन्वगाम् ॥ २,७.२९ ॥

मम सन्निधिमात्रेण द्विजातिं तञ्च सर्पहन् ।
तत्कालं शिविकासुप्तभूपालसुखमाविशत् ॥ २,७.३० ॥

मणिभद्रस्ततो मेरुं गच्छन्दृष्टो मया पथि ।
निकोच्याक्षि स्वपार्श्वं स नीतो वै यक्षराण्मया ॥ २,७.३१ ॥

तमवोचं महायक्षं त्वं हि प्रतिभटो भव ।
प्रेतान्नाशय तद्भूयः शवञ्च हर तद्गतम् ॥ २,७.३२ ॥

इत्युक्तः स महाघोरं कृत्वा रोषं सुदुःसहम् ।
जग्राह प्रेतरूपं तत्प्रेतानामपि दुःखदम् ॥ २,७.३३ ॥

स विवृत्य स्वकौ बाहू सृक्किणी परिलेलिहन् ।
भेदयन्नुरुवातेन प्रेतांस्तान्संमुखो ययौ ॥ २,७.३४ ॥

बाहुभ्यां द्वौ द्वौ च पद्भ्यां मूर्ध्नैकं च समाहरत् ।
प्रेतानथापि सहसा जघान दृढमुष्टिना ॥ २,७.३५ ॥

ते विवर्णमुखाः सर्वे तं द्विजञ्च शवं तथा ।
एकैकं हस्तपादैश्च गृहीत्वा युद्धमारभन् ॥ २,७.३६ ॥

ते नखैस्तलघातैश्च पादघातैस्तथैव च ।
दंष्ट्राघातैश्च सर्वे तमेकं प्रेतं व्यदारयन् ॥ २,७.३७ ॥

तेषां प्रहारान्विफलान्कृत्वा संप्रति तानथ ।
जीवं न तु शवं तेषां जह्रे प्राणमिवान्तकः ॥ २,७.३८ ॥

हृतमात्रे शवे ते तु पारियात्रे गिरौ द्विजम् ।
मुक्त्वाधावन् प्रमुदिता एकं प्रेतं सुदारुणाः ॥ २,७.३९ ॥

स वायुगमनः प्रेतः प्राप्तस्तैः क्षणमात्रतः ।
अदृश्यतां ययौ तेऽथ हताशा विप्रमागमन् ॥ २,७.४० ॥

प्रारब्धमात्रे विप्रस्य पाटने तत्र पर्वते ।
मम स्थानस्य विप्रस्य महिम्नेव च तत्क्षणे ॥ २,७.४१ ॥

सद्यः स्मृतिः समुत्पन्ना तेषां पूर्वस्य जन्मनः ।
विप्रं प्रदक्षिणीकृत्य द्विजर्षभमथाब्रुवन् ॥ २,७.४२ ॥

अद्य नः क्षन्तुमर्होऽसीत्युक्त्वा ते सुरदाम्भिकाः ।
गिरेरिव परावर्तं समुद्रस्येव शोषणम् ॥ २,७.४३ ॥

तेषां तद्वचनं श्रुत्वापृच्छत्के यूयमित्यथ ।
किं माया किमु वा स्वप्न उताहो चित्तविभ्रमः ॥ २,७.४४ ॥

प्रेता ऊचुः ।
अवेहि तत्त्वमेवैतत्प्रेता वै कर्मजा वयम् ।
ब्राह्मण उवाच ।
किंनामानः किमाचाराः कथञ्चेमां दशां गताः ॥ २,७.४५ ॥

अविनीताः कथं पूर्वं विनीताः साम्प्रतं कथम् ।
प्रेता ऊचुः ।
शृणु विप्रेन्द्र वक्ष्यामः प्रश्नानामनुपूर्वशः ॥ २,७.४६ ॥

उत्तराणि महायोगिंस्त्वद्दर्शनगतांहसः ।
अहं पर्युषितो नाम्ना एष सूचीमुखः स्मृतः ॥ २,७.४७ ॥

तृतीयः शीघ्रगस्तुर्यो रोधको लेखकः परः ।
ब्राह्मण उवाच ।
प्रेतानां कर्मजातानां कुतो नाम निरर्थकम् ॥ २,७.४८ ॥

