गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १९

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १८ गरुडपुराणम्
अध्यायः १९
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २० →

श्रीगरुडमहापुराणम् १९
श्रीभगवानुवाच ।
वायुभूतः क्षधाविष्टः कर्मजं देहमाश्रितः ।
ते देहं स समासाद्य यमेन सह गच्छति ॥ २,१९.१ ॥

चित्रगुप्तपुरं तत्र योजनानां तु विंशतिः ।
कायस्थास्तत्र पश्यन्ति पापपुण्यानि सर्वशः ॥ २,१९.२ ॥

महादानेषुदत्तेषु गतस्तत्र सुखी भवेत् ।
योजनानां चतुर्विंशत्पुरं वैवस्वतं शुभम् ॥ २,१९.३ ॥

लोहं लवणकार्पासं तिलपात्रं च यैर्नरैः ।
दत्तं तेनैव तृप्यन्ति यमस्य पुरचारिणः ॥ २,१९.४ ॥

गत्वा च तत्र ते सर्वे प्रतीहारं वदन्ति हि ।
धर्मध्वजप्रतीहारस्तत्र तिष्ठति सर्वदा ॥ २,१९.५ ॥

सप्तधान्यस्य दानेन प्रीतो धर्मध्वजो भवेत् ।
तत्र गत्वा प्रतीहारो ब्रूते तस्य शुभाशुभम् ॥ २,१९.६ ॥

धर्मराजस्य यद्रूपं सन्तः सुकृतिनो जनाः ।
पश्यन्ति च दुरात्मानो यमरूपं सुभीषणम् ॥ २,१९.७ ॥

तं दृष्ट्वा भयभीतस्तु हाहेति वदते जनः ।
कृतं दानं च यैर्मर्त्यैस्तेषां नास्ति भयं क्वचित् ॥ २,१९.८ ॥

प्राप्तं सुकृतिनं दृष्ट्वा स्थानाच्च लति सूर्यजः ।
एष मे मण्डलं भित्त्वा ब्रह्मलोकं प्रयास्यति ॥ २,१९.९ ॥

दानेन सुलभो धर्मो यममार्गः सुखावहः ।
एष मार्गो विशालोऽत्र न केनाप्य नुगम्यते ।
दानपुण्यं विना वत्स न गच्छेद्धर्ममन्दिरम् ॥ २,१९.१० ॥

तस्मिन्मार्गे तु रौद्रे वै भीषणा यमकिङ्कराः ।
एकैकस्य पुरस्याग्रे तिष्ठत्येकसहस्रकम् ॥ २,१९.११ ॥

पचन्ति पापिनं प्राप्य उदके यातनाकराः ।
गृह्णन्ति मासमासान्ते पादशेषं तु तद्भवेत् ॥ २,१९.१२ ॥

और्ध्वदैहिकदानानि यैर्न दत्तानि काश्यप ।
महाकष्टेन ते यान्ति तस्माद्देयानि शक्तितः ।
अदत्त्वा पशुवद्यान्ति गृहीतो वन्धबन्धनैः ॥ २,१९.१३ ॥

एवं कृतेन सम्पश्येत्स नरः भूतकर्मणा ।
दैविकीं पैतृकीं योनिं मानुषीं वाथ नारकीम् ॥ २,१९.१४ ॥

धर्मराजस्य वचनान्मुक्तिर्भवति वा ततः ।
मानुष्यं तत्त्वतः प्राप्य स पुत्त्रः पुत्त्रतां व्रजेत् ॥ २,१९.१५ ॥

यथायथा कृतं कर्म तान्तां योनिं व्रजेन्नरः ।
तत्तथैव च भुञ्जानो विचरेत्सर्वलोकगः ॥ २,१९.१६ ॥

अशाश्वतं परिज्ञाय सर्वलोकोत्तरं सुखम् ।
यदा भवति मानुष्यं तदा धर्मं समाचरेत् ॥ २,१९.१७ ॥

कृमयो भस्म विष्ठा वा देहानां प्रकृतिः सदा ।
अन्धकूपे महारौद्रे दीपहस्तः पातेत्तु वै ॥ २,१९.१८ ॥

महापुण्यप्रभावेण मानुष्यं जन्म लभ्यते ।
यस्तत्प्राप्य चरेद्धर्मं स गच्छेत्परमां गतिम् ॥ २,१९.१९ ॥

अपि जानन्वृथा धर्मं दुः खमायाति याति च ॥ २,१९.२० ॥

जातीशतेन लभते किल मानुषत्वं तत्रापि दुर्लभतरं खग भो द्विजत्वम् ।
यस्तत्र पालयति लालयति व्रतानि तस्यामृतं भवति हस्तगतं प्रसादात् ॥ २,१९.२१ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे यममन्दिरप्रवेशतदाज्ञालब्धमनुष्यादि देहांन्तरप्राप्तिनिरूपणं नामैकोनविंशोऽध्यायः