गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १९ गरुडपुराणम्
अध्यायः २०
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २१ →

श्रीगरुडमहापुराणम् २०
गरुड उवाच ।
ये केचित्प्रेतरूपेण कुत्र वासं लभन्ति ते ।
प्रेतलोकाद्विनिर्मुक्ताः कथं कुत्र व्रजन्ति ते ॥ २,२०.१ ॥

चतुर्युक्ताशीति लक्षैर्नरकैः पर्युपासिताः ।
यमेन रक्षितास्तत्र भूतैश्चैव सहस्रशः ॥ २,२०.२ ॥

विचरन्ति कथं लोके नरकाच्च विनिर्गताः ।
गरुडोदीरितं श्रुत्वा लक्ष्मीनाथोऽब्रवीदिदम् ॥ २,२०.३ ॥

श्रीकृष्ण उवाच ।
पक्षिराज शृणुष्व त्वं यत्र प्रेताश्चरन्ति वै ।
परार्थदारग्रहणाच्छ (ब) लाद्द्रोहान्निशाचराः ॥ २,२०.४ ॥

तथैव सर्वपापिष्ठः स्वात्मजान्वेषणे रताः ।
विचरन्त्यशरीरास्ते क्षुप्तिपासार्दिता भृशम् ॥ २,२०.५ ॥

बन्दीगृहवि निर्मुक्ता येभ्यो नश्यन्ति जन्तवः ।
ते व्यवस्यन्ति च प्रेता वधोपायं च बन्धुषु ॥ २,२०.६ ॥

पितृद्वदाराणि रुन्धन्ति तन्मार्गोच्छेदकास्तथा ।
पितृभा गान्विगृह्णन्ति पान्थेभ्यस्तस्करा इव ॥ २,२०.७ ॥

स्वं वेश्म पुनरागत्य मित्रस्थाने विशन्ति ते ।
तत्र स्थिता निरीक्षन्ते रोगशोकादिबन्धनाः ॥ २,२०.८ ॥

पीडयन्ति ज्वरीभूय एकान्तरमिषेण तु ।
तृतीयकज्वरा भूत्वा शीतवातादिपीडया ॥ २,२०.९ ॥

अन्यांश्च विविधान्रोगाञ्छिरोऽर्तिं च विषूचिकाम् ।
चिन्त यन्ति सदा तेषामुच्छिष्टादिस्थलस्थिताः ॥ २,२०.१० ॥

आत्मजानां छलाल्लोका भूतसङ्घैश्च रक्षिताः ।
पिबन्ति ते च पानीयं भोजनोच्छिष्टयोजितम् ॥ २,२०.११ ॥

एवं प्रेताः प्रवर्तन्ते नानादोषैर्विकर्मिणः ॥ २,२०.१२ ॥

गरुड उवाच ।
कथं कुर्वन्ति ते प्रेताः केन रूपेण कस्य किम् ।
ज्ञायते केन विधिना जल्पन्ति न वदन्ति वा ॥ २,२०.१३ ॥

एनं छिन्धि मनोमोहं मम चेदिच्छसि प्रियम् ।
कलिकाले हृषीकेश प्रेतत्वं जायते बहु ॥ २,२०.१४ ॥

श्रीविष्णुरुवाच ।
स्वकुलं पीडयेत्पेतः परच्छिद्रेण पीडयेत् ।
जीवन्स दृश्यते स्नेही मृतो दुष्टत्वमाप्नुयात् ॥ २,२०.१५ ॥

रुद्रजापी धर्मरतो देवतातिथिपूजकः ।
सत्यवाक्प्रियवादी च न प्रेतैः स हि पीड्यते ॥ २,२०.१६ ॥

सर्वक्रियापरिभ्रष्टो नास्तिको धर्मनिन्दकः ।
असत्यवादनिरतो नरः प्रेतैः स पीड्यते ।
कलौ प्रेतत्वमाप्नोति तार्क्ष्याशुद्धक्रियापरः ॥ २,२०.१७ ॥

कृतादौ द्वापरान्ते च न प्रेतो नैव पीडनम् ।
बहूनामेकजातानामेकः सौख्यं समश्नुते ॥ २,२०.१८ ॥

एको दुष्कृतकर्मा च एकः सन्ततिमाञ्जनः ।
एकः सम्पीड्यते प्रेतैरेकः सुतधनान्वितः ॥ २,२०.१९ ॥

एकस्य पुत्रनाशः स्यादेको दुहितृमान् भवेत् ।
विरोधो बन्धुभिः सार्धं प्रेतदोषेण काश्यप ॥ २,२०.२० ॥

सन्ततिर्दृश्यते नैव समुत्पन्ना विनश्यति ।
पशुद्रव्यविनाशश्च सा पीडा प्रेतसम्भवा ॥ २,२०.२१ ॥

प्रकृतेः परिवर्तः स्याद्विद्वेषः सह बन्धुभिः ।
अकस्माद्व्यसनप्राप्तिः सा पीडा प्रेतसम्भवा ॥ २,२०.२२ ॥

नास्तिक्यं वृत्तिलोपश्च महालोभस्तथैव च ।
स्याद्धन्तकलहो नित्यं सा पीडा प्रेतसम्भवा ॥ २,२०.२३ ॥

पितृमातृनिहन्ता च देवब्राह्मणनिन्दकः ।
इत्यादोषमवाप्नोति सा पीडा प्रेतसम्भवा ॥ २,२०.२४ ॥