निरुक्तिमेषां नाम्नां वै प्रेता वदत मा चिरम् ।
श्रीकृष्ण उवाच ।
एवमुक्तास्तु विप्रेण पृथगुत्तरमब्रुवन् ॥ २,७.४९ ॥

पर्युषित उवाच ।
कदाचिच्छ्राद्धकाले वै मया विप्रो निमन्त्रितः ॥ २,७.५० ॥

स च कृत्वा विलम्बेन वृद्धो मद्गृहमागतः ।
अकृतश्राद्धकर्माहं तं पाकं भुक्तवान् क्षुधा ॥ २,७.५१ ॥

अददामन्नमाकृष्य विप्रे पर्युषितं कियत् ।
तस्मात्पापान्मृतः पापो योनिं वै कुत्सितां गतः ॥ २,७.५२ ॥

यतः पर्युषितं दत्तं ततः पर्युषितः स्मृतः ।
सूचीमुख उवाच ।
कदाचिद्ब्राह्मणी काचित्तीर्थं भद्रवटं ययौ ॥ २,७.५३ ॥

पञ्चवर्षसुता वृद्धा पुत्रमात्रैकजीविता ।
अहं क्षत्त्रियदायादस्तस्या रोधमकारिषम् ॥ २,७.५४ ॥

वने तु विजने तत्र पापाध्वगगतिं गतः ।
तस्याः सवस्त्रं पाथेयं तत्सूनोर्वसनानि च ॥ २,७.५५ ॥

गृहीतानि मया विप्र शिरस्यापीड्य मुष्टिना ।
तृषार्तस्तत्क्षणं बालः पात्रसंस्थं जलं पिबन् ॥ २,७.५६ ॥

तावन्मात्रोदके देशे मया हुङ्कृत्य वारितः ।
मयाथ सकलं पीतं जलं पात्रात्तृषावता ॥ २,७.५७ ॥

बालोऽपि भयसन्त्रस्तः पिपासुर्व्यसुरापतत् ।
पुत्रशोकान्मृता माता कूपे प्रास्य निजं वपुः ॥ २,७.५८ ॥

एतस्मात्पातकाद्विप्र प्रेतत्वं प्राप्तवानहम् ।
सूच्यग्रप्रायविवरमुखः पर्वतदेहवान् ॥ २,७.५९ ॥

यद्यपि प्राप्नुयां भक्ष्यं भक्षितुन्तु न शक्यते ।
मया क्षुधानलेनापि ज्वलतास्यं निकोचितम् ॥ २,७.६० ॥

अत आस्ये तु विवरं सूच्यग्रेण समं मम ।
एतस्मात्कारणाद्विप्र नाम्ना सूचीमुखोऽस्म्यहम् ॥ २,७.६१ ॥

शीघ्रग उवाच ।
पुराहं वैश्यजातीयः साकं सख्या च केनचित् ।
वाणिज्यं कर्तुमगमं देशमन्यं महाधनः ॥ २,७.६२ ॥

मित्रं च मे बहुधनं तस्य लोभो महांस्ततः ।
जातोऽप्यदृष्टवैमुख्यान्मे नष्टं मूलमप्युत ॥ २,७.६३ ॥

ततस्तस्मात्तु निष्क्रान्तावावां नावाथ निम्नगाम् ।
मार्गगां तर्तुमारब्धौ लोहितायति भास्करे ॥ २,७.६४ ॥

सखा स च मदुत्सङ्गे सुष्वापाध्वक्लमाकुलः ।
अभूत्तदाति पापस्य क्रूरा मतिरतीव मे ॥ २,७.६५ ॥

तमुत्सङ्गगतं सूरे नष्टे पूरेऽक्षिपं तदा ।
तत्कृत्यं कुर्वतो नावि लोकैस्तु ज्ञातमेव न ॥ २,७.६६ ॥

तस्य यद्वस्तु तत्सर्वं मणिमुक्तादिकाञ्चनम् ।
आदाय शीघ्रगस्तस्माद्देशात्स्वगृहमागतः ॥ २,७.६७ ॥

