गरुडपुराणम्/आचारकाण्डः/अध्यायः ८५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ८४ गरुडपुराणम्
अध्यायः ८५
वेदव्यासः
आचारकाण्डः, अध्यायः ८६ →

             ॥ब्रह्मोवाच ॥
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च ॥
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् ॥ 85.1 ॥

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥
आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥ 85.2 ॥

पितृवंशे मृता ये च मातृवंशे च ये मृताः ॥
तेषामुद्धरणार्थाये इमं पिण्डं ददाम्यहम् ॥ 85.3 ॥

मातामहकुले ये च गतिर्येषां न विद्यते ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ 85.4 ॥

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ॥
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ 85.5 ॥

बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः ॥
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते ॥
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ 85.6 ॥

उद्बन्धनमृता ये च विषशस्रहताश्च ये ॥
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ 85.7 ॥

अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये ॥
दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् ॥ 85.8 ॥

अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ॥
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ 85.9 ॥

रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ 85.10 ॥

असिपत्रवने घोरे कुम्भीपाके च ये गताः ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ 85.11 ॥

अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ 85.12 ॥

पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः ॥
अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम् ॥ 85.13 ॥

असंख्ययातनासंस्था ये नीता यमशासनैः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ 85.14 ॥

जात्यन्तरसहस्त्रेषु भ्रमन्ति स्वेन कर्मणा ॥
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ 85.15 ॥

ये बान्धवाऽबान्धवा वा येऽन्यजन्मनि बान्धवाः ॥
ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ 85.16 ॥

ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम ॥
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ 85.17 ॥

ये मे पितृकुले जाताः कुले मातुस्तथैव च ॥
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ 85.18 ॥

ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ॥
क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा ॥ 85.19 ॥

विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥ 85.20 ॥

साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥ 85.21 ॥

आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ॥
तन्मे साक्षी भवत्वद्य अनृणोऽहमृणत्रयात् ॥ 85.22 ॥

महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो ? गयाशिरः ॥
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम् ॥ 85.23 ॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः ॥ 85 ॥