नित्यकर्मविनिंमुक्तो जपहोमविवर्जितः ।
परद्रव्याणां च हर्ता सा पीडा प्रेतसम्भवा ॥ २,२०.२५ ॥

सुवृष्टौ कृषिनाशश्च व्यवहारो विनश्यति ।
लोके कलहकारी च सा पीडा प्रेतसम्भवा ॥ २,२०.२६ ॥

मार्गे जङ्गम्यमानं तं पीडयेद्वातमण्डली ।
प्रेतपीडा तु सा ज्ञेया सत्यंसत्यं खगेश्वर ॥ २,२०.२७ ॥

हीनजात्या च सम्बन्धो हीनकर्म करोति यः ।
अधर्मे रमते नित्यं सा पीडा प्रेतसम्भवा ॥ २,२०.२८ ॥

व्यसनैर्द्रव्यनाशः स्यादुपक्रान्तं विनश्यति ।
चौराग्निराजभिर्हानिः सा पीडा प्रेतसम्भवा ॥ २,२०.२९ ॥

महारोगोपलब्धिश्च बालकानां च पीडनम् ।
जाया संपीढ्यते यच्च सा पीडा प्रेतसम्भवा ॥ २,२०.३० ॥

श्रुतिस्मृतिपुराणेषु धर्मशास्त्रसमुद्भवे ।
अभावो जायते धर्मे सा पीडा प्रेतसम्भवा ॥ २,२०.३१ ॥

देवतीर्थद्विजानां तु निन्दांयः कुरुते नरः ।
प्रत्यक्षं वा परोक्षं वा सा पीडा प्रेतसम्भवा ॥ २,२०.३२ ॥

स्ववृत्तिहरणं यच्च स्वप्रतिष्ठाहतिस्तथा ।
वंशच्छेदः नदृश्येत प्रेतदोषाद्विनान्यथा ॥ २,२०.३३ ॥

स्त्रीणां गर्भविनाशः स्यान्न पुष्पं दृश्यते तथा ।
बालानां मरणं यत्र सा पीडा प्रेतसम्भवा ॥ २,२०.३४ ॥

भावशुद्ध्या न कुरुते श्राद्धं सांवत्सरादिकम् ।
स्वयमेव न कुर्वीत सा पीडा प्रेतसम्भवा ॥ २,२०.३५ ॥

तीर्थे गत्त्वा परासक्तः स्वकृत्यं च परित्यजेत् ।
धर्मकार्ये न सम्पत्तिः सा पीडा प्रेतसम्भवा ॥ २,२०.३६ ॥

दम्पत्योः कलहश्चैव भोजने कोपसंयुतः ।
परद्रोहे मतिश्चैव सा पीडा प्रेतसंभवा ॥ २,२०.३७ ॥

पुष्पं यत्र न दृश्येन फलं तथा ।
विरहो भार्यया यत्र सा पीडा प्रेतसग्भवा ॥ २,२०.३८ ॥

येषां वै जायते चिह्नं सदोच्चाटपरं नृणाम् ।
स्वक्षेत्रे निष्फलं तेजः सा पीडा प्रेतसम्भवा ॥ २,२०.३९ ॥

स्वगोत्रघातकश्चैव हन्ति शत्रुमिवात्मजम् ।
न प्रीतिर्नापि सौख्यं च सा पीडा प्रेतसम्भवा ॥ २,२०.४० ॥

पितृवाक्यं न कुरुते स्वपत्नीं च न सेवते ।
सदा क्रूरमतिर्व्यग्रः सा पीडा प्रेतसम्भवा ॥ २,२०.४१ ॥

विकर्मा जायते प्रेतो ह्यविधिक्रियया तथा ।
तत्कालदुष्टसंसर्गाद्वृषोत्सर्गादृते तथा ॥ २,२०.४२ ॥

दृष्टगृत्युवशाद्वापि अदग्धवपुषस्तथा ।
प्रेतत्वं जायते तार्क्ष्य पीड्यन्ते येन जन्तवः ॥ २,२०.४३ ॥

एवं ज्ञात्वा खगश्रेष्ठ प्रेतमुक्तिं समाचरेत् ।
यो वै न मन्यते प्रेतान्मृतः प्रेतत्वमाप्नुयात् ॥ २,२०.४४ ॥

प्रेतदोषः कुले यस्य सुखं तस्य न विद्यते ।
मतिः प्रीती रतिर्बुद्धिर्लक्ष्मीः पञ्चविनाशनम् ॥ २,२०.४५ ॥

तृतीये पञ्चमे पुंसि वंशच्छेदो हि जायते ।
दरिद्रो निर्धनश्चैव पापकर्मा भवेभवे ॥ २,२०.४६ ॥

ये केचित्पेतरूपा विकृतमुखदृशो रौद्ररूपाः कराला मन्यन्ते नैव गोत्रं सुतदुहितृपितॄन् भ्रातृजायां वधूं वा ।
कृत्वा काम्यं च रूपं सुखगतिरहिता भाषमाणा यथेष्टं हा कष्टं भोक्तुकामा विधिवशपतिताः संस्मरन्ति स्वपाकम् ॥ २,२०.४७ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे प्रेतावासतद्बाधाप्रकारनिरूपणं नाम विंशोऽध्यायः