गरुडपुराणम्/आचारकाण्डः/अध्यायः १५३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १५२ गरुडपुराणम्
अध्यायः १५३
वेदव्यासः
आचारकाण्डः, अध्यायः १५४ →

श्रीगरुडमहापुराणम् १५३ ।
धन्वन्तरिरुदाच ।
अरोचकनिदान्ते वक्ष्येऽहं सुश्रुताधुना ।
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः ॥ १,१५३.१ ॥

सन्निपातेन मनसः सन्तापेन च पञ्चमः ।
कषायतिक्तमधुरं वातादिषु मुखं क्रमात् ॥ १,१५३.२ ॥

सर्वं वीतरसं शोकक्रोधादिषु यथा मनः ।
छर्दिदोषैः पृथक्सर्वैर्दुष्टैरन्यैश्च पञ्चमः ॥ १,१५३.३ ॥

उदानोऽधिकृतान्दोषान्सर्वं सन्ध्यर्हमस्यति ।
आशु क्लेशोऽस्य लावण्यप्रसेकारुचयः क्रमात् ॥ १,१५३.४ ॥

नाभिपृष्ठं रुजत्याशु पार्श्वे चाहारमुत्क्षिपेत् ।
ततो विच्छ्रिन्नल्पाल्पकषायं फेनिलं वमेत् ॥ १,१५३.५ ॥

शब्दोद्गरयुतः कृच्छ्रमनुकृच्छ्रेण वेगवत् ।
कासास्यशोषकं वातात्स्वरपीडासमन्वितम् ॥ १,१५३.६ ॥

पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम् ।
सासृगम्लं कटुतिक्तं तृण्मूर्छादाहपाकवत् ॥ १,१५३.७ ॥

कफात्स्निग्धं घनं पीतं श्लेष्मतस्तु समाक्षिकम् ।
मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम् ॥ १,१५३.८ ॥

मखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान् ।
सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा ॥ १,१५३.९ ॥

सर्वं यस्य च विद्विष्टं दर्शनश्रवणादिभिः ।
वातादिनैव संक्रुद्धकृमिदुष्टान्नजे गदे ।
शूलवेपतुहृल्लासो विशेषात्कृमिजे भवेत् ॥ १,१५३.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽरोचकनिदाना नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः