गरुडपुराणम्/आचारकाण्डः/अध्यायः १५५

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः १५४ गरुडपुराणम्
अध्यायः १५५
वेदव्यासः
आचारकाण्डः, अध्यायः १५६ →

श्रीगरुडमहापुराणम् १५५
धन्वन्तरिरुवाच ।
वक्ष्ये मदात्ययादेश्च निदानं मुनिभाषितम् ।
तीक्ष्णाम्लरूक्षसूक्ष्माम्लव्यवायासुकरं लघु ॥ १,१५५.१ ॥

विकाशि विशदं मद्यं मेदसोऽस्माद्विपर्ययः ।
तीक्ष्णोदयाश्च दिव्युक्ताश्चित्तोपप्लविनो गुणाः ॥ १,१५५.२ ॥

जीवितान्ताः प्रजायन्ते विषेणोत्कर्षवर्तिना ।
तीक्ष्णादिभिर्गुणैर्मद्यं मान्द्यदीनोजसो गुणान् ॥ १,१५५.३ ॥

दशभिर्गुणैः संक्षोम्यं चेतो नयति चाक्रियम् ।
आद्ये मदे द्वितीयेऽपि प्रम (मो) दायतने स्थितः ॥ १,१५५.४ ॥

दुर्विकल्पहतो मूढः सुखमित्यभिमुच्यते ।
मध्यमोत्तमयोः सन्धिं प्राप्य राजासनो मदः ॥ १,१५५.५ ॥

निरङ्कुश इव व्यालो न किञ्चिन्नाचरेत्ततः ।
इयं भूमिरवाच्यानां दौः शीलस्येदमास्पदम् ॥ १,१५५.६ ॥

एकोऽयं बहुमार्गायाः दुर्गर्(म) तेर्दर्शकः परम् ।
निश्चेष्टः सन्नवाक्शेते तृतीयेऽत्र मदे स्थितः ॥ १,१५५.७ ॥

मरणादपि पापात्मा गतः पापतरां दशाम् ।
धर्माधर्मं सुखं दुः खं मानानर्थं हिताहितम् ॥ १,१५५.८ ॥

न वेद शीकमोहार्तं शोष (क) मोहादिसंयुतः ।
सोन्मादभ्रममूर्छायां सापस्मारः पतत्यधः ॥ १,१५५.९ ॥

नाति माद्यन्ति बलिनः कृताहारा महाशनाः ।
वातात्पित्तात्कफात्सर्वैर्भवेद्रोगो मदात्ययः ॥ १,१५५.१० ॥

सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा ।
विभेदं प्रसभं तृष्णा सौम्यो ग्लानिर्ज्वरोऽरुचिः ॥ १,१५५.११ ॥

पुरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः ।
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः ॥ १,१५५.१२ ॥

स्वप्नेनेवाभिभवति न चोक्तश्च स भाषतेः ।
पित्ताद्दाहज्वरः स्वेदो मोहो नित्यं च विभ्रमः ॥ १,१५५.१३ ॥

श्लेष्मणश्छर्दिर्हृल्लासो निद्रा चोदरगौरवम् ।
सर्वजे सर्वलिङ्गत्वं ज्ञात्वा मद्यं पिबेत्तु यः ॥ १,१५५.१४ ॥

सहसा रुचिरं चान्यतरध्वंसकशोषिणौ ।
भवेतां?मारुतात्कष्टाद्भवेत्त स्य विशेषतः ॥ १,१५५.१५ ॥

ध्वंसकश्लेष्मनिष्ठिवाः कण्ठशोषोऽतिनिद्रता ।
शब्दासहत्वं तच्चित्तविक्षेपोऽङ्गे हि वातरुक् ॥ १,१५५.१६ ॥

हृत्कण्ठरोगः संमोहः श्वासतृष्णावमिज्वराः ।
निवर्तेद्यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥ १,१५५.१७ ॥

विकारैः क्लिश्यते जातु न स शरीरमानसः ।
रजोमोहहिताहारपास्य स्युस्त्रयो गदाः ॥ १,१५५.१८ ॥

वसासृक्क्लेदनावाहिस्रोतोरोधः सुद्भवाः ।
मदमूर्छापसंन्यासा यथोत्तरबलोद्भवाः ॥ १,१५५.१९ ॥

मदोऽत्र दोषैः सर्वैस्तु रक्तमद्यविषैरपि ।
शक्त्यानन्त्याद्गताभासश्चलश्छलितवेष्टितः ॥ १,१५५.२० ॥

रूक्षश्यामारुणतनुर्मद्ये वातोद्भवे भवेत् ।
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥ १,१५५.२१ ॥

स्वप्नेऽसम्बद्धवाक्यादिः कफाद्ध्यानपरो हि सः ।
सर्वोत्थसन्निपातेन रक्तस्तम्भाङ्गदूषणम् ॥ १,१५५.२२ ॥

पित्तलिङ्गत्वमाद्येन विकृतेहा स्वराज्ञता ।
विसत्कम्पोतिनिद्रा च सर्वेभ्योऽभ्यधिकं श्रमः ॥ १,१५५.२३ ॥

लक्षयेल्लक्षणोत्कर्षाद्वातादीञ्छोणितादिषु ।
अरुणं नीलकृष्णं वा सम्प्रविश्यन्विशेत्तमः ॥ १,१५५.२४ ॥

शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः ।
कासः श्यावारुणा च्छाया मूर्छायां मारुतात्मकः ॥ १,१५५.२५ ॥

पित्तेन रक्तं पीतं वा नभः पश्यन्विशेत्तमः ।
विबुध्येत च सस्वेदो दाहतृष्णोपपीडितः ॥ १,१५५.२६ ॥

भिन्नवत्पीतनीलाभो रक्तनीलाकुलेक्षणः ।
कफेन मेघसंकाशं पश्यत्याकाशमाविशेत् ॥ १,१५५.२७ ॥

तमश्चिराच्च बुध्ये हृदुरः सुप्रसेकवान् ।
गुरुभिस्तिमितै (रै) रङ्गे राजधर्मावबन्धान् (वत्) ॥ १,१५५.२८ ॥

सर्वाकृतिस्त्रिभिर्देषैरपस्मार इवापरः ।
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥ १,१५५.२९ ॥

दोषैस्तु मदमूर्छायां कृतवेगेषु देहिनाम् ।
स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्निवा ॥ १,१५५.३० ॥

वाग्देहमनसां चेष्टामाक्षिप्यातिबलाबलाः ।
ससन्यासं निपतिताः प्राणाघातनसंश्रयाः ॥ १,१५५.३१ ॥

भवन्ति तेन पुरुषाः काष्ठभूता मृतोपमाः ।
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥ १,१५५.३२ ॥

अगाधे ग्राहबहुले सलिलौघ इवार्णवे ।
संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥ १,१५५.३३ ॥

मदमानरोषतोष प्रवृत्तिभिरितस्ततः ।
युक्तायुक्तं च समं युक्तिं युङ्क्ते न मद्येन ॥ १,१५५.३४ ॥

बलकासदेशपात्रं प्रकृतिसहतामथवा वयांसि? ।
प्रविभज्ज्यात्तनुरूपं पिबति ततः पिबत्यमृत ॥ १,१५५.३५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मदात्ययादिनिदानं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः