गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ५ गरुडपुराणम्
अध्यायः ६
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ७ →

श्रीगरुडमहापुराणम् ६
गरुड उवाच ।
अपि साधनयुक्तस्य तीर्थदानरतस्य च ।
अकृते तु वृषोत्सर्गे परलोकगतिर्न हि ॥ २,६.१ ॥

तस्मात्कृष्ण वृषोत्सर्गः कर्तव्य इति मे श्रुतम् ।
किं फलं वृषयज्ञस्य पुरा केन कृतो हरे ॥ २,६.२ ॥

अनड्वान् कीदृशः प्रोक्तः कस्मिन् काले विशेषतः ।
को विधिस्तस्य निर्दिष्टः सर्वं मे कृपया वद ॥ २,६.३ ॥

श्रीकृष्ण उवाच ।
इतिहासं महापुण्यं प्रवक्ष्यामि खगेश्वर ।
ब्रह्मपुत्रेण यत्प्रोक्तं राजानं वीरवाहनम् ॥ २,६.४ ॥

विराधनगरे राजा वीरवाहननामकः ।
धर्मात्मा सत्यसन्धश्च वदान्यो विप्रतुष्टिकृत् ॥ २,६.५ ॥

स कदाचिद्वनं वीरो महात्माखेटकं गतः ।
किञ्चित्प्रष्टुमनास्तार्क्ष्य वसिष्ठस्याश्रमं ययौ ॥ २,६.६ ॥

नमस्कृत्य मुनिं तत्र कृतासनपरिग्रहः ।
पश्रयावनतो राजा पप्रच्छ ऋषिसंसदि ॥ २,६.७ ॥

राजोवाच ।
मुने मया कृतो धर्मो यथाशक्ति प्रयत्नतः ।
यमस्य शासनं श्रुत्वा बिभेमि नितरां हृदि ॥ २,६.८ ॥

यमञ्च यमदूतांश्च निरयान् घोरदर्शनान् ।
न पश्यामि महाभाग तथा वद दयानिधे ॥ २,६.९ ॥

वसिष्ठ उवाच ।
धर्मा बहुविधा राजन् वर्ण्यन्ते शास्त्रकोविदैः ।
सूक्ष्मत्वान्न विजानन्ति कर्ममार्गविमोहिताः ॥ २,६.१० ॥

दानं तीर्थं तपो यज्ञाः संन्यासः पैतृको महः ।
धर्मेषु गृह्यमाणेषु वृषोत्सर्गो विशेषितः ॥ २,६.११ ॥

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २,६.१२ ॥

ब्रह्महत्यादिपापानि ज्ञानाज्ञानकृतानि च ।
नीलोद्वाहेन शुध्येत्तु समुद्रप्लवनेन वा ॥ २,६.१३ ॥

एकादशाहे राजेन्द्र यस्य नोत्सूज्यते वृषः ।
प्रेतत्वं निश्चलं तस्य कृतैः श्राद्धैस्तु किं भवेत् ॥ २,६.१४ ॥

यथाकथञ्चित्कर्तव्यस्तीर्थे वा पत्तनेऽथ वा ।
वृषयज्ञैः प्रमुच्यते नान्यथा साधनैः खग ॥ २,६.१५ ॥

वृषभं पञ्चकल्याणं युवानं कृष्णकंबलम् ।
गोयूथमध्ये नितरां विचरन्तं विधानतः ॥ २,६.१६ ॥

चतसृभिर्वत्सकाभिर्द्वाभ्याञ्चैवैकया खग ।
विवाह्य मङ्गलद्रव्यैर्मन्त्रवत्तं समुत्सृजेत् ॥ २,६.१७ ॥

इह रतीति षडृग्भिर्हेमं कुर्याद्विभावसोः ।
कार्तिक्यां माघवैशाख्यां संक्रमे पातपर्वसु ॥ २,६.१८ ॥

तीर्थे पित्र्येक्षयाहे च विशेषेण प्रशस्यते ।
लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ २,६.१९ ॥

पीतः खुरविषाणेषु स नीलो वृष उच्यते ।
श्वेतवर्णो भवेद्विप्रो लोहितः क्षत्त्र उच्यते ॥ २,६.२० ॥

पीतवर्णो भवेद्वैश्यः शूद्रः कृष्णः स्मृतो बुधैः ।
यथावर्णं समुद्दिष्टो वर्णेषु ब्राह्मणादिषु ॥ २,६.२१ ॥

अथ वा रक्तवर्णस्तु सर्वेषामेव शस्यते ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥ २,६.२२ ॥

आशासते सुतं जातं वृषोत्सर्गं करिष्यति ।
धर्मस्त्वं वृषरूपेण जगदानन्ददायकः ॥ २,६.२३ ॥

अष्टमूर्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ।
गङ्गायमुनयोः पेयमन्तर्वेदि तृणं चर ॥ २,६.२४ ॥

धर्मराजस्य पुरतो वाच्यं मे सुकृतं वृष ।
दक्षिणांसे त्रिशूलाङ्कं वामोरौ चक्रचिह्नितम् ॥ २,६.२५ ॥

इति संप्रार्थ्य वृषभं गन्धपुष्पाक्षतादिभिः ।
वृषं तत्सतरीयुक्तं पूजयित्वा समुत्सृजेत् ॥ २,६.२६ ॥

तस्माद्राजन् विधानेन वृषोत्सर्गं समाचर ।
बहुसाधनयुक्तस्य नान्यथा सद्गतिस्तव ॥ २,६.२७ ॥

आसीत्त्रेतायुगे पूर्वं विदेहनगरे नृप ।
ब्राह्मणो धर्मवत्सेति स्वकर्मनिरतः सुधीः ॥ २,६.२८ ॥

विष्णुभक्तोऽतितेजस्वी यथालाभेन तुष्टिकृत् ।
पितृपर्वणि संप्राप्ते कुशार्यो काननं ययौ ॥ २,६.२९ ॥

अटन्नितस्ततस्तत्र चिन्वन् कुशपलाशकम् ।
सहसोपेत्य पुरुषाश्चात्वारश्चारुदर्शनाः ॥ २,६.३० ॥

विभ्रान्तमनसं गृह्य प्रत्यग्जग्मुर्विहायसा ।
बहुवृक्षसमाकीर्णं गिरिदुर्गभयानकम् ॥ २,६.३१ ॥

वनाद्वनान्तरं निन्युर्नदीनदसमाकुलम् ।
स तत्र नगरं राजन् ददर्श बहुविस्तरम् ॥ २,६.३२ ॥

गोपुरद्वाररचितं सौधप्रासादमण्डितम् ।
चत्वरापणपण्यादिनरनारीसमाकुलम् ॥ २,६.३३ ॥

तूर्यद्वन्द्वाभिनिर्घोषवीणापटहनादितम् ।
कांश्चित्क्षुधार्दितान्दीनान्मलिनान्विगतौजसः ॥ २,६.३४ ॥

ततोऽतितुष्टान्मलिनान्वस्त्रखण्डसमावृतान् ।
अग्रतो हृष्टपुष्टांश्च स्वर्णवस्त्रोपशोभितान् ॥ २,६.३५ ॥

ततोऽपि सुरसंकाशान्स दृष्ट्वा विस्मितोऽभवत् ।
किं स्वप्न उत माया वै मदीयो मानसो भ्रमः ॥ २,६.३६ ॥

सन्दिहानं द्विजं निन्युः पुरुषा राजसन्निधिम् ।
सतद्ददर्श विप्रस्तु स्वर्णप्रासादमन्दिरे ॥ २,६.३७ ॥

सिंहासनंमहादिव्यं छत्रचामरवीजितम् ।
तत्रोप विष्टं राजानं किरीटकनकोज्ज्वलम् ॥ २,६.३८ ॥

महत्या च श्रिया युक्तं स्तूयमानं सुवन्दिभिः ।
राजापि दृष्ट्वा तं विप्रं प्रत्युत्थाय कृताञ्जलिः ॥ २,६.३९ ॥

पूजयामास विधिवन्मधुपर्कास नादिभिः ।
सन्तुष्टमनसं देवमस्तौषीत्परया मुदा ॥ २,६.४० ॥

अद्य मे सफलं जन्म पावितञ्च कुलं प्रभो ।
विष्णुभक्तस्य धर्मस्य यत्ते दृग्गोचरं गतः ॥ २,६.४१ ॥

नत्वा स्तुत्वा बहुविधमुवाचानुवसन्नृपः ।
यतः समागतो देवः पुनस्तत्रैव नीयताम् ॥ २,६.४२ ॥

इति श्रुत्वा वचो राज्ञः पप्रच्छ द्विजपुङ्गवः ।
ब्राह्मण उवाच ।
कोऽयं देश कुतो लोका उत्तमा मध्यमाधमाः ॥ २,६.४३ ॥

केन पुण्येन तु भवान्पारमेष्ट्यविभूषितः ।
किमर्थमहमानीतः पुनस्तत्रैव नीयते ॥ २,६.४४ ॥

अपूर्वमिव पश्यामि सर्वं स्वप्नगतो यथा ।
राजोवाच ।
स्वधर्मनिरतो यस्तु हरिभक्तिरतः सदा ॥ २,६.४५ ॥

विरक्त इन्द्रियार्थेभ्यः स मे पूज्यो न संशयः ।
तीर्थयात्रापरो नित्यं वृषोत्सर्गविशेषवित् ॥ २,६.४६ ॥

सत्यदानपरो यस्तु स नमस्यो दिवौकसाम् ।
दर्शनार्थमिहानीतः पूजार्हश्च परन्तप ॥ २,६.४७ ॥

अनुगृहाण मां देव क्षमस्व मम साहसम् ।
इत्युक्त्वा दर्शयामास मन्त्रिणां संज्ञया भ्रुवः ॥ २,६.४८ ॥

वदिष्यति समग्रं ते स्वयं वक्तुं न साम्प्रतम् ।
सामन्तः सर्ववेदज्ञो ज्ञात्वा हार्दं नृपस्य च ॥ २,६.४९ ॥

विपश्चिदुवाच ।
पूर्वजन्मनि वैश्योऽयं विश्वम्भर इति श्रुतः ।
विराधनगरे विप्र द्विजदेवविभूषिते ॥ २,६.५० ॥

वैश्यवृत्त्या सदा जीवन्कुटुम्बपरिपालकः ।
गवां शुश्रूषको नित्यं ब्राह्मणानाञ्च पूजकः ॥ २,६.५१ ॥

पात्रदानपरो नित्यमातिथेयाग्निसेवकः ।
गार्हस्थ्यं विधिवच्चक्रे भार्यया सत्यमेधया ॥ २,६.५२ ॥

स्मार्तेन लोकानजयच्छ्रौतेन त हविर्भुजः ।
कदाचिद्बन्धुभिः साकं कृत्वा तीर्थानि भूरिशः ॥ २,६.५३ ॥

यावदायाति सदनं दृष्टवाल्लोंमशं पथि ।
दण्डवत्प्रणिपत्याशु कृताञ्जलिपुटं स्थितम् ॥ २,६.५४ ॥

पप्रच्छ विनयोपेतं करुणावारिवारिधिः ।
ऋषिरुवाच ।
कुत आगम्यते साधो ब्राह्मणैर्बन्धुभिर्युतः ॥ २,६.५५ ॥

दृष्ट्वा त्वां धर्मनिलयं प्रक्लिन्नं मानसं मम ।
विश्वम्भर उवाच ।
शीर्यमाणं शरीरं हि ज्ञात्वा मृत्युं पुरः स्थितम् ॥ २,६.५६ ॥

भर्यया धर्मचारिण्या तीर्थयात्रां विनिर्गतः ।
कृत्वा तीर्थानि विधिवद्विश्राण्य विपुलं वसु ॥ २,६.५७ ॥

यावद्ब्रजाम्यहं वेश्म भवान् दृष्टिपथं गतः ।
लोमश उवाच ।
तीर्थानि सन्ति भूरीणि वर्षैऽस्मिन् भारते शुभे ॥ २,६.५८ ॥

यत्त्वया ह्युपचीर्णानि तानि सर्वाणि मे वद ।
वैश्य उवाच ।
गङ्गा च सूर्य तनया महापुण्या सरस्वती ॥ २,६.५९ ॥

दशाश्वमेधैरयजद्यत्र ब्रह्मा सुरेश्वरः ।
तीर्थराजस्ततः काशी महादेवो दयानिधिः ॥ २,६.६० ॥

मृतानां यत्र जन्तूनां कर्णे जपति तारकम् ।
पुलहस्याश्रमं पुण्यं फल्गुतीर्थञ्च गण्डकी ॥ २,६.६१ ॥

चक्रतीर्थं नैमिषञ्च शिवतीर्थमनन्तकम् ।
गोप्रतारकनागेशमयोध्याबिन्दुसंज्ञितम् ॥ २,६.६२ ॥

यत्रास्त मुक्तिदः साक्षाद्रामो राजीवलोचनः ।
आग्नेयं वायुकौबेरं कौमारं भूरुहां पुनः ॥ २,६.६३ ॥

सौकरं मथुरा यत्र नित्यं सन्निहतो हरिः ।
पुष्करं सत्यतीर्थञ्च ज्वालतीर्थं दिनेश्वरम् ॥ २,६.६४ ॥

इन्द्रतीर्थं कुरुक्षेत्रं यत्र प्राची सरस्वती ।
तापी पयोष्णी निर्विन्ध्या मलयः कृष्णवेणिका ॥ २,६.६५ ॥

गोदावरी दण्डकञ्च ताम्रचूडं सदोदकम् ।
द्यावाभूमीश्वरं दृष्ट्वा श्रीशैलः पर्वतेश्वरः ॥ २,६.६६ ॥

असंख्यलिङ्गतीर्थानि यत्र सन्ति सदा मुने ।
वेङ्कटाद्रौ महातेजाः श्रीरङ्गाख्यः स्वयं हरिः ॥ २,६.६७ ॥

वेङ्कटी नाम तत्रैव देवी महिषमर्दिनी ।
चन्द्रतीर्थं भद्रवटः कावेरीकुटिलाचलौ ॥ २,६.६८ ॥

अवटोदा ताम्रपर्णो त्रिकृटः कोल्लको गिरिः ।
वासिष्ठं ब्रह्मतीर्थञ्च ज्ञानतीर्थं महोदधिः ॥ २,६.६९ ॥

हृषीकेशं विराजञ्च विशालं नीलपर्वतः ।
भीमकूटः श्वेतगिरी रुद्रतीर्थमुमावनम् ॥ २,६.७० ॥

अवाप गिरिजा देवी तपसा यत्र शङ्करम् ।
वारुणं सूर्यतीर्थञ्च हंसतीर्थं महोदयम् ॥ २,६.७१ ॥

निमज्ज्य यत्र काकोला राजहंसत्वमाययुः ।
असुरो यत्र देवत्वमवाप स्नानमात्रतः ॥ २,६.७२ ॥

विश्वरूपं वन्दितीर्थं रत्नेशः कुहकाचलः ।
नरनारायणं दृष्ट्वा मुच्यते पापकोटिभिः ॥ २,६.७३ ॥

सरस्वतीदृषद्वत्यौ नर्मदा शर्मदा नृणाम् ।
नीलकण्ठं महाकालं पुण्यं चामरकण्टकम् ॥ २,६.७४ ॥

चन्द्रभागा वेत्रवती वीरभद्रं गणेश्वरम् ।
गोकर्णं बिल्वतीर्थञ्च कर्मकुण्डं सतारकम् ॥ २,६.७५ ॥

स्नानमात्रेण यत्राशु मुच्यते कर्मबन्धनात् ।
अन्यान्यपि च तीर्थानि कृतानि कृपया तव ॥ २,६.७६ ॥

उत्पद्यते शुभा बुद्धिः साधूनां यदनुग्रहः ।
एकतः सर्वतीर्थानि करुणाः साधवोऽन्यतः ॥ २,६.७७ ॥

अनुग्रहाय भूतानां चरन्ति चरितव्रताः ।
त्वं गुरुः सर्वर्णानां विद्यया वयसाधिकः ॥ २,६.७८ ॥

अतः पृच्छाम्यहं किञ्चिदाधिभूतं चिरन्तनम् ।
किं कुर्यां कं नु पृच्छेऽहं मनो मेऽतिचलं मुने ॥ २,६.७९ ॥

निः स्पृहं ब्रह्मविषये विषयेष्वतिलालसम् ।
मनागपि न सहते विरहं तिमिरं ब्रुवत् ॥ २,६.८० ॥

मोहितं विविधैर्भावैः कर्मणां क्षेत्रमुत्तमम् ।
शान्तिं यथा समायाति सम्पन्नमिव भूसुर ॥ २,६.८१ ॥

विवेकप्रवणं शुद्धं यथा स्यात्कृपया वद ।
ऋषिरुवाच ।
मनस्तु प्रबलं नित्यं सविकारं स्वभावतः ॥ २,६.८२ ॥

वशं नयन्ति करिणं प्रमत्तमपि हस्तिपाः ।
तथापि साधुसङ्गत्या साधनैरप्यतन्द्रितः ॥ २,६.८३ ॥

