गरुडपुराणम्/आचारकाण्डः/अध्यायः २०१

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः २०० गरुडपुराणम्
अध्यायः २०१
वेदव्यासः
आचारकाण्डः, अध्यायः २०२ →

श्रीगरुडमहापुराणम् २०१
धन्वन्तरिरुवाच ।
हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम् ।
काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः ॥ १,२०१.१ ॥

करालो हीनदन्तश्च शृङ्गी विरलदन्तकः ।
एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ १,२०१.२ ॥

मार्जारपादो व्याघ्राभः कुष्ठविद्रधिसन्निभः ।
यमजो वामनश्चैव मार्जारः कपिलोचनः ॥ १,२०१.३ ॥

एतद्दोषी हयस्त्याज्य उत्तमोऽश्वस्तुरुष्कजः ।
मध्यमः पञ्चहस्तश्च कनीयांश्च त्रिहस्तकः ॥ १,२०१.४ ॥

असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ।
शबलाभाः प्रभावेषु न दीनाश्चिरजीविनः ॥ १,२०१.५ ॥

रेवन्तपूजनाद्धोमाद्रक्ष्याश्च द्विजभाजेनात् ।
सरलं निम्बपत्राणि गुग्गुलं सर्षपान्घृतम्? ॥ १,२०१.६ ॥

तिलञ्चैव वचां हिगुं बध्नीयाद्वाजिनो गले ।
आगन्तुजं दोषजन्तु व्रणं द्विविधमीरितम् ॥ १,२०१.७ ॥

चिरपाकं वातजन्तु श्लेष्मजं क्षिप्रपाककम्? ।
कण्ठदाहात्मकं पित्ताच्छोणितान्मन्दवेदनम् ॥ १,२०१.८ ॥

आगन्तुजन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् ।
एरण्डमूलं द्विनिशं चित्रकं विश्वभेषजम् ॥ १,२०१.९ ॥

रसोनं सैन्धवं वापि तक्रकाञ्जिकपोषितम् ।
तिलसक्तुकपिण्डिका दधियुक्ता ससैन्धवा ।
निम्बपत्रयुतं पिण्डं व्रणशोधनरोपणम् ॥ १,२०१.१० ॥

पटोलं निम्बपत्रञ्च वचा चित्रकमेव च ।
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥ १,२०१.११ ॥

एतत्पानात्क्रिमिश्लेष्ममन्दानिलविनाशनम् ।
निम्बपत्रं पटो लञ्च त्रिफला खदिरं तथा ॥ १,२०१.१२ ॥

क्वाथयित्वा ततो वाहं सृतरक्तं विचक्षणः ।
त्र्यहमेव प्रिदातव्यं हयकुष्ठोपशान्तये ॥ १,२०१.१३ ॥

सव्रणेषु च कुष्ठेषु तैलं सर्षपजं हितम् ।
लशुनादिकषायश्च पानभुक्त्युपशान्तये ॥ १,२०१.१४ ॥

मातुलुङ्गरसोपेतं मांसीनां रसकेन वा ।
सद्यो दद्यात्तत्र नस्यमन्यैर्वातैः सुसंयुतैः ॥ १,२०१.१५ ॥

पलद्वयं प्रथमेऽह्नि एकैकपलवृद्धितः ।
यावद्दिनानि पूर्णानि पलान्यष्टादशोत्तमे ॥ १,२०१.१६ ॥

अधमेऽष्टपलानि स्युर्मध्यमे स्युश्चतुर्दश ।
शरन्निदाघयोर्नैवदेयं नैव तु दापयेत् ॥ १,२०१.१७ ॥

तैलेन वातिके रोगे शर्कराज्यपयोन्वितैः ।
कटुतैलैः कफे व्योषैः पित्ते चत्रिफलाम्बुभिः ॥ १,२०१.१८ ॥

शालिषष्टिकदुग्धाशी हयो हिन जुगुप्सितः ।
पक्वजम्बूनिभो हेमवर्णोऽश्वो न जुगुप्सितः ॥ १,२०१.१९ ॥

अर्धप्रहरणे धुर्ये गुग्गुलुं प्राशयेद्धयम् ।
भोजयेत्पायसं दुग्धं सत्वरं सुस्थिरो हयः ॥ १,२०१.२० ॥

विकारे भोजने दुग्धं शाल्यन्नं वातले ददेत् ।
कर्षमांसरसैः पित्ते मधुमुद्गरसाज्यकैः ॥ १,२०१.२१ ॥

कफे मुद्गान्कुलत्थान्वा कटुतिक्तान्कफे हये ।
बाधिर्ये व्याधिते ग्रासे त्रिदोषादौ तु गुग्गुलुः ॥ १,२०१.२२ ॥

घासैर्दूर्वा सर्वरोगे प्रथमेऽह्नि पलं ददेत् ।
विवर्धयेत्ततः कर्षमेकाह्नि पलपञ्चकम् ॥ १,२०१.२३ ॥

पाने च भोजने चैव अशीतिपलकं परम् ।
मध्ये षष्टिश्चाधमेषु चत्वारिंशच्च भोगिषु ॥ १,२०१.२४ ॥

व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम् ।
मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजितम् ॥ १,२०१.२५ ॥

वातपित्ते व्रणे व्याधौ गोक्षीरं घृतसंयुतम् ।
देयं कृशानां पुष्ट्यर्थं मांसैर्युक्तं च भोजनम् ॥ १,२०१.२६ ॥

सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम् ।
प्रभाते घृतसंयुक्तं शरद्गीष्मे च वाजिनाम् ॥ १,२०१.२७ ॥

रोगघ्नं पुष्टिदं चापि बलतेजोविवर्धनम् ।
तदेवाश्वायदातव्यं क्षीरयुक्तमथापि वा ॥ १,२०१.२८ ॥

गुडूचीकल्पयोगेन शतावर्यश्वगन्धयोः ।
चत्वारि त्रीणि मध्यस्य जघन्यस्य पलानि हि ॥ १,२०१.२९ ॥

अकस्माद्यत्र वाहानामेकरूपं यदा भवेत् ।
म्रियते च यदा क्षिप्रमुपसर्गं तमादिशेत् ॥ १,२०१.३० ॥

होमाद्यै रक्षया विप्रभोजनैर्बलिकर्मणा ।
शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः ॥ १,२०१.३१ ॥

हरीतकी गवां मूत्रैस्तैलेन लवणान्विता ।
आदौ पञ्च ततः पञ्च वृद्ध्या पूर्णशतावधि ।
उत्तमा च शतं मात्रास्त्वशीतिः षष्टिरेव वा ॥ १,२०१.३२ ॥

गजायुर्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।
गजे चतुर्गुणा मात्रास्ताभिर्गजरुगर्दनः ॥ १,२०१.३३ ॥

गजो पसर्गव्याधीनां शमनं शान्तिकर्म च ।
पूजयित्वा सुरान्विप्रान्रत्नैर्गां कपिलां ददेत् ॥ १,२०१.३४ ॥

दन्तिदन्तद्वये मालां निबन्धीयादुपोषितः ।
मन्त्रेण मन्त्रितान्वैद्यैर्वचासिद्धार्थकांस्तथा ॥ १,२०१.३५ ॥

सूर्यादिशिवदुर्गाश्रीविष्ण्वर्चा रक्षयेद्गजम् ।
बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥ १,२०१.३६ ॥

भोजनं मन्त्रितं दद्याद्भस्मनोद्धूनयेद्गजमम् ।
भूतरक्षा शुभा मेध्या वारणं रक्षयेत्सदा ॥ १,२०१.३७ ॥

त्रिफलापञ्चकोले च दशमूलं विडङ्गकम् ।
शतावरीगुडूची च निम्बवासककिंशुकाः ॥ १,२०१.३८ ॥

गजरोगविनाशाय हितो रूक्षः कषायकः ।
आयुर्वेदद्वयोक्तानामुक्तं संक्षेपसारतः ॥ १,२०१.३९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गजाश्वायुर्वेदनिरूपणं नामैकाधिकद्विशततमोऽध्यायः