तत्सर्वं स्वगृहे मुक्त्वा तस्य पत्न्यै न्यवेदयम् ।
दस्युभिर्मे हतो भ्राता धनमाच्छिद्य वै पथि ॥ २,७.६८ ॥

प्रजावति प्रद्रुतोऽहं मा रोदीत्येवमब्रवम् ।
शोकार्ता सापि तत्कालं ममत्वं गृहबन्धुषु ॥ २,७.६९ ॥

त्यक्त्वा चाति प्रियान्प्राणाञ्जुहावाग्नौ यथाविधि ।
ततो निष्कण्टकं तद्धि वीक्ष्य हृष्टो गतो गृहम् ॥ २,७.७० ॥

अभुञ्जं सर्वमागत्य यावज्जीवं तु तद्धनम् ।
मित्रं पूरे हि निःक्षिप्य यदहं शीघ्रमागतः ॥ २,७.७१ ॥

एतस्मात्कारणात्प्रेतः शीघ्रगोऽहं तु नामतः ।
रोधक उवाच ।
अहन्तु शूद्रजातीयः पुराभूवं मुनीश्वर ॥ २,७.७२ ॥

राजप्रसादाप्तमहाशतग्रामाधिकारवान् ।
वृद्धौ मे पितरावास्तां लघुरेकः सहोदरः ॥ २,७.७३ ॥

शीघ्रं स च मया भ्राता लुब्धेनैकः पृथक्कृतः ।
आप्तवान्परमं दुःखं सोन्नवस्त्रविवर्जितः ॥ २,७.७४ ॥

अदत्तां पितरौ च्छन्नं किञ्चित्किञ्चित्तु तस्य च ।
तस्मै पितृभ्यां यद्दत्तमाप्तेभ्यस्तन्मया श्रुतम् ॥ २,७.७५ ॥

तत्सर्वं तत्त्वतो ज्ञात्वा पित्रो रोधमकारयम् ।
शून्यमन्दिर एकस्मिन्बद्ध्वा तु निगडैर्दृढैः ॥ २,७.७६ ॥

ततस्तौ जहतुः प्राणान्दुःखितौ विषपानतः ।
सोसौ बालोऽपि बभ्राम पितृभ्यां रहितो द्विज ॥ २,७.७७ ॥

पुरः पत्तनखर्वाटान् खेटानपि मृतः क्षुधा ।
एतस्मात्पातकाद्विप्र मृतः प्रेतत्वमागतः ॥ २,७.७८ ॥

रुद्धौ तु पितरौ यस्मान्नाम्नाहं रोधकस्ततः ।
लेखक उवाच ।
अहं विप्र पुराभूवमवन्त्यां द्विजसत्तमः ॥ २,७.७९ ॥

भद्रस्य राज्ञो देवानां पूजनेऽधिकृतो ह्यहम् ।
बह्व्यस्तु प्रतिमास्तत्र बभूवुर्बहुनामिकाः ॥ २,७.८० ॥

हेम्नस्तदङ्गेषु बहु रत्नजातं बभूव ह ।
तासां मे कुर्वतः पूजां पापा मतिरजायत ॥ २,७.८१ ॥

अखिलं तीक्ष्णलोहेन तासामङ्गं विशीर्य च ।
उल्लेखनञ्च रत्नानां नेत्रादिभ्यः कृतं मया ॥ २,७.८२ ॥

तथाकृतान्यथाङ्गानि प्रतिमानां निरीक्ष्य च ।
नेत्राणि च विरत्नानि नृपश्चुक्रोध वह्निवत् ॥ २,७.८३ ॥

प्रतिजज्ञे नृपः पश्चादेष ब्राह्मणपुङ्गवः ।
आभ्यो रत्नं सुवर्णञ्च हृतं येन भविष्यति ॥ २,७.८४ ॥

ज्ञातश्च स हि मे वध्यो भविष्यति न संशयः ।
अहं तत्सकलं ज्ञात्वा रात्रावसिधरो गृहम् ॥ २,७.८५ ॥

राज्ञः प्रविश्य राजानं पशुमारममारयम् ।
गृहीत्वाथ मणीन् स्वर्णं निशीथेऽहं गतोऽन्यतः ॥ २,७.८६ ॥