तीव्रेण भक्तियोगेन विचारेण वशं नयेत् ।
इतिहासं प्रवक्ष्यामि तव प्रत्ययकारकम् ॥ २,६.८४ ॥

नारदोऽकथयन्मह्यं स्ववृत्तगतजन्मनः ।
नारद उवाच ।
कस्यचिद्द्विजमुख्यस्य दासीपुत्त्रः पुरा मुने ॥ २,६.८५ ॥

शिक्षितो बालभावेऽपि पाठितो नितरामहम् ।
तत्रापि सङ्गतिर्जाता महतां पुण्यकर्मणाम् ॥ २,६.८६ ॥

प्रावृट्काले मम गृहे स्थितानां भाग्ययोगतः ।
शुश्रूषणानुवृत्त्या च प्रश्रयेण दमेन च ॥ २,६.८७ ॥

सन्तोषं परमं प्राप्य कृपया त्विदमब्रुवन् ।
मनीषा निर्मला येन जाता मम शुभार्थिनी ॥ २,६.८८ ॥

यया विष्णुमयं सर्वम्त्मन्येव ददृशिवान् ।
मुनय ऊचुः ।
शृणु वत्स प्रवक्ष्या मो हिताय तव बालक ॥ २,६.८९ ॥

येन वै ध्रियमाणेन इहामुत्र सुखं भवेत् ।
देवतिर्यङ्मनुष्याश्च संसारे विविधा जनाः ॥ २,६.९० ॥

निबद्धाः कर्मपशैस्ते भुञ्जन् भोगान् पृथग्विधान् ।
देवत्वं याति सत्त्वेन रजसा च मनुष्यताम् ॥ २,६.९१ ॥

तिर्यक्त्वं तमसा जन्तुर्वासनानुगतोऽबुधः ।
मातुर्लब्ध्वा पुनर्जन्म म्रियते च पुनः पुनः ॥ २,६.९२ ॥

एवं गत्वा ह्यसंख्याता योनीस्ताः कर्मभूरपि ।
मानुष्यं दुर्लभं लब्ध्वा कदाचिद्दैवयोगतः ॥ २,६.९३ ॥

अनुग्रहेण महतां हरिं ज्ञात्वा विमुच्यते ।
रोगग्राहं मोहजालमपारं भवसागरम् ॥ २,६.९४ ॥

न पश्यामि तितीर्षोरन्यद्रामस्मरणं विना ।
नवनीयं यथा दध्नो ज्योतिः काष्ठादपि क्वचित् ॥ २,६.९५ ॥

मन्थनैः साधनैरेवं परं ज्ञात्वा सुखी भवेत् ।
आत्मा नित्योऽव्ययः सत्यः सर्वगः सर्वभृन्महान् ॥ २,६.९६ ॥

अप्रमेयः स्वयञ्ज्योतिरग्राह्यो मनसापि यः ।
सच्चिदानन्दरूपोऽसौ सर्वप्राणिहृदि स्थितः ॥ २,६.९७ ॥

विनश्यत्स्वपि भावेषु न विनश्यति कर्हिचित् ।
आकाशः सर्वभूतेषु स्थितस्तेजोजले तथा ॥ २,६.९८ ॥

आत्मा सर्वत्र निर्लेपः पार्थिवेषु यथानिलः ।
भक्तानुकम्पी भगवान् साधूनां रक्षणाय च ॥ २,६.९९ ॥

आविर्भवति लोकेषुगुणीवाज्ञैः प्रतीयते ।
एवंविवेकत्वया यो बुद्ध्या संशीलयेद्धृदि ॥ २,६.१०० ॥

भक्तियोगेन सन्तुष्ट आत्मानं दर्शयेदजः ।
ततः कृतार्थो भवति सदा सर्वत्र निः स्पृहः ॥ २,६.१०१ ॥

अतोऽहङ्कारमुत्सृज्य सानुबन्धे कलेवरे ।
चरेदसंगो लोकेषु स्वप्नप्रायेषु निर्ममः ॥ २,६.१०२ ॥

क्व स्वप्ने नियतं धैर्यमिन्द्रजाले क्व सत्यता ।
क्व नित्यता शरन्मेघे क्व वा सत्यं कलेवरे ॥ २,६.१०३ ॥

अविद्याकर्मजनितं दृश्यमानं चरा चरम् ।
ज्ञात्वाचारवशी योगी ततः सिद्धिमवाप्स्यसि ॥ २,६.१०४ ॥

