गरुडपुराणम्/आचारकाण्डः/अध्यायः १५६

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः १५५ गरुडपुराणम्
अध्यायः १५६
वेदव्यासः
आचारकाण्डः, अध्यायः १५७ →

श्रीगरुडमहापुराणम् १५६
धन्वन्तरिरुवाच ।
अथार्शसां निदानं च व्याख्यास्यमि च सुश्रुत ! ।
सर्वदा प्राणिनां मांसे कीलकाः प्रभवन्ति ये ॥ १,१५६.१ ॥

अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधनात् ।
दोषस्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन् ॥ १,१५६.२ ॥

मांसांकुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः ।
सहजन्मान्तरोत्थेन भेदो द्वेधा समासतः ॥ १,१५६.३ ॥

शुष्काग्रावाविभेदाश्च गुदस्थानानुसंश्रयाः ।
अर्धपञ्चाङ्गुलिस्तस्मिंस्तिस्रोऽघ्यर्धाङ्गुलिस्थिताः ॥ १,१५६.४ ॥

बाल्यप्रवाहिणी तासामन्त्रमध्ये विसर्जिनी ।
बाह्यासंवरणे तस्या गुदादौ बहिरङ्गुले ॥ १,१५६.५ ॥

सार्धाङ्गुलप्रमाणेन रोमाण्यत्र ततः परम् ।
तत्र हेतुः सहोत्थानां बाल्ये बीजोपतप्तता ॥ १,१५६.६ ॥

अर्शसां बीजसृष्टिस्तु मातापित्रपचारतः ।
देवतानां प्रकोपे हि सान्निपातस्य चान्यतः ॥ १,१५६.७ ॥

असाध्या एवमाख्याताः सर्वे रोगाः कुलोद्भवाः ।
सहजानि विशेषेण रूक्षदुर्दर्शनानि तु ॥ १,१५६.८ ॥

अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च ।
योज्यानि च पृथोग्दोषसंसर्गनिचयात्स्वतः ॥ १,१५६.९ ॥

शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्य पित्ततः ।
दोषप्रकोपहेतुस्तु प्रागुक्तेवस्त्रसादिनि ॥ १,१५६.१० ॥

अग्नौ मलेऽतिनिचिते पुनश्चायं (ति) व्यवायतः ।
पानसंक्षोभविषमकठिनक्षुद्रकाशनात् ॥ १,१५६.११ ॥

बस्तिनेत्रगलौष्ठोत्थतलभेदादिघट्टनात् ।
भृशशीताम्बुसंस्पर्शप्रततातिप्रवाहणात् ॥ १,१५६.१२ ॥

गतमूत्रशकृद्वेगधारणात्तदुदीरणात् ।
जुगुप्सातीसारमेव ग्रहणी सोऽप्युपद्रवः ॥ १,१५६.१३ ॥

कर्षणाद्विषमादेश्चचेष्टाभ्यो योषितां पुनः ।
आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात् ॥ १,१५६.१४ ॥

ईदृशैश्चापरैर्वायुरपानः कुपितो मले ।
पायोर्वलीषु सद्रवृत्तिभास्वन्निः पूर्णमूर्तिषु ॥ १,१५६.१५ ॥

जायन्तेर्ऽशांसितु तत्पूर्वं लक्षणं वह्निमन्दता ।
विष्टम्भः सास्थिसदनं पिण्डि (ष्ट) कोद्वेष्टनं भ्रमः ॥ १,१५६.१६ ॥

सान्द्रोत्थोनेत्रयोः शोथः शकृद्भवेदोऽथ वा ग्रहः ।
मारुतः पुरतो मूढः प्रायो नाभेरधश्चरन् ॥ १,१५६.१७ ॥

सरक्तः परिकृन्तंश्च कृच्छ्रादाकुञ्चति श्वसन् ।
अन्त्रकूजनमाटोपः क्षारितोद्गारभूरिता ॥ १,१५६.१८ ॥

प्रभूतमूत्रमल्पा विडश्रद्धा धूम्रकोष्ठकः ।
शिरः पृष्ठोरसां शूलमालस्यं भिन्नवर्चसम् ॥ १,१५६.१९ ॥

इन्द्रियार्थेषु लौल्यं च क्रोधो दुः खोपचारतः ।
आशङ्का ग्रहणी शोथः पाण्डुगुल्मोदरेषु च ॥ १,१५६.२० ॥

एतान्येव विवर्धन्ते जातेष्वहतनामसु ।
निवर्तमानो मानो हि तैरधोमार्गरोधतः ॥ १,१५६.२१ ॥

क्षोभयेदनिलानन्यान् सर्वेन्द्रियशरीगान् ।
तथा मूत्रशकृत्पित्तकफान्वायुश्च शोषयन् ॥ १,१५६.२२ ॥

मुष्णात्यग्निं ततः सर्वे भवन्ति प्रायशोर्ऽशसः ।
कृशो भृशं हतोत्साहो दीनः क्षामोऽथ निष्प्रभः ॥ १,१५६.२३ ॥

असारी विगतच्छायो जन्तुदग्ध इवद्रुम ।
कृच्छ्रैरुग्रद्रवैर्ग्रस्तो यक्ष्मोक्तैर्मर्मपीडनैः ॥ १,१५६.२४ ॥

तथा काशपिपासास्यवैरस्यश्वासपीनसैः ।
क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः ॥ १,१५६.२५ ॥

क्लैब्यबाधिर्यस्तैमित्यशर्करापरिपीडितः ।
क्षामो भिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी ॥ १,१५६.२६ ॥

सर्वपर्वास्थिहृन्नाभीपायुवङ्क्षणशूलवान् ।
गुदेनस्त्रवता पित्तं बलाकोदरसन्निभम् ॥ १,१५६.२७ ॥

विशुष्कं चैव मुक्ताग्रं पक्वामं चान्तरान्तरम् ।
पाण्डुपित्तं हरिद्राक्तं पिच्छिलं चोपवेश्यते ॥ १,१५६.२८ ॥

गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः ।
पीनाङ्गारारुणाः स्तब्धा विषमाः परुषाकराः ॥ १,१५६.२९ ॥

मिथो विसदृश वक्रास्तीक्ष्णा विस्फुटि(रि) ताननाः ।
शिम्बीखर्जृरकर्कन्धूकार्पासफलसन्निभाः ॥ १,१५६.३० ॥

केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः ।
शिरः पार्श्वांसजङ्घोरुवङ्क्षणाद्यधिकव्यथाः ॥ १,१५६.३१ ॥

क्षवथूद्गारविष्टम्भहृद्गहारोचकप्रदाः ।
कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥ १,१५६.३२ ॥

तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम् ।
रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ॥ १,१५६.३३ ॥

कृष्णत्वग्बद्धविण्मूत्रनेत्रवक्त्रश्च जायते ।
गुल्मप्लीहोदराष्ठीलासंभवस्तस्य चैव हि ॥ १,१५६.३४ ॥

पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः ।
तन्वग्रस्त्राविणो विश्रास्तनवो मृदवः श्लथाः ॥ १,१५६.३५ ॥

शुकजिह्वा यकृत्खण्डजलौकावक्त्रसन्निभाः ।
दाहशो (ष) कज्वरस्वेदतृण्मूर्छारुचिमोहदाः ॥ १,१५६.३६ ॥

सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः ।
यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ॥ १,१५६.३७ ॥

श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः ।
उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ॥ १,१५६.३८ ॥

पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः ।
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥ १,१५६.३९ ॥

वङ्क्षणानाहिनः पुयुबस्तिनाभिविकर्तनाः ।
सकाशश्वासहृल्लासप्रसेकारुचिपीनसाः ॥ १,१५६.४० ॥

महकृच्छ्रशिरोजाड्यशिशिरक्षारकारिणः ।
क्लैब्याग्निमार्दवच्छर्द्यतीसारादिविकारदाः ॥ १,१५६.४१ ॥

वसाभसकफप्राज्यपुरीषासृक्प्रवाहिकाः ।
न स्त्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥ १,१५६.४२ ॥

संसृष्टलिङ्गत्संसर्गनिचयात्सर्वलक्षणाः ।
रक्तोल्बणा गुदे कीलाः पीताकृतिसमन्विताः ॥ १,१५६.४३ ॥

वटप्रसेहसदृशाः गुञ्जाविद्रुमसन्निभाः ।
तेऽत्यर्थं दुष्टमुष्णं च गाढविष्टंभपीडिताः ॥ १,१५६.४४ ॥

स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ।
केकाभः पीड्यते दुः खैः शोणितक्षयसम्भवैः ॥ १,१५६.४५ ॥

हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः ।
मुद्गकोद्रवजंबीरकरीरचणकादिभिः ॥ १,१५६.४६ ॥

रूक्षैः संग्राहिभिर्वायुर्विट्स्थाने कुपितो बली ।
अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन् ॥ १,१५६.४७ ॥

पुरीषं वातविष्णूत्रसंगं कुर्वीत दारुणम्? ।
तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत् ॥ १,१५६.४८ ॥

आध्मानमुदरे विष्ठा हृल्लासपरिकर्तने ।
बस्तौ च सुतरां शूलो गण्डश्वयथुसंभवः ॥ १,१५६.४९ ॥

पवनस्योर्ध्वगामित्वात्ततश्छर्द्यरुचिज्वराः ।
हृद्रोगग्रहणीदोषमूत्रसंगप्रवाहिकाः ॥ १,१५६.५० ॥

बाधिर्यातिशिरः श्वासशिरोरुक्काशपीनसाः? ।
मनोविकारस्तृट्श्वासपित्तगुल्मोदरादयः ॥ १,१५६.५१ ॥

एते च वातजा रोगा जायन्ते भृशदारुणाः ।
दुर्नामामृत्यूदावर्तपरमोऽयमुपद्रवः ॥ १,१५६.५२ ॥

वाताभिभूतकोष्ठानां तैर्विनापि विजायते ।
सहजानि तु दोषाणि यानि चाभ्यन्तरे वलौ ॥ १,१५६.५३ ॥

स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः ।
द्वन्द्वजानि द्वितीयायां वला यान्याश्रितानि च ॥ १,१५६.५४ ॥

कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ।
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च ॥ १,१५६.५५ ॥

अर्शांसि सुखसाध्यानि न चिरोत्पत्तिकानि च ।
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु ॥ १,१५६.५६ ॥

गण्डूपदस्य रूपाणि पिच्छिलानि मृदूनि च ।
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः ॥ १,१५६.५७ ॥

कीलोपमं स्थिरखरं चर्मकीलं च तद्विदुः ।
वातेन तोदः पारुष्यं पित्तादसितवक्त्रता ॥ १,१५६.५८ ॥

श्लेष्मणः स्निग्धता तस्य ग्रथितत्वं सवर्णता ।
अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान् ।
तान्याशु हि गदन्धा (कार्) य्य कुर्युर्बद्धगुदोदरम् ॥ १,१५६.५९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽशोनिदाना नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः