गरुडपुराणम्/आचारकाण्डः/अध्यायः २०२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← आचारकाण्डः, अध्यायः २०१ गरुडपुराणम्
अध्यायः २०२
वेदव्यासः
आचारकाण्डः, अध्यायः २०३ →


श्रीगरुडमहापुराणम् २०२
हरिरुवाच ।
एकं पुनर्नवामूलमपामार्गस्य वा शिव ।
सरसं योनिनिः क्षिप्तं वराङ्गस्य व्यथां हरेत् ।
प्रसूतिवेदनाञ्चैव तरुणीनां व्यथां हरेत् ॥ १,२०२.१ ॥

भूमि कूष्माण्डमूलं वै शालिचूर्णमथापि वा ।
सप्ताहं दुग्धपीतं स्यात्स्त्रीणां बहुपयस्करम् ॥ १,२०२.२ ॥

रुद्रेन्द्रवारुणीमुलं लेपात्स्त्रीस्तनवेदना ।
नश्येत घृतपक्वा च कार्यावश्यन्तु पोलिका ॥ १,२०२.३ ॥

भक्षिता सा महेशान योनिशूलं विनाशयेत् ।
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ॥ १,२०२.४ ॥

योनिः प्रवेशमायाति नात्र कार्या विचारणा ।
नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥ १,२०२.५ ॥

पिष्टान्येषां प्रलेपो वै ज्वालागर्दभरागनत् ।
पाठामूलं रुद्र पीतं पिष्टं तण्डुलवारिणा ॥ १,२०२.६ ॥

पापरोगहरं स्याच्च कुष्ठपानं तथैव च ।
वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ॥ १,२०२.७ ॥

पापरोगस्य सन्तापनिवृक्तिं कुरुते शिव ।
घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह ॥ १,२०२.८ ॥

प्रदरं हरते रोगं नात्र कार्या विचारणा ।
द्विजयष्टी त्रिकटुकं चूर्णं पीतं हरेच्छिव ॥ १,२०२.९ ॥

तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ।
कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर ॥ १,२०२.१० ॥

रक्तोत्पलस्य वै कन्दंशर्करातिलसंयुतम् ।
पीतं सशर्करं स्त्रीणां धारयेद्गर्भपातनम् ॥ १,२०२.११ ॥

रक्तस्त्रावस्य नाशः स्याच्छीतोदकनिषेवणात् ।
पीतन्तु काञ्जिक रुद्र क्वथितं शरपुङ्खया ॥ १,२०२.१२ ॥

हिङ्गुस्त्रैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ।
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ॥ १,२०२.१३ ॥

अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।
उत्पाट्यमाने सकले पुत्त्रः स्यादान्यथा सुता ॥ १,२०२.१४ ॥

अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।
गर्भशूलं विनश्येत नात्र कार्या विचारणा ॥ १,२०२.१५ ॥

कर्पूरमदनफलमधुकैः पूरितः शिव ।
योनिः सुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर ॥ १,२०२.१६ ॥

यस्य बालस्य तिलकः कृतो गौरोचनाख्यया ।
शर्कराकुष्ठपानञ्च दत्तं स स्याच्च निर्भयः ।
विषभूतग्रहादिभ्यो व्याधिभ्यो बालकः शिव ॥ १,२०२.१७ ॥

शङ्खनाभिवचाकुष्ठलोहानां धारणं सदा ।
बालानामुपसर्गेभ्यो रुद्र रक्षाकरं भवेत् ॥ १,२०२.१८ ॥

पलाशचूर्णं समधु गव्याज्यामलकान्वितम् ।
सविडङ्गं पीतमात्रं नरं कुर्यान्महामतिम् ॥ १,२०२.१९ ॥

मासैकेन महादेव जरामरणवर्जितः ॥ १,२०२.२० ॥

पलाशबीजं सघृतं तिलमध्वन्वितं समम् ।
सप्ताहं भक्षितं रुद्र जरां नयति संक्षयम् ॥ १,२०२.२१ ॥

रुद्रामलकचूर्णं वै मधुतैल घृतान्वितम् ।
जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरी भवेत् ॥ १,२०२.२२ ॥

शिवामलकचूर्णं वै मधुना उदकेन वा ।
बलानि कुर्यान्नासायाः प्रत्यूषे भक्षितं शिव ॥ १,२०२.२३ ॥

कुष्ठचूर्णं साज्यमधु प्रातर्जग्ध्वा भवेन्नरः ।
साक्षात्सुरभिदेहो वै जीवेद्वर्षसहस्रकम् ॥ १,२०२.२४ ॥

माषस्य विदलान्ये वितुषाणि महेश्वर ।
घृतभावितशुष्काणि पयसा साधितानि वै ॥ १,२०२.२५ ॥

समाध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत् ।
स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः ॥ १,२०२.२६ ॥

रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत् ।
त्रिकालोदकसंघुष्टो बलकृद्भक्षणाद्भवेत् ॥ १,२०२.२७ ॥

दुग्धं वितुषमाषैश्च शिम्बाबीजैश्च साधितम् ।
अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत् ॥ १,२०२.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानाविधोषधप्रयोगानिरूपणं नाम द्व्युत्तरद्विशततमोऽध्यायः