व्याघ्रेण महातारण्ये नखटङ्कैर्विटङ्कितः ।
लेखनात्प्रतिमाया यन्मया लोहेन कर्तितम् ॥ २,७.८७ ॥

एतस्मात्पातकात्प्रेतो लेखको नामतोऽस्म्यहम् ।
आसीन्नरकभोगान्ते नः प्रेतत्वमिदं द्विज ॥ २,७.८८ ॥

ब्राह्मण उवाच ।
संज्ञास्तादृश्य आख्याता यथैता भवता दशाः ।
वदन्त्वाचारमात्रं मे प्रेता आहारमप्युत ॥ २,७.८९ ॥

प्रेता ऊचुः ।
वेदमार्गानुसरणं लज्जा धर्मो दमः क्षमा ।
धृतिर्ज्ञानं नैव यत्र वयं तत्र वसामहे ॥ २,७.९० ॥

तस्य पीडां वपं कुर्मो नैव श्राद्धं न तर्पणम् ।
यस्य गेहे तदङ्गात्तु मांसञ्च रुधिरं क्रमात् ॥ २,७.९१ ॥

जक्षामश्च पिबामश्च उक्त आचार एष नः ।
शृणु चाहारमस्माकं सर्वलोकविगर्हितम् ॥ २,७.९२ ॥

दृष्टस्त्वया च किञ्चिद्वै ब्रूमोज्ञातं त्वयानघ ।
वमनं विडू दूषिका च श्लेष्मा मूत्राश्रुणी तथा ॥ २,७.९३ ॥

एतद्भक्ष्यञ्च पानञ्च मा पृच्छातः परं द्विज ।
लज्जा नो जायते स्वामिन्नाहारं वदतां स्वकम् ॥ २,७.९४ ॥

अज्ञानास्तामसा मन्दा कान्दिशीका वयं विभो ।
अकस्माज्जन्मनां विप्र स्मृतिः प्राप्ता तु पौर्विकी ॥ २,७.९५ ॥

विनीतत्वाविनीतत्वे जानीमो नैव नः प्रभो ।
श्रीकृष्ण उवाच ।
एवं वदत्सु प्रेतेषु तथा श्रुतवति द्विजे ॥ २,७.९६ ॥

अदर्शयमहं रूपं तदा तार्क्ष्येदमेव वै ।
स तु दृष्ट्वा द्विजश्रेष्ठो हृद्गतं पुरुषं पुरः ॥ २,७.९७ ॥

स्तोत्रैस्तुष्टाव पक्षीश दण्डवत्प्रणनाम माम् ।
तेऽपि तेपुस्ततः प्रेता आश्चर्योत्फुल्लचक्षुषः ॥ २,७.९८ ॥

प्रणयेन स्खलद्वाचः खग नोचुः किमप्युत ।
रजसा गोरचित्तानां तमसा मूढचेतसाम् ।
कृपया यः समुद्धारं कुरुषे वै नमोऽस्त ते ॥ २,७.९९ ॥

एवं द्विजातौ ब्रुवति प्रभू तप्रभैश्च मुख्यांबरचारियुक्तैः ।
तदा मदिच्छाप्रभवैर्विमानैः षड्भिः समन्ताद्रुरुचे गिरिः सः ॥ २,७.१०० ॥

इत्थं विमानेन मदीयलोकं गतो द्विजरसोऽप्यथ पञ्चमिस्तैः ।
प्रेता ययुः स्वर्गमगण्यपुण्यं सत्सङ्गसंसर्गवशात्सुपर्णम् ॥ २,७.१०१ ॥

प्रेताः संगवशेन नाकमवन्सन्तप्तको ब्राह्मणो विष्वक्सन इति प्रसिद्धविभवो नाम्ना गणे मेऽभवत् ।
एतत्ते सकलं मया निगादितं यश्चैतदुत्कीर्तयेद्यश्चेदं शृणुयान्न सोऽपि पुरुषः प्रेतत्वमाप्नोति हि ॥ २,७.१०२ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे पञ्चप्रेतोपाख्यानं नाम सप्तमोऽद्यायः