गरुडपुराणम्/आचारकाण्डः/अध्यायः ८६
← आचारकाण्डः, अध्यायः ८५ | गरुडपुराणम् अध्यायः ८६ वेदव्यासः |
आचारकाण्डः, अध्यायः ८७ → |
॥ब्रह्मोवाच ॥
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ॥
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥ 86.1 ॥
धर्मेण धारिता भूत्यै सर्वदेवमयी शिला ॥
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः ॥ 86.2 ॥
तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा ॥
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा ॥ 86.3 ॥
तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ॥
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ॥ 86.4 ॥
मुण्डपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम् ॥
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः ॥ 86.5 ॥
अरविन्दवनं तेषु तेन चैवोपलक्षितः ॥
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः ॥ 86.6 ॥
तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः ॥
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः ॥ 86.7 ॥
शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला ॥
गया शिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥ 86.8 ॥
कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः ॥
महारुद्रादिदेवैस्तु आनादिनिधनो हरिः ॥ 86.9 ॥
धर्म संरक्षणार्थाय अधर्मादिविनष्टये ॥
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत् ॥ 86.10 ॥
कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः ॥
यथा दाशरथी रामः कृष्णोबुद्धोऽथ कल्क्यपि ॥ 86.11 ॥
तथा व्यक्तोऽव्यक्तरूपी आसीदादिर्गदाधरः ॥
आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः ॥ 86.12 ॥
पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः ॥
गदाधरं सुरैः सार्द्धमाद्यं गत्वा ददाति यः ॥ 86.13 ॥
अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् ॥
दीपं नैवैद्यमुत्कृष्टं माल्यानि विविधानि च ॥ 86.14 ॥
वस्त्राणि मुकुटं घण्टां चामरं प्रेक्षणीयकम् ॥
अलङ्कारादिकं पिण्डमन्नदानादिकं तथा ॥ 86.15 ॥
तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः ॥
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः ॥ 86.16 ॥
भार्य्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् ॥
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः ॥ 86.17 ॥
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् ॥
श्राद्धपिण्डादिकर्त्तारः पितृभिर्ब्रह्मलोकगाः ॥ 86.18 ॥
जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम् ॥
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम् ॥ 86.19 ॥
पुरुषोत्तमराजस्य सूर्य्यस्य च गणस्य च ॥
पुरतस्तत्र पिण्डादि पितॄणां ब्रह्मलोकदः ॥ 86.20 ॥
नत्वा कपर्द्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते ॥
कार्त्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात् ॥ 86.21 ॥
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते ॥
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् ॥ 86.22 ॥
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् ॥
अभ्यर्च्येन्द्रं महैश्वर्य्यं गौरीं सौभाग्यमाप्नुयात् ॥ 86.23 ॥
विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम् ॥
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते ॥ 86.24 ॥
क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते ॥
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात् ॥ 86.25 ॥
नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते ॥
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् ॥ 86.26 ॥
बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात् ॥
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात् ॥ 86.27 ॥
सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम् ॥
नारायणं तु संपूज्य नराणामधिपो भवेत् ॥ 86.28 ॥
स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् ॥
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात् ॥ 86.29 ॥
मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत् ॥
सर्वान्कामानवाप्नोति संपूज्यादिगदाधरम् ॥ 86.30 ॥
सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात् ॥
रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते ॥ 86.31 ॥
रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत् ॥
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते ॥ 86.32 ॥
कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत् ॥
केदारं पूजयित्वा तु शिवलोके महीयते ॥ 86.33 ॥
सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत् ॥
आद्यै रुद्रादिभिः सार्द्धं दृष्ट्वा ह्यादिगदाधरम् ॥ 86.34 ॥
कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः ॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयात् ॥ 86.35 ॥
कामान्संप्राप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ॥
राज्यार्थो राज्यमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात् ॥ 86.36 ॥
सर्वार्थी सर्वमाप्नोति संपूज्यादिगदाधरम् ॥
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी ॥ 86.37 ॥
वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् ॥
श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः ॥ 86.38 ॥
ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम् ॥
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी ॥ 86.39 ॥
तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः ॥
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः ॥ 86.40 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमोऽध्यायः ॥ 86 ॥ (इति गयामाहात्म्यं समाप्तम्) ॥