इत्युक्त्वा ते गताः सर्वे साधवो दीनवत्सलाः ।
सोऽहं तदुक्तमार्गेण तथैवाचरमन्वहम् ॥ २,६.१०५ ॥

ततोऽचिरेणात्मनीदं दृष्टवानहमद्भुतम् ।
ज्योतिर्मयं सदानन्दं शरच्छीतांशुनिर्मलम् ॥ २,६.१०६ ॥

निषिच्य सुखसन्दोहैर्मां कृत्वाधिकसस्पृहम् ।
अन्तर्हितं महतेजो यथा सौदामिनी दिवि ॥ २,६.१०७ ॥

भक्त्या तदेव मनसि भावयन्नहमद्भुतम् ।
काले कलेवरं त्यक्त्वा गतवान् हरिमव्ययम् ॥ २,६.१०८ ॥

तस्येच्छया पुनर्ब्रह्मन् ब्रह्मणो मेऽभवज्जनिः ।
अनुग्रहाद्भगवतस्त्रिषु लोकेषु निः स्पृहः ॥ २,६.१०९ ॥

आपीडयन्मुहुर्वोणां गायमानश्चराम्यहम् ।
इत्युक्त्वा मे स्वानुभवं ययौ यादृच्छिको मुनिः ॥ २,६.११० ॥

ममापि परमाश्चर्यं सन्तोषश्च महानभूत् ।
अतस्ते साधुसङ्गत्या भक्त्या च परमात्मनः ॥ २,६.१११ ॥

विशुद्धं निर्मलं शान्तं मनो निर्वृतिमेष्यति ।
अनेकजन्मजनितं पातकं साधुसंगमे ॥ २,६.११२ ॥

क्षिप्रं नश्यति धर्मज्ञ जलानां शरदो यथा ।
वैश्य उवाच ।
पीत्वा ते वाक्यपीयूषं स्वान्तं मे शान्तिमागमत् ॥ २,६.११३ ॥

सर्वतीर्थफलं मेऽध्य सञ्जातं तव दर्शनात् ।
इति श्रुत्वा वचस्तस्य प्रोवाच ऋपिसत्तमः ॥ २,६.११४ ॥

लोमश उवाच ।
हिताय तव राजेन्द्र त्रिवर्गफलमिच्छतः ।
यत्त्वया सुकृतं भूरिवृषोत्सर्गं विना कृतम् ॥ २,६.११५ ॥

मन्येऽकिञ्चत्करं सर्वं नीहारसलिलं यथा ।
वृषोत्सर्गसमं किञ्चित्साधनं न महीतले ॥ २,६.११६ ॥

अनायासेन गच्छन्ति गतिं ते पुण्यकर्मणाम् ।
वृषोत्सर्गः कृतो येन अश्वमेधस्य याजकः ॥ २,६.११७ ॥

उभौ समौ मया दृष्टौ दिव्यौ तौ शक्रसन्निधौ ।
अतस्त्वं पुष्करं गत्वा वृषोत्सर्गं विधाय च ॥ २,६.११८ ॥

ततो याहि गृहं साधो येन सर्वं कृतं भवेत् ।
विपश्चिदुवाच ।
ततः स पुनरागत्य कार्तिक्यां पुष्करे वरे ॥ २,६.११९ ॥

वराहरूपी भगवान् यत्रास्ते यज्ञपूरकः ।
चकार विधिवत्सर्वं युद्कमृषिसत्तमैः ॥ २,६.१२० ॥

गतानि बहुतीर्थानि ततो लोमशसंगतिः ।
ततोऽधिकतरं जातं पुण्यं नीलविवाहजम् ॥ २,६.१२१ ॥

सभुक्त्वा विषयान् दिव्यान् विमानवरमाश्रितः ।
तेन राजकुले जन्म वीरसेनस्य धर्मतः ॥ २,६.१२२ ॥

वीरपञ्चाननाख्यातञ्चतुर्वर्गैकसाधकम् ।
प्रकुर्वतो वृषोत्सर्गं तत्र ये परिचारकाः ॥ २,६.१२३ ॥

दिव्यरूपाभवन् स्पृष्टा गोपुच्छोदकशीकरैः ।
सुरूपाः पुष्टवपुषः पश्यन्तो दूरसंस्थिताः ॥ २,६.१२४ ॥

ततो दूरतरा ये च दृश्यन्ते मलिना जनाः ।
दुर्भगा मलिना रूक्षाः कृशा विगतवाससः ॥ २,६.१२५ ॥

वृषयज्ञमपश्यन्तो ये चासूयां प्रकुर्वते ।
सर्वं निवेदितं राज्ञश्चरितं पूर्वजन्मनः ॥ २,६.१२६ ॥

धर्म्यं विचित्रमाख्यानं श्रुतं मे यत्पराशरात् ।
अतस्त्वं स्वगृहं गच्छ कृपां कृत्वा ममोपरि ॥ २,६.१२७ ॥

श्रुत्वा विपश्चिद्वाक्यं स विस्मयं परमं गतः ।
गृहं जगाम विप्रोऽसौ प्रापितो राजसेवकैः ॥ २,६.१२८ ॥

वसिष्ठ उवाच ।
तस्माद्राजन् वृषोत्सर्गं वरिष्ठं सर्वकर्मणाम् ।
समाचर विधानेन यदि भीतो यमादपि ॥ २,६.१२९ ॥

वृषोत्सर्गसमं किञ्चित्साधनं नदिवः परम् ।
मया धर्मरहस्यं ते कथितं राजसत्तम ॥ २,६.१३० ॥

पतिपुत्रवती नारी भर्तुरग्रे मृता यदि ।
वृषोत्सर्गं न कुर्वीत गां दद्याच्च पयस्विः नीम् ॥ २,६.१३१ ॥

श्रीकृष्ण उवाच ।
श्रुत्वा वाक्यं वसिष्ठस्य राजा मधुपुरीं गतः ।
चकार विधिवत्सर्वं वृषोत्सर्गमहं खग ॥ २,६.१३२ ॥

गृहं गत्वा स आत्मानं कृतकृत्यममन्यत ।
कालेन निधनं प्राप्तो नीतो वैवस्वतानुगैः ॥ २,६.१३३ ॥

स कालनगरं हित्वा गतो दूरतरं पथि ।
श्राद्धदेवपुरं कुत्रेत्येवं दूतानपृच्छत ॥ २,६.१३४ ॥

पापिनो यत्र पात्यन्ते याम्यै पापविशुद्धये ।
यत्र देवः स धर्माधर्मविचेतनः ॥ २,६.१३५ ॥

गतं पापपुरं तत्तु न द्रष्टव्यं भवादृशैः ।
अग्रे दृष्ट्वा धर्मराजमूचुस्ते परमादरात् ॥ २,६.१३६ ॥

दिव्यरूपस्तदा देवो देवगन्धर्वसंयुतः ।
आत्मानं दर्शया मास तस्य राज्ञो महात्मनः ॥ २,६.१३७ ॥

प्रणम्य दण्डवद्राजा कृताञ्जलिः पुरः स्थितः ।
तुष्टाव बहुधा देवं हर्षपुरितमानसः ॥ २,६.१३८ ॥

धर्मराजोऽपि राजानं प्रशस्येदमुवाच ह ।
नीयतां देवलोकाय यत्र भोगाः सुपुष्कलाः ॥ २,६.१३९ ॥

तद्वीरवाहनः श्रुत्वा पप्रच्छसमवर्तिनम् ।
न जाने केन पुण्येन स्वर्गं नयसि मां विभो ॥ २,६.१४० ॥

धर्मराज उवाच ।
त्वया कृतानि पुण्यानि दानं यज्ञाः सविस्तराः ।
मथुरायां वृषोत्सर्गो वसिष्ठवचनात्किल ॥ २,६.१४१ ॥

धर्मः स्वल्पोऽपि नृपते यदि सम्यगुपासितः ।
द्विजदेवप्रसादेन स याति बहुविस्तरम् ॥ २,६.१४२ ॥

इत्युक्त्वा यमुनाभ्राता क्षणादन्तर्धिमाययौ ।
वीरबाहुर्दिवं गत्वा देवैः सह मुमोद ह ॥ २,६.१४३ ॥

श्रीकृष्ण उवाच ।
मया ते कथितं पक्षिन् वृषयज्ञः सुविस्तरः ।
प्राणिनां कर्मनिर्हारं श्रुत्वा पापैः प्रमुच्यते ॥ २,६.१४४ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्विदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गमाहात्म्यनिरूपणं नाम षष्ठोऽध